मूलम् (संयुक्तम्)
य॒ज्ञस्य॒ शिरो॑ऽच्छिद्यत॒ ते दे॒वा अ॒श्विना॑वब्रुवन्भि॒षजौ॒ वै स्थ॑ इ॒दय्ँ य॒ज्ञस्य॒ शिर॒ᳶ प्रति॑ धत्त॒मिति॒ ताव॑ब्रूताव्ँ॒वरव्ँ॑वृणावहै॒ ग्रह॑ ए॒व ना॒वत्रापि॑ गृह्यता॒मिति॒ ताभ्या॑मे॒तमा॑श्वि॒नम॑गृह्ण॒न्ततो॒ वै तौ य॒ज्ञस्य॒ शिर॒ᳶ प्रत्य॑धत्ताय्ँ॒यदा॑श्वि॒नो गृ॒ह्यते॑ य॒ज्ञस्य॒ निष्कृ॑त्यै॒
विश्वास-प्रस्तुतिः
य॒ज्ञस्य॒ शिरो॑ऽच्छिद्यत ।
ते दे॒वा अ॒श्विना॑वब्रुवन् -
“भि॒षजौ॒ वै स्थ॑ इ॒दय्ँ य॒ज्ञस्य॒ शिर॒ᳶ प्रति॑ धत्त॒म्” इति॑ ।
ताव॑ब्रूताव्ँ॒ -
“वरव्ँ॑ वृणावहै॒ , ग्रह॑ ए॒व ना॒वत्रापि॑ गृह्यता॒म्” इति॑ ।
ताभ्या॑म् ए॒तमा॑श्वि॒नम् अ॑गृह्णन् ।
ततो॒ वै तौ य॒ज्ञस्य॒ शिर॒ᳶ प्रत्य॑धत्ताम् ।
यदा॑श्वि॒नो गृ॒ह्यते॑ य॒ज्ञस्य॒ निष्कृ॑त्यै ।
मूलम्
य॒ज्ञस्य॒ शिरो॑ऽच्छिद्यत ।
ते दे॒वा अ॒श्विना॑वब्रुवन् -
“भि॒षजौ॒ वै स्थ॑ इ॒दय्ँ य॒ज्ञस्य॒ शिर॒ᳶ प्रति॑ धत्त॒म्” इति॑ ।
ताव॑ब्रूताव्ँ॒ -
“वरव्ँ॑ वृणावहै॒ , ग्रह॑ ए॒व ना॒वत्रापि॑ गृह्यता॒म्” इति॑ ।
ताभ्या॑म् ए॒तमा॑श्वि॒नम् अ॑गृह्णन् ।
ततो॒ वै तौ य॒ज्ञस्य॒ शिर॒ᳶ प्रत्य॑धत्ताम् ।
यदा॑श्वि॒नो गृ॒ह्यते॑ य॒ज्ञस्य॒ निष्कृ॑त्यै ।
पद-पाठः
य॒ज्ञस्य॑ । शिरः॑ । अ॒च्छि॒द्य॒त॒ ।
ते । दे॒वाः । अ॒श्विनौ॑ । अ॒ब्रु॒व॒न् ।
भि॒षजौ॑ । वै । स्थः॒ । इ॒दम् । य॒ज्ञस्य॑ । शिरः॑ । प्रतीति॑ । ध॒त्त॒म् । इति॑ ।
तौ । अ॒ब्रू॒ता॒म् ।
वर॑म् । वृ॒णा॒व॒है॒ । ग्रहः॑ । ए॒व । नौ॒ । अत्र॑ । अपीति॑ । गृ॒ह्य॒ता॒म् । इति॑ ।
ताभ्या॑म् । ए॒तम् । आ॒श्वि॒नम् । अ॒गृ॒ह्ण॒न् ।
ततः॑ । वै । तौ । य॒ज्ञस्य॑ । शिरः॑ । प्रतीति॑ । अ॒ध॒त्ता॒म् ।
यत् । आ॒श्वि॒नः । गृ॒ह्यते॑ । य॒ज्ञस्य॑ । निष्कृ॑त्या॒ इति॒ निः-कृ॒त्यै॒ ।
भट्टभास्कर-टीका
1यज्ञस्येत्यादि ॥ गतम् । छेदहेतुर्मृग्यः, पुराणप्रसिद्धो वा । अत्राग्निष्टोमेऽपि नावावयोः । गृह्यतामिति । ग्रह एव गृह्यतां वा । ततस्ताभ्यामाश्विनमगृह्णन् । तौ यज्ञस्य शिरः प्रत्यधत्ताम् । तस्मादाश्विनग्रहणं यज्ञस्य निष्कृत्यै रूपसंपत्त्यै भवति ॥
