मूलम् (संयुक्तम्)
आयु॒र्वा ए॒तद्य॒ज्ञस्य॒ यद्ध्रु॒व उ॑त्त॒मो ग्रहा॑णाङ्गृह्यते॒ तस्मा॒दायुᳶ॑ प्रा॒णाना॑मुत्त॒मम्मू॒र्धान॑न्दि॒वो अ॑र॒तिम्पृ॑थि॒व्या इत्या॑ह मू॒र्धान॑मे॒वैनँ॑ समा॒नाना॑ङ्करोति वैश्वान॒रमृ॒ताय॑ जा॒तम॒ग्निमित्या॑ह वैश्वान॒रँ हि दे॒वत॒यायु॑रुभ॒यतो॑वैश्वानरो गृह्यते॒ तस्मा॑दुभ॒यतᳶ॑ प्रा॒णा अ॒धस्ता॑च्चो॒परि॑ष्टाच्चा॒र्धिनो॒ऽन्ये ग्रहा॑ गृ॒ह्यन्ते॒ऽर्धी ध्रु॒वस्तस्मा॑त् [6]
अ॒र्ध्यवा॑ङ्प्रा॒णो॑ऽन्येषा॑म्प्रा॒णाना॒म्
विश्वास-प्रस्तुतिः
आयु॒र्वा ए॒तद् य॒ज्ञस्य॒ यद् ध्रु॒वः ।
उ॒त्त॒मो ग्रहा॑णाङ् गृह्यते॒ , तस्मा॒दायुᳶ॑ प्रा॒णाना॑मुत्त॒मम् ।
“मू॒र्धान॑न्दि॒वो अ॑र॒तिम्पृ॑थि॒व्या” इत्या॑ह ।
मू॒र्धान॑म् ए॒वैनँ॑ समा॒नाना॑ङ् करोति ।
“वै॒श्वा॒न॒र॒मृ॒ताय॑ जा॒तम॒ग्निम्” इत्या॑ह ।
वै॒श्वा॒न॒रँ हि दे॒वत॒याऽयुः॑ ।
उ॒भ॒यतो॑वैश्वानरो गृह्यते ।
तस्मा॑दुभ॒यतᳶ॑ प्रा॒णाः ।
अ॒धस्ता॑च् चो॒परि॑ष्टाच् च ।
अ॒र्धिनो॒ ऽन्ये ग्रहा॑ गृ॒ह्यन्ते॒ ऽर्धी ध्रु॒वः ।
तस्मा॑द् अ॒र्ध्यवा॑ङ् प्रा॒णो॑ ऽन्येषा॑म् प्रा॒णानाम् । [6]
मूलम्
आयु॒र्वा ए॒तद् य॒ज्ञस्य॒ यद् ध्रु॒वः ।
उ॒त्त॒मो ग्रहा॑णाङ् गृह्यते॒ , तस्मा॒दायुᳶ॑ प्रा॒णाना॑मुत्त॒मम् ।
“मू॒र्धान॑न्दि॒वो अ॑र॒तिम्पृ॑थि॒व्या” इत्या॑ह ।
मू॒र्धान॑म् ए॒वैनँ॑ समा॒नाना॑ङ् करोति ।
“वै॒श्वा॒न॒र॒मृ॒ताय॑ जा॒तम॒ग्निम्” इत्या॑ह ।
वै॒श्वा॒न॒रँ हि दे॒वत॒याऽयुः॑ ।
उ॒भ॒यतो॑वैश्वानरो गृह्यते ।
तस्मा॑दुभ॒यतᳶ॑ प्रा॒णाः ।
अ॒धस्ता॑च् चो॒परि॑ष्टाच् च ।
अ॒र्धिनो॒ ऽन्ये ग्रहा॑ गृ॒ह्यन्ते॒ ऽर्धी ध्रु॒वः ।
तस्मा॑द् अ॒र्ध्यवा॑ङ् प्रा॒णो॑ ऽन्येषा॑म् प्रा॒णानाम् । [6]
पद-पाठः
आयुः॑ । वै । ए॒तत् । य॒ज्ञस्य॑ । यत् । ध्रु॒वः ।
उ॒त्त॒म इत्यु॑त्-त॒मः । ग्रहा॑णाम् । गृ॒ह्य॒ते॒ । तस्मा॑त् । आयुः॑ । प्रा॒णाना॒मिति॑ प्र-अ॒नाना॑म् । उ॒त्त॒ममित्यु॑त्-त॒मम् ।
मू॒र्धान॑म् । दि॒वः । अ॒र॒तिम् । पृ॒थि॒व्याः । इति॑ । आ॒ह॒ ।
मू॒र्धान॑म् । ए॒व । ए॒न॒म् । स॒मा॒नाना॑म् । क॒रो॒ति॒ ।
वै॒श्वा॒न॒रम् । ऋ॒ताय॑ । जा॒तम् । अ॒ग्निम् । इति॑ । आ॒ह॒ ।
वै॒श्वा॒न॒रम् । हि । दे॒वत॑या । आयुः॑ ।
