मूलम् (संयुक्तम्)
वाग्वा ए॒षा यदै॑न्द्रवाय॒वो यदै॑न्द्रवाय॒वाग्रा॒ ग्रहा॑ गृ॒ह्यन्ते॒ वाच॑मे॒वानु॒ प्र य॑न्ति
विश्वास-प्रस्तुतिः
वाग्वा ए॒षा यदै॑न्द्रवाय॒वः ।
यदै॑न्द्रवाय॒वाग्रा॒ ग्रहा॑ गृ॒ह्यन्ते॒ , वाच॑मे॒वानु॒ प्र य॑न्ति ।
मूलम्
वाग्वा ए॒षा यदै॑न्द्रवाय॒वः ।
यदै॑न्द्रवाय॒वाग्रा॒ ग्रहा॑ गृ॒ह्यन्ते॒ , वाच॑मे॒वानु॒ प्र य॑न्ति ।
पद-पाठः
वाक् । वै । ए॒षा । यत् । ऐ॒न्द्र॒वा॒य॒व इत्यै॑न्द्र-वा॒य॒वः ।
यत् । ऐ॒न्द्र॒वा॒य॒वाग्रा॒ इत्यै॑न्द्रवाय॒व-अ॒ग्राः॒ । ग्रहाः॑ । गृ॒ह्यन्ते॑ ।
वाच॑म् । ए॒व । अनु॑ । प्रेति॑ । य॒न्ति॒ ।
भट्टभास्कर-टीका
1वाग्वा एषेत्यादि ॥ तत्प्रवृत्तिहेतुत्वात्ताच्छब्द्यम् । ऐन्द्रवायवोग्रं प्रथमो येषां ते तथोक्ताः । वाचमनु प्रयन्ति प्रथमप्रवक्तारं वाचाऽनुगम्य यज्ञं प्रारभन्ते, तदनन्तरभावात् ॥
मूलम् (संयुक्तम्)
वा॒युन्दे॒वा अ॑ब्रुव॒न्त्सोमँ॒ राजा॑नँ हना॒मेति॒ सो॑ऽब्रवी॒द्वरव्ँ॑वृणै॒ मद॑ग्रा ए॒व वो॒ ग्रहा॑ गृह्यान्ता॒ इति॒ तस्मा॑दैन्द्रवाय॒वाग्रा॒ ग्रहा॑ गृह्यन्ते॒ तम॑घ्न॒न्थ्
विश्वास-प्रस्तुतिः
वा॒युन् दे॒वा अ॑ब्रुव॒न्थ् -
“सोमँ॒ राजा॑नँ हना॒म”+ इति॑ ।
सो॑ऽब्रवी॒द् -
वरव्ँ॑ वृणै॒ मद॑ग्रा ए॒व वो॒ ग्रहा॑ गृह्यान्ता॒ इति॑ ।
तस्मा॑दैन्द्रवाय॒वाग्रा॒ ग्रहा॑ गृह्यन्ते । तम॑घ्नन् ।
मूलम्
वा॒युन् दे॒वा अ॑ब्रुव॒न्थ् -
“सोमँ॒ राजा॑नँ हना॒म”+ इति॑ ।
सो॑ऽब्रवी॒द् -
वरव्ँ॑ वृणै॒ मद॑ग्रा ए॒व वो॒ ग्रहा॑ गृह्यान्ता॒ इति॑ ।
तस्मा॑दैन्द्रवाय॒वाग्रा॒ ग्रहा॑ गृह्यन्ते । तम॑घ्नन् ।
पद-पाठः
वा॒युम् । दे॒वाः । अ॒ब्रु॒व॒न् ।
सोम॑म् । राजा॑नम् । ह॒ना॒म॒ । इति॑ ।
सः । अ॒ब्र॒वी॒त् ।
वर॑म् । वृ॒णै॒ । मद॑ग्रा॒ इति॒ मत्-अ॒ग्राः॒ । ए॒व । वः॒ । ग्रहाः॑ । गृ॒ह्या॒न्तै॒ । इति॑ ।
तस्मा॑त् । ऐ॒न्द्र॒वा॒य॒वाग्रा॒ इत्यै॑न्द्रवाय॒व-अ॒ग्राः॒ । ग्रहाः॑ । गृ॒ह्य॒न्ते॒ ।
तम् । अ॒घ्न॒न् ।
भट्टभास्कर-टीका