मूलम् (संयुक्तम्)
तौ दे॒वा अ॑ब्रुव॒न्नपू॑तौ॒ वा इ॒मौ म॑नुष्यच॒रौ [37]
भि॒षजा॒विति॒ तस्मा॑द्ब्राह्म॒णेन॑ भेष॒जन्न का॒र्य॑मपू॑तो॒ ह्ये३॒॑ षो॑ऽमे॒ध्यो यो भि॒षक्तौ ब॑हिष्पवमा॒नेन॑ पवयि॒त्वा ताभ्या॑मे॒तमा॑श्वि॒नम॑गृह्ण॒न्तस्मा॑द्बहिष्पवमा॒ने स्तु॒त आ॑श्वि॒नो गृ॑ह्यते॒ तस्मा॑दे॒वव्ँवि॒दुषा॑ बहिष्पवमा॒न उ॑प॒सद्यᳶ॑ प॒वित्रव्ँ॒ वै ब॑हिष्पवमा॒न आ॒त्मान॑मे॒व प॑वयते॒
विश्वास-प्रस्तुतिः
तौ दे॒वा अ॑ब्रुव॒न्न् -
“अपू॑तौ॒ वा इ॒मौ भि॒षजा॒व्” इति॑ ।
तस्मा॑द् ब्राह्म॒णेन॑ भेष॒जन् न का॒र्य॑म्, अपू॑तो॒ ह्ये३॒॑षो॑ ऽमे॒ध्यो यो भि॒षक् ।
तौ ब॑हिष्पवमा॒नेन॑ पवयि॒त्वा ताभ्या॑म् ए॒तमा॑श्वि॒नम् अ॑गृह्णन् ।
तस्मा॑द् बहिष्पवमा॒ने स्तु॒त आ॑श्वि॒नो गृ॑ह्यते ।
तस्मा॑द् ए॒वव्ँ वि॒दुषा॑ बहिष्पवमा॒न उ॑प॒सद्यᳶ॑ , प॒वित्रव्ँ॒ वै ब॑हिष्पवमा॒न आ॒त्मान॑मे॒व प॑वयते ।
मूलम्
तौ दे॒वा अ॑ब्रुव॒न्न् -
“अपू॑तौ॒ वा इ॒मौ भि॒षजा॒व्” इति॑ ।
तस्मा॑द् ब्राह्म॒णेन॑ भेष॒जन् न का॒र्य॑म्, अपू॑तो॒ ह्ये३॒॑षो॑ ऽमे॒ध्यो यो भि॒षक् ।
तौ ब॑हिष्पवमा॒नेन॑ पवयि॒त्वा ताभ्या॑म् ए॒तमा॑श्वि॒नम् अ॑गृह्णन् ।
तस्मा॑द् बहिष्पवमा॒ने स्तु॒त आ॑श्वि॒नो गृ॑ह्यते ।
तस्मा॑द् ए॒वव्ँ वि॒दुषा॑ बहिष्पवमा॒न उ॑प॒सद्यᳶ॑ , प॒वित्रव्ँ॒ वै ब॑हिष्पवमा॒न आ॒त्मान॑मे॒व प॑वयते ।
पद-पाठः
तौ । दे॒वाः । अ॒ब्रु॒व॒न् ।
अपू॑तौ । वै । इ॒मौ । म॒नु॒ष्य॒च॒राविति॑ मनुष्य-च॒रौ । [37] भि॒षजौ॑ । इति॑ ।
तस्मा॑त् । ब्रा॒ह्म॒णेन॑ । भे॒ष॒जम् । न । का॒र्य॑म् । अपू॑तः । हि । ए॒षः । अ॒मे॒ध्यः । यः । भि॒षक् ॥
तौ । ब॒हि॒ष्प॒व॒मा॒नेनेति॑ बहिः-प॒व॒मा॒नेन॑ । प॒व॒यि॒त्वा । ताभ्या॑म् । ए॒तम् । आ॒श्वि॒नम् । अ॒गृ॒ह्ण॒न् ।
तस्मा॑त् । ब॒हि॒ष्प॒व॒मा॒न इति॑ बहिः-प॒व॒मा॒ने । स्तु॒ते । आ॒श्वि॒नः । गृ॒ह्य॒ते॒ ।
