१०

मूलम् (संयुक्तम्)

बृह॒स्पति॑र्दे॒वाना॑म्पु॒रोहि॑त॒ आसी॒च्छण्डा॒मर्का॒वसु॑राणा॒म्ब्रह्म॑ण्वन्तो दे॒वा आस॒न्ब्रह्म॑ण्व॒न्तोऽसु॑रा॒स्ते३॒॑ऽन्यो॑न्यन्नाश॑क्नुवन्न॒भिभ॑वितु॒न्ते दे॒वाश्शण्डा॒मर्का॒वुपा॑मन्त्रयन्त॒ ताव॑ब्रूताव्ँ॒वरव्ँ॑वृणावहै॒ ग्रहा॑वे॒व ना॒वत्रापि॑ गृह्येता॒मिति॒ ताभ्या॑मे॒तौ शु॒क्राम॒न्थिना॑वगृह्ण॒न्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यस्यै॒वव्ँवि॒दुष॑श्शु॒क्राम॒न्थिनौ॑ गृ॒ह्येते॒ भव॑त्या॒त्मना॒ परा॑ [42]
अ॒स्य॒ भ्रातृ॑व्यो भवति॒

विश्वास-प्रस्तुतिः

बृह॒स्पति॑र् दे॒वाना॑म् पु॒रोहि॑त॒ आसी॒च् छण्डा॒मर्का॒वसु॑राणाम् ।
ब्रह्म॑ण्वन्तो दे॒वा आस॒न् , ब्रह्म॑ण्व॒न्तोऽसु॑राः ।
ते३॒॑ऽन्यो॑न्यन् नाश॑क्नुवन्न् अ॒भिभ॑वितुम् ।
ते दे॒वाश् शण्डा॒मर्का॒व् उपा॑मन्त्रयन्त ।
ताव॑ब्रूताव्ँ॒ - “वरव्ँ॑वृणावहै॒ , ग्रहा॑वे॒व ना॒वत्रापि॑ गृह्येता॒म्” इति॑ ।
ताभ्या॑म् ए॒तौ शु॒क्राम॒न्थिना॑वगृह्णन् ।
ततो॑ दे॒वा अभ॑व॒न् परासु॑राः ।
यस्यै॒वव्ँ वि॒दुष॑श् शु॒क्राम॒न्थिनौ॑ गृ॒ह्येते॒ , भव॑त्या॒त्मना॑ ।
परा॑ऽस्य॒ भ्रातृ॑व्यो भवति । [42]

मूलम्

बृह॒स्पति॑र् दे॒वाना॑म् पु॒रोहि॑त॒ आसी॒च् छण्डा॒मर्का॒वसु॑राणाम् ।
ब्रह्म॑ण्वन्तो दे॒वा आस॒न् , ब्रह्म॑ण्व॒न्तोऽसु॑राः ।
ते३॒॑ऽन्यो॑न्यन् नाश॑क्नुवन्न् अ॒भिभ॑वितुम् ।
ते दे॒वाश् शण्डा॒मर्का॒व् उपा॑मन्त्रयन्त ।
ताव॑ब्रूताव्ँ॒ - “वरव्ँ॑वृणावहै॒ , ग्रहा॑वे॒व ना॒वत्रापि॑ गृह्येता॒म्” इति॑ ।
ताभ्या॑म् ए॒तौ शु॒क्राम॒न्थिना॑वगृह्णन् ।
ततो॑ दे॒वा अभ॑व॒न् परासु॑राः ।
यस्यै॒वव्ँ वि॒दुष॑श् शु॒क्राम॒न्थिनौ॑ गृ॒ह्येते॒ , भव॑त्या॒त्मना॑ ।
परा॑ऽस्य॒ भ्रातृ॑व्यो भवति । [42]

