११

मूलम् (संयुक्तम्)

दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा आ॑ग्रय॒णाग्रा॒न्ग्रहा॑नपश्य॒न्तान॑गृह्णत॒ ततो॒ वै तेऽग्र॒म्पर्या॑य॒न्यस्यै॒वव्ँवि॒दुष॑ आग्रय॒णाग्रा॒ ग्रहा॑ गृ॒ह्यन्तेऽग्र॑मे॒व स॑मा॒नाना॒म्पर्ये॑ति

विश्वास-प्रस्तुतिः

दे॒वा वै यद् य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत ।
ते दे॒वा आ॑ग्रय॒णाग्रा॒न् ग्रहा॑नपश्यन् । तान॑गृह्णत ।
ततो॒ वै तेऽग्र॒म् पर्या॑यन् ।
यस्यै॒वव्ँ वि॒दुष॑ आग्रय॒णाग्रा॒ ग्रहा॑ गृ॒ह्यन्ते , ऽग्र॑मे॒व स॑मा॒नाना॒म् पर्ये॑ति ।

मूलम्

दे॒वा वै यद् य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत ।
ते दे॒वा आ॑ग्रय॒णाग्रा॒न् ग्रहा॑नपश्यन् । तान॑गृह्णत ।
ततो॒ वै तेऽग्र॒म् पर्या॑यन् ।
यस्यै॒वव्ँ वि॒दुष॑ आग्रय॒णाग्रा॒ ग्रहा॑ गृ॒ह्यन्ते , ऽग्र॑मे॒व स॑मा॒नाना॒म् पर्ये॑ति ।

पद-पाठः

दे॒वाः । वै । यत् । य॒ज्ञे । अकु॑र्वत । तत् । असु॑राः । अ॒कु॒र्व॒त॒ ।
ते । दे॒वाः । आ॒ग्र॒य॒णाग्रा॒नित्या॑ग्रय॒ण-अ॒ग्रा॒न् । ग्रहान्॑ । अ॒प॒श्य॒न् । तान् । अ॒गृ॒ह्ण॒त॒ ।
ततः॑ । वै । ते । अग्र॑म् । परीति॑ । आ॒य॒न् ।
यस्य॑ । ए॒वम् । वि॒दुषः॑ । आ॒ग्र॒य॒णाग्रा॒ इत्या॑ग्रय॒ण-अ॒ग्राः॒ । ग्रहाः॑ । गृ॒ह्यन्ते॑ । अग्र॑म् । ए॒व । स॒मा॒नाना॑म् । परीति॑ । ए॒ति॒ ।

भट्टभास्कर-टीका

1देवा वा इत्यादि ॥ असुरा द्यावापृथिव्यसुवः(?) ते देवा आग्रयाणाग्रान् आग्रयणप्रथमान् ग्रहान् अपश्यन् तांश्चागृह्णन् । ततस्ते अग्रं प्राप्ताः । यस्यैवमित्यादि । गतम् ॥

मूलम् (संयुक्तम्)

रु॒ग्णव॑त्य॒र्चा भ्रातृ॑व्यवतो गृह्णीया॒द्भ्रातृ॑व्यस्यै॒व रु॒क्त्वाऽग्रँ॑ समा॒नाना॒म्पर्ये॑ति॒

विश्वास-प्रस्तुतिः

रु॒ग्णव॑त्य॒र्चा भ्रातृ॑व्यवतो गृह्णीयात् ।
भ्रातृ॑व्यस्यै॒व रु॒क्त्वाऽग्रँ॑ समा॒नाना॒म् पर्ये॑ति ।

मूलम्

रु॒ग्णव॑त्य॒र्चा भ्रातृ॑व्यवतो गृह्णीयात् ।
भ्रातृ॑व्यस्यै॒व रु॒क्त्वाऽग्रँ॑ समा॒नाना॒म् पर्ये॑ति ।

