०१

मूलम् (संयुक्तम्)

इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छ॒त्स वृ॒त्रो वज्रा॒दुद्य॑तादबिभे॒त्सो॑ऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम्मयि॑ वी॒र्य॑न्तत्ते॒ प्र दा॑स्या॒मीति॒ तस्मा॑ उ॒क्थ्य॑म्प्राय॑च्छ॒त्तस्मै॑ द्वि॒तीय॒मुद॑यच्छ॒त्सो॑ऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम्मयि॑ वी॒र्य॑न्तत्ते॒ प्र दा॑स्या॒मीति॑ [1]
तस्मा॑ उ॒क्थ्य॑मे॒व प्राय॑च्छ॒त्तस्मै॑ तृ॒तीय॒मुद॑यच्छ॒त्तव्ँविष्णु॒रन्व॑तिष्ठत ज॒हीति॒ सो॑ऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम्मयि॑ वी॒र्य॑न्तत्ते॒ प्र दा॑स्या॒मीति॒ तस्मा॑ उ॒क्थ्य॑मे॒व प्राय॑च्छ॒त्तन्निर्मा॑यम्भू॒तम॑हन्य॒ज्ञो हि तस्य॑ मा॒यासी॒द्यदु॒क्थ्यो॑ गृ॒ह्यत॑ इन्द्रि॒यमे॒व [2]
तद्वी॒र्यय्ँ॑यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्त॒ इन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वत॒ इत्या॒हेन्द्रा॑य॒ हि स तम्प्राय॑च्छ॒त्तस्मै॑ त्वा॒ विष्ण॑वे॒ त्वेत्या॑ह॒ यदे॒व विष्णु॑र॒न्वति॑ष्ठत ज॒हीति॒ तस्मा॒द्विष्णु॑म॒न्वाभ॑जति॒

विश्वास-प्रस्तुतिः

इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छत् ।
स वृ॒त्रो वज्रा॒दुद्य॑तादबिभेत् ।
सो॑ऽब्रवी॒न् -
“मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम् मयि॑ वी॒र्य॑न् तत् ते॒ प्र दा॑स्यामि”+इति॑ ।
तस्मा॑ उ॒क्थ्य्॑ प्राय॑च्छत् ।
तस्मै॑ द्वि॒तीय॒म् उद॑यच्छत् ।
सो॑ऽब्रवी॒न् -
“मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम् मयि॑ वी॒र्य॑न् तत् ते॒ प्र दा॑स्यामि”+इति॑ । [1]
तस्मा॑ उ॒क्थ्य॑मे॒व प्राय॑च्छ॒त् ।
तस्मै॑ तृ॒तीय॒म् उद॑यच्छत् ।
तव्ँ विष्णु॒रन्व॑तिष्ठत । “ज॒हि”+इति॑ ।
सो॑ऽब्रवी॒न् -
मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम् मयि॑ वी॒र्य॑न् तत् ते॒ प्र दा॑स्यामि"+इति॑ ।
तस्मा॑ उ॒क्थ्य॑मे॒व प्राय॑च्छत् ।
तन् निर्मा॑यम् भू॒तम॑हन् ।
य॒ज्ञो हि तस्य॑ मा॒यासीत् । यदु॒क्थ्यो॑ गृ॒ह्यत॑ इन्द्रि॒यमे॒व [2] तद् वी॒र्यय्ँ॑ यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते ।
“इन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वत॒” इत्या॑ह ।
इन्द्रा॑य॒ हि स तम् प्राय॑च्छत् ।
“तस्मै॑ त्वा॒ विष्ण॑वे॒ त्वा”+ इत्या॑ह ।
यदे॒व विष्णु॑र॒न्वति॑ष्ठत । “ज॒हि” इति॑ ।
तस्मा॒द् विष्णु॑म् अ॒न्वाभ॑जति ।