पद-पाठः

बृह॒स्पतिः॑ । दे॒वाना॑म् । पु॒रोहि॑त॒ इति॑ पु॒रः-हि॒तः॒ । आसी॑त् ।
शण्डा॒मर्का॒विति॒ शण्डा॑-मर्कौ॑ । असु॑राणाम् ।
ब्रह्म॑ण्वन्त॒ इति॒ ब्रह्मण्ण्॑-व॒न्तः॒ । दे॒वाः । आस॑न् । ब्रह्म॑ण्वन्त॒ इति॒ ब्रह्मण्ण्॑-व॒न्तः॒ । असु॑राः । ते । अ॒न्यः । अ॒न्यम् । न । अ॒श॒क्नु॒व॒न् । अ॒भिभ॑वितु॒मित्य॒भि-भ॒वि॒तु॒म् ।
ते । दे॒वाः । शण्डा॒मर्का॒विति॒ शण्डा॑-मर्कौ॑ । उपेति॑ । अ॒म॒न्त्र॒य॒न्त॒ ।
तौ । अ॒ब्रू॒ता॒म् ।
वर॑म् । वृ॒णा॒व॒है॒ । ग्रहौ॑ । ए॒व । नौ॒ । अत्र॑ । अपीति॑ । गृ॒ह्ये॒ता॒म् । इति॑ ।
ताभ्या॑म् । ए॒तौ । शु॒क्राम॒न्थिना॒विति॑ शु॒क्रा-म॒न्थिनौ॑ । अ॒गृ॒ह्ण॒न् ।
ततः॑ । दे॒वाः । अभ॑वन् । परेति॑ । असु॑राः ।
यस्य॑ । ए॒वम् । वि॒दुषः॑ । शु॒क्राम॒न्थिना॒विति॑ शु॒क्रा-म॒न्थिनौ॑ । गृ॒ह्येते॒ इति॑ । भव॑ति । आ॒त्मना॑ ।

परेति॑ । [42] अ॒स्य॒ । भ्रातृ॑व्यः । भ॒व॒ति॒ ।

भट्टभास्कर-टीका

1बृहस्पतिरित्यादि ॥ पुरोहितमहिम्ना उभयेऽपि देवा असुराश्च ब्रह्मण्वन्तः ब्रह्मवर्चसवन्तः मन्त्रवन्तो वा अभवत् । ततोन्योन्यमभिभवितुं नाशक्नुवन् । उपामन्त्रणं रहस्युपच्छन्दनं उपजापः चित्तभेदनम् । तावित्यादि । गतम् । ताभ्यां शुक्रामन्थिनौ ग्रहौ अगृह्णन् । गतमन्यत् ॥

मूलम् (संयुक्तम्)

तौ दे॒वा अ॑प॒नुद्या॒त्मन॒ इन्द्रा॑याजुहवु॒रप॑नुत्तौ॒ शण्डा॒मर्कौ॑ स॒हामुनेति॑ ब्रूया॒द्यन्द्वि॒ष्याद्यमे॒व द्वेष्टि॒ तेनै॑नौ स॒हाप॑ नुदते॒

विश्वास-प्रस्तुतिः

तौ दे॒वा अ॑प॒नुद्या॒त्मन॒ इन्द्रा॑याजुहवुः ।
अप॑नुत्तौ॒ शण्डा॒मर्कौ॑ स॒हामुनेति॑ ब्रूया॒द् यन्द्वि॒ष्यात् ।
यमे॒व द्वेष्टि॒ तेनै॑नौ स॒हाप॑ नुदते ।

मूलम्

तौ दे॒वा अ॑प॒नुद्या॒त्मन॒ इन्द्रा॑याजुहवुः ।
अप॑नुत्तौ॒ शण्डा॒मर्कौ॑ स॒हामुनेति॑ ब्रूया॒द् यन्द्वि॒ष्यात् ।
यमे॒व द्वेष्टि॒ तेनै॑नौ स॒हाप॑ नुदते ।

पद-पाठः

तौ । दे॒वाः । अ॒प॒नुद्येत्य॑प-नुद्य॑ । आ॒त्मने॑ । इन्द्रा॑य । अ॒जु॒ह॒वुः॒ । अप॑नुत्ता॒वित्यप॑-नु॒त्तौ॒ । शण्डा॒मर्का॒विति॒ शण्डा॑-मर्कौ॑ । स॒ह । अ॒मुना॑ । इति॑ । ब्रू॒या॒त् । यम् । द्वि॒ष्यात् ।
यम् । ए॒व । द्वेष्टि॑ । तेन॑ । ए॒नौ॒ । स॒ह । अपेति॑ । नु॒द॒ते॒ ।

भट्टभास्कर-टीका

2तौ देवा इत्यादि ॥ ग्रहग्रहणमात्रेण तौ तोषयित्वा असुरांश्च ताभ्यां जित्वा होमकाले तावपनुद्य त्यक्त्वा आत्मने सर्वात्मभूतायेन्द्राय तौ ग्रहौ देवा अजुहवुः । यं द्विष्यादित्यादि । यं द्विष्यात् तं द्वेष्यं ‘अपनुत्तौ शण्डामर्कौ सहामुना’ इत्यत्रामुनेतिपदस्थाने गृहीतनामानं निर्दिशेदित्यर्थः । एवं कृते किं कृतं भवतीत्याह - यमेवेत्यादि । तेन द्वेष्येण सहैव एनौ शण्डामर्कौ अपनुदते ॥

