मूलम् (संयुक्तम्)
मि॒त्रन्दे॒वा अ॑ब्रुव॒न्त्सोमँ॒ राजा॑नँ हना॒मेति॒ सो॑ऽब्रवी॒न्नाहँ सर्व॑स्य॒ वा अ॒हम्मि॒त्रम॒स्मीति॒ तम॑ब्रुव॒न्हना॑मै॒वेति॒ सो॑ऽब्रवी॒द्वरव्ँ॑वृणै॒ पय॑सै॒व मे॒ सोमँ॑ श्रीण॒न्निति॒ तस्मा॑न्मैत्रावरु॒णम्पय॑सा श्रीणन्ति॒ तस्मा॑त्प॒शवोऽपा॑क्रामन्मि॒त्रस्सन्क्रू॒रम॑क॒रिति॑
विश्वास-प्रस्तुतिः
मि॒त्रन्दे॒वा अ॑ब्रुव॒न्थ् - “सोमँ॒ राजा॑नँ हना॒म” इति॑ ।
सो॑ऽब्रवी॒न् - “नाहँ सर्व॑स्य॒ वा अ॒हम् मि॒त्रम् अ॒स्मि”+ इति॑ तम॑ब्रुव॒न् - “हना॑मै॒व”+ इति॑ ।
सो॑ऽब्रवी॒द् - “वरव्ँ॑ वृणै॒ पय॑सै॒व मे॒ सोमँ॑ श्रीण॒न्न्” इति॑ ।
तस्मा॑न् मैत्रावरु॒णम् पय॑सा श्रीणन्ति ।
तस्मा॑त् प॒शवोऽपा॑क्रामन् । “मि॒त्रस् सन्क्रू॒रम॑क॒र्” इति॑
मूलम्
मि॒त्रन्दे॒वा अ॑ब्रुव॒न्थ् - “सोमँ॒ राजा॑नँ हना॒म” इति॑ ।
सो॑ऽब्रवी॒न् - “नाहँ सर्व॑स्य॒ वा अ॒हम् मि॒त्रम् अ॒स्मि”+ इति॑ तम॑ब्रुव॒न् - “हना॑मै॒व”+ इति॑ ।
सो॑ऽब्रवी॒द् - “वरव्ँ॑ वृणै॒ पय॑सै॒व मे॒ सोमँ॑ श्रीण॒न्न्” इति॑ ।
तस्मा॑न् मैत्रावरु॒णम् पय॑सा श्रीणन्ति ।
तस्मा॑त् प॒शवोऽपा॑क्रामन् । “मि॒त्रस् सन्क्रू॒रम॑क॒र्” इति॑
पद-पाठः
मि॒त्रम् । दे॒वाः । अ॒ब्रु॒व॒न् ।
सोम॑म् । राजा॑नम् । ह॒ना॒म॒ । इति॑ ।
सः । अ॒ब्र॒वी॒त् ।
न । अ॒हम् । सर्व॑स्य । वै । अ॒हम् । मि॒त्रम् । अ॒स्मि॒ । इति॑ ।
तम् । अ॒ब्रु॒व॒न् । हना॑म । ए॒व । इति॑ ।
सः । अ॒ब्र॒वी॒त् ।
वर॑म् । वृ॒णै॒ । पय॑सा । ए॒व । मे॒ । सोम॑म् । श्री॒ण॒न् । इति॑ ।
तस्मा॑त् । मै॒त्रा॒व॒रु॒णमिति॑ मैत्रा-व॒रु॒णम् । पय॑सा । श्री॒ण॒न्ति॒ ।
तस्मा॑त् । प॒शवः॑ । अपेति॑ । अ॒क्रा॒म॒न् ।
मि॒त्रः । सन् । क्रू॒रम् । अ॒कः॒ । इति॑ ।
भट्टभास्कर-टीका
1मित्रं देवा इत्यादि ॥ गतम्29 । नाहमिति । कुतोह सोमं हन्तुमुत्सहे कारणमाह - सर्वस्येति । अहं सर्वस्य मित्रं दुःखात्त्रायकोस्मि स कथं द्रोहं करिष्ये इति मित्रेणोक्ते पुनरपि देवा अब्रुवन् - हनामैवेति । यदि सर्वस्य मित्रमसि अस्माकमपि मित्रमसि ततश्च मित्रकार्यस्यावश्यकर्तव्यत्वात् हनामैव त्वया सह न विचारस्यावसर इति । सोब्रवीदित्यादि । श्रीणन् मिश्रयेयुः । श्रीञ् पाके । तस्मात्पशव इत्यादि । तस्मात्सोमवधसाहाय्यकमाचरतो मित्रात्पशवोपाक्रामन् अयं मित्रस्सन् क्रूरमुग्रं अकः अकार्षीत्, अतो बिभीमोस्मात्क्रूरस्वभावादिति ॥
मूलम् (संयुक्तम्)
क्रू॒रमि॑व॒ खलु॒ वा ए॒षः [34]
क॒रो॒ति॒ यस्सोमे॑न॒ यज॑ते॒ तस्मा॑त्प॒शवोऽप॑ क्रामन्ति॒ यन्मै॑त्रावरु॒णम्पय॑सा श्री॒णाति॑ प॒शुभि॑रे॒व तन्मि॒त्रँ स॑म॒र्धय॑ति प॒शुभि॒र्यज॑मानम्
विश्वास-प्रस्तुतिः
क्रू॒रमि॑व॒ खलु॒ वा ए॒ष क॑रोति , यस् सोमे॑न॒ यज॑ते । [34]
तस्मा॑त् प॒शवोऽप॑ क्रामन्ति ।
यन् मै॑त्रावरु॒णम् पय॑सा श्री॒णाति॑ , प॒शुभि॑रे॒व तन् मि॒त्रँ स॑म॒र्धय॑ति प॒शुभि॒र् यज॑मानम् ।
मूलम्
क्रू॒रमि॑व॒ खलु॒ वा ए॒ष क॑रोति , यस् सोमे॑न॒ यज॑ते । [34]
तस्मा॑त् प॒शवोऽप॑ क्रामन्ति ।
यन् मै॑त्रावरु॒णम् पय॑सा श्री॒णाति॑ , प॒शुभि॑रे॒व तन् मि॒त्रँ स॑म॒र्धय॑ति प॒शुभि॒र् यज॑मानम् ।
पद-पाठः
क्रू॒रम् । इ॒व॒ । खलु॑ । वै । ए॒षः । [34] क॒रो॒ति॒ ।
यः । सोमे॑न । यज॑ते ।
तस्मा॑त् । प॒शवः॑ । अपेति॑ । क्रा॒म॒न्ति॒ ।
यत् । मै॒त्रा॒व॒रु॒णमिति॑ मैत्रा-व॒रु॒णम् । पय॑सा । श्री॒णाति॑ ।
प॒शुभि॒रिति॑ प॒शु-भिः॒ । ए॒व । तत् । मि॒त्रम् । स॒म॒र्धय॒तीति॑ सम्-अ॒र्धय॑ति । प॒शुभि॒रिति॑ प॒शु-भिः॒ । यज॑मानम् ।
भट्टभास्कर-टीका
2क्रूरमिवेत्यादि ॥ सोमवधरूपत्वाद्यज्ञस्य क्रूरत्वम् । हिंसाप्रचुरत्वाद्वा । पयसा श्रयणात् पशूनां समृद्धिर्भवति । ‘चादिलोपे विभाषा’ इति प्रथमा तिड्विभक्तिर्न निहन्यते ॥
मूलम् (संयुक्तम्)
पु॒रा खलु॒ वावैवम्मि॒त्रो॑ऽवे॒दप॒ मत्क्रू॒रञ्च॒क्रुषᳶ॑ प॒शव॑ᳵ क्रमिष्य॒न्तीति॒ तस्मा॑दे॒वम॑वृणीत॒
विश्वास-प्रस्तुतिः
पु॒रा खलु॒ वावैवम्मि॒त्रो॑ऽवेत् ।
“अप॒ मत्क्रू॒रञ् च॒क्रुषᳶ॑ प॒शव॑ᳵ क्रमिष्य॒न्ति”+ इति ।
तस्मा॑द् ए॒वम् अ॑वृणीत ।
मूलम्
पु॒रा खलु॒ वावैवम्मि॒त्रो॑ऽवेत् ।
“अप॒ मत्क्रू॒रञ् च॒क्रुषᳶ॑ प॒शव॑ᳵ क्रमिष्य॒न्ति”+ इति ।