मूलम्

इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छत् ।
स वृ॒त्रो वज्रा॒दुद्य॑तादबिभेत् ।
सो॑ऽब्रवी॒न् -
“मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम् मयि॑ वी॒र्य॑न् तत् ते॒ प्र दा॑स्यामि”+इति॑ ।
तस्मा॑ उ॒क्थ्य्॑ प्राय॑च्छत् ।
तस्मै॑ द्वि॒तीय॒म् उद॑यच्छत् ।
सो॑ऽब्रवी॒न् -
“मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम् मयि॑ वी॒र्य॑न् तत् ते॒ प्र दा॑स्यामि”+इति॑ । [1]
तस्मा॑ उ॒क्थ्य॑मे॒व प्राय॑च्छ॒त् ।
तस्मै॑ तृ॒तीय॒म् उद॑यच्छत् ।
तव्ँ विष्णु॒रन्व॑तिष्ठत । “ज॒हि”+इति॑ ।
सो॑ऽब्रवी॒न् -
मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम् मयि॑ वी॒र्य॑न् तत् ते॒ प्र दा॑स्यामि"+इति॑ ।
तस्मा॑ उ॒क्थ्य॑मे॒व प्राय॑च्छत् ।
तन् निर्मा॑यम् भू॒तम॑हन् ।
य॒ज्ञो हि तस्य॑ मा॒यासीत् । यदु॒क्थ्यो॑ गृ॒ह्यत॑ इन्द्रि॒यमे॒व [2] तद् वी॒र्यय्ँ॑ यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते ।
“इन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वत॒” इत्या॑ह ।
इन्द्रा॑य॒ हि स तम् प्राय॑च्छत् ।
“तस्मै॑ त्वा॒ विष्ण॑वे॒ त्वा”+ इत्या॑ह ।
यदे॒व विष्णु॑र॒न्वति॑ष्ठत । “ज॒हि” इति॑ ।
तस्मा॒द् विष्णु॑म् अ॒न्वाभ॑जति ।

पद-पाठः

इन्द्रः॑ । वृ॒त्राय॑ । वज्र॑म् । उदिति॑ । अ॒य॒च्छ॒त् ।
सः । वृ॒त्रः । वज्रा॑त् । उद्य॑ता॒दित्युत्-य॒ता॒त् । अ॒बि॒भे॒त् । सः । अ॒ब्र॒वी॒त् ।
मा । मे॒ । प्रेति॑ । हाः॒ । अस्ति॑ । वै । इ॒दम् । मयि॑ । वी॒र्य॑म् । तत् । ते॒ । प्रेति॑ । दा॒स्या॒मि॒ । इति॑ ।
तस्मै॑ । उ॒क्थ्य॑म् । प्रेति॑ । अ॒य॒च्छ॒त् ।
तस्मै॑ । द्वि॒तीय॑म् । उदिति॑ । अ॒य॒च्छ॒त् ।
सः । अ॒ब्र॒वी॒त् ।
मा । मे॒ । प्रेति॑ । हाः॒ । अस्ति॑ । वै । इ॒दम् । मयि॑ । वी॒र्य॑म् । तत् । ते॒ । प्रेति॑ । दा॒स्या॒मि॒ । इति॑ । [1]
तस्मै॑ । उ॒क्थ्य॑म् । ए॒व । प्रेति॑ । अ॒य॒च्छ॒त् ।
तस्मै॑ । तृ॒तीय॑म् । उदिति॑ । अ॒य॒च्छ॒त् । तम् । विष्णुः॑ । अन्विति॑ । अ॒ति॒ष्ठ॒त॒ ।
ज॒हि । इति॑ ।
सः । अ॒ब्र॒वी॒त् ।
मा । मे॒ । प्रेति॑ । हाः॒ । अस्ति॑ । वै । इ॒दम् । मयि॑ । वी॒र्य॑म् । तत् । ते॒ । प्रेति॑ । दा॒स्या॒मि॒ । इति॑ ।
तस्मै॑ । उ॒क्थ्य॑म् । ए॒व । प्रेति॑ । अ॒य॒च्छ॒त् ।
तम् । निर्मा॑य॒मिति॒ निः-मा॒य॒म् । भू॒तम् । अ॒ह॒न् ।
य॒ज्ञः । हि । तस्य॑ । मा॒या । आसी॑त् ।
यत् । उ॒क्थ्यः॑ । गृ॒ह्यते॑ । इ॒न्द्रि॒यम् । ए॒व । [2] तत् । वी॒र्य॑म् । यज॑मानः । भ्रातृ॑व्यस्य । वृ॒ङ्क्ते॒ ।
इन्द्रा॑य । त्वा॒ । बृ॒हद्व॑त॒ इति॑ बृ॒हत्-व॒ते॒ । वय॑स्वते । इति॑ । आ॒ह॒ ।
इन्द्रा॑य । हि । सः । तम् । प्रेति॑ । अ॒य॒च्छ॒त् ।
तस्मै॑ । त्वा॒ । विष्ण॑वे । त्वा॒ । इति॑ । आ॒ह॒ ।
यत् । ए॒व । विष्णुः॑ । अ॒न्वति॑ष्ठ॒तेत्य॑नु-अति॑ष्ठत ।
ज॒हि॒ । इति॑ । तस्मा॑त् । विष्णु॑म् । अ॒न्वाभ॑ज॒तीत्य॑नु-आभ॑जति ।