मूलम् (संयुक्तम्)

स प्र॑थ॒मस्सङ्कृ॑तिर्वि॒श्वक॒र्मेत्ये॒वैना॑वा॒त्मन॒ इन्द्रा॑याजुहवु॒रिन्द्रो॒ ह्ये॑तानि॑ रू॒पाणि॒ करि॑क्र॒दच॑रद्

विश्वास-प्रस्तुतिः

स प्र॑थ॒मस् सङ्कृ॑तिर्वि॒श्वक॒र्मेत्ये॒वैना॑वा॒त्मन॒ इन्द्रा॑याजुहवुः ।
इन्द्रो॒ ह्ये॑तानि॑ रू॒पाणि॒ करि॑क्र॒दच॑रत् ।

मूलम्

स प्र॑थ॒मस् सङ्कृ॑तिर्वि॒श्वक॒र्मेत्ये॒वैना॑वा॒त्मन॒ इन्द्रा॑याजुहवुः ।
इन्द्रो॒ ह्ये॑तानि॑ रू॒पाणि॒ करि॑क्र॒दच॑रत् ।

पद-पाठः

सः । प्र॒थ॒मः । सङ्कृ॑ति॒रिति॒ सम्-कृ॒तिः॒ । वि॒श्वक॒र्मेति॑ वि॒श्व-क॒र्मा॒ । इति॑ । ए॒व । ए॒नौ॒ । आ॒त्मने॑ । इन्द्रा॑य । अ॒जु॒ह॒वुः॒ ।
इन्द्रः॑ । हि । ए॒तानि॑ । रू॒पाणि॑ । करि॑क्रत् । अच॑रत् ।

भट्टभास्कर-टीका

3स प्रथम इत्यादि ॥ अनेन मन्त्रेण हूयमानत्वादेवैतौ ग्रहौ इन्द्रायात्मने भवितुमर्हतः । तत एव देवा अपीन्द्रायैवैतावजुहवुः । कोस्य मन्त्रस्य विशेष इति चेत् एतन्मन्त्रप्रतिपाद्यानि विश्वकर्मत्वादीनि रूपाणि करिक्रत् अत्यर्थं कुर्वन् इन्द्रो ह्यचरत् अवातिष्ठत् । ‘दाधर्ति’ इत्यादौ निपात्यते ॥

मूलम् (संयुक्तम्)

अ॒सौ वा आ॑दि॒त्यश्शु॒क्रश्च॒न्द्रमा॑ म॒न्थ्य॑पि॒गृह्य॒ प्राञ्चौ॒ निः [43]
क्रा॒म॒त॒स्तस्मा॒त्प्राञ्चौ॒ यन्तौ॒ न प॑श्यन्ति प्र॒त्यञ्चा॑वा॒वृत्य॑ जुहुत॒स्तस्मा॑त्प्र॒त्यञ्चौ॒ यन्तौ॑ पश्यन्ति॒

विश्वास-प्रस्तुतिः

अ॒सौ वा आ॑दि॒त्यश् शु॒क्रश् च॒न्द्रमा॑ म॒न्थी ।
अ॒पि॒गृह्य॒ प्राञ्चौ॒ निष्क्रा॑मतः । [43]
तस्मा॒त् प्राञ्चौ॒ यन्तौ॒ न प॑श्यन्ति ।
प्र॒त्यञ्चा॑वा॒वृत्य॑ जुहुतः ।
तस्मा॑त् प्र॒त्यञ्चौ॒ यन्तौ॑ पश्यन्ति ।

मूलम्

अ॒सौ वा आ॑दि॒त्यश् शु॒क्रश् च॒न्द्रमा॑ म॒न्थी ।
अ॒पि॒गृह्य॒ प्राञ्चौ॒ निष्क्रा॑मतः । [43]
तस्मा॒त् प्राञ्चौ॒ यन्तौ॒ न प॑श्यन्ति ।
प्र॒त्यञ्चा॑वा॒वृत्य॑ जुहुतः ।
तस्मा॑त् प्र॒त्यञ्चौ॒ यन्तौ॑ पश्यन्ति ।

