०३

मूलम् (संयुक्तम्)

य॒ज्ञेन॒ वै दे॒वास्सु॑व॒र्गल्ँ लो॒कमा॑य॒न्ते॑ऽमन्यन्त मनु॒ष्या॑ नो॒ऽन्वाभ॑विष्य॒न्तीति॒ ते सव्ँ॑वत्स॒रेण॑ योपयि॒त्वा सु॑व॒र्गल्ँ लो॒कमा॑य॒न्तमृष॑य ऋतुग्र॒हैरे॒वानु॒ प्राजा॑न॒न्यदृ॑तुग्र॒हा गृ॒ह्यन्ते॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा॑त्यै॒ द्वाद॑श गृह्यन्ते॒ द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रस्सव्ँ॑वत्स॒रस्य॒ प्रज्ञा॑त्यै स॒ह प्र॑थ॒मौ गृ॑ह्येते स॒होत्त॒मौ तस्मा॒द्द्वौद्वा॑वृ॒तू उ॑भ॒यतो॑मुखमृतुपा॒त्रम्भ॑वति॒ कः [9]
हि तद्वेद॒ यत॑ ऋतू॒नाम्मुख॑म्

विश्वास-प्रस्तुतिः

य॒ज्ञेन॒ वै दे॒वास् सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
ते॑ऽमन्यन्त -
“मनु॒ष्या॑ नो॒ऽन्वाभ॑विष्य॒न्ति”+ इति॑ ।
ते सव्ँ॑वत्स॒रेण॑ योपयि॒त्वा सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
तमृष॑य ऋतुग्र॒हैर् ए॒वानु॒ प्राजा॑नन् ।
यदृ॑तुग्र॒हा गृ॒ह्यन्ते॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा॑त्यै ।
द्वाद॑श गृह्यन्ते ।
द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रस्य॒ प्रज्ञा॑त्यै ।
स॒ह प्र॑थ॒मौ गृ॑ह्येते स॒होत्त॒मौ ।
तस्मा॒द् द्वौद्वा॑वृ॒तू ।
उ॒भ॒य॒तो॑मुखमृतुपा॒त्रम् भ॑वति ।
को हि तद्वेद॒ यत॑ ऋतू॒नाम् मुख॑म् ।[9]

मूलम्

य॒ज्ञेन॒ वै दे॒वास् सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
ते॑ऽमन्यन्त -
“मनु॒ष्या॑ नो॒ऽन्वाभ॑विष्य॒न्ति”+ इति॑ ।
ते सव्ँ॑वत्स॒रेण॑ योपयि॒त्वा सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
तमृष॑य ऋतुग्र॒हैर् ए॒वानु॒ प्राजा॑नन् ।
यदृ॑तुग्र॒हा गृ॒ह्यन्ते॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा॑त्यै ।
द्वाद॑श गृह्यन्ते ।
द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रस्य॒ प्रज्ञा॑त्यै ।
स॒ह प्र॑थ॒मौ गृ॑ह्येते स॒होत्त॒मौ ।
तस्मा॒द् द्वौद्वा॑वृ॒तू ।
उ॒भ॒य॒तो॑मुखमृतुपा॒त्रम् भ॑वति ।
को हि तद्वेद॒ यत॑ ऋतू॒नाम् मुख॑म् ।[9]