भट्टभास्कर-टीका

1इन्द्रो वृत्रायेत्यादि ॥ वृत्रं प्रहर्तुं वज्रमुदयच्छत् उद्यतवान् । स च तस्मादुद्यतात् अबिभेत् भीतवान् । अथ स वृत्रोब्रवीत् इन्द्रम् । मा मे प्रहाः मां मा प्रहार्षीः, अस्ति मयीदं वीर्यं तत्तुभ्यं प्रदास्यामीत्युक्त्वा तस्मै उक्थ्यं ग्रहं प्रायच्छत् । हरतेर्लुङि सिचि वृद्वौ ‘बहुलं छन्दसि’ इतीडभावे ‘यस्य’ इति लोपे ‘रात्सस्य’ इति स लोपः । तस्मै द्वितीयमित्यादि । गतम् । तृतीये पर्याये तमुद्यतवज्रमिन्द्रं अनुलक्ष्य इन्द्रकार्यमुद्दिश्य विष्णुरन्वतिष्ठत आत्मानं प्रकाशितवात् । प्रकाशने आत्मनेपदम् । कथं वदन्? जहीति । जह्येतं सहायस्तवाहमिति । यद्वा - जह्येनं मायावित्वमेवास्यैतत् यदिदं वीर्यप्रदानमिति । वृत्रोपि तत् पुनस्तृतीयमुक्थ्यं प्रायच्छत् । अथेन्द्रः त्रिषूक्थ्येषु वृत्तेषु निर्मायं भूतं मायारहितं संजातं सुखेन हतवान् वृत्रम् । का पुनरस्य मायेत्याह - यज्ञो हीति । यज्ञो हि तस्य मायास्थानीयः व्यामोहहेतुरासीत् । तेन भीतोभवत् । अतो निर्मायत्वात्तं हतवान् । यदुक्थ इत्यादि । गतम् । यदेवेत्यादि । यस्माद्विष्णुस्सहकारितया जहीत्यवदत् तस्मात्तमप्यत्रान्वाभजति इन्द्रेण सह भागवन्तं करोत्यस्मिन् ग्रहे ॥

मूलम् (संयुक्तम्)

त्रिर्निर्गृ॑ह्णाति॒ त्रिर्हि स तन्तस्मै॒ प्राय॑च्छदे॒ष ते॒ योनि॒ᳶ पुन॑र्हविर॒सीत्या॑ह॒ पुनᳶ॑पुनः [3]
ह्य॑स्मान्निर्गृ॒ह्णाति॒

विश्वास-प्रस्तुतिः

त्रिर् निर्गृ॑ह्णाति ।
त्रिर्हि स तन् तस्मै॒ प्राय॑च्छत् ।
“ए॒ष ते॒ योनि॒ᳶ पुन॑र्हविर॒सि”+ इत्या॑ह ।
पुनᳶ॑पुनर् ह्य॑स्मान् निर्गृ॒ह्णाति ।[3]