पद-पाठः

अ॒सौ । वै । आ॒दि॒त्यः । शु॒क्रः । च॒न्द्रमाः॑ । म॒न्थी ।
अ॒पि॒गृह्येत्य॑पि-गृह्य॑ । प्राञ्चौ॑ । निरिति॑ । [43] क्रा॒म॒तः॒ ।
तस्मा॑त् । प्राञ्चौ॑ । यन्तौ॑ । न । प॒श्य॒न्ति॒ । प्र॒त्यञ्चौ॑ । आ॒वृत्येत्या॑-वृत्य॑ । जु॒हु॒तः॒ ।
तस्मा॑त् । प्र॒त्यञ्चौ॑ । यन्तौ॑ । प॒श्य॒न्ति॒ ।

भट्टभास्कर-टीका

4असौ वा इत्यादि ॥ अपिगृह्यापिधाय ग्रहौ प्राञ्चौ अध्वर्यु निष्क्रामतः । तस्मात्प्राश्चौ यन्तौ प्राङ्मुखौ गच्छन्तौ अस्तं गत्वा उत्तरगोळवर्तिनौ यावदुदयं प्राचीनगमनौ सूर्याचन्द्रमसौ केचिदपि न पश्यन्ति । अथ प्रत्यञ्चौ प्रत्यङ्मुखावावृत्य व्यावृत्तौ भूत्वा जुहुतः होमेन ग्रहौ दर्शयतः । तस्मात्प्रत्यञ्चौ प्रतीचीं यन्तौ उदेत्य दक्षिणगोळवर्तिनौ यावदस्तमयं प्रतीचीनगमनौ तौ पश्यन्ति ॥

मूलम् (संयुक्तम्)

चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यच्छु॒क्राम॒न्थिनौ॒ नासि॑कोत्तरवे॒दिर॒भितᳶ॑ परि॒क्रम्य॑ जुहुत॒स्तस्मा॑द॒भितो॒ नासि॑का॒ञ्चक्षु॑षी॒ तस्मा॒न्नासि॑कया॒ चक्षु॑षी॒ विधृ॑ते स॒र्वत॒ᳶ परि॑ क्रामतो॒ रक्ष॑सा॒मप॑हत्यै

विश्वास-प्रस्तुतिः

चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ , यच् छु॒क्राम॒न्थिनौ॒ नासि॑कोत्तरवे॒दिः ।
अ॒भितᳶ॑ परि॒क्रम्य॑ जुहुतः ।
तस्मा॑द् अ॒भितो॒ नासि॑का॒ञ् चक्षु॑षी ।
तस्मा॒न् नासि॑कया॒ चक्षु॑षी॒ विधृ॑ते ।
स॒र्वत॒ᳶ परि॑ क्रामतो॒ रक्ष॑सा॒मप॑हत्यै ।

मूलम्

चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ , यच् छु॒क्राम॒न्थिनौ॒ नासि॑कोत्तरवे॒दिः ।
अ॒भितᳶ॑ परि॒क्रम्य॑ जुहुतः ।
तस्मा॑द् अ॒भितो॒ नासि॑का॒ञ् चक्षु॑षी ।
तस्मा॒न् नासि॑कया॒ चक्षु॑षी॒ विधृ॑ते ।
स॒र्वत॒ᳶ परि॑ क्रामतो॒ रक्ष॑सा॒मप॑हत्यै ।

पद-पाठः

चक्षु॑षी॒ इति॑ । वै । ए॒ते इति॑ । य॒ज्ञस्य॑ । यत् । शु॒क्राम॒न्थिना॒विति॑ शु॒क्रा-म॒न्थिनौ॑ । नासि॑का । उ॒त्त॒र॒वे॒दिरित्यु॑त्तर-वे॒दिः ।
अ॒भितः॑ । प॒रि॒क्रम्येति॑ परि-क्रम्य॑ । जु॒हु॒तः॒ ।
तस्मा॑त् । अ॒भितः॑ । नासि॑काम् । चक्षु॑षी॒ इति॑ ।
तस्मा॑त् । नासि॑कया । चक्षु॑षी॒ इति॑ । विधृ॑ते॒ इति॒ वि-धृ॒ते॒ ।
स॒र्वतः॑ । परीति॑ । क्रा॒म॒तः॒ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑-ह॒त्यै॒ ।