पद-पाठः

रु॒ग्णव॒त्येति॑ रु॒ग्ण-व॒त्या॒ । ऋ॒चा । भ्रातृ॑व्यवत॒ इति॒ भ्रातृ॑व्य-व॒तः॒ । गृ॒ह्णी॒या॒त् ।
भ्रातृ॑व्यस्य । ए॒व । रु॒क्त्वा । अग्र॑म् । स॒मा॒नाना॑म् । परीति॑ । ए॒ति॒ ।

भट्टभास्कर-टीका

2रुग्णवत्येति ॥ ‘त्रिंशत्त्रयश्च’ इत्यनया । रोगो रुग्णं रुजिधात्वर्थः, ‘ओदितश्च’ इति निष्ठानत्वम् । भ्रातृव्यस्यैव । ‘रुजार्थानाम्’ इति षष्ठी ॥

मूलम् (संयुक्तम्)

ये दे॑वा दि॒व्येका॑दश॒ स्थेत्या॑ह [48]
ए॒ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैनँ॒ सर्वा॑भ्यो गृह्णात्ये॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्य॒ इत्या॑ह वैश्वदे॒वो ह्ये॑ष दे॒वत॑या॒

विश्वास-प्रस्तुतिः

“ये दे॑वा दि॒व्येका॑दश॒ स्थ” इत्या॑ह । [48]
ए॒ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैनँ॒ सर्वा॑भ्यो गृह्णाति ।
“ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्य॒” इत्या॑ह ।
वै॒श्व॒दे॒वो ह्ये॑ष दे॒वत॑या ।

पद-पाठः

ये । दे॒वाः॒ । दि॒वि । एका॑दश । स्थ । इति॑ । आ॒ह॒ । [48]
ए॒ताव॑तीः । वै । दे॒वताः॑ । ताभ्यः॑ । ए॒व । ए॒न॒म् । सर्वा॑भ्यः । गृ॒ह्णा॒ति॒ ।
ए॒षः । ते॒ । योनिः॑ । विश्वे॑भ्यः । त्वा॒ । दे॒वेभ्यः॑ । इति॑ । आ॒ह॒ । वै॒श्व॒दे॒व इति॑ वैश्व-दे॒वः । हि । ए॒षः । दे॒वत॑या ।

मूलम्

“ये दे॑वा दि॒व्येका॑दश॒ स्थ” इत्या॑ह । [48]
ए॒ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैनँ॒ सर्वा॑भ्यो गृह्णाति ।
“ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्य॒” इत्या॑ह ।
वै॒श्व॒दे॒वो ह्ये॑ष दे॒वत॑या ।

भट्टभास्कर-टीका

3ये देवा इति ग्रहणमन्त्रः ॥ एतावतीर्वा इत्यादि । गतम् ॥+++(सम्पादकटिप्पनी - विस्तृतं व्याख्यानमन्यत्र मृग्यम् ।)+++

मूलम् (संयुक्तम्)

वाग्वै दे॒वेभ्योऽपा॑क्रामद्य॒ज्ञायाऽति॑ष्ठमाना॒ ते दे॒वा वा॒च्यप॑क्रान्तायान्तू॒ष्णीङ्ग्रहा॑नगृह्णत॒ साऽम॑न्यत॒ वाग॒न्तर्य॑न्ति॒ वै मेति॒ साग्र॑य॒णम्प्रत्याग॑च्छ॒त्तदा॑ग्रय॒णस्या॑ग्रयण॒त्वम् [49]
तस्मा॑दाग्रय॒णे वाग्वि सृ॑ज्यते॒ यत्तू॒ष्णीम्पूर्वे॒ ग्रहा॑ गृ॒ह्यन्ते॒ यथा॑ त्सा॒रीय॑ति म॒ आख॒ इय॑ति॒ नाप॑ रात्स्या॒मीत्यु॑पावसृ॒जत्ये॒वमे॒व तद॑ध्व॒र्युरा॑ग्रय॒णङ्गृ॑ही॒त्वा य॒ज्ञमा॒रभ्य॒ वाचव्ँ॒वि सृ॑जते॒