उ॒भ॒यतो॑वैश्वानर॒ इत्यु॑भ॒यतः॑-वै॒श्वा॒न॒रः॒ । गृ॒ह्य॒ते॒ ।
तस्मा॑त् । उ॒भ॒यतः॑ । प्रा॒णा इति॑ प्र-अ॒नाः ।
अ॒धस्ता॑त् । च॒ । उ॒परि॑ष्टात् । च॒ ।
अ॒र्धिनः॑ । अ॒न्ये । ग्रहाः॑ । गृ॒ह्यन्ते॑ । अ॒र्धी । ध्रु॒वः ।
तस्मा॑त् । [6] अ॒र्धी । अवाङ्॑ । प्रा॒ण इति॑ प्र-अ॒नः । अ॒न्येषा॑म् । प्रा॒णाना॒मिति॑ प्र-अ॒नाना॑म् ।
भट्टभास्कर-टीका
1आयुर्वा इत्यादि ॥ ध्रुवो नाम यज्ञस्ययुस्थानीयः उत्तमोऽन्त्यो धाराग्रहाणां गृह्यते । तस्मात्कारणात्प्राणानां प्राणनकालानामायुरुत्तमं उद्गततमं जीवनकालसमम्बन्धित्वादायुषः । मूर्धानमेवेति । एनं यजमानं समानानां प्रधानं करोति । वैश्वानरं हीति । तत्स्थित्यधीनत्वात् । उभयतोवैश्वानर इति । ऋचि यजुषि च वैश्वानरग्रहणात् । उभयत इति । अधस्तात्पायूपस्थं उपरिष्टाच्चक्षुरादि । अर्धिन इत्यादि । अन्येऽपि सर्वेऽपि ग्रहाः अर्धिनः अर्धवन्तः यज्ञार्धस्य वोढारः । ध्रुवः एक एवार्धी अर्धान्तरस्य वोढा तस्मादवाङ्प्राणः उपस्थ अर्धीदेहकृतस्य अर्धस्य निर्वोढा पुरुषोत्पत्तिस्तत इति कृत्वा । अन्येषां प्राणानामिति । सामर्थ्यादर्थान्तरं निर्वाह्यमिति गम्यते । यद्वा - अन्येषां प्राणानां यादृशोर्धो निर्वोढव्यः तादृशेनार्धेन तस्य निर्वोढृत्वात् ॥
मूलम् (संयुक्तम्)
उपो॑प्ते॒ऽन्ये ग्रहाः॑ सा॒द्यन्तेऽनु॑पोप्ते ध्रु॒वस्तस्मा॑द॒स्थ्नान्याᳶ प्र॒जाᳶ प्र॑ति॒तिष्ठ॑न्ति माँ॒सेना॒न्या
विश्वास-प्रस्तुतिः
उपो॑प्ते॒ऽन्ये ग्रहाः॑ सा॒द्यन्तेऽनु॑पोप्ते ध्रु॒वः ।
तस्मा॑द॒स्थ्नान्याᳶ प्र॒जाᳶ प्र॑ति॒तिष्ठ॑न्ति , माँ॒सेना॒न्याः ।
मूलम्
उपो॑प्ते॒ऽन्ये ग्रहाः॑ सा॒द्यन्तेऽनु॑पोप्ते ध्रु॒वः ।
तस्मा॑द॒स्थ्नान्याᳶ प्र॒जाᳶ प्र॑ति॒तिष्ठ॑न्ति , माँ॒सेना॒न्याः ।
पद-पाठः
उपो॑प्त॒ इत्युप॑-उ॒प्ते॒ । अ॒न्ये । ग्रहाः॑ । सा॒द्यन्ते॑ । अनु॑पोप्त॒ इत्यनु॑प-उ॒प्ते॒ । ध्रु॒वः ।
तस्मा॑त् । अ॒स्थ्ना । अ॒न्याः । प्र॒जा इति॑ प्र-जाः । प्र॒ति॒तिष्ठ॒न्तीति॑ प्रति-तिष्ठ॑न्ति ।
माँ॒सेन॑ । अ॒न्याः ।
भट्टभास्कर-टीका
2उपोप्त इति ॥ उपोप्ते मृदमुपोप्य खरीकृते अन्ये ग्रहास्साद्यन्ते, अनुपोप्ते भूम्यामेव ध्रुवस्साद्यते । तस्मादस्थ्ना खरेण खुरादिना अन्याः प्रजाः गवादयः प्रतितिष्ठन्ति भूम्यां स्थितिं कुर्वन्ति अन्यास्तु मनुष्यादयः प्रजाः मांसेन प्रतितिष्ठन्ति ॥