भट्टभास्कर-टीका

5चक्षुषी वा इत्यादि ॥ अभितः उभयतः परिक्रम्य परितो गत्वा जुहुतः । तस्मात् नासिकामभितश्चक्षुषी उभयतः स्थिते । ‘अभितः परितः’ इति द्वितीया । तस्मादेव हेतोर्नासिकया उत्तरवेदिस्थानीयया चक्षुषी शुक्रामन्थिस्थानीये विधृते । अथ सर्वतः परिक्रमणं रक्षसामपहत्यै भवति ॥

मूलम् (संयुक्तम्)

दे॒वा वै याᳶ प्राची॒राहु॑ती॒रजु॑हवु॒र्ये पु॒रस्ता॒दसु॑रा॒ आस॒न्ताँ स्ताभि॒ᳶ प्र [44]
अ॒नु॒द॒न्त॒ याᳶ प्र॒तीची॒र्ये प॒श्चादसु॑रा॒ आस॒न्ताँस्ताभि॒रपा॑नुदन्त॒ प्राची॑र॒न्या आहु॑तयो हू॒यन्ते॑ प्र॒त्यञ्चौ॑ शु॒क्राम॒न्थिनौ॑ प॒श्चाच्चै॒व पु॒रस्ता॑च्च॒ यज॑मानो॒ भ्रातृ॑व्या॒न्प्र णु॑दते ।
तस्मा॒त्परा॑चीᳶ प्र॒जाᳶ प्र वी॑यन्ते प्र॒तीची॑र्जायन्ते ।

विश्वास-प्रस्तुतिः

दे॒वा वै याᳶ प्राची॒राहु॑ती॒रजु॑हवु॒र् ये पु॒रस्ता॒दसु॑रा॒ आस॒न् , ताँ स्ताभि॒ᳶ प्राणु॑दन्त । [44]
याᳶ प्र॒तीची॒र्ये प॒श्चादसु॑रा॒ आस॒न् , ताँस् ताभि॒रपा॑नुदन्त ।
प्राची॑र॒न्या आहु॑तयो हू॒यन्ते॑ प्र॒त्यञ्चौ॑ शु॒क्राम॒न्थिनौ॑ प॒श्चाच्चै॒व पु॒रस्ता॑च्च॒ यज॑मानो॒ भ्रातृ॑व्या॒न्प्र णु॑दते ।
तस्मा॒त्परा॑चीᳶ प्र॒जाᳶ प्र वी॑यन्ते प्र॒तीची॑र्जायन्ते ।

मूलम्

दे॒वा वै याᳶ प्राची॒राहु॑ती॒रजु॑हवु॒र् ये पु॒रस्ता॒दसु॑रा॒ आस॒न् , ताँ स्ताभि॒ᳶ प्राणु॑दन्त । [44]
याᳶ प्र॒तीची॒र्ये प॒श्चादसु॑रा॒ आस॒न् , ताँस् ताभि॒रपा॑नुदन्त ।
प्राची॑र॒न्या आहु॑तयो हू॒यन्ते॑ प्र॒त्यञ्चौ॑ शु॒क्राम॒न्थिनौ॑

प॒श्चाच्चै॒व पु॒रस्ता॑च्च॒ यज॑मानो॒ भ्रातृ॑व्या॒न्प्र णु॑दते ।

तस्मा॒त्परा॑चीᳶ प्र॒जाᳶ प्र वी॑यन्ते प्र॒तीची॑र्जायन्ते ।

पद-पाठः

दे॒वाः । वै । याः । प्राचीः॑ । आहु॑ती॒रित्या-हु॒तीः॒ । अजु॑हवुः । ये । पु॒रस्ता॑त् । असु॑राः । आस॑न् । तान् । ताभिः॑ । प्रेति॑ । [44] अ॒नु॒द॒न्त॒ ।
याः । प्र॒तीचीः॑ । ये । प॒श्चात् । असु॑राः । आस॑न् । तान् । ताभिः॑ । अपेति॑ । अ॒नु॒द॒न्त॒ । प्राचीः॑ । अ॒न्याः । आहु॑तय॒ इत्या-हु॒त॒यः॒ । हू॒यन्ते॑ । प्र॒त्यञ्चौ॑ । शु॒क्राम॒न्थिना॒विति॑ शु॒क्रा-म॒न्थिनौ॑ ।

प॒श्चात् । च॒ । ए॒व । पु॒रस्ता॑त् । च॒ । यज॑मानः । भ्रातृ॑व्यान् । प्रेति॑ । नु॒द॒ते॒ ।
तस्मा॑त् । परा॑चीः । प्र॒जा इति॑ प्र-जाः । प्रेति॑ । वी॒य॒न्ते॒ । प्र॒तीचीः॑ । जा॒य॒न्ते॒ ।