विश्वास-प्रस्तुतिः

वाग्वै दे॒वेभ्योऽपा॑क्रामद् य॒ज्ञायाऽति॑ष्ठमाना॒ ते दे॒वा वा॒च्यप॑क्रान्तायान् तू॒ष्णीङ् ग्रहा॑नगृह्णत॒ ।
साऽम॑न्यत॒ - “वाग॒न्तर्य॑न्ति॒ वै मा॑”+ इति॑ ।
साऽऽग्र॑य॒णम् प्रत्याग॑च्छत् ।
तदा॑ग्रय॒णस्या॑ग्रयण॒त्वम् ।[49]
तस्मा॑दाग्रय॒णे वाग्वि सृ॑ज्यते । यत् तू॒ष्णीम् पूर्वे॒ ग्रहा॑ गृ॒ह्यन्ते॒ यथा॑ त्सा॒री ।
इय॑ति म॒ आख॒ इय॑ति॒ नाप॑ रात्स्या॒मीत्यु॑पावसृ॒जत् ।
ए॒वमे॒व तद॑ध्व॒र्युर् आ॑ग्रय॒णङ् गृ॑ही॒त्वा य॒ज्ञमा॒रभ्य॒ वाचव्ँ॒ वि सृ॑जते ।

मूलम्

वाग्वै दे॒वेभ्योऽपा॑क्रामद् य॒ज्ञायाऽति॑ष्ठमाना॒ ते दे॒वा वा॒च्यप॑क्रान्तायान् तू॒ष्णीङ् ग्रहा॑नगृह्णत॒ ।
साऽम॑न्यत॒ - “वाग॒न्तर्य॑न्ति॒ वै मा॑”+ इति॑ ।
साऽऽग्र॑य॒णम् प्रत्याग॑च्छत् ।
तदा॑ग्रय॒णस्या॑ग्रयण॒त्वम् ।[49]
तस्मा॑दाग्रय॒णे वाग्वि सृ॑ज्यते । यत् तू॒ष्णीम् पूर्वे॒ ग्रहा॑ गृ॒ह्यन्ते॒ यथा॑ त्सा॒री ।
इय॑ति म॒ आख॒ इय॑ति॒ नाप॑ रात्स्या॒मीत्यु॑पावसृ॒जत् ।
ए॒वमे॒व तद॑ध्व॒र्युर् आ॑ग्रय॒णङ् गृ॑ही॒त्वा य॒ज्ञमा॒रभ्य॒ वाचव्ँ॒ वि सृ॑जते ।

पद-पाठः

वाक् । वै । दे॒वेभ्यः॑ । अपेति॑ । अ॒क्रा॒म॒त् । य॒ज्ञाय॑ । अति॑ष्ठमाना । ते । दे॒वाः । वा॒चि । अप॑क्रान्ताया॒मित्यप॑-क्रा॒न्ता॒या॒म् । तू॒ष्णीम् । ग्रहान्॑ । अ॒गृ॒ह्ण॒त॒ । सा । अ॒म॒न्य॒त॒ । वाक् । अ॒न्तः । य॒न्ति॒ । वै । मा॒ । इति॑ । सा । आ॒ग्र॒य॒णम् । प्रति॑ । एति॑ । अ॒ग॒च्छ॒त् ।
तत् । आ॒ग्र॒य॒णस्य॑ । आ॒ग्र॒य॒ण॒त्वमित्या॑ग्रयण-त्वम् । [49]
तस्मा॑त् । आ॒ग्र॒य॒णे । वाक् । वीति॑ । सृ॒ज्य॒ते॒ ।
यत् । तू॒ष्णीम् । पूर्वे॑ । ग्रहाः॑ । गृ॒ह्यन्ते॑ । यथा॑ । त्सा॒री । इय॑ति । मे॒ । आखः॑ । इय॑ति । न । अपेति॑ । रा॒त्स्या॒मि॒ । इति॑ । उ॒पा॒व॒सृ॒जतीत्यु॑प-अ॒व॒सृ॒जति॑ ।
ए॒वम् । ए॒व । तत् । अ॒ध्व॒र्युः । आ॒ग्र॒य॒णम् । गृ॒ही॒त्वा । य॒ज्ञम् । आ॒रभ्येत्या॑-रभ्य॑ । वाच॑म् । वीति॑ । सृ॒ज॒ते॒ ।