तस्मा॑त् । ए॒वम् । वि॒दुषा॑ । ब॒हि॒ष्प॒व॒मा॒न इति॑ बहिः-प॒व॒मा॒नः । उ॒प॒सद्य॒ इत्यु॑प-सद्यः॑ । प॒वित्र॑म् । वै । ब॒हि॒ष्प॒व॒मा॒न इति॑ बहिः-प॒व॒मा॒नः । आ॒त्मान॑म् । ए॒व । प॒व॒य॒ते॒ ।
भट्टभास्कर-टीका
2तौ देवा इत्यादि ॥ अपूतौ अशुद्धो मनुष्यचरौ मनुष्येषु चरन्तौ मनुष्यकर्माणौ भिषजौ वैद्याविति सगर्हमिव तौ देवा अब्रुवन् । तस्माद्ब्राह्मणेन मेधार्हेण भेषजं न कर्तव्यम् । भिषग्वृत्तिर्हि ब्राह्मणोऽपूतो भवति तत एवामेध्यश्च भवति । तस्मादमेध्यो मा भूवमिति ब्राह्मणो भेषजकारी न स्यात् ।
तावित्यादि । बहिष्पवमानस्तोत्रमश्विनोः पूतत्वाय भवति । तस्मादद्यत्वेऽपि बहिष्पवमानस्तुत्युत्तरकालमाश्विनो गृह्यते । तस्मादेवं बहिष्पवमानस्य महिमानं विदुषा जानता बहिष्पवमान उपसद्यः उपसदनीयः उपास्यः, तेनात्मानं पूतं करोति ॥
मूलम् (संयुक्तम्)
तयो॑स्त्रे॒धा भैष॑ज्यव्ँ॒वि न्य॑दधुर॒ग्नौ तृ॑तीयम॒प्सु तृती॑यम्ब्राह्म॒णे तृती॑य॒न्तस्मा॑दुदपा॒त्रम् [38]
उ॒प॒नि॒धाय॑ ब्राह्म॒णन्द॑क्षिण॒तो नि॒षाद्य॑ भेष॒जङ्कु॑र्या॒द्याव॑दे॒व भे॑ष॒जन्तेन॑ करोति स॒मर्धु॑कमस्य कृ॒तम्भ॑वति
विश्वास-प्रस्तुतिः
तयो॑स्त्रे॒धा भैष॑ज्यव्ँ॒वि न्य॑दधुः ।
अ॒ग्नौ तृ॑तीयम् , अ॒प्सु तृती॑यम् , ब्राह्म॒णे तृती॑यम् ।
तस्मा॑दुदपा॒त्रम् उ॑पनि॒धाय॑ ब्राह्म॒णन् द॑क्षिण॒तो नि॒षाद्य॑ भेष॒जङ् कु॑र्यात् ।[38]
याव॑दे॒व भे॑ष॒जन् तेन॑ करोति , स॒मर्धु॑कमस्य कृ॒तम् भ॑वति ।
मूलम्
तयो॑स्त्रे॒धा भैष॑ज्यव्ँ॒वि न्य॑दधुः ।
अ॒ग्नौ तृ॑तीयम् , अ॒प्सु तृती॑यम् , ब्राह्म॒णे तृती॑यम् ।
तस्मा॑दुदपा॒त्रम् उ॑पनि॒धाय॑ ब्राह्म॒णन् द॑क्षिण॒तो नि॒षाद्य॑ भेष॒जङ् कु॑र्यात् ।[38]
याव॑दे॒व भे॑ष॒जन् तेन॑ करोति , स॒मर्धु॑कमस्य कृ॒तम् भ॑वति ।
पद-पाठः
तयोः॑ । त्रे॒धा । भैष॑ज्यम् । वि । नीति॑ । अ॒द॒धुः॒ ।
अ॒ग्नौ । तृती॑यम् । अ॒प्स्वित्य॑प्-सु । तृती॑यम् । ब्रा॒ह्म॒णे । तृती॑यम् ।