भट्टभास्कर-टीका

6देवा वा इत्यादि ॥ प्राच्यः प्राङ्मुखेन होतव्याः । अग्रतो नोदः प्रणोदः । प्रत्यङ्मुखेन होतव्याः प्रतीच्यः । पृष्ठतो नोदोपनोदः । अन्यौ शुक्रामन्थिनौ प्रत्यञ्चौ हूयेते । तस्मादुभयदिगन्वयात् उभयत्र स्थितः भ्रातृव्यापनोदः । तस्मादित्यादि । सेक्तुः प्राङ्मुखो रेतस्सेकः ततः प्रतीचीनं निर्गच्छति ॥

मूलम् (संयुक्तम्)

शु॒क्राम॒न्थिनौ॒ वा अनु॑ प्र॒जाᳶ प्र जा॑यन्ते॒ऽत्त्रीश्चा॒द्या॑श्च सु॒वीराः॑ प्र॒जाᳶ प्र॑ज॒नय॒न्परी॑हि शु॒क्रश्शु॒क्रशो॑चिषा [45]
सु॒प्र॒जाᳶ प्र॒जाᳶ प्र॑ज॒नय॒न्परी॑हि म॒न्थी म॒न्थिशो॑चि॒षेत्या॑है॒ता वै सु॒वीरा॒ या अ॒त्त्रीरे॒तास्सु॑प्र॒जा या आ॒द्या॑ य ए॒वव्ँ वेदा॒त्त्र्य॑स्य प्र॒जा जा॑यते॒ नाद्या॑

विश्वास-प्रस्तुतिः

शु॒क्राम॒न्थिनौ॒ वा अनु॑ प्र॒जाᳶ प्र जा॑यन्ते॒ , ऽत्त्रीश्चा॒द्या॑श्च ।
सु॒वीराः॑ प्र॒जाᳶ प्र॑ज॒नय॒न् , परी॑हि शु॒क्रश्शु॒क्रशो॑चिषा ।[45]
सु॒प्र॒जाᳶ प्र॒जाᳶ प्र॑ज॒नय॒न् , परी॑हि म॒न्थी म॒न्थिशो॑चि॒षेत्या॑ह ।
ए॒ता वै सु॒वीरा॒ या अ॒त्त्रीः ।
ए॒तास्सु॑प्र॒जा या आ॒द्याः॑ ।
य ए॒वव्ँ वेदा॒त्त्र्य॑स्य प्र॒जा जा॑यते॒ नाऽऽद्या॑ ।

मूलम्

शु॒क्राम॒न्थिनौ॒ वा अनु॑ प्र॒जाᳶ प्र जा॑यन्ते॒ , ऽत्त्रीश्चा॒द्या॑श्च ।
सु॒वीराः॑ प्र॒जाᳶ प्र॑ज॒नय॒न् , परी॑हि शु॒क्रश्शु॒क्रशो॑चिषा ।[45]
सु॒प्र॒जाᳶ प्र॒जाᳶ प्र॑ज॒नय॒न् , परी॑हि म॒न्थी म॒न्थिशो॑चि॒षेत्या॑ह ।
ए॒ता वै सु॒वीरा॒ या अ॒त्त्रीः ।
ए॒तास्सु॑प्र॒जा या आ॒द्याः॑ ।
य ए॒वव्ँ वेदा॒त्त्र्य॑स्य प्र॒जा जा॑यते॒ नाऽऽद्या॑ ।

पद-पाठः

शु॒क्राम॒न्थिना॒विति॑ शु॒क्रा-म॒न्थिनौ॑ । वै । अन्विति॑ । प्र॒जा इति॑ प्र-जाः । प्रेति॑ । जा॒य॒न्ते॒ । अ॒त्त्रीः । च॒ । आ॒द्याः॑ । च॒ ।

सु॒वीरा॒ इति॑ सु-वीराः॑ । प्र॒जा इति॑ प्र-जाः । प्र॒ज॒नय॒न्निति॑ प्र-ज॒नय॑न् । परीति॑ । इ॒हि॒ । शु॒क्रः । शु॒क्रशो॑चि॒षेति॑ शु॒क्र-शो॒चि॒षा॒ । [45]