भट्टभास्कर-टीका

4वाग्वा इत्यादि ॥ यज्ञार्थमात्मानमप्रकाशयन्ती अप्रकाशनार्थं देवेभ्योपाक्रामत् । अथ देवा वाच्यपक्रान्तायामपगतायां वागभावात्तूष्णीमुपांशु ग्रहान् अगृह्णत मन्त्राम्नानसामर्थ्यात् सवनीय लक्षणवागभावोपि विवक्षितः विकल्पस्यावार्यत्वात् । अथ सा वागमन्यत - अन्तर्यन्ति अन्तरिता त्यक्तां कुर्वन्ति मां देवा इति । अथ तथा मन्यमाना वागाग्रयणं प्रत्यागच्छत् । तस्मादद्यत्वेऽपि आग्रयणग्रहाणानन्तरं वाग्विसृज्यते यस्मात्पूर्वे ग्रहास्तूष्णीं गृह्यन्ते तदानीं वाग्विसृज्यते एतावन्तं कालं धारयित्वा अस्मिन् काले यद्विसर्जनं वाचः तत्र लौकिकं निदर्शनं दर्शयति - यथेत्यादि । त्सरी छद्मगतिः व्याधः । त्सर छद्मगतौ, ताच्छीलिको णिनिः स यथा इयति एतावत्यवकाशे मे मम आखः आखननीयो लक्ष्यस्थितिः। ‘डो वक्तव्यः’ इति डः । तस्मादवकाशे न अपरात्स्यामि नापराधी स्यां विसर्जनविषयाविषयविवेके अवधारणवागेवमुपावमृजति विमुञ्चति । एवमेव खलु तत् । किम्? यदाग्रयणं गृहीत्वा यज्ञमारभ्य प्रस्तुत्य वाचं विसृजते वाचो धारणविसर्जनविषयविवेकवानेतावन्तं कालं धारयित्वा इदानीं विसृजतीति । केचिदाहुः - असारी आखुग्राही आखुराखुरिति ॥

मूलम् (संयुक्तम्)

त्रिर्हिङ्क॑रोत्युद्गा॒तॄने॒व तद्वृ॑णीते प्र॒जाप॑ति॒र्वा ए॒ष यदा॑ग्रय॒णो यदा॑ग्रय॒णङ्गृ॑ही॒त्वा हि॑ङ्क॒रोति॑ प्र॒जाप॑तिरे॒व [50]
तत्प्र॒जा अ॒भि जि॑घ्रति॒ तस्मा॑द्व॒त्सञ्जा॒तङ्गौर॒भि जि॑घ्रत्य्

विश्वास-प्रस्तुतिः

त्रिर् हिङ्क॑रोत्य् उद्गा॒तॄने॒व तद्वृ॑णीते ।
प्र॒जाप॑ति॒र्वा ए॒ष यदा॑ग्रय॒णः ।
यदा॑ग्रय॒णङ् गृ॑ही॒त्वा हि॑ङ्क॒रोति॑ प्र॒जाप॑तिरे॒व तत्प्र॒जा अ॒भि जि॑घ्रति । [50]
तस्मा॑द् व॒त्सञ् जा॒तङ् गौर् अ॒भि जि॑घ्रति ।

मूलम्

त्रिर् हिङ्क॑रोत्य् उद्गा॒तॄने॒व तद्वृ॑णीते ।
प्र॒जाप॑ति॒र्वा ए॒ष यदा॑ग्रय॒णः ।
यदा॑ग्रय॒णङ् गृ॑ही॒त्वा हि॑ङ्क॒रोति॑ प्र॒जाप॑तिरे॒व तत्प्र॒जा अ॒भि जि॑घ्रति । [50]
तस्मा॑द् व॒त्सञ् जा॒तङ् गौर् अ॒भि जि॑घ्रति ।