मूलम्

त्रिर् निर्गृ॑ह्णाति ।
त्रिर्हि स तन् तस्मै॒ प्राय॑च्छत् ।
“ए॒ष ते॒ योनि॒ᳶ पुन॑र्हविर॒सि”+ इत्या॑ह ।
पुनᳶ॑पुनर् ह्य॑स्मान् निर्गृ॒ह्णाति ।[3]

पद-पाठः

त्रिः । निरिति॑ । गृ॒ह्णा॒ति॒ ।
त्रिः । हि । सः । तम् । तस्मै॑ । प्रेति॑ । अ॒य॒च्छ॒त् ।
ए॒षः । ते॒ । योनिः॑ । पुन॑र्‌हवि॒रिति॒ पुनः॑-ह॒विः॒ । अ॒सि॒ । इति॑ । आ॒ह॒ ।
पुन॑ᳶपुन॒रिति॒ पुनः॑-पु॒नः॒ । [3] हि । अ॒स्मा॒त् । नि॒र्गृ॒ह्णातीति॑ निः-गृ॒ह्णाति॑ ।

भट्टभास्कर-टीका

2त्रिरिति ॥ त्रेधा ग्रहं निर्भज्य गृह्णाति । ‘एष ते योनिः पुनः हविरसि’ इति शाखान्तरपाठं व्याचष्टे - यत्र पुनरस्मान्निर्गृह्यते तत्रैव सामर्थ्यात् पुनर्हविरसीति भवितव्यमिति गम्यते ॥

मूलम् (संयुक्तम्)

चक्षु॒र्वा ए॒तद्य॒ज्ञस्य॒ यदु॒क्थ्य॑स्तस्मा॑दु॒क्थ्यँ॑ हु॒तँ सोमा॑ अ॒न्वाय॑न्ति॒ तस्मा॑दा॒त्मा चक्षु॒रन्वे॑ति॒ तस्मा॒देकय्ँ॒यन्त॑म्ब॒हवोऽनु॑ यन्ति॒ तस्मा॒देको॑ बहू॒नाम्भ॒द्रो भ॑वति॒ तस्मा॒देको॑ ब॒ह्वीर्जा॒या वि॑न्दते॒

विश्वास-प्रस्तुतिः

चक्षु॒र्वा ए॒तद्य॒ज्ञस्य॒ यदु॒क्थ्यः॑ ।
तस्मा॑दु॒क्थ्यँ॑ हु॒तँ सोमा॑ अ॒न्वाय॑न्ति ।
तस्मा॑द् आ॒त्मा चक्षु॒रन्वे॑ति ।
तस्मा॒देकय्ँ॒ यन्त॑म् ब॒हवोऽनु॑ यन्ति ।
तस्मा॒देको॑ बहू॒नाम् भ॒द्रो भ॑वति ।
तस्मा॒देको॑ ब॒ह्वीर् जा॒या वि॑न्दते ।

मूलम्

चक्षु॒र्वा ए॒तद्य॒ज्ञस्य॒ यदु॒क्थ्यः॑ ।
तस्मा॑दु॒क्थ्यँ॑ हु॒तँ सोमा॑ अ॒न्वाय॑न्ति ।
तस्मा॑द् आ॒त्मा चक्षु॒रन्वे॑ति ।
तस्मा॒देकय्ँ॒ यन्त॑म् ब॒हवोऽनु॑ यन्ति ।
तस्मा॒देको॑ बहू॒नाम् भ॒द्रो भ॑वति ।
तस्मा॒देको॑ ब॒ह्वीर् जा॒या वि॑न्दते ।