सु॒प्र॒जा इति॑ सु-प्र॒जाः । प्र॒जा इति॑ प्र-जाः । प्र॒ज॒नय॒न्निति॑ प्र-ज॒नय॑न् । परीति॑ । इ॒हि॒ । म॒न्थी । म॒न्थिशो॑चि॒षेति॑ म॒न्थि-शो॒चि॒षा॒ । इति॑ । आ॒ह॒ ।

ए॒ताः । वै । सु॒वीरा॒ इति॑ सु-वीराः॑ । याः । अ॒त्त्रीः । ए॒ताः । सु॒प्र॒जा इति॑ सु-प्र॒जाः । याः । आ॒द्याः॑ ।

यः । ए॒वम् । वेद॑ । अ॒त्त्री । अ॒स्य॒ । प्र॒जेति॑ प्र-जा । जा॒य॒ते॒ । न । आ॒द्या॑ ।

भट्टभास्कर-टीका

7शुक्रामन्थिनौ वा इत्यादि ॥ वृष्ट्युत्पादनादिक्रमेण सर्वाः प्रजाः शुक्रामन्थिप्रचरणहेतुका जायन्ते । ‘अनुर्लक्षणे’ इत्यनोः कर्मप्रवचनीयत्वम् । अत्त्रीः अत्त्र्यः भक्षयित्र्यः प्राणिनः । ‘वा छन्दसि’ इति पूर्णसवर्णदीर्घत्वम् । आद्याः भक्ष्याः । दक्षिणेनोत्तरवेदिमध्वर्युः प्रतिपद्यते - सुवीरा इति । तत्र सुवीरा इत्यत्रोच्यन्ते । शोभनाः पुत्राः विक्रान्ता येषामिति कृत्वा । ‘वीरवीर्यौ च’ इत्युत्तरपदान्तोदात्तत्वम् । अथोत्तरेणोत्तरवेदिं प्रतिप्रस्थाता प्रतिपद्यते, न तु निकृष्टां तामसीं योनिं व्रीह्मादिकाम् ॥

मूलम् (संयुक्तम्)

प्र॒जाप॑ते॒रक्ष्य॑श्वय॒त्तत्परा॑पत॒त्तद्विक॑ङ्कत॒म्प्रावि॑श॒त्तद्विक॑ङ्कते॒ नार॑मत॒ तद्यव॒म्प्रावि॑श॒त्तद्यवे॑ऽरमत॒ तद्यव॑स्य [46]
य॒व॒त्वय्ँयद्वैक॑ङ्कतम्मन्थिपा॒त्रम्भव॑ति॒ सक्तु॑भिश्श्री॒णाति॑ प्र॒जाप॑तेरे॒व तच्चक्षु॒स्सम्भ॑रति

विश्वास-प्रस्तुतिः

प्र॒जाप॑ते॒रक्ष्य॑श्वयत् । तत् परा॑पतत् ।
तद्विक॑ङ्कत॒म् प्रावि॑शत् ।
तद्विक॑ङ्कते॒ नार॑मत ।
तद् यव॒म् प्रावि॑शत् ।
तद् यवे॑ऽरमत ।
तद् यव॑स्य यव॒त्वम् । [46]
यद्वैक॑ङ्कतम् मन्थिपा॒त्रम् भव॑ति॒ , सक्तु॑भिश् श्री॒णाति॑ , प्र॒जाप॑तेर् ए॒व तच्चक्षु॒स् सम्भ॑रति ।

मूलम्

प्र॒जाप॑ते॒रक्ष्य॑श्वयत् । तत् परा॑पतत् ।
तद्विक॑ङ्कत॒म् प्रावि॑शत् ।
तद्विक॑ङ्कते॒ नार॑मत ।
तद् यव॒म् प्रावि॑शत् ।
तद् यवे॑ऽरमत ।
तद् यव॑स्य यव॒त्वम् । [46]
यद्वैक॑ङ्कतम् मन्थिपा॒त्रम् भव॑ति॒ , सक्तु॑भिश् श्री॒णाति॑ , प्र॒जाप॑तेर् ए॒व तच्चक्षु॒स् सम्भ॑रति ।