तस्मा॑त् । उ॒द॒पा॒त्रमित्यु॑द-पा॒त्रम् । [38] उ॒प॒नि॒धायेत्यु॑प-नि॒धाय॑ । ब्रा॒ह्म॒णम् । द॒क्षि॒ण॒तः । नि॒षाद्येति॑ नि-साद्य॑ । भे॒ष॒जम् । कु॒र्या॒त् ।
याव॑त् । ए॒व । भे॒ष॒जम् । तेन॑ । क॒रो॒ति॒ । स॒मर्धु॑क॒मिति॑ सम्-अर्धु॑कम् । अ॒स्य॒ । कृ॒तम् । भ॒व॒ति॒ ।
भट्टभास्कर-टीका
3तयोरित्यादि ॥ अग्न्यादिनिमित्तकं भैषज्यं त्रिधा त्रिप्रकारं तयोः विन्यदधुः विविधं निहितवन्तः अग्न्यादित्रयनिमित्तास्त्रयो भागाः भैषज्यस्य । ‘पूरणाद्भागेतीयादन्’ इति अन्प्रत्ययस्स्वार्थिकः । तस्मादित्यादि । गतम् । अग्निं चोपसमिन्धेदिति केचित् । ब्राह्मणेनोभयसंग्रहणेन पृथगग्निग्रहणे नार्थ इत्यन्ये । यावत् यत्प्रकारं अश्विनोर्देवैः कृतं त्रिप्रकारं तेन सर्वेणापि भेषजेन भैषज्यमस्य कृतं भवति । ततश्च कृतं भैषज्यं समर्धुकं समृद्धिशीलं भवति । छान्दस उकञ् ॥
मूलम् (संयुक्तम्)
ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा॑त्स॒त्यादेक॑पात्रा द्विदेव॒त्या॑ गृ॒ह्यन्ते॑ द्वि॒पात्रा॑ हूयन्त॒ इति॒ यदेक॑पात्रा गृ॒ह्यन्ते॒ तस्मा॒देको॑ऽन्तर॒तᳶ प्रा॒णो द्वि॒पात्रा॑ हूयन्ते॒ तस्मा॒द्द्वौद्वौ॑ ब॒हिष्टा॑त्प्रा॒णाᳶ प्रा॒णा वा ए॒ते यद्द्वि॑देव॒त्याः॑ प॒शव॒ इडा॒ यदिडा॒म्पूर्वा॑न्द्विदेव॒त्ये॑भ्य उप॒ह्वये॑त [39]
प॒शुभिᳶ॑ प्रा॒णान॒न्तर्द॑धीत प्र॒मायु॑कस्स्याद्द्विदेव॒त्या॑न्भक्षयि॒त्वेडा॒मुप॑ ह्वयते प्रा॒णाने॒वात्मन्धि॒त्वा प॒शूनुप॑ ह्वयते॒
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -
“कस्मा॑त्स॒त्यादेक॑पात्रा द्विदेव॒त्या॑ गृ॒ह्यन्ते॑ द्वि॒पात्रा॑ हूयन्त॒” इति॑ ।
यदेक॑पात्रा गृ॒ह्यन्ते॒ तस्मा॒देको॑ऽन्तर॒तᳶ प्रा॒णो , द्वि॒पात्रा॑ हूयन्ते॒ तस्मा॒द् द्वौद्वौ॑ ब॒हिष्टा॑त्प्रा॒णाः ।
प्रा॒णा वा ए॒ते यद् द्वि॑देव॒त्याः॑ प॒शव॒ इडा॒ , यदिडा॒म् पूर्वा॑न् द्विदेव॒त्ये॑भ्य उप॒ह्वये॑त , प॒शुभिᳶ॑ प्रा॒णान् अ॒न्तर्द॑धीत । [39]
प्र॒मायु॑कस् स्याद् ।
द्वि॒दे॒व॒त्या॑न् भक्षयि॒त्वा + इडा॒मुप॑ ह्वयते ।