2वायुं देवा इत्यादि ॥ त्वया सहायेन सोमं राजानममृतात्मानं भक्षणाय पीडयामः इति वायुमब्रुवन् । स वायुर्देवानब्रवीत् अहं वरं वृणै । किमिति - मदग्रा इति । मदीयो ग्रहः अग्रं प्रथमो येषां ते तथोक्ताः मदग्राः युष्माकं ग्रहा गृह्यान्तै । लेट्याडागमः, ‘वैतोन्यत्र’ इत्यैकारः । तमघ्नन्निति । वरलाभेन तुष्टं वायुं सहायं लब्ध्वा हतवन्तः ॥
मूलम् (संयुक्तम्)
सो॑ऽपूय॒त्तन्दे॒वा नोपा॑धृष्णुव॒न्ते वा॒युम॑ब्रुवन्नि॒मन्न॑स्स्वदय [31]
इति॒ सो॑ऽब्रवी॒द्वरव्ँ॑वृणै मद्देव॒त्या॑न्ये॒व व॒ᳶ पात्रा॑ण्युच्यान्ता॒ इति॒ तस्मा॑न्नानादेव॒त्या॑नि॒ सन्ति॑ वाय॒व्या॑न्युच्यन्ते॒ तमे॑भ्यो वा॒युरे॒वास्व॑दय॒त्तस्मा॒द्यत्पूय॑ति॒ तत्प्र॑वा॒ते वि ष॑जन्ति वा॒युर्हि तस्य॑ पवयि॒ता स्व॑दयि॒ता
विश्वास-प्रस्तुतिः
सो॑ऽपूय॒त्
तन्दे॒वा नोपा॑धृष्णुवन् ।
ते वा॒युम् अ॑ब्रुवन्न् - “इ॒मन् न॑स् स्वदय”+ इति॑ । [31]
सो॑ऽब्रवी॒द् -
वरव्ँ॑ वृणै मद् देव॒त्या॑न्ये॒व व॒ᳶ पात्रा॑ण्युच्यान्ता॒ इति॑ ।
तस्मा॑न् नानादेव॒त्या॑नि॒ सन्ति॑ , वाय॒व्या॑न्य् उच्यन्ते ।
तमे॑भ्यो वा॒युर् ए॒वास्व॑दयत् ।
तस्मा॒द् यत् पूय॑ति॒ , तत् प्र॑वा॒ते वि ष॑जन्ति ।
वा॒युर्हि तस्य॑ पवयि॒ता स्व॑दयि॒ता ।
मूलम्
सो॑ऽपूय॒त्
तन्दे॒वा नोपा॑धृष्णुवन् ।
ते वा॒युम् अ॑ब्रुवन्न् - “इ॒मन् न॑स् स्वदय”+ इति॑ । [31]
सो॑ऽब्रवी॒द् -
वरव्ँ॑ वृणै मद् देव॒त्या॑न्ये॒व व॒ᳶ पात्रा॑ण्युच्यान्ता॒ इति॑ ।
तस्मा॑न् नानादेव॒त्या॑नि॒ सन्ति॑ , वाय॒व्या॑न्य् उच्यन्ते ।
तमे॑भ्यो वा॒युर् ए॒वास्व॑दयत् ।
तस्मा॒द् यत् पूय॑ति॒ , तत् प्र॑वा॒ते वि ष॑जन्ति ।
वा॒युर्हि तस्य॑ पवयि॒ता स्व॑दयि॒ता ।
पद-पाठः
सः । अ॒पू॒य॒त् ।
तम् । दे॒वाः । न । उपेति॑ । अ॒धृ॒ष्णु॒व॒न् ।
ते । वा॒युम् । अ॒ब्रु॒व॒न् ।
इ॒मम् । नः॒ । स्व॒द॒य॒ । [31] इति॑ ।
सः । अ॒ब्र॒वी॒त् ।
वर॑म् । वृ॒णै॒ । म॒द्दे॒व॒त्या॑नीति॑ मत्-दे॒व॒त्या॑नि । ए॒व । वः॒ । पात्रा॑णि । उ॒च्या॒न्तै॒ । इति॑ ।
तस्मा॑त् । ना॒ना॒दे॒व॒त्या॑नीति॑ नाना-दे॒व॒त्या॑नि । सन्ति॑ । वा॒य॒व्या॑नि । उ॒च्य॒न्ते॒ ।