पद-पाठः

चक्षुः॑ । वै । ए॒तत् । य॒ज्ञस्य॑ । यत् । उ॒क्थ्यः॑ । तस्मा॑त् । उ॒क्थ्य॑म् । हु॒तम् । सोमाः॑ । अ॒न्वाय॒न्तीत्य॑नु-आय॑न्ति ।
तस्मा॑त् । आ॒त्मा । चक्षुः॑ । अन्विति॑ । ए॒ति॒ ।
तस्मा॑त् । एक॑म् । यन्त॑म् । ब॒हवः॑ । अन्विति॑ । य॒न्ति॒ ।
तस्मा॑त् । एकः॑ । ब॒हू॒नाम् । भ॒द्रः । भ॒व॒ति॒ ।
तस्मा॑त् । एकः॑ । ब॒ह्वीः । जा॒याः । वि॒न्द॒ते॒ ।

भट्टभास्कर-टीका

3चक्षुर्वा इत्यादि ॥ अस्य चक्षुस्थानीयत्वात् अमुं हुतमनुलक्ष्य सोमाश्चमसा आयन्ति । तस्मादेव कारणात् आत्मा पुरुषश्चक्षुरन्वेति अनुगच्छति चक्षुषा दृष्टमेव प्ततिपद्यते । तस्मादेव कारणादेकं चक्षुष्मन्तं यन्तं बहवोचक्षुषोनुयन्ति अनुगच्छन्ति । यद्वा - एकं प्रधानं चक्षुस्थानीयं यन्तं बहवो राजानो[वो अनुजना अ]नुयन्ति सेवन्ते । तस्मादेव कारणात् एकः पुरुषः चक्षुरिव प्रदर्शको बहूनां भद्रः कल्याणकारी भवति बहूनामुपजीव्यो भवति । तस्मादेव कारणात् चक्षुस्थानीय एकः स्वतन्त्रः पुमान् बह्वीर्जाया अस्वतन्त्रा विन्दते लभते ॥

मूलम् (संयुक्तम्)

यदि॑ का॒मये॑ताध्व॒र्युरा॒त्मानय्ँ॑ यज्ञयश॒सेना॑र्पयेय॒मित्य॑न्त॒राह॑व॒नीय॑ञ्च हवि॒र्धान॑ञ्च॒ तिष्ठ॒न्नव॑ नयेत् [4]
आ॒त्मान॑मे॒व य॑ज्ञयश॒सेना॑र्पयति॒ यदि॑ का॒मये॑त॒ यज॑मानय्ँ यज्ञयश॒सेना॑र्पयेय॒मित्य॑न्त॒रा स॑दोहविर्धा॒ने तिष्ठ॒न्नव॑ नये॒द्यज॑मानमे॒व य॑ज्ञयश॒सेना॑र्पयति॒ यदि॑ का॒मये॑त सद॒स्या॑न्यज्ञयश॒सेना॑र्पयेय॒मिति॒ सद॑ आ॒लभ्याव॑ नयेत्सद॒स्या॑ने॒व य॑ज्ञयश॒सेना॑र्पयति ॥ [5]

विश्वास-प्रस्तुतिः

यदि॑ का॒मये॑त + “अध्व॒र्युर् आ॒त्मानय्ँ॑ यज्ञयश॒सेना॑र्पयेय॒म्” इति॑ ।
अ॒न्त॒रा ऽऽह॑व॒नीय॑ञ् च हवि॒र्धान॑ञ् च॒ तिष्ठ॒न्न् अव॑ नयेत् ।[4]
आ॒त्मान॑मे॒व य॑ज्ञयश॒सेना॑र्पयति ।
यदि॑ का॒मये॑त॒ -
“यज॑मानय्ँ यज्ञयश॒सेना॑र्पयेय॒म्” इति॑ ।
अ॒न्त॒रा स॑दोहविर्धा॒ने तिष्ठ॒न्नव॑ नयेत् । यज॑मानमे॒व य॑ज्ञयश॒सेना॑र्पयति ।
यदि॑ का॒मये॑त -
“सद॒स्या॑न् यज्ञयश॒सेना॑र्पयेय॒म्” इति॑ ।
सद॑ आ॒लभ्याव॑ नयेत् ।
स॒द॒स्या॑न् ए॒व य॑ज्ञयश॒सेना॑र्पयति ॥ [5]