पद-पाठः

य॒ज्ञेन॑ । वै । दे॒वाः । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । आ॒य॒न् ।
ते । अ॒म॒न्य॒न्त॒ । म॒नु॒ष्याः॑ । नः॒ । अ॒न्वाभ॑विष्य॒न्तीत्य॑नु-आभ॑विष्यन्ति । इति॑ ।
ते । सव्ँ॒व॒त्स॒रेणेति॑ सम्-व॒त्स॒रेण॑ । यो॒प॒यि॒त्वा । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । आ॒य॒न् ।
तम् । ऋष॑यः । ऋ॒तु॒ग्र॒हैरित्यृ॑तु-ग्र॒हैः । ए॒व । अनु॑ । प्रेति॑ । अ॒जा॒न॒न् ।
यत् । ऋ॒तु॒ग्र॒हा इत्यृ॑तु-ग्र॒हाः । गृ॒ह्यन्ते॑ । सु॒व॒र्गस्येति॑ सुवः-गस्य॑ । लो॒कस्य॑ । प्रज्ञा॑त्या॒ इति॒ प्र-ज्ञा॒त्यै॒ ।
द्वाद॑श । गृ॒ह्य॒न्ते॒ ।
द्वाद॑श । मासाः॑ । सव्ँ॒व॒त्स॒र इति॑ सम्-व॒त्स॒रः ।
सव्ँ॒व॒त्स॒रस्येति॑ सम्-व॒त्स॒रस्य॑ । प्रज्ञा॑त्या॒ इति॒ प्र-ज्ञा॒त्यै॒ ।
स॒ह । प्र॒थ॒मौ । गृ॒ह्ये॒ते॒ इति॑ । स॒ह । उ॒त्त॒मावित्यु॑त्-त॒मौ । 1तस्मा॑त् । द्वौद्वा॒विति॒ द्वौ-द्वौ॒ । ऋ॒तू इति॑ ।
उ॒भ॒यतो॑मुख॒मित्यु॑भ॒यतः॑-मु॒ख॒म् । ऋ॒तु॒पा॒त्रमित्यृ॑तु-पा॒त्रम् । भ॒व॒ति॒ ।
कः । [9] हि । तत् । वेद॑ । यतः॑ । ऋ॒तू॒नाम् । मुख॑म् ।

भट्टभास्कर-टीका

1यज्ञेन वा इत्यादि ॥ गतम् । अस्मदनुसारेण स्वर्गमागमिष्यन्तीति । अथ ते संवत्सरेण योपयित्वा मोहयित्वा मनुष्यान् स्वर्गं गताः । संवत्सरमहिमाक्षिप्तचेतसो मनुष्याः स्वर्गं नाद्रियन्ते । युप विमोहने । अथ ऋषयः तं स्वर्गं ऋतुग्रहैरेवानुप्राजानम् प्रज्ञातवन्तः । तस्मादृतुग्रहाणां ग्रहणं स्वर्गस्य प्रज्ञात्यै भवति । द्वादशानां ग्रहणं द्वादशमासात्मकसंवत्सरस्य प्रज्ञात्यै भवति । संवत्सरस्य हि प्रज्ञानेन मोहनिवृत्त्या स्वर्गः प्रज्ञातो भवति । प्रथमौ उत्तमौ च सह गृह्येते । सामर्थ्यादन्ये भेदेन गृह्यन्ते इति गम्यते । तस्माद्द्वौ द्वौ ऋतू ऋत्ववयवौ द्वौ मासौ एक ऋतुरिति यावत् । उभयत इत्यादि । को नाम तद्वेद । किम्? यतः प्रभृति ऋतूनां मुखमुपक्रमः ऋतुधर्माणां प्रवृत्त्यारम्भः केन चिदपि न ज्ञायते अत्रैव मुखं स्यादिति । तस्य च दुर्ज्ञानत्वादुभयतो मुखे ऋतुपात्रे भवतः ॥

मूलम् (संयुक्तम्)

ऋ॒तुना॒ प्रेष्येति॒ षट्कृत्व॑ आह॒ षड्वा ऋ॒तव॑ ऋ॒तूने॒व प्री॑णात्यृ॒तुभि॒रिति॑ च॒तुश्चतु॑ष्पद ए॒व प॒शून्प्री॑णाति॒ द्विᳶ पुन॑र्ऋ॒तुना॑ह द्वि॒पद॑ ए॒व प्री॑णात्य्

