०५

मूलम् (संयुक्तम्)

इन्द्रो॑ म॒रुद्भि॒स्साव्ँवि॑द्येन॒ माध्य॑न्दिने॒ सव॑ने वृ॒त्रम॑ह॒न्यन्माध्य॑न्दिने॒ सव॑ने मरुत्व॒तीया॑ गृ॒ह्यन्ते॒ वार्त्र॑घ्ना ए॒व ते यज॑मानस्य गृह्यन्ते॒ तस्य॑ वृ॒त्रञ्ज॒घ्नुष॑ ऋ॒तवो॑ऽमुह्य॒न्त्स ऋ॑तुपा॒त्रेण॑ मरुत्व॒तीया॑नगृह्णा॒त्ततो॒ वै स ऋ॒तून्प्राजा॑ना॒द्यदृ॑तुपा॒त्रेण॑ मरुत्व॒तीया॑ गृ॒ह्यन्त॑ ऋतू॒नाम्प्रज्ञा॑त्यै॒

विश्वास-प्रस्तुतिः

इन्द्रो॑ म॒रुद्भि॒स् साव्ँवि॑द्येन॒ माध्य॑न्दिने॒ सव॑ने वृ॒त्रम॑हन् ।

यन् माध्य॑न्दिने॒ सव॑ने मरुत्व॒तीया॑ गृ॒ह्यन्ते॒ , वार्त्र॑घ्ना ए॒व ते यज॑मानस्य गृह्यन्ते ।

तस्य॑ वृ॒त्रञ् ज॒घ्नुष॑ ऋ॒तवो॑ ऽमुह्य॒न्त् , स ऋ॑तुपा॒त्रेण॑ मरुत्व॒तीया॑नगृह्णात् ।

ततो॒ वै स ऋ॒तून् प्राजा॑नाद् ।
यदृ॑तुपा॒त्रेण॑ मरुत्व॒तीया॑ गृ॒ह्यन्त॑ , ऋतू॒नाम् प्रज्ञा॑त्यै ।

मूलम्

पद-पाठः

इन्द्रः॑ । म॒रुद्भि॒रिति॑ म॒रुत्-भिः॒ । साव्विँ॑द्ये॒नेति॒ साम्-वि॒द्ये॒न॒ । माध्य॑न्दिने । सव॑ने । वृ॒त्रम् । अ॒ह॒न् ।
यत् । माध्य॑न्दिने । सव॑ने । म॒रु॒त्व॒तीयाः॑ । गृ॒ह्यन्ते॑ । वार्त्र॑घ्ना॒ इति॒ वार्त्र॑-घ्नाः॒ । ए॒व । ते । यज॑मानस्य । गृ॒ह्य॒न्ते॒ । तस्य॑ । वृ॒त्रम् । ज॒घ्नुषः॑ । ऋ॒तवः॑ । अ॒मु॒ह्य॒न् । सः । ऋ॒तु॒पा॒त्रेणेत्यृ॑तु-पा॒त्रेण॑ । म॒रु॒त्व॒तीयान्॑ । अ॒गृ॒ह्णा॒त् ।
ततः॑ । वै । सः । ऋ॒तून् । प्रेति॑ । अ॒जा॒ना॒त् ।
यत् । ऋ॒तु॒पा॒त्रेणेत्यृ॑तु-पा॒त्रेण॑ । म॒रु॒त्व॒तीयाः॑ । गृ॒ह्यन्ते॑ । ऋ॒तू॒नाम् । प्रज्ञा॑त्या॒ इति॒ प्र-ज्ञा॒त्यै॒ ।

भट्टभास्कर-टीका

1इन्द्रो मरुद्भिरित्यादि ॥ सांविद्य ऐकमत्यं मित्रभावः । मरुत्त्वतीयाः, मरुद्भिस्तद्वान् । ‘तसौ मत्वर्थे’ इति भत्वम्, ततो देवतायां ‘द्यावापृथिवीशुनासीर’ इत्यादिना छः । वार्त्रघ्ना इति । वृत्रादेर्हन्तुस्स्वभूता भवन्ति तदर्था भवन्तीति यावत् । उत्सादित्वादञ् । तस्येत्यादि । तस्य ऋतवोमुह्यन् मूढा अज्ञातस्वभावा अभवन् । स इत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

वज्रव्ँ॒वा ए॒तय्ँयज॑मानो॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ यन्म॑रुत्व॒तीया॒ उदे॒व प्र॑थ॒मेन॑ [15]
य॒च्छ॒ति॒ प्र ह॑रति द्वि॒तीये॑न स्तृणु॒ते तृ॒तीये॒न