मूलम्

यदि॑ का॒मये॑त + “अध्व॒र्युर् आ॒त्मानय्ँ॑ यज्ञयश॒सेना॑र्पयेय॒म्” इति॑ ।
अ॒न्त॒रा ऽऽह॑व॒नीय॑ञ् च हवि॒र्धान॑ञ् च॒ तिष्ठ॒न्न् अव॑ नयेत् ।[4]
आ॒त्मान॑मे॒व य॑ज्ञयश॒सेना॑र्पयति ।
यदि॑ का॒मये॑त॒ -
“यज॑मानय्ँ यज्ञयश॒सेना॑र्पयेय॒म्” इति॑ ।
अ॒न्त॒रा स॑दोहविर्धा॒ने तिष्ठ॒न्नव॑ नयेत् । यज॑मानमे॒व य॑ज्ञयश॒सेना॑र्पयति ।
यदि॑ का॒मये॑त -
“सद॒स्या॑न् यज्ञयश॒सेना॑र्पयेय॒म्” इति॑ ।
सद॑ आ॒लभ्याव॑ नयेत् ।
स॒द॒स्या॑न् ए॒व य॑ज्ञयश॒सेना॑र्पयति ॥ [5]

पद-पाठः

यदि॑ । का॒मये॑त । अ॒ध्व॒र्युः । आ॒त्मान॑म् । य॒ज्ञ॒य॒श॒सेनेति॑ यज्ञ-य॒श॒सेन॑ । अ॒र्प॒ये॒य॒म् । इति॑ ।
अ॒न्त॒रा । आ॒ह॒व॒नीय॒मित्या॑-ह॒व॒नीय॑म् । च॒ । ह॒वि॒र्धान॒मिति॑ हविः-धान॑म् । च॒ । तिष्ठ॑न् । अवेति॑ । न॒ये॒त् । [4]
आ॒त्मान॑म् । ए॒व । य॒ज्ञ॒य॒श॒सेनेति॑ यज्ञ-य॒श॒सेन॑ । अ॒र्प॒य॒ति॒ ।
यदि॑ । का॒मये॑त । यज॑मानम् । य॒ज्ञ॒य॒श॒सेनेति॑ यज्ञ-य॒श॒सेन॑ । अ॒र्प॒ये॒य॒म् । इति॑ । अ॒न्त॒रा । स॒दो॒ह॒वि॒र्धा॒ने इति॑ सदः-ह॒वि॒र्धा॒ने । तिष्ठ॑न् । अवेति॑ । न॒ये॒त् ।
यज॑मानम् । ए॒व । य॒ज्ञ॒य॒श॒सेनेति॑ यज्ञ-य॒श॒सेन॑ । अ॒र्प॒य॒ति॒ ।
यदि॑ । का॒मये॑त । स॒द॒स्यान्॑ । य॒ज्ञ॒य॒श॒सेनेति॑ यज्ञ-य॒श॒सेन॑ । अ॒र्प॒ये॒य॒म् । इति॑ । सदः॑ । आ॒लभ्येत्या॑-लभ्य॑ । अवेति॑ । न॒ये॒त् ।
स॒द॒स्यान्॑ । ए॒व । य॒ज्ञ॒य॒श॒सेनेति॑ यज्ञ-य॒श॒सेन॑ । अ॒र्प॒य॒ति॒ ॥ [5]

भट्टभास्कर-टीका

4यदि कामयेतेत्यादि ॥ यज्ञस्य यशः फलं यज्ञयशसम्, ‘अनसन्तान्नपुंसकात्’ इत्यच्समासान्तः । आहवनीयहविर्धानयोर्मध्ये तिष्ठन् होतृचमसमवनयेत् । गतमन्यत् । आलभ्यानुप्राप्यावनयेत् ॥

इति षष्ठे पञ्चमे प्रथमोनुवाकः ॥