विश्वास-प्रस्तुतिः

ऋ॒तुना॒ प्रेष्येति॒ षट्कृत्व॑ आह ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तूने॒व प्री॑णाति ।
“ऋ॒तुभि॒र्” इति॑ च॒तुश्चतु॑ष्पद ए॒व प॒शून् प्री॑णाति ।
द्विᳶ पुन॑र्ऋ॒तुना॑ह ।
द्वि॒पद॑ ए॒व प्री॑णाति ।

मूलम्

ऋ॒तुना॒ प्रेष्येति॒ षट्कृत्व॑ आह ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तूने॒व प्री॑णाति ।
“ऋ॒तुभि॒र्” इति॑ च॒तुश्चतु॑ष्पद ए॒व प॒शून् प्री॑णाति ।
द्विᳶ पुन॑र्ऋ॒तुना॑ह ।
द्वि॒पद॑ ए॒व प्री॑णाति ।

पद-पाठः

ऋ॒तुना॑ । प्रेति॑ । इ॒ष्य॒ । इति॑ । षट् । कृत्वः॑ । आ॒ह॒ । षट् । वै । ऋ॒तवः॑ ।
ऋ॒तून् । ए॒व । प्री॒णा॒ति॒ ।
ऋ॒तुभि॒रित्यृ॒तु-भिः॒ । इति॑ । च॒तुः ।
चतु॑ष्पद॒ इति॒ चतुः॑-प॒दः॒ । ए॒व । प॒शून् । प्री॒णा॒ति॒ ।
द्विः । पुनः॑ । ऋ॒तुना॑ । आ॒ह॒ ।
द्वि॒पद॒ इति॑ द्वि-पदः॑ । ए॒व । प्री॒णा॒ति॒ ।

भट्टभास्कर-टीका

2ऋतुनेत्यादि ॥ ऋतुना प्रेष्येति आद्येषु त्रिषु अध्वर्युराह । एवं त्रिषु प्रतिप्रस्थाता । एवं षट्कृत्व आह । षड्वा इत्यादि । गतम् । ऋतुभिरित्यादि । पात्रयोर्मुखे अवाङ्मुखमपर्यावृत्य ऋतुभिः प्रेष्येति सप्तमादिषु द्वयोरध्वर्युराह । एवं द्वयोः प्रतिप्रस्थाता । एवं चतुराह । चतुष्पदः पशून् गवादीन् प्रीणाति । द्विः पुनरित्यादि । पुनः पात्रयोर्मुखे पर्यावृत्य ऋतुना प्रेष्येति सकृदध्वर्युराह । एवं सकृत्प्रतिप्रस्थाता । एवं द्विराह । द्विपदः पशून् मनुष्यादीन् प्रीणाति ॥

मूलम् (संयुक्तम्)

ऋ॒तुना॒ प्रेष्येति॒ षट्कृत्व॑ आह॒र्तुभि॒रिति॑ च॒तुस्तस्मा॒च्चतु॑ष्पादᳶ प॒शव॑ ऋ॒तूनुप॑ जीवन्ति॒ द्विः [10]
पुन॑र्ऋ॒तुना॑ह॒ तस्मा॑द्द्वि॒पाद॒श्चतु॑ष्पदᳶ प॒शूनुप॑ जीवन्त्य्

विश्वास-प्रस्तुतिः

ऋ॒तुना॒ प्रेष्येति॒ षट्कृत्व॑ आह ।
ऋर्तुभि॒रिति॑ ।
च॒तुस् तस्मा॒च् चतु॑ष्पादᳶ प॒शव॑ ऋ॒तूनुप॑ जीवन्ति ।
द्विᳶपुन॑र्ऋ॒तुना॑ह ।[10]
तस्मा॑द् द्वि॒पाद॒श् चतु॑ष्पदᳶ प॒शूनुप॑ जीवन्ति ।

मूलम्

ऋ॒तुना॒ प्रेष्येति॒ षट्कृत्व॑ आह ।
ऋर्तुभि॒रिति॑ ।
च॒तुस् तस्मा॒च् चतु॑ष्पादᳶ प॒शव॑ ऋ॒तूनुप॑ जीवन्ति ।
द्विᳶपुन॑र्ऋ॒तुना॑ह ।[10]
तस्मा॑द् द्वि॒पाद॒श् चतु॑ष्पदᳶ प॒शूनुप॑ जीवन्ति ।