विश्वास-प्रस्तुतिः

वज्रव्ँ॒ वा ए॒तय्ँ यज॑मानो॒ भ्रातृ॑व्याय॒ प्र ह॑रति ।
यन् म॑रुत्व॒तीया॒ उदे॒व प्र॑थ॒मेन॑ यच्छति । [15]
प्र ह॑रति द्वि॒तीये॑न , स्तृणु॒ते तृ॒तीये॑न ।

मूलम्

वज्रव्ँ॒ वा ए॒तय्ँ यज॑मानो॒ भ्रातृ॑व्याय॒ प्र ह॑रति ।
यन् म॑रुत्व॒तीया॒ उदे॒व प्र॑थ॒मेन॑ यच्छति । [15]
प्र ह॑रति द्वि॒तीये॑न , स्तृणु॒ते तृ॒तीये॑न ।

पद-पाठः

वज्र॑म् । वै । ए॒तम् । यज॑मानः । भ्रातृ॑व्याय । प्रेति॑ । ह॒र॒ति॒ ।

यत् । म॒रु॒त्व॒तीयाः॑ । उदिति॑ । ए॒व । प्र॒थ॒मेन॑ । [15]
य॒च्छ॒ति॒ ।

प्रेति॑ । ह॒र॒ति॒ । द्वि॒तीये॑न । स्तृ॒णु॒ते । तृ॒तीये॑न ।

भट्टभास्कर-टीका

2वज्रं वा इत्यादि ॥ प्रथमेन मरुत्त्वतीयेन वज्रमुद्यच्छते, द्वितीयेन भ्रातृव्यं ताडयति, तृतीयेन स्तृणुते मारयति भ्रातृव्यं, तस्मान्मरुत्त्वतीया यद्रृह्यन्ते तेन यजमानो भ्रातृव्यवधार्थं वज्रं प्रहरति प्रहिणोति ॥

मूलम् (संयुक्तम्)

आयु॑धव्ँ॒वा ए॒तद्यज॑मान॒स्सँस्कु॑रुते॒ यन्म॑रुत्व॒तीया॒ धनु॑रे॒व प्र॑थ॒मो ज्या द्वि॒तीय॒ इषु॑स्तृ॒तीय॒ᳶ प्रत्ये॒व प्र॑थ॒मेन॑ धत्ते॒ वि सृ॑जति द्वि॒तीये॑न॒ विध्य॑ति तृ॒तीये॒न

विश्वास-प्रस्तुतिः

आयु॑धव्ँ॒ वा ए॒तद् यज॑मान॒स् सँस्कु॑रुते॒ यन् म॑रुत्व॒तीयाः॑ ।
धनु॑रे॒व प्र॑थ॒मो , ज्या द्वि॒तीय॒ , इषु॑स् तृ॒तीयः॑ ।
प्रत्ये॒व प्र॑थ॒मेन॑ धत्ते॒ , वि सृ॑जति द्वि॒तीये॑न॒ , विध्य॑ति तृ॒तीये॑न ।

आयु॑धम् । वै । ए॒तत् । यज॑मानः । समिति॑ । कु॒रु॒ते॒ । यत् । म॒रु॒त्व॒तीयाः॑ ।
धनुः॑ । ए॒व । प्र॒थ॒मः । ज्या । द्वि॒तीयः॑ । इषुः॑ । तृ॒तीयः॑ । प्रतीति॑ । ए॒व । प्र॒थ॒मेन॑ । ध॒त्ते॒ । वीति॑ । सृ॒ज॒ति॒ । द्वि॒तीये॑न । विध्य॑ति । तृ॒तीये॑न ।

भट्टभास्कर-टीका

3प्रकारान्तरेण रूपयति - आयुधं वा इत्यादि ॥ प्रथमेन मरुत्त्वतीयेन वज्रमुद्यच्छते आयुधं धनुस्संस्कुरुते संभरति । प्रथमो मरुत्त्वतीयो धनुः, द्वितीयो ज्या, तृतीय इषुः । तत्र प्रथमेन प्रतिधत्ते ज्यायां बाणं संधत्ते । द्वितीयेन बाणं विसृजति भ्रातृव्यसकाशं प्रापयति । तृतीयेन भ्रातृव्यं विध्यति ताडयति ॥

मूलम् (संयुक्तम्)