पद-पाठः

त्रिः । हिम् । क॒रो॒ति॒ । उ॒द्गा॒तृनित्यु॑त्-गा॒तृन् । ए॒व । तत् । वृ॒णी॒ते॒ ।
प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । वै । ए॒षः । यत् । आ॒ग्र॒य॒णः । यत् । आ॒ग्र॒य॒णम् । गृ॒ही॒त्वा । हि॒ङ्क॒रोतीति॑ हिम्-क॒रोति॑ । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । ए॒व । [50]
तत् । प्र॒जा इति॑ प्र-जाः । अ॒भीति॑ । जि॒घ्र॒ति॒ ।
तस्मा॑त् । व॒त्सम् । जा॒तम् । गौः । अ॒भीति॑ । जि॒घ्र॒ति॒ ।

भट्टभास्कर-टीका

5त्रिरित्यादि ॥ हिंकारस्य कनीयस्त्वात् उद्गात्रा सारस्वती कृता भवति । प्रजापतिरित्यादि । अभिघ्राणं मूर्ध्नि घ्राणम् । प्रजापतिर्भूत्वा गौरिव वत्सं मूर्ध्नि प्रजा जिघ्रति । तस्मादित्यादि । गतम् ॥

मूलम् (संयुक्तम्)

आ॒त्मा वा ए॒ष य॒ज्ञस्य॒ यदा॑ग्रय॒णस्सव॑नेसवने॒ऽभि गृ॑ह्णात्या॒त्मन्ने॒व य॒ज्ञँ सन्त॑नोत्यु॒परि॑ष्टा॒दा न॑यति॒ रेत॑ ए॒व तद्द॑धात्य॒धस्ता॒दुप॑ गृह्णाति॒ प्र ज॑नयत्ये॒व तद्

विश्वास-प्रस्तुतिः

आ॒त्मा वा ए॒ष य॒ज्ञस्य॒ यदा॑ग्रय॒णस्सव॑नेसवने॒ऽभि गृ॑ह्णाति ।
आ॒त्मन्ने॒व य॒ज्ञँ सन्त॑नोति ।
उ॒परि॑ष्टा॒दा न॑यति॒ रेत॑ ए॒व तद् द॑धाति ।
अ॒धस्ता॒दुप॑ गृह्णाति॒ , प्र ज॑नयत्ये॒व तत् ।

मूलम्

आ॒त्मा वा ए॒ष य॒ज्ञस्य॒ यदा॑ग्रय॒णस्सव॑नेसवने॒ऽभि गृ॑ह्णाति ।
आ॒त्मन्ने॒व य॒ज्ञँ सन्त॑नोति ।
उ॒परि॑ष्टा॒दा न॑यति॒ रेत॑ ए॒व तद् द॑धाति ।
अ॒धस्ता॒दुप॑ गृह्णाति॒ , प्र ज॑नयत्ये॒व तत् ।

पद-पाठः

आ॒त्मा । वै । ए॒षः । य॒ज्ञस्य॑ । यत् । आ॒ग्र॒य॒णः । सव॑नेसवन॒ इति॒ सव॑ने-स॒व॒ने॒ । अ॒भीति॑ । गृ॒ह्णा॒ति॒ । आ॒त्मन् । ए॒व । य॒ज्ञम् । समिति॑ । त॒नो॒ति॒ ।
उ॒परि॑ष्टात् । एति॑ । न॒य॒ति॒ । रेतः॑ । ए॒व । तत् । द॒धा॒ति॒ ।
अ॒धस्ता॑त् । उपेति॑ । गृ॒ह्णा॒ति॒ । प्रेति॑ । ज॒न॒य॒ति॒ । ए॒व । तत् ।

भट्टभास्कर-टीका

6आत्मा वा इत्यादि ॥ आत्मनि यज्ञमविच्छिन्नं करोति । सवनत्रयव्याप्त्या आत्मवत्तया यज्ञमविच्छिन्नं करोति । उपरिष्टादित्यादि । दशापवित्रस्योपरि सोममानयति तेन रेत एव दधाति रेत एव सिक्तं भवति । अधस्ताद्दशापवित्रस्य स्रवन्तीं धारामुपगृह्णाति सामीप्येन गृह्णाति तेन निहितं रेतः प्रजनयति प्रजात्वेन परिणतं करोति ॥

