मूलम् (संयुक्तम्)
सु॒व॒र्गाय॒ वा ए॒ते लो॒काय॑ गृह्यन्ते॒ यदृ॑तुग्र॒हा ज्योति॑रिन्द्रा॒ग्नी यदै॑न्द्रा॒ग्नमृ॑तुपा॒त्रेण॑ गृ॒ह्णाति॒ ज्योति॑रे॒वास्मा॑ उ॒परि॑ष्टाद्दधाति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या
विश्वास-प्रस्तुतिः
सु॒व॒र्गाय॒ वा ए॒ते लो॒काय॑ गृह्यन्ते॒ यदृ॑तुग्र॒हाः ।
ज्योति॑रिन्द्रा॒ग्नी ।
यदै॑न्द्रा॒ग्नमृ॑तुपा॒त्रेण॑ गृ॒ह्णाति॒ , ज्योति॑रे॒वास्मा॑ उ॒परि॑ष्टाद् दधाति ।
सु॒व॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ।
मूलम्
सु॒व॒र्गाय॒ वा ए॒ते लो॒काय॑ गृह्यन्ते॒ यदृ॑तुग्र॒हाः ।
ज्योति॑रिन्द्रा॒ग्नी ।
यदै॑न्द्रा॒ग्नमृ॑तुपा॒त्रेण॑ गृ॒ह्णाति॒ , ज्योति॑रे॒वास्मा॑ उ॒परि॑ष्टाद् दधाति ।
सु॒व॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ।
पद-पाठः
सु॒व॒र्गायेति॑ सुवः-गाय॑ । वै । ए॒ते । लो॒काय॑ । गृ॒ह्य॒न्ते॒ । यत् । ऋ॒तु॒ग्र॒हा इत्यृ॑तु-ग्र॒हाः ।
ज्योतिः॑ । इ॒न्द्रा॒ग्नी इती॑न्द्र-अ॒ग्नी ।
यत् । ऐ॒न्द्रा॒ग्नमित्यै॑न्द्र-अ॒ग्नम् । ऋ॒तु॒पा॒त्रेणेत्यृ॑तु-पा॒त्रेण॑ । गृ॒ह्णाति॑ । ज्योतिः॑ । ए॒व । अ॒स्मै॒ । उ॒परि॑ष्टात् । द॒धा॒ति॒ ।
सु॒व॒र्गस्येति॑ सुवः-गस्य॑ । लो॒कस्य॑ । अनु॑ख्यात्या॒ इत्यनु॑-ख्या॒त्यै॒ ।
भट्टभास्कर-टीका
1सुवर्गायेत्यादि ॥ गतम् । स्वर्गं गच्छतो हि प्रकाशेन ज्योतिषा भाव्यं, तस्मादृतुपात्रेणैन्द्राग्नस्य ग्रहणात् यनमानार्थं ज्योतिर्दधाति उत्पादयति, उपरिष्टात्स्वर्गप्राप्तिकाले स्वर्गस्यानुक्रमेण प्रकाशनार्थम् ॥
मूलम् (संयुक्तम्)
ओजो॒भृतौ॒ वा ए॒तौ दे॒वानाय्ँ॒यदि॑न्द्रा॒ग्नी यदै॑न्द्रा॒ग्नो गृ॒ह्यत॒ ओज॑ ए॒वाव॑ रुन्द्धे
विश्वास-प्रस्तुतिः
ओ॒जो॒भृतौ॒ वा ए॒तौ दे॒वानाय्ँ॒ , यदि॑न्द्रा॒ग्नी ।
यदै॑न्द्रा॒ग्नो गृ॒ह्यत॒ , ओज॑ ए॒वाव॑ रुन्धे ।
मूलम्
ओ॒जो॒भृतौ॒ वा ए॒तौ दे॒वानाय्ँ॒ , यदि॑न्द्रा॒ग्नी ।
यदै॑न्द्रा॒ग्नो गृ॒ह्यत॒ , ओज॑ ए॒वाव॑ रुन्धे ।
पद-पाठः
ओ॒जो॒भृता॒वित्यो॑जः-भृतौ॑ । वै । ए॒तौ । दे॒वाना॑म् । यत् । इ॒न्द्रा॒ग्नी इती॑न्द्र-अ॒ग्नी ।
यत् । ऐ॒न्द्रा॒ग्न इत्यै॑न्द्र-अ॒ग्नः । गृ॒ह्यते॑ । ओजः॑ । ए॒व । अवेति॑ । रु॒न्द्धे॒ ।
भट्टभास्कर-टीका
2ओजोभृतावित्यादि ॥ देवानां मध्येऽतिशयेन ओजोभृतावेतौ । गतमन्यत् ॥
मूलम् (संयुक्तम्)
वैश्वदे॒वँ शु॑क्रपा॒त्रेण॑ गृह्णाति वैश्वदे॒व्यो॑ वै प्र॒जा अ॒सावा॑दि॒त्यश्शु॒क्रो यद्वै॑श्वदे॒वँ शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॒ तस्मा॑द॒सावा॑दि॒त्यः [13]
सर्वाः॑ प्र॒जाᳶ प्र॒त्यङ्ङुदे॑ति॒ तस्मा॒त्सर्व॑ ए॒व म॑न्यते॒ माम्प्रत्युद॑गा॒दिति॑ वैश्वदे॒वँ शु॑क्रपा॒त्रेण॑ गृह्णाति वैश्वदे॒व्यो॑ वै प्र॒जास्तेज॑श्शु॒क्रो यद्वै॑श्वदे॒वँ शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॑ प्र॒जास्वे॒व तेजो॑ दधाति ॥ [14]