मूलम् (संयुक्तम्)
असु॑रा॒ वा उ॑त्तर॒तᳶ पृ॑थि॒वीम्प॒र्याचि॑कीर्ष॒न्तान्दे॒वा ध्रु॒वेणा॑दृँह॒न्तद्ध्रु॒वस्य॑ ध्रुव॒त्वय्ँयद्ध्रु॒व उ॑त्तर॒तस्सा॒द्यते॒ धृत्या॒
विश्वास-प्रस्तुतिः
असु॑रा॒ वा उ॑त्तर॒तᳶ पृ॑थि॒वीम् प॒र्याचि॑कीर्षन् ।
तान् दे॒वा ध्रु॒वेणा॑दृँहन् ।
तद्ध्रु॒वस्य॑ ध्रुव॒त्वय् यँद्ध्रु॒व उ॑त्तर॒तस् सा॒द्यते॑ । धृत्यै॑ ।
मूलम्
असु॑रा॒ वा उ॑त्तर॒तᳶ पृ॑थि॒वीम् प॒र्याचि॑कीर्षन् ।
तान् दे॒वा ध्रु॒वेणा॑दृँहन् ।
तद्ध्रु॒वस्य॑ ध्रुव॒त्वय् यँद्ध्रु॒व उ॑त्तर॒तस् सा॒द्यते॑ । धृत्यै॑ ।
पद-पाठः
असु॑राः । वै । उ॒त्त॒र॒त इत्यु॑त्-त॒र॒तः । पृ॒थि॒वीम् । प॒र्याचि॑कीर्ष॒न्निति॑ परि-आचि॑कीर्षन् ।
ताम् । दे॒वाः । ध्रु॒वेण॑ । अ॒दृँ॒ह॒न् ।
तत् । ध्रु॒वस्य॑ । ध्रु॒व॒त्वमिति॑ ध्रुव-त्वम् ।
यत् । ध्रु॒वः । उ॒त्त॒र॒त इत्यु॑त्-त॒र॒तः । सा॒द्यते॑ । धृत्यै॑ ।
भट्टभास्कर-टीका
3असुरा वा इत्यादि ॥ पर्याकर्तुमुत्तरत आक्रष्टुमैच्छन् । देवास्तु तां ध्रुवेण ग्रहेणादृंहन् दृढामकुर्वन् । तेनायं ध्रुवोभवत् । ध्रुवं करोतीति ध्रुवः, ण्यन्तात्पचाद्यच् । तस्मादुत्तरतोस्य सादनं पृथिव्याः धृत्यै धारणाय भवति ॥
मूलम् (संयुक्तम्)
आयु॒र्वा ए॒तद्य॒ज्ञस्य॒ यद्ध्रु॒व आ॒त्मा होता॒ यद्धो॑तृचम॒से ध्रु॒वम॑व॒नय॑त्या॒त्मन्ने॒व य॒ज्ञस्य॑ [7]
आयु॑र्दधाति पु॒रस्ता॑दु॒क्थस्या॑व॒नीय॒ इत्या॑हुᳶ पु॒रस्ता॒द्ध्यायु॑षो भु॒ङ्क्ते म॑ध्य॒तो॑ऽव॒नीय॒ इत्या॑हुर्मध्य॒मेन॒ ह्यायु॑षो भु॒ङ्क्त उ॑त्तरा॒र्धे॑ऽव॒नीय॒ इत्या॑हुरुत्त॒मेन॒ ह्यायु॑षो भु॒ङ्क्ते वै॑श्वदे॒व्यामृ॒चि श॒स्यमा॑नाया॒मव॑ नयति वैश्वदे॒व्यो॑ वै प्र॒जाᳶ प्र॒जास्वे॒वायु॑र्दधाति ॥ [8]
विश्वास-प्रस्तुतिः
आयु॒र्वा ए॒तद्य॒ज्ञस्य॒ यद्ध्रु॒व आ॒त्मा होता॑ ।
यद्धो॑तृचम॒से ध्रु॒वम॑व॒नय॑त्य् आ॒त्मन्ने॒व य॒ज्ञस्य॑ + आयु॑र्दधाति ।[7]
“पु॒रस्ता॑द् उ॒क्थस्या॑व॒नीय॒” इत्या॑हुः ।
पु॒रस्ता॒द्ध्यायु॑षो भु॒ङ्क्ते ।
“म॒ध्य॒तो॑ऽव॒नीय॒” इत्या॑हुः ।
म॒ध्य॒मेन॒ ह्यायु॑षो भु॒ङ्क्ते ।