तस्मा॑द् ए॒वम् अ॑वृणीत ।
पद-पाठः
पु॒रा । खलु॑ । वाव । ए॒वम् । मि॒त्रः । अ॒वे॒त् ।
अपेति॑ । मत् । क्रू॒रम् । च॒क्रुषः॑ । प॒शवः॑ । क्र॒मि॒ष्य॒न्ति॒ । इति॑ ।
तस्मा॑त् । ए॒वम् । अ॒वृ॒णी॒त॒ ।
भट्टभास्कर-टीका
3इदानीं पयसा श्रयणं वृतवतो मित्रस्याभिप्रायमाह - पुरा खल्वित्यादि ॥ पुरा पूर्वमेव वधात् वधारम्भे एव मित्रोवेत् वेत्ति जानाति स कथं मत् मत्ता क्रूरं चक्रुषः कृतवतः पशवोपक्रमिष्यन्तीति । तस्मादेवमवृणीत पयसा श्रपणं वृतवान् हननारम्भ एव पशूनां तृप्तये । करोतेर्लिटः क्वसुरादेशः, ‘वसोस्संप्रसारणम्’ ॥
मूलम् (संयुक्तम्)
वरु॑णन्दे॒वा अ॑ब्रुव॒न्त्वयाँ॑श॒भुवा॒ सोमँ॒ राजा॑नँ हना॒मेति॒ सो॑ऽब्रवी॒द्वरव्ँ॑वृणै॒ मह्य॑ञ्च [35]
ए॒वैष मि॒त्राय॑ च स॒ह गृ॑ह्याता॒ इति॒ तस्मा॑न्मैत्रावरु॒णस्स॒ह गृ॑ह्यते॒ तस्मा॒द्राज्ञा॒ राजा॑नमँश॒भुवा॑ घ्नन्ति॒ वैश्ये॑न॒ वैश्यँ॑ शू॒द्रेण॑ शू॒द्रन्
विश्वास-प्रस्तुतिः
वरु॑णन्दे॒वा अ॑ब्रुव॒न् -
“त्वयाँ॑श॒भुवा॒ सोमँ॒ राजा॑नँ हना॒म” इति ।
सो॑ऽब्रवी॒द् -
“वरव्ँ॑वृणै॒ मह्य॑ञ् चै॒वैष मि॒त्राय॑ च स॒ह गृ॑ह्याता॒” इति ।[35]
तस्मा॑न् मैत्रावरु॒णस् स॒ह गृ॑ह्यते ।
तस्मा॒द् राज्ञा॒ राजा॑नमँश॒भुवा॑ घ्नन्ति॒ , वैश्ये॑न॒ वैश्यँ॑ , शू॒द्रेण॑ शू॒द्रम् ।
मूलम्
वरु॑णन्दे॒वा अ॑ब्रुव॒न् -
“त्वयाँ॑श॒भुवा॒ सोमँ॒ राजा॑नँ हना॒म” इति ।
सो॑ऽब्रवी॒द् -
“वरव्ँ॑वृणै॒ मह्य॑ञ् चै॒वैष मि॒त्राय॑ च स॒ह गृ॑ह्याता॒” इति ।[35]
तस्मा॑न् मैत्रावरु॒णस् स॒ह गृ॑ह्यते ।
तस्मा॒द् राज्ञा॒ राजा॑नमँश॒भुवा॑ घ्नन्ति॒ , वैश्ये॑न॒ वैश्यँ॑ , शू॒द्रेण॑ शू॒द्रम् ।
पद-पाठः
वरु॑णम् । दे॒वाः । अ॒ब्रु॒व॒न् ।
त्वया॑ । अँ॒श॒भुवेत्यँ॑श-भुवा॑ । सोम॑म् । राजा॑नम् । ह॒ना॒म॒ । इति॑ ।
सः । अ॒ब्र॒वी॒त् ।
वर॑म् । वृ॒णै॒ । मह्य॑म् । च॒ । [35] ए॒व । ए॒षः । मि॒त्राय॑ । च॒ । स॒ह । गृ॒ह्या॒तै॒ । इति॑ ।
तस्मा॑त् । मै॒त्रा॒व॒रु॒ण इति॑ मैत्रा-व॒रु॒णः । स॒ह । गृ॒ह्य॒ते॒ ।
तस्मा॑त् । राज्ञा॑ । राजा॑नम् । अँ॒श॒भुवेत्यँ॑श-भुवा॑ । घ्न॒न्ति॒ । वैश्ये॑न । वैश्य॑म् । शू॒द्रेण॑ । शू॒द्रम् ।