विश्वास-प्रस्तुतिः
वै॒श्व॒दे॒वँ शु॑क्रपा॒त्रेण॑ गृह्णाति ।
वै॒श्व॒दे॒व्यो॑ वै प्र॒जाः ।
अ॒सावा॑दि॒त्यश् शु॒क्रो ।
यद्वै॑श्वदे॒वँ शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॑ ।
तस्मा॑द् अ॒सावा॑दि॒त्यस् सर्वाः॑ प्र॒जाᳶ प्र॒त्यङ्ङुदे॑ति ।[13]
तस्मा॒त्सर्व॑ ए॒व म॑न्यते॒ - “माम् प्रत्युद॑गा॒द्” इति॑ ।
वै॒श्व॒दे॒वँ शु॑क्रपा॒त्रेण॑ गृह्णाति ।
वै॒श्व॒दे॒व्यो॑ वै प्र॒जाः ।
तेज॑श्शु॒क्रः ।
यद्वै॑श्वदे॒वँ शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॑ , प्र॒जास्वे॒व तेजो॑ दधाति ॥ [14]
मूलम्
वै॒श्व॒दे॒वँ शु॑क्रपा॒त्रेण॑ गृह्णाति ।
वै॒श्व॒दे॒व्यो॑ वै प्र॒जाः ।
अ॒सावा॑दि॒त्यश् शु॒क्रो ।
यद्वै॑श्वदे॒वँ शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॑ ।
तस्मा॑द् अ॒सावा॑दि॒त्यस् सर्वाः॑ प्र॒जाᳶ प्र॒त्यङ्ङुदे॑ति ।[13]
तस्मा॒त्सर्व॑ ए॒व म॑न्यते॒ - “माम् प्रत्युद॑गा॒द्” इति॑ ।
वै॒श्व॒दे॒वँ शु॑क्रपा॒त्रेण॑ गृह्णाति ।
वै॒श्व॒दे॒व्यो॑ वै प्र॒जाः ।
तेज॑श्शु॒क्रः ।
यद्वै॑श्वदे॒वँ शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॑ , प्र॒जास्वे॒व तेजो॑ दधाति ॥ [14]
पद-पाठः
वै॒श्व॒दे॒वमिति॑ वैश्व-दे॒वम् । शु॒क्र॒पा॒त्रेणेति॑ शुक्र-पा॒त्रेण॑ । गृ॒ह्णा॒ति॒ ।
वै॒श्व॒दे॒व्य॑ इति॑ वैश्व-दे॒व्यः॑ । वै । प्र॒जा इति॑ प्र-जाः ।
अ॒सौ । आ॒दि॒त्यः । शु॒क्रः ।
यत् । वै॒श्व॒दे॒वमिति॑ वैश्व-दे॒वम् । शु॒क्र॒पा॒त्रेणेति॑ शुक्र-पा॒त्रेण॑ । गृ॒ह्णाति॑ ।
तस्मा॑त् । अ॒सौ । आ॒दि॒त्यः । [13] सर्वाः॑ । प्र॒जा इति॑ प्र-जाः । प्र॒त्यङ्ङ् । उदिति॑ । ए॒ति॒ ।
तस्मा॑त् । सर्वः॑ । ए॒व । म॒न्य॒ते॒ ।
माम् । प्रतीति॑ । उदिति॑ । अ॒गा॒त् । इति॑ ।
वै॒श्व॒दे॒वमिति॑ वैश्व-दे॒वम् । शु॒क्र॒पा॒त्रेणेति॑ शुक्र-पा॒त्रेण॑ । गृ॒ह्णा॒ति॒ ।
वै॒श्व॒दे॒व्य॑ इति॑ वैश्व-दे॒व्यः॑ । वै । प्र॒जा इति॑ प्र-जाः ।
तेजः॑ । शु॒क्रः ।
यत् । वै॒श्व॒दे॒वमिति॑ वैश्व-दे॒वम् । शु॒क्र॒पा॒त्रेणेति॑ शुक्र-पा॒त्रेण॑ । गृ॒ह्णाति॑ । प्र॒जास्विति॑ प्र-जासु॑ । ए॒व । तेजः॑ । द॒धा॒ति॒ ॥ [14]
भट्टभास्कर-टीका
3वैश्वदेवमित्यादि ॥ आदित्यात्मनः शुक्रस्य पात्रेण विश्वग्रहसंबन्धिवैश्वदेवग्रहणात् सर्वाः प्रजाः प्रत्यङ् प्रतिमुखमादित्य उदेति । तस्मात्सर्वोपि जनो मन्यते मां प्रप्युदगादिति मां प्रत्युदगादयमिति मदर्थसाधनायैवायमुदित इति सर्वो मन्यते सर्वाभिमतोदय उदेतीति यावत् । वैश्वदेवविधानं गुणान्तरार्थम् । तेन आत्मनः शुक्रस्य पात्रेण वैश्वदेवग्रहणात् प्रजासु तेजः स्थापयति ॥
इति षष्ठे पञ्चमे चतुर्थोनुवाकः ॥