प्रा॒णान् ए॒वात्मन् धि॒त्वा प॒शूनुप॑ ह्वयते ।
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -
“कस्मा॑त्स॒त्यादेक॑पात्रा द्विदेव॒त्या॑ गृ॒ह्यन्ते॑ द्वि॒पात्रा॑ हूयन्त॒” इति॑ ।
यदेक॑पात्रा गृ॒ह्यन्ते॒ तस्मा॒देको॑ऽन्तर॒तᳶ प्रा॒णो , द्वि॒पात्रा॑ हूयन्ते॒ तस्मा॒द् द्वौद्वौ॑ ब॒हिष्टा॑त्प्रा॒णाः ।
प्रा॒णा वा ए॒ते यद् द्वि॑देव॒त्याः॑ प॒शव॒ इडा॒ , यदिडा॒म् पूर्वा॑न् द्विदेव॒त्ये॑भ्य उप॒ह्वये॑त , प॒शुभिᳶ॑ प्रा॒णान् अ॒न्तर्द॑धीत । [39]
प्र॒मायु॑कस् स्याद् ।
द्वि॒दे॒व॒त्या॑न् भक्षयि॒त्वा + इडा॒मुप॑ ह्वयते ।
प्रा॒णान् ए॒वात्मन् धि॒त्वा प॒शूनुप॑ ह्वयते ।
पद-पाठः
ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ ।
कस्मा॑त् । स॒त्यात् । एक॑पात्रा॒ इत्येक॑-पा॒त्राः॒ । द्वि॒दे॒व॒त्या॑ इति॑ द्वि-दे॒व॒त्याः॑ । गृ॒ह्यन्ते॑ । द्वि॒पात्रा॒ इति॑ द्वि-पात्राः॑ । हू॒य॒न्ते॒ । इति॑ ।
यत् । एक॑पात्रा॒ इत्येक॑-पा॒त्राः॒ । गृ॒ह्यन्ते॑ । तस्मा॑त् । एकः॑ । अ॒न्त॒र॒तः । प्रा॒ण इति॑ प्र-अ॒नः । द्वि॒पात्रा॒ इति॑ द्वि-पात्राः॑ । हू॒य॒न्ते॒ । तस्मा॑त् । द्वौद्वा॒विति॒ द्वौ-द्वौ॒ । ब॒हिष्टा॑त् । प्रा॒णा इति॑ प्र-अ॒नाः ।
प्रा॒णा इति॑ प्र-अ॒नाः । वै । ए॒ते । यत् । द्वि॒दे॒व॒त्या॑ इति॑ द्वि-दे॒व॒त्याः॑ । प॒शवः॑ । इडा॑ । यत् । इडा॑म् । पूर्व॑म् । द्वि॒दे॒व॒त्ये॑भ्य॒ इति॑ द्वि-दे॒व॒त्ये॑भ्यः । उ॒प॒ह्वये॒तेत्यु॑प-ह्वये॑त । [39]
प॒शुभि॒रिति॑ प॒शु-भिः॒ । प्रा॒णानिति॑ प्र-अ॒नान् । अ॒न्तः । द॒धी॒त॒ । प्र॒मायु॑क॒ इति॑ प्र-मायु॑कः । स्या॒त् ।
द्वि॒दे॒व॒त्या॑निति॑ द्वि-दे॒व॒त्यान्॑ । भ॒क्ष॒यि॒त्वा । इडा॑म् । उपेति॑ । ह्व॒य॒ते॒ ।
प्रा॒णानिति॑ प्र-अ॒नान् । ए॒व । आ॒त्मन् । धि॒त्वा । प॒शून् । उपेति॑ । ह्व॒य॒ते॒ ।
भट्टभास्कर-टीका