तम् । ए॒भ्यः॒ । वा॒युः । ए॒व । अ॒स्व॒द॒य॒त् ।
तस्मा॑त् । यत् । पूय॑ति । तत् । प्र॒वा॒त इति॑ प्र-वा॒ते । वीति॑ । स॒ज॒न्ति॒ ।
वा॒युः । हि । तस्य॑ । प॒व॒यि॒ता । स्व॒द॒यि॒ता ।
भट्टभास्कर-टीका
3सोपूयदिति ॥ हतावकाशे दौस्थ्यमगमत् । पूयी विशरणे । अथ तं तादृशं सोमं देवा नोपाधृष्णुवन् उपसंग्रहीतुं नाशक्नुवन्, पातुमयोग्यत्वात् । स्वदय स्वादूकुर्विति वायुमब्रुवन् । मद्देवत्यानीति । मह्यं देवतायै इमानि । देवतान्तात्तादर्थ्ये यत् । तस्मादित्यादि । गतम् । तत्प्रवाते इति । प्रकृष्टे वाते विषजन्ति विस्तारयन्ति । वायुः खलु पूयीभूतस्य शोधयिता स्वादुकारी च ॥
मूलम् (संयुक्तम्)
तस्य॑ वि॒ग्रह॑ण॒न्नावि॑न्द॒न्त्साऽदि॑तिरब्रवी॒द्वरव्ँ॑वृणा॒ अथ॒ मया॒ वि गृ॑ह्णीध्वम्मद्देव॒त्या॑ ए॒व व॒स्सोमाः॑ [32]
स॒न्ना अ॑स॒न्नित्यु॑पया॒मगृ॑हीतो॒ऽसीत्या॑हादितिदेव॒त्या॑स्तेन॒ यानि॒ हि दा॑रु॒मया॑णि॒ पात्रा॑ण्य॒स्यै तानि॒ योने॒स्सम्भू॑तानि॒ यानि॑ मृ॒न्मया॑नि सा॒क्षात्तान्य॒स्यै तस्मा॑दे॒वमा॑ह॒
विश्वास-प्रस्तुतिः
तस्य॑ वि॒ग्रह॑ण॒न्नावि॑न्दन् ।
साऽदि॑तिरब्रवी॒द् -
वरव्ँ॑ वृणा॒ अथ॒ मया॒ वि गृ॑ह्णीध्वम् मद् देव॒त्या॑ ए॒व व॒स् सोमा॑स् स॒न्ना अ॑स॒न्न् इति॑ । [32]
उ॒प॒या॒मगृ॑हीतोऽसि" इत्या॑ह । अ॒दि॒ति॒दे॒व॒त्या॑स् तेन॑ ।
यानि॒ हि दा॑रु॒मया॑णि॒ पात्रा॑ण्य॒स्यै , तानि॒ योने॒स् सम्भू॑तानि ।
यानि॑ मृ॒न्मया॑नि सा॒क्षात् तान्य् अ॒स्यै ।
तस्मा॑द् ए॒वमा॑ह ।
मूलम्
तस्य॑ वि॒ग्रह॑ण॒न्नावि॑न्दन् ।
साऽदि॑तिरब्रवी॒द् -
वरव्ँ॑ वृणा॒ अथ॒ मया॒ वि गृ॑ह्णीध्वम् मद् देव॒त्या॑ ए॒व व॒स् सोमा॑स् स॒न्ना अ॑स॒न्न् इति॑ । [32]
उ॒प॒या॒मगृ॑हीतोऽसि" इत्या॑ह । अ॒दि॒ति॒दे॒व॒त्या॑स् तेन॑ ।
यानि॒ हि दा॑रु॒मया॑णि॒ पात्रा॑ण्य॒स्यै , तानि॒ योने॒स् सम्भू॑तानि ।
यानि॑ मृ॒न्मया॑नि सा॒क्षात् तान्य् अ॒स्यै ।
तस्मा॑द् ए॒वमा॑ह ।
पद-पाठः
तस्य॑ । वि॒ग्रह॑ण॒मिति॑ वि-ग्रह॑णम् । न । अ॒वि॒न्द॒न् ।
सा । अदि॑तिः । अ॒ब्र॒वी॒त् ।