“उ॒त्त॒रार्धे॑ ऽव॒नीय॒” इत्या॑हुः ।
उ॒त्त॒मेन॒ ह्यायु॑षो भु॒ङ्क्ते ।
वै॑श्वदे॒व्याम् ऋ॒चि श॒स्यमा॑नाया॒मव॑ नयति ।
वै॒श्व॒दे॒व्यो॑ वै प्र॒जाः ।
प्र॒जास्वे॒वायु॑र् दधाति ॥ [8]
मूलम्
आयु॒र्वा ए॒तद्य॒ज्ञस्य॒ यद्ध्रु॒व आ॒त्मा होता॑ ।
यद्धो॑तृचम॒से ध्रु॒वम॑व॒नय॑त्य् आ॒त्मन्ने॒व य॒ज्ञस्य॑ + आयु॑र्दधाति ।[7]
“पु॒रस्ता॑द् उ॒क्थस्या॑व॒नीय॒” इत्या॑हुः ।
पु॒रस्ता॒द्ध्यायु॑षो भु॒ङ्क्ते ।
“म॒ध्य॒तो॑ऽव॒नीय॒” इत्या॑हुः ।
म॒ध्य॒मेन॒ ह्यायु॑षो भु॒ङ्क्ते ।
“उ॒त्त॒रार्धे॑ ऽव॒नीय॒” इत्या॑हुः ।
उ॒त्त॒मेन॒ ह्यायु॑षो भु॒ङ्क्ते ।
वै॑श्वदे॒व्याम् ऋ॒चि श॒स्यमा॑नाया॒मव॑ नयति ।
वै॒श्व॒दे॒व्यो॑ वै प्र॒जाः ।
प्र॒जास्वे॒वायु॑र् दधाति ॥ [8]
पद-पाठः
आयुः॑ । वै । ए॒तत् । य॒ज्ञस्य॑ । यत् । ध्रु॒वः । आ॒त्मा । होता॑ ।
यत् । हो॒तृ॒च॒म॒स इति॑ होतृ-च॒म॒से । ध्रु॒वम् । अ॒व॒नय॒तीत्य॑व-नय॑ति । आ॒त्मन् । ए॒व । य॒ज्ञस्य॑ । [7] आयुः॑ । द॒धा॒ति॒ ।
पु॒रस्ता॑त् । उ॒क्थस्य॑ । अ॒व॒नीय॒ इत्य॑व-नीयः॑ । इति॑ । आ॒हुः॒ ।
पु॒रस्ता॑त् । हि । आयु॑षः । भु॒ङ्क्ते ।
म॒ध्य॒तः । अ॒व॒नीय॒ इत्य॑व-नीयः॑ । इति॑ । आ॒हुः॒ ।
म॒ध्य॒मेन॑ । हि । आयु॑षः । भु॒ङ्क्ते ।
उ॒त्त॒रा॒र्ध इत्यु॑त्तर-अ॒र्धे । अ॒व॒नीय॒ इत्य॑व-नीयः॑ । इति॑ । आ॒हुः॒ ।
उ॒त्त॒मेनेत्यु॑त्-त॒मेन॑ । हि । आयु॑षः । भु॒ङ्क्ते ।
वै॒श्व॒दे॒व्यामिति॑ वैश्व-दे॒व्याम् । ऋ॒चि । श॒स्यमा॑नायाम् । अवेति॑ । न॒य॒ति॒ ।
वै॒श्व॒दे॒व्य॑ इति॑ वैश्व-दे॒व्यः॑ । वै । प्र॒जा इति॑ प्र-जाः ।
प्र॒जास्विति॑ प्र-जासु॑ । ए॒व । आयुः॑ । द॒धा॒ति॒ ॥ [8]
भट्टभास्कर-टीका
4आयुर्वा इत्यादि ॥ गतम् । पुरस्तादुक्थस्य शस्त्रस्य च पूर्वस्मिन्नर्धे अवनीय अवनेतव्य इत्याहुः यज्ञविदः । आयुषः पूर्वभागे हि स्वैरं भुङ्क्ते पुरुषः । तस्मादायुस्संबन्धाय पुरस्तादेवावनयनं कुर्यात् । मध्यतः मध्ये शस्त्रस्यावनेतव्य इत्यन्य आहुर्यज्ञविदः । आषो मध्यमे हि भागे प्रभूतं भुङ्क्ते । उत्तरार्धे शस्त्रस्यावनेतव्य इत्यपरे यज्ञविद आहुः । उत्तमे ह्यायुषो भागे श्रद्दधानो भुङ्क्ते । वैश्वदेव्यामित्यादि । गतम् ॥
इति षष्ठे पञ्चमे द्वितीयोनुवाकः ॥