4ब्रह्मवादिन इत्यादि ॥ द्विदेवत्या ऐन्द्रवायवाद्याः, द्विपात्राः प्रतिनिग्राह्यसहिताः । द्वौद्वाविति । चक्षुरादयः प्राणापानाः बहिर्द्वौ द्वौ । बहिष्टश्छान्दसोस्तातिः, अकारलोपश्च । प्राणा वा इत्यादि । गतम् । द्विदेवत्येभ्य इति । द्विदेवत्यहविर्भक्षणात्पूर्वं पुराडोशस्विष्टकृदनन्तरमेव यद्युपह्वयेत तदा पशुवधोपघाते प्राणरूपाणां द्विदेवत्यानामसन्निहितत्वात् पशुभिरन्तर्हितान् विच्छिन्नात् प्राणान्कुर्यात् । ततश्च पशूनां प्राणानां च असंबन्धात् प्रमायुकस्स्याद्यजमानः । तस्माद्द्विदेवत्यभक्षणेन आत्मनि प्राणान् स्थापयित्वा इडोपह्वाने पशवः प्राणसंबद्धा भवन्ति ॥
मूलम् (संयुक्तम्)
वाग्वा ऐ॑न्द्रवाय॒वश्चक्षु॑र्मैत्रावरु॒णश्श्रोत्र॑माश्वि॒नᳶ पु॒रस्ता॑दैन्द्रवाय॒वम्भ॑क्षयति॒ तस्मा॑त्पु॒रस्ता॑द्वा॒चा व॑दति पु॒रस्ता॑न्मैत्रावरु॒णन्तस्मा॑त्पु॒रस्ता॒च्चक्षु॑षा पश्यति स॒र्वतᳶ॑ परि॒हार॑माश्वि॒नन्तस्मा॑त्स॒र्वत॒श्श्रोत्रे॑ण शृणोति प्रा॒णा वा ए॒ते यद्द्वि॑देव॒त्याः॑ [40]
अरि॑क्तानि॒ पात्रा॑णि सादयति॒ तस्मा॒दरि॑क्ता अन्तर॒तᳶ प्रा॒णा
विश्वास-प्रस्तुतिः
वाग्वा ऐ॑न्द्रवाय॒वश् चक्षु॑र् मैत्रावरु॒णश् श्रोत्र॑माश्वि॒नः ।
पु॒रस्ता॑दैन्द्रवाय॒वम् भ॑क्षयति । तस्मा॑त् पु॒रस्ता॑द् वा॒चा व॑दति ।
पु॒रस्ता॑न् मैत्रावरु॒णन् तस्मा॑त् पु॒रस्ता॒च् चक्षु॑षा पश्यति ।
स॒र्वतᳶ॑ परि॒हार॑माश्वि॒नन् , तस्मा॑त्स॒र्वत॒श् श्रोत्रे॑ण शृणोति ।
प्रा॒णा वा ए॒ते यद् द्वि॑देव॒त्या॑ अरि॑क्तानि॒ पात्रा॑णि सादयति ।[40]
त॒स्मा॒दरि॑क्ता अन्तर॒तᳶ प्रा॒णाः ।
मूलम्
वाग्वा ऐ॑न्द्रवाय॒वश् चक्षु॑र् मैत्रावरु॒णश् श्रोत्र॑माश्वि॒नः ।
पु॒रस्ता॑दैन्द्रवाय॒वम् भ॑क्षयति । तस्मा॑त् पु॒रस्ता॑द् वा॒चा व॑दति ।
पु॒रस्ता॑न् मैत्रावरु॒णन् तस्मा॑त् पु॒रस्ता॒च् चक्षु॑षा पश्यति ।
स॒र्वतᳶ॑ परि॒हार॑माश्वि॒नन् , तस्मा॑त्स॒र्वत॒श् श्रोत्रे॑ण शृणोति ।
प्रा॒णा वा ए॒ते यद् द्वि॑देव॒त्या॑ अरि॑क्तानि॒ पात्रा॑णि सादयति ।[40]
त॒स्मा॒दरि॑क्ता अन्तर॒तᳶ प्रा॒णाः ।
पद-पाठः