पद-पाठः

ऋ॒तुना॑ । प्रेति॑ । इ॒ष्य॒ । इति॑ । षट् । कृत्वः॑ । आ॒ह॒ ।
ऋ॒तुभि॒रित्यृ॒तु-भिः॒ । इति॑ ।
च॒तुः । तस्मा॑त् । चतु॑ष्पाद॒ इति॒ चतुः॑-पा॒दः॒ । प॒शवः॑ । ऋ॒तून् । उपेति॑ । जी॒व॒न्ति॒ ।
द्विः । [10] पुनः॑ । ऋ॒तुना॑ । आ॒ह॒ ।
तस्मा॑त् । द्वि॒पाद॒ इति॑ द्वि-पादः॑ । चतु॑ष्पद॒ इति॒ चतुः॑-प॒दः॒ । प॒शून् । उपेति॑ । जी॒व॒न्ति॒ ।

भट्टभास्कर-टीका

3एवं षण्णां चतुर्णां द्वयोश्च पृथक्पृथक् स्तुतिः कृता । इदानीं संघातं स्तोतुमाह - ऋतुनेत्यादि ॥ यस्मादेवं षट्कृत्वः चतुष्कृत्वश्चाह तस्माच्चतुष्पादः पशवः गवादयः ऋतूनुपजीवन्ति ऋतुधर्मान् शीतोष्णादीनुपजीवन्ति । ततः पुनश्च यस्मात् ‘ऋतुना’ इति द्विराह तस्माद्द्विपादः पशवः चतुष्पदश्च पशून् क्षीरादिभोगेनोपजीवन्ति ॥

मूलम् (संयुक्तम्)

ऋ॒तुना॒ प्रेष्येति॒ षट्कृत्व॑ आह॒र्तुभि॒रिति॑ च॒तुर्द्विᳶ पुन॑र्ऋ॒तुना॑हा॒क्रम॑णमे॒व तत्सेतुय्ँ॒यज॑मानᳵ कुरुते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒

विश्वास-प्रस्तुतिः

ऋ॒तुना॒ प्रेष्येति॒ षट्कृत्व॑ आह ।
“ऋ॒र्तुभि॒र्” इति॑ च॒तुर्द्विᳶ पुन॑र् ऋ॒तुना॑ह ।
आ॒क्रम॑णमे॒व तत् ।
सेतुय्ँ॒ यज॑मानᳵ कुरुते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

मूलम्

ऋ॒तुना॒ प्रेष्येति॒ षट्कृत्व॑ आह ।
“ऋ॒र्तुभि॒र्” इति॑ च॒तुर्द्विᳶ पुन॑र् ऋ॒तुना॑ह ।
आ॒क्रम॑णमे॒व तत् ।
सेतुय्ँ॒ यज॑मानᳵ कुरुते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

पद-पाठः

ऋ॒तुना॑ । प्रेति॑ । इ॒ष्य॒ । इति॑ । षट् । कृत्वः॑ । आ॒ह॒ । ऋ॒तुभि॒रित्यृ॒तु-भिः॒ । इति॑ ।
च॒तुः । द्विः । पुनः॑ । ऋ॒तुना॑ । आ॒ह॒ ।
आ॒क्रम॑ण॒मित्या॑-क्रम॑णम् । ए॒व । तत् ।
सेतु॑म् । यज॑मानः । कु॒रु॒ते॒ । सु॒व॒र्गस्येति॑ सुवः-गस्य॑ । लो॒कस्य॑ । सम॑ष्ट्या॒ इति॒ सम्-अ॒ष्ट्यै॒ ।