पद-पाठः

प्र॒जाप॑ते॒रिति॑ प्र॒जा-प॒तेः॒ । अक्षि॑ । अ॒श्व॒य॒त् ।
तत् । परेति॑ । अ॒प॒त॒त् ।

तत् । विक॑ङ्कत॒मिति॒ वि-क॒ङ्क॒त॒म् । प्रेति॑ । अ॒वि॒श॒त् ।

तत् । विक॑ङ्कत॒ इति॒ वि-क॒ङ्क॒ते॒ । न । अ॒र॒म॒त॒ ।

तत् । यव॑म् । प्रेति॑ । अ॒वि॒श॒त् ।

तत् । यवे॑ । अ॒र॒म॒त॒ ।

तत् । यव॑स्य । [46] य॒व॒त्वमिति॑ यव-त्वम् ।

यत् । वैक॑ङ्कतम् । म॒न्थि॒पा॒त्रमिति॑ मन्थि-पा॒त्रम् । भव॑ति ।

सक्तु॑भि॒रिति॒ सक्तु॑-भिः॒ । श्री॒णाति॑ ।

प्र॒जाप॑ते॒रिति॑ प्र॒जा-प॒तेः॒ । ए॒व । तत् । चक्षुः॑ । समिति॑ । भ॒र॒ति॒ ।

भट्टभास्कर-टीका

8प्रजापतेरित्यादि ॥ अश्वयत् उच्छूनमभवत् । परापतत् भ्रष्टमभवत् । तत् विकङ्कतं प्रविश्य तत्र रतिमलब्ध्वा यवं प्रविश्य रतिं लभेत । तस्मादेतन्मिश्रितत्वात् यवत्वम् । यदित्यादि । विकङ्कतशब्दात् ‘पलाशादिभ्यो वा’ इत्यञ् । यवप्रभवा लाजास्सक्तवः । श्रयणं मिश्रणम् । गतमन्यत् ॥

मूलम् (संयुक्तम्)

ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा॑त्स॒त्यान्म॑न्थिपा॒त्रँ सदो॒ नाश्ञु॑त॒ इत्या॑र्तपा॒त्रँ हीति॑ ब्रूया॒द्यद॑श्ञुवी॒तान्धो॑ऽध्व॒र्युस्स्या॒दार्ति॒मार्च्छे॒त्तस्मा॒न्नाश्ञु॑ते ॥ [47]

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ - “कस्मा॑त् स॒त्यान् म॑न्थिपा॒त्रँ सदो॒ नाश्ञु॑त॒” इति॑ ।
आ॑र्तपा॒त्रँ हीति॑ ब्रूयात् ।
यद॑श्ञुवी॒तान्धो॑ऽध्व॒र्युस् स्या॒द् आर्ति॒मार्च्छे॑त् ।
तस्मा॒न् नाश्ञु॑ते ॥ [47]

मूलम्

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ - “कस्मा॑त् स॒त्यान् म॑न्थिपा॒त्रँ सदो॒ नाश्ञु॑त॒” इति॑ ।
आ॑र्तपा॒त्रँ हीति॑ ब्रूयात् ।
यद॑श्ञुवी॒तान्धो॑ऽध्व॒र्युस् स्या॒द् आर्ति॒मार्च्छे॑त् ।
तस्मा॒न् नाश्ञु॑ते ॥ [47]

पद-पाठः

ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ ।
कस्मा॑त् । स॒त्यात् । म॒न्थि॒पा॒त्रमिति॑ मन्थि-पा॒त्रम् । सदः॑ । न । अ॒श्ञु॒ते॒ । इति॑ ।
आ॒र्त॒पा॒त्रमित्या॑र्त-पा॒त्रम् । हि । इति॑ । ब्रू॒या॒त् ।
यत् । अ॒श्ञु॒वी॒त । अ॒न्धः । अ॒ध्व॒र्युः । स्या॒त् । आर्ति॑म् । एति॑ । ऋ॒च्छे॒त् ।
तस्मा॑त् । न । अ॒श्ञु॒ते॒ ॥ [47]

भट्टभास्कर-टीका

9ब्रह्मवादिन इत्यादि ॥ कस्मात्कारणाद्भक्षणार्थं सदो नाश्नुते न प्राप्नोति सदसि न नीयते मन्थिपात्रमिति ब्रह्मवादिन आहुः पृच्छन्ति अथार्तपात्रं हि मन्थिपात्रं आर्तचक्षुस्संबन्धात् तस्मात्सदो नाश्नुत इति तेभ्य उत्तरं ब्रूयात् - यदित्यादि । गतम् । सतिशिष्टो विकरणस्वरः लसार्वधातुकस्वरं न बाधते इति लिङ एवोदात्तत्वम् ॥

इति षष्ठे चतुर्थे दशमोनुवाकः ॥