इन्द्रो॑ वृ॒त्रँ ह॒त्वा परा॑म्परा॒वत॑मगच्छ॒दपा॑राध॒मिति॒ मन्य॑मान॒स्स हरि॑तोऽभव॒त्स ए॒तान्म॑रुत्व॒तीया॑नात्म॒स्पर॑णानपश्य॒त्तान॑गृह्णीत [16]
प्रा॒णमे॒व प्र॑थ॒मेना॑स्पृणुतापा॒नन्द्वि॒तीये॑ना॒त्मान॑न्तृ॒तीये॑नात्म॒स्पर॑णा॒ वा ए॒ते यज॑मानस्य गृह्यन्ते॒ यन्म॑रुत्व॒तीयाः॑ प्रा॒णमे॒व प्र॑थ॒मेन॑ स्पृणुतेऽपा॒नन्द्वि॒तीये॑ना॒त्मान॑न्तृ॒तीये॒न

विश्वास-प्रस्तुतिः

इन्द्रो॑ वृ॒त्रँ ह॒त्वा परा॑म्परा॒वत॑मगच्छत् ।
अपा॑राध॒मिति॒ मन्य॑मान॒स् स हरि॑तोऽभवत् ।
स ए॒तान् म॑रुत्व॒तीया॑नात्म॒स्पर॑णानपश्यत् ।
तान॑गृह्णीत ।[16]
प्रा॒णमे॒व प्र॑थ॒मेना॑स्पृणुत , अ॒पा॒नन् द्वि॒तीये॑न , आ॒त्मान॑न् तृ॒तीये॑न ।
आ॒त्म॒स्पर॑णा॒ वा ए॒ते यज॑मानस्य गृह्यन्ते॒ , यन्म॑रुत्व॒तीयाः॑ ।
प्रा॒णमे॒व प्र॑थ॒मेन॑ स्पृणुते , ऽपा॒नन् द्वि॒तीये॑न , आ॒त्मान॑न् तृ॒तीये॑न ।

इन्द्रः॑ । वृ॒त्रम् । ह॒त्वा । परा॑म् । प॒रा॒वत॒मिति॑ परा-वत॑म् । अ॒ग॒च्छ॒त् ।
अपेति॑ । अ॒रा॒ध॒म् । इति॑ । मन्य॑मानः ।
सः । हरि॑तः । अ॒भ॒व॒त् ।
सः । ए॒तान् । म॒रु॒त्व॒तीयान्॑ । आ॒त्म॒स्पर॑णा॒नित्या॑त्म-स्पर॑णान् । अ॒प॒श्य॒त् ।
तान् । अ॒गृ॒ह्णी॒त॒ । [16]
प्रा॒णमिति॑ प्र-अ॒नम् । ए॒व । प्र॒थ॒मेन॑ । अ॒स्पृ॒णु॒त॒ । अ॒पा॒नमित्य॑प-अ॒नम् । द्वि॒तीये॑न । आ॒त्मान॑म् । तृ॒तीये॑न ।

आ॒त्म॒स्पर॑णा॒ इत्या॑त्म-स्पर॑णाः । वै । ए॒ते । यज॑मानस्य । गृ॒ह्य॒न्ते॒ । यत् । म॒रु॒त्व॒तीयाः॑ ।
प्रा॒णमिति॑ प्र-अ॒नम् । ए॒व । प्र॒थ॒मेन॑ । स्पृ॒णु॒ते॒ । अ॒पा॒नमित्य॑प-अ॒नम् । द्वि॒तीये॑न । आ॒त्मान॑म् । तृ॒तीये॑न ।

भट्टभास्कर-टीका

4इन्द्रो वृत्रमित्यादि॥ परां परावतं दूराद्दूरम् । गतम् । अपाराधमिति मन्यमानः विषक्तस्सन् स च तेन विषादेन हरितः नष्टच्छायोभवत् । स एतानित्यादि । आत्मस्परणान् आत्मनः प्रीणयितॄन् मरुत्त्वतीयान् ग्रहानपश्यत् । स्पृ प्रीतौ । प्रथमेन प्राणमस्पृणुत अप्रीणयत्, द्वितीयेनापानं, तृतीयेनात्मानमेवाप्रीणयत् । आत्मस्परणा वा इत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

इन्द्रो॑ वृ॒त्रम॑ह॒न्तन्दे॒वा अ॑ब्रुवन्म॒हान्वा अ॒यम॑भू॒द्यो वृ॒त्रमव॑धी॒दिति॒ तन्म॑हे॒न्द्रस्य॑ महेन्द्र॒त्वँ स ए॒तम्मा॑हे॒न्द्रमु॑द्धा॒रमुद॑हरत वृ॒त्रँ ह॒त्वान्यासु॑ दे॒वता॒स्वधि॒ यन्मा॑हे॒न्द्रो गृ॒ह्यत॑ उद्धा॒रमे॒व तय्ँयज॑मान॒ उद्ध॑रते॒ऽन्यासु॑ प्र॒जास्वधि॑ शुक्रपा॒त्रेण॑ गृह्णाति यजमानदेव॒त्यो॑ वै मा॑हे॒न्द्रस्तेज॑श्शु॒क्रो यन्मा॑हे॒न्द्रँ शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॒ यज॑मान ए॒व तेजो॑ दधाति ॥ [17]