भट्टभास्कर-टीका

4इदानीं संघातस्य स्तुत्यन्तरं क्रियते - ऋतुनेत्यादि ॥ ऋतुना ऋतुभिः ऋतुनेति षट्कृत्वः चतुः द्विश्च यद्वचनं तदाक्रमणं सोपानं सेतुं गमनमार्गं यजमानः कुरुते स्वर्गस्य समष्टवै प्राप्त्यर्थम् ॥

मूलम् (संयुक्तम्)

नान्यो॑न्यमनु॒ प्र प॑द्येत॒ यद॒न्यो॑ऽन्यम॑नु प्र॒पद्ये॑त॒र्तुर्ऋ॒तुमनु॒ प्र प॑द्येत॒र्तवो॒ मोहु॑कास्स्युः [11]

विश्वास-प्रस्तुतिः

नान्यो॑न्यमनु॒ प्र प॑द्येत ।
यद॒न्यो॑ऽन्यम॑नु प्र॒पद्ये॑त + ऋ॒र्तुर् ऋ॒तुमनु॒ प्र प॑द्येत + ऋ॒र्तवो॒ मोहु॑कास् स्युः । [11]

मूलम्

नान्यो॑न्यमनु॒ प्र प॑द्येत ।
यद॒न्यो॑ऽन्यम॑नु प्र॒पद्ये॑त + ऋ॒र्तुर् ऋ॒तुमनु॒ प्र प॑द्येत + ऋ॒र्तवो॒ मोहु॑कास् स्युः । [11]

पद-पाठः

न । अ॒न्यः । अ॒न्यम् । अनु॑ । प्रेति॑ । प॒द्ये॒त॒ ।
यत् । अ॒न्यः । अ॒न्यम् । अ॒नु॒प्र॒पद्ये॒तेत्य॑नु-प्र॒पद्ये॑त । ऋ॒तुः । ऋ॒तुम् । अनु॑ । प्रेति॑ । प॒द्ये॒त॒ ।
ऋ॒तवः॑ । मोहु॑काः । स्युः॒ । [11]

भट्टभास्कर-टीका

5नान्योन्यमित्यादि ॥ परस्परस्यानुप्रवृत्तिं न कुर्यातामध्वर्युप्रतिप्रस्थातारौ । यदैको हविर्धानान्निष्क्रामति नेतरस्तदा निष्क्रामेत् । अपितु प्रविशेत् । यदैकः प्रविशति नेतरस्तदा प्रविशेत्, अपितु निष्क्रामेत् । द्वार्येव संभवति ततः प्रविशन्तमेवाध्वर्युं प्रतिप्रस्थाता ग्रहेण परिगृह्णाति । निष्क्रामन्तमध्वर्युं पात्रेण परिगृह्णाति । यदान्योन्यमनुमपद्येत तदा ऋतुः ऋत्वन्तरमनुप्रपद्येत एकप्रवृत्ते इतरः प्रवर्तेत । ततश्च ऋतवो मोहुका मोहनशीलाः संकीर्णस्वभावास्स्युः । छान्दस उकञ् ॥

मूलम् (संयुक्तम्)

प्रसि॑द्धमे॒वाध्व॒र्युर्दक्षि॑णेन॒ प्र प॑द्यते॒ प्रसि॑द्धम्प्रतिप्रस्था॒तोत्त॑रेण॒

विश्वास-प्रस्तुतिः

प्रसि॑द्धमे॒वाध्व॒र्युर्दक्षि॑णेन॒ प्र प॑द्यते ।
प्रसि॑द्धम् प्रतिप्रस्था॒तोत्त॑रेण ।

मूलम्

प्रसि॑द्धमे॒वाध्व॒र्युर्दक्षि॑णेन॒ प्र प॑द्यते ।
प्रसि॑द्धम् प्रतिप्रस्था॒तोत्त॑रेण ।

पद-पाठः

प्रसि॑द्ध॒मिति॒ प्र-सि॒द्ध॒म् । ए॒व । अ॒ध्व॒र्युः । दक्षि॑णेन । प्रेति॑ । प॒द्य॒ते॒ ।