भट्टभास्कर-टीका
4वरुणं देवा इत्यादि ॥ अंशस्य भविता प्राप्ता अंशभूः दायादः अंशं प्राप्नुवता त्वया सहायेनेत्यर्थः । प्राप्तिकर्मणो भवतेः क्विप् । सोब्रवीदित्यादि । गतम् । तस्माद्राज्ञेत्यादि । यस्मादेनमंशभुवा वरुणेन सोमं राजानं हतवन्तो देवाः तस्माद्राज्ञा अंशभुवा अंशग्राहिणा दायादेन राजानं घ्नन्ति यथा रामो रावणं विभीषणेन । वैश्येन वैश्यमिति । अंशभुवा घ्रन्तीत्येव । तथा शूद्रेण शूद्रमिति ॥
मूलम् (संयुक्तम्)
न वा इ॒दन्दिवा॒ न नक्त॑मासी॒दव्या॑वृत्त॒न्ते दे॒वा मि॒त्रावरु॑णावब्रुवन्नि॒दन्नो॒ वि वा॑सयत॒मिति॒ ताव॑ब्रूताव्ँ॒वरव्ँ॑वृणावहा॒ एक॑ ए॒वावत्पूर्वो॒ ग्रहो॑ गृह्याता॒ इति॒ तस्मा॑दैन्द्रवाय॒वᳶ पूर्वो॑ मैत्रावरु॒णाद्गृ॑ह्यते
विश्वास-प्रस्तुतिः
न वा इ॒दन्दिवा॒ न नक्त॑मासी॒दव्या॑वृत्तम् ।
ते दे॒वा मि॒त्रावरु॑णावब्रुवन्न् - “इ॒दन्नो॒ वि वा॑सयत॒म्” इति॑ ।
ताव॑ब्रूताव्ँ॒ -
“वरव्ँ॑ वृणावहा॒ एक॑ ए॒वावत्पूर्वो॒ ग्रहो॑ गृह्याता॒” इति॑ ।
तस्मा॑दैन्द्रवाय॒वᳶ पूर्वो॑ मैत्रावरु॒णाद् गृ॑ह्यते ।
मूलम्
न वा इ॒दन्दिवा॒ न नक्त॑मासी॒दव्या॑वृत्तम् ।
ते दे॒वा मि॒त्रावरु॑णावब्रुवन्न् - “इ॒दन्नो॒ वि वा॑सयत॒म्” इति॑ ।
ताव॑ब्रूताव्ँ॒ -
“वरव्ँ॑ वृणावहा॒ एक॑ ए॒वावत्पूर्वो॒ ग्रहो॑ गृह्याता॒” इति॑ ।
तस्मा॑दैन्द्रवाय॒वᳶ पूर्वो॑ मैत्रावरु॒णाद् गृ॑ह्यते ।
पद-पाठः
न । वै । इ॒दम् । दिवा॑ । न । नक्त॑म् । आ॒सी॒त् । अव्या॑वृत्त॒मित्यवि॑-आ॒वृ॒त्त॒म् ।
ते । दे॒वाः । मि॒त्रावरु॑णा॒विति॑ मि॒त्रा-वरु॑णौ । अ॒ब्रु॒व॒न् ।
इ॒दम् । नः॒ । वीति॑ । वा॒स॒य॒त॒म् । इति॑ ।
वर॑म् । वृ॒णा॒व॒है॒ । एकः॑ । ए॒व । आ॒वत् । पूर्वः॑ । ग्रहः॑ । गृ॒ह्या॒तै॒ । इति॑ ।
तस्मा॑त् । ऐ॒न्द्र॒वा॒य॒व इत्यै॑न्द्र-वा॒य॒वः । पूर्वः॑ । मै॒त्रा॒व॒रु॒णादिति॑ मैत्रा-व॒रु॒णात् । गृ॒ह्य॒ते॒ ।
भट्टभास्कर-टीका