विश्वास-प्रस्तुतिः

इन्द्रो॑ वृ॒त्रम॑हन् ।
तन्दे॒वा अ॑ब्रुवन् - “म॒हान्वा अ॒यम॑भू॒द्यो वृ॒त्रमव॑धी॒द्” इति॑ ।
तन्म॑हे॒न्द्रस्य॑ महेन्द्र॒त्वम् ।
स ए॒तम् मा॑हे॒न्द्रम् उ॑द्धा॒रमुद॑हरत , वृ॒त्रँ ह॒त्वाऽन्यासु॑ दे॒वता॒स्वधि॑ ।
यन् मा॑हे॒न्द्रो गृ॒ह्यत॑ उद्धा॒रमे॒व तय्ँ यज॑मान॒ उद्ध॑रते॒ , ऽन्यासु॑ प्र॒जास्वधि॑ ।
शु॒क्र॒पात्रेण॑ गृह्णाति ।
य॒ज॒मा॒न॒दे॒व॒त्यो॑ वै मा॑हे॒न्द्रस् , तेज॑श् शु॒क्रः ।
यन् मा॑हे॒न्द्रँ शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॒ , यज॑मान ए॒व तेजो॑ दधाति ॥ [17]

इन्द्रः॑ । वृ॒त्रम् । अ॒ह॒न् ।
तम् । दे॒वाः । अ॒ब्रु॒व॒न् ।

म॒हान् । वै । अ॒यम् । अ॒भू॒त् । यः । वृ॒त्रम् । अव॑धीत् । इति॑ ।

तत् । म॒हे॒न्द्रस्येति॑ महा-इ॒न्द्रस्य॑ । म॒हे॒न्द्र॒त्वमिति॑ महेन्द्र-त्वम् ।

सः । ए॒तम् । मा॒हे॒न्द्रमिति॑ माहा-इ॒न्द्रम् । उ॒द्धा॒रमित्यु॑त्-हा॒रम् । उदिति॑ । अ॒ह॒र॒त॒ । वृ॒त्रम् । ह॒त्वा । अ॒न्यासु॑ । दे॒वता॑सु । अधीति॑ ।

यत् । मा॒हे॒न्द्र इति॑ माहा-इ॒न्द्रः । गृ॒ह्यते॑ ।

उ॒द्धा॒रमित्यु॑त्-हा॒रम् । ए॒व । तम् । यज॑मानः । उदिति॑ । ह॒र॒ते॒ । अ॒न्यासु॑ । प्र॒जास्विति॑ प्र-जासु॑ । अधीति॑ ।

शु॒क्र॒पा॒त्रेणेति॑ शुक्र-पा॒त्रेण॑ । गृ॒ह्णा॒ति॒ ।

य॒ज॒मा॒न॒दे॒व॒त्य॑ इति॑ यजमान-दे॒व॒त्यः॑ । वै । मा॒हे॒न्द्र इति॑ माहा-इ॒न्द्रः । तेजः॑ । शु॒क्रः ।

यत् । मा॒हे॒न्द्रमिति॑ माहा-इ॒न्द्रम् । शु॒क्र॒पा॒त्रेणेति॑ शुक्र-पा॒त्रेण॑ । गृ॒ह्णाति॑ । यज॑माने । ए॒व । तेजः॑ । द॒धा॒ति॒ ॥ [17]

भट्टभास्कर-टीका

5इन्द्रो वृत्रमहन्नित्यादि ॥ गतम् । स एतमित्यादि । वृत्रवधानन्तरं अन्यासु देवतास्वधि अन्येभ्यो देवताभ्योधिकं अध्यारूढमेतं माहेन्द्रं ग्रहमुद्धारमूर्ध्वहरणमुच्छ्रायं उदहरत उद्धृतवान् । ‘यस्मादधिकम्’, इत्यधियोगे सप्तमी । यन्माहेन्द्र इत्यादि । गतम् । शुक्रपात्रेणेत्यादि । यजमानदेवत्यस्य महेन्द्रग्रहस्य तेज आत्मनश्शुक्रग्रहस्य पात्रेण ग्रहणात् यजमान एव तेजो दधाति स्थापयति ॥

इति षष्ठे पञ्चमे पञ्चमोनुवाकः ॥