मूलम् (संयुक्तम्)

ब्र॑ह्मवा॒दिनो॑ वदन्ति॒ कस्मा॑त्स॒त्याद्गा॑य॒त्री कनि॑ष्ठा॒ छन्द॑साँ स॒ती सर्वा॑णि॒ सव॑नानि वह॒तीत्ये॒ष वै गा॑यत्रि॒यै व॒त्सो यदा॑ग्रय॒णस्तमे॒व तद॑भिनि॒वर्तँ॒ सर्वा॑णि॒ सव॑नानि वहति॒ तस्मा॑द्व॒त्सम॒पाकृ॑त॒ङ्गौर॒भि नि व॑र्तते ॥ [51]

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -
“कस्मा॑त्स॒त्याद् गा॑य॒त्री कनि॑ष्ठा॒ छन्द॑साँ स॒ती सर्वा॑णि॒ सव॑नानि वह॒ति” इति॑ ।
ए॒ष वै गा॑यत्रि॒यै व॒त्सो यदा॑ग्रय॒णस् , तमे॒व तद॑भिनि॒वर्तँ॒ सर्वा॑णि॒ सव॑नानि वहति ।
तस्मा॑द् व॒त्सम् अ॒पाकृ॑त॒ङ् गौर् अ॒भि नि व॑र्तते ॥ [51]

मूलम्

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -
“कस्मा॑त्स॒त्याद् गा॑य॒त्री कनि॑ष्ठा॒ छन्द॑साँ स॒ती सर्वा॑णि॒ सव॑नानि वह॒ति” इति॑ ।
ए॒ष वै गा॑यत्रि॒यै व॒त्सो यदा॑ग्रय॒णस् , तमे॒व तद॑भिनि॒वर्तँ॒ सर्वा॑णि॒ सव॑नानि वहति ।
तस्मा॑द् व॒त्सम् अ॒पाकृ॑त॒ङ् गौर् अ॒भि नि व॑र्तते ॥ [51]

पद-पाठः

ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ ।

कस्मा॑त् । स॒त्यात् । गा॒य॒त्री । कनि॑ष्ठा । छन्द॑साम् । स॒ती । सर्वा॑णि । सव॑नानि । व॒ह॒ति॒ । इति॑ ।

ए॒षः । वै । गा॒य॒त्रि॒यै । व॒त्सः । यत् । आ॒ग्र॒य॒णः । तम् । ए॒व । तत् । अ॒भि॒नि॒वर्त॒मित्य॑भि-नि॒वर्त॑म् । सर्वा॑णि । सव॑नानि । व॒ह॒ति॒ ।

तस्मा॑त् । व॒त्सम् । अ॒पाकृ॑त॒मित्य॑प-आकृ॑तम् । गौः । अ॒भि । नीति॑ । व॒र्त॒ते॒ ॥ [51]

भट्टभास्कर-टीका

7ब्रह्मवादिन इत्यादि ॥ कनिष्ठा अल्पतमा सर्वाणि सवनानि प्राप्य वर्तते । उत्तरं - एष इत्यादि । आग्रयण एव गायत्र्या वत्सस्थानीयः । तस्मात्तमाग्रयणमेवाभिनिवृत्तं अभिनिर्वृत्याभिनिर्वृत्य आभिमुख्येन निवृत्तमाना सर्वेषु व्याप्रियते तस्य सर्वेषु सवनेषु गृह्यमाणत्वात् । वत्समभिनिवर्तमानेव आयाति । तदेवाह - तस्मादिति । तस्मादद्यत्वेऽपि वत्समपाकृतं मातृसकाशादपनीतं सा गौरभिनिवर्तते स यत्रयत्र नीयते तत्रतत्राभिनिवर्तते आभिमुख्येन वर्तते ॥

इति श्रीभट्टभास्करमिश्रविरचिते ज्ञानयज्ञाख्ये यजुर्वेदभाष्ये षष्ठे काण्डे चतुर्थे प्रश्ने एकादशोनुवाकः ॥

प्रश्नश्च समाप्तः ॥