प्रसि॑द्ध॒मिति॒ प्र-सि॒द्ध॒म् । प्र॒ति॒प्र॒स्था॒तेति॑ प्रति-प्र॒स्था॒ता । उत्त॑रे॒णेत्युत्-त॒रे॒ण॒ ।

भट्टभास्कर-टीका

6प्रसिद्धमेवेत्यादि ॥ गमनसिद्धेरारम्भः प्रसिद्धं उपक्रमतः प्रभृति अव्यवधानेन दक्षिणेन प्रतिपद्यते अध्वर्युः । अतः प्रभृति प्रतिप्रस्थाता च उत्तरेण प्रसिद्धमेव प्रतिपद्यते । यद्वा - प्रसिद्धं प्रथमसिद्धं मार्गं दक्षिणेनोत्तरं उत्तरमार्गं प्रतिपद्यते दक्षिणतोपक्रम्य गच्छेत् ॥

मूलम् (संयुक्तम्)

तस्मा॑दादि॒त्यष्षण्मा॒सो दक्षि॑णेनैति॒ षडुत्त॑रेणोपया॒मगृ॑हीतोऽसि सँ॒सर्पो॑ऽस्यँहस्प॒त्याय॒ त्वेत्या॒हास्ति॑ त्रयोद॒शो मास॒ इत्या॑हु॒स्तमे॒व तत्प्री॑णाति ॥ [12]

विश्वास-प्रस्तुतिः

तस्मा॑दादि॒त्यष् षण्मा॒सो दक्षि॑णेनैति॒ षडुत्त॑रेण ।
उ॒प॒या॒मगृ॑हीतोऽसि , सँ॒सर्पो॑ऽस्यँहस्प॒त्याय॒ त्वा इत्या॑ह ।
“अस्ति॑ त्रयोद॒शो मास॒” इत्या॑हुः ।
तमे॒व तत् प्री॑णाति ॥ [12]

मूलम्

तस्मा॑दादि॒त्यष् षण्मा॒सो दक्षि॑णेनैति॒ षडुत्त॑रेण ।
उ॒प॒या॒मगृ॑हीतोऽसि , सँ॒सर्पो॑ऽस्यँहस्प॒त्याय॒ त्वा इत्या॑ह ।
“अस्ति॑ त्रयोद॒शो मास॒” इत्या॑हुः ।
तमे॒व तत् प्री॑णाति ॥ [12]

पद-पाठः

तस्मा॑त् । आ॒दि॒त्यः । षट् । मा॒सः । दक्षि॑णेन । ए॒ति॒ । षट् । उत्त॑रे॒णेत्युत्-त॒रे॒ण॒ ।

उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म-गृ॒ही॒तः॒ । अ॒सि॒ । सँ॒सर्प॒ इति॑ सम्-सर्पः॑ । अ॒सि॒ । अँ॒ह॒स्प॒त्यायेत्यँ॑हः-प॒त्याय॑ । त्वा॒ । इति॑ । आ॒ह॒ ।
अस्ति॑ । त्र॒यो॒द॒श इति॑ त्रयः-द॒शः । मासः॑ । इति॑ । आ॒हुः॒ ।
तम् । ए॒व । तत् । प्री॒णा॒ति॒ ॥ [12]

भट्टभास्कर-टीका

7तस्मादिति ॥ आदित्यः आषाढादीन् षण्मासान् दक्षिणेनैति दक्षिणस्यां दिशि गच्छति । ‘एनबन्यतरस्याम्’ इत्येनप्प्रत्ययः । अथ तैषादीत् षण्मासान् उत्तरेणादित्यो गच्छति । स एव प्रत्ययः । उपयामगृहीतोसीत्यादि । गतम् । तद्ग्रहणं योधिकमासस्तमेव मासं प्रीणाति प्रीणयति त्रयोदशेन ग्रहणेन ॥

इति षष्ठे पञ्चमे तृतीयोनुवाकः ॥