वाक् । वै । ऐ॒न्द्र॒वा॒य॒व इत्यै॑न्द्र-वा॒य॒वः । चक्षुः॑ । मै॒त्रा॒व॒रु॒ण इति॑ मैत्रा-व॒रु॒णः । श्रोत्र॑म् । आ॒श्वि॒नः ।
पु॒रस्ता॑त् । ऐ॒न्द्र॒वा॒य॒वमित्यै॑न्द्र-वा॒य॒वम् । भ॒क्ष॒य॒ति॒ । तस्मा॑त् । पु॒रस्ता॑त् । वा॒चा । व॒द॒ति॒ ।
पु॒रस्ता॑त् । मै॒त्रा॒व॒रु॒णमिति॑ मैत्रा-व॒रु॒णम् । तस्मा॑त् । पु॒रस्ता॑त् । चक्षु॑षा । प॒श्य॒ति॒ ।
स॒र्वतः॑ । प॒रि॒हार॒मिति॑ परि-हार॑म् । आ॒श्वि॒नम् । तस्मा॑त् । स॒र्वतः॑ । श्रोत्रे॑ण । शृ॒णो॒ति॒ ।
प्रा॒णा इति॑ प्र-अ॒नाः । वै । ए॒ते । यत् । द्वि॒दे॒व॒त्या॑ इति॑ द्वि-दे॒व॒त्याः॑ । [40] अरि॑क्तानि । पात्रा॑णि । सा॒द॒य॒ति॒ ।
तस्मा॑त् । अरि॑क्ताः । अ॒न्त॒र॒तः । प्रा॒णा इति॑ प्र-अ॒नाः ।
भट्टभास्कर-टीका
5वाग्वा इत्यादि ॥ पुरस्तादग्रतः यथागृहीतमेव ऐन्द्रवायवं भक्षयति न परिहृत्य । तस्मात्पुरस्तादेव वाचा वदति अग्रत एवोच्चरितवाग्भवति । मैत्रावरुणं च पुरस्तात् यथागृहीतमेव भक्षयति तस्मात्पुरस्तादग्रत एव चक्षुषा पश्यति । आश्विनं तु सर्वतः परिहारं शिरः परितो भ्रमयित्वा भक्षयति । तस्मात्सर्वतः सर्वासु दिक्षु स्थितं श्रोत्रेण शृणोति नाग्रतस्स्थितमेव । प्राणा वा इत्यादि । अरिक्तानि असोमशून्यानि द्विदेवत्यानि सादयति पुरोडाशमग्निं वा । अरिक्ताः प्राणाः अन्तरत आर्द्रा भवन्ति ॥
मूलम् (संयुक्तम्)
यत॒ᳵ खलु॒ वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तदनु॑ य॒ज्ञँ रक्षाँ॒स्यव॑ चरन्ति॒ यदरि॑क्तानि॒ पात्रा॑णि सा॒दय॑ति क्रि॒यमा॑णमे॒व तद्य॒ज्ञस्य॑ शये॒ रक्ष॑सा॒मन॑न्ववचाराय॒
विश्वास-प्रस्तुतिः
यत॒ᳵ खलु॒ वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तदनु॑ य॒ज्ञँ रक्षाँ॒स्यव॑ चरन्ति॒
यदरि॑क्तानि॒ पात्रा॑णि सा॒दय॑ति क्रि॒यमा॑णमे॒व तद्य॒ज्ञस्य॑ शये ।
रक्ष॑सा॒म् अन॑न्ववचाराय ।
मूलम्
यत॒ᳵ खलु॒ वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तदनु॑ य॒ज्ञँ रक्षाँ॒स्यव॑ चरन्ति॒