5न वा इदमित्यादि ॥ यदिदं विश्वं पर्वूमव्यावृत्तमविभक्तकालमासीत् । कथं? न दिवाऽऽसीत्, न नक्तमासीत् । अथ देवा मित्रावरुणावब्रुवन् - अस्माकं विवासयतं विभातं कुरुतं अहश्च रात्रिं च जनयतमिति । तावित्यादि । आवत् आवाभ्यां पूर्व एक एव ग्रहो गृह्यातै गृह्यताम् ऐन्द्रवायव एव । व्यत्ययेन द्विर्वचनस्यादादेशः । ‘सुपां सुलुक्’ इति वा पञ्चम्या अलुक् । तस्मादित्यादि । गतम् ॥
मूलम् (संयुक्तम्)
प्राणापा॒नौ ह्ये॑तौ यदु॑पाँश्वन्तर्या॒मौ मि॒त्रोऽह॒रज॑नय॒द्वरु॑णो॒ रात्रि॒न्ततो॒ वा इ॒दव्व्ँयौ॑च्छ॒द्यन्मै॑त्रावरु॒णो गृ॒ह्यते॒ व्यु॑ष्ट्यै ॥ [36]
विश्वास-प्रस्तुतिः
प्रा॒णा॒पा॒नौ ह्ये॑तौ यदु॑पाँश्वन्तर्या॒मौ ।
मि॒त्रोऽह॒रज॑नय॒द् वरु॑णो॒ रात्रिम् ।
ततो॒ वा इ॒दव्ँ व्यौ॑च्छ॒द् यन् मै॑त्रावरु॒णो गृ॒ह्यते॒ , व्यु॑ष्ट्यै ॥ [36]
मूलम्
प्रा॒णा॒पा॒नौ ह्ये॑तौ यदु॑पाँश्वन्तर्या॒मौ ।
मि॒त्रोऽह॒रज॑नय॒द् वरु॑णो॒ रात्रिम् ।
ततो॒ वा इ॒दव्ँ व्यौ॑च्छ॒द् यन् मै॑त्रावरु॒णो गृ॒ह्यते॒ , व्यु॑ष्ट्यै ॥ [36]
पद-पाठः
प्रा॒णा॒पा॒नाविति॑ प्राण-अ॒पा॒नौ । हि । ए॒तौ । यत् । उ॒पाँ॒श्व॒न्त॒र्या॒मावित्यु॑पाँशु-अ॒न्त॒र्या॒मौ ।
मि॒त्रः । अहः॑ । अज॑नयत् । वरु॑णः । रात्रि॑म् ।
ततः॑ । वै । इ॒दम् । वीति॑ । औ॒च्छ॒त् ।
यत् । मै॒त्रा॒व॒रु॒ण इति॑ मैत्रा-व॒रु॒णः । गृ॒ह्यते॑ । व्यु॑ष्ट्या॒ इति॒ वि-उ॒ष्ट्यै॒ ॥ [36]
भट्टभास्कर-टीका
6उपांश्वन्तर्यामावपि मैत्रावरुणात्पूर्वे गृह्येते, कथमैन्द्रवायव एव मैत्रापरुणात्पूर्वो गृह्यते इति तत्राह - प्राणापानाविति ॥ प्राणापानावेतौ मन्यामहे (नैतौ ग्रहौ) प्राणापानयोस्स्थितयोः ये धाराग्रहा गृह्यन्ते तेषामेक एवास्मात्पूर्वः ऐन्द्रवायव इति । ततो लब्धवरो मित्रोहरजनयत्, वरुणो रात्रिमजनयत् । तत इदं सवं व्यौच्छत् विभातमभवत् विभक्ताहोरात्रमासीत् । तस्मान्मैत्रावरुणस्य यथोक्तप्रकारं ग्रहणं व्युष्ट्यै भवति । उच्छी विवासे, व्रश्चादिना षत्वम् । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम्, ‘उदात्तस्वरितयोर्यणः’ इत्युकारस्स्वर्यते ॥
इति षष्ठे चतुर्थे अष्टमोनुवाकः ॥