यदरि॑क्तानि॒ पात्रा॑णि सा॒दय॑ति क्रि॒यमा॑णमे॒व तद्य॒ज्ञस्य॑ शये ।
रक्ष॑सा॒म् अन॑न्ववचाराय ।
पद-पाठः
यतः॑ । खलु॑ । वै । य॒ज्ञस्य॑ । वित॑त॒स्येति॒ वि-त॒त॒स्य॒ । न । क्रि॒यते॑ । तत् । अन्विति॑ । य॒ज्ञम् । रक्षाँ॑सि । अवेति॑ । च॒र॒न्ति॒ ।
यत् । अरि॑क्तानि । पात्रा॑णि । सा॒दय॑ति । क्रि॒यमा॑णम् । ए॒व । तत् । य॒ज्ञस्य॑ । श॒ये॒ ।
रक्ष॑साम् । अन॑न्ववचारा॒येत्यन॑नु-अ॒व॒चा॒रा॒य॒ ।
भट्टभास्कर-टीका
6यतः खल्वित्यादि ॥ रिक्तत्वे यज्ञस्य विच्छेदात् रक्षांस्यवचरेयुः अनुप्रविश्य बाध्येरन् । अरिक्तत्वे तु क्रियमाणमेव यज्ञस्य शये शेते अवतिष्ठते । ‘लोपस्त आत्मनेपदेषु’ इति तलोपः । ततश्छिद्राभावात् रक्षसामननुप्रवेशः ॥
मूलम् (संयुक्तम्)
दक्षि॑णस्य हवि॒र्धान॒स्योत्त॑रस्याव्ँवर्त॒न्याँ सा॑दयति वा॒च्ये॑व वाच॑न्दधा॒त्या तृ॑तीयसव॒नात्परि॑ शेरे य॒ज्ञस्य॒ सन्त॑त्यै ॥ [41]
विश्वास-प्रस्तुतिः
दक्षि॑णस्य हवि॒र्धान॒स्योत्त॑रस्याव्ँ वर्त॒न्याँ सा॑दयति , वा॒च्ये॑व वाच॑न् दधाति ।
आ तृ॑तीयसव॒नात् परि॑ शेरे , य॒ज्ञस्य॒ सन्त॑त्यै ॥ [41]
मूलम्
दक्षि॑णस्य हवि॒र्धान॒स्योत्त॑रस्याव्ँ वर्त॒न्याँ सा॑दयति , वा॒च्ये॑व वाच॑न् दधाति ।
आ तृ॑तीयसव॒नात् परि॑ शेरे , य॒ज्ञस्य॒ सन्त॑त्यै ॥ [41]
पद-पाठः
दक्षि॑णस्य । ह॒वि॒र्धान॒स्येति॑ हविः-धान॑स्य । उत्त॑रस्या॒मित्युत्-त॒र॒स्या॒म् । व॒र्त॒न्याम् । सा॒द॒य॒ति॒ ।
वा॒चि । ए॒व । वाच॑म् । द॒धा॒ति॒ ।
एति॑ । तृ॒ती॒य॒स॒व॒नादिति॑ तृतीय-स॒व॒नात् । परीति॑ । शे॒रे॒ । य॒ज्ञस्य॑ । सन्त॑त्या॒ इति॒ सम्-त॒त्यै॒ ॥ [41]
भट्टभास्कर-टीका
7दक्षिणस्येत्यादि ॥ वर्तनी मार्गः । तत्र सादयति । द्विदेवत्यत्वाद्वाच्येव वाङ्निहिता भवति । ऐन्द्रवायवस्य वाक्त्वादेवमुक्तम्, उपलक्षणत्वाच्चक्षुरादिनिधानस्य । आतृतीयसवनाद्यावत्तृतीयसवनसमाप्ति परिशेरे तत्रैव शेरते । पूर्ववत्तलोपः । यज्ञस्याविच्छेदाय भवति ॥
इति षष्ठे चतुर्थे नवमोनुवाकः ॥