वर॑म् । वृ॒णै॒ । अथ॑ । मया॑ । वीति॑ । गृ॒ह्णी॒ध्व॒म् । म॒द्दे॒व॒त्या॑ इति॑ मत्-दे॒व॒त्याः॑ । ए॒व । वः॒ । सोमाः॑ । [32] स॒न्नाः । अ॒स॒न् । इति॑ ।
उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म-गृ॒ही॒तः॒ । अ॒सि॒ । इति॑ । आ॒ह॒ । अ॒दि॒ति॒दे॒व॒त्या॑ इत्य॑दिति-दे॒व॒त्याः॑ । तेन॑ ।
यानि॑ । हि । दा॒रु॒मया॒णीति॑ दारु-मया॑नि । पात्रा॑णि । अ॒स्यै । तानि॑ । योनेः॑ । सम्भू॑ता॒नीति॒ सम्-भू॒ता॒नि॒ ।
यानि॑ । मृ॒न्मया॒नीति॑ मृत्-मया॑नि । सा॒क्षादिति॑ स-अ॒क्षात् । तानि॑ । अ॒स्यै ।
तस्मा॑त् । ए॒वम् । आ॒ह॒ ।
भट्टभास्कर-टीका
4तस्य विग्रहणमित्यादि ॥ अथ तस्य सोमस्य विग्रहणं विविधग्रहणसाधनं मन्त्रं नाविन्दन् नालभन्त । अथादितिः पृथिवीं अब्रवीत् - मह्यं वरं दत्वा मया विगृह्णीध्वमिति । वरं चाह - मद्देवत्या इति । मद्देवत्या वः युष्माकं सोमाः सन्नाः सादिता आसन् सन्त्विति । अस्तेर्लोटि व्यत्ययेन ‘छन्दस्युभयथा’ इति लादेशस्यार्धधातुकत्वेन ङित्त्वाभावाल्लोपाभावः । उपयामगृहीतोसीति । अनेन मन्त्रेण गृह्यन्ते येन सोमाः तेन हेतुना अदितिदेवत्याः । ‘इयं वा उपयामः’ इति । भवत्वियं पृथिवी, भवतु च पृथिव्यदितिः, कथं पुनरदितिदेवत्यत्वं पात्राणामित्याह - यानि हीत्यादि । यानि पात्राणि दारुमयाणि गृहचमसानि तान्यस्यै अस्याः पृथिव्याः संभूतानि । पञ्चम्यर्थे चतुर्थी । कथं पुनर्दारुमयाणां पार्थिवत्वमित्याह - योनेरिति । स्वयोनेर्दारुणः पार्थिवत्वात् तस्मात् अस्याः प्रणाड्या उत्पन्नानि दारुमयाणि । यानि तु मृण्मयानि स्थाल्यादीनि साक्षादव्यवधानेनास्यास्संभूतानि । तस्मादेवमाह तेन कारणेन उपयामगृहीतोसीति गृह्यमाणं सोममाह उपयामः पृथिवीति कृत्वा ॥
मूलम् (संयुक्तम्)
वाग्वै परा॒च्यव्या॑कृतावद॒त्ते दे॒वा इन्द्र॑मब्रुवन्नि॒मान्नो॒ वाच॒व्व्ँयाकु॒र्विति॒ सो॑ऽब्रवी॒द्वरव्ँ॑वृणै॒ मह्य॑ञ्चै॒वैष वा॒यवे॑ च स॒ह गृ॑ह्याता॒ इति॒ तस्मा॑दैन्द्रवाय॒वस्स॒ह गृ॑ह्यते॒ तामिन्द्रो॑ मध्य॒तो॑ऽव॒क्रम्य॒ व्याक॑रो॒त्तस्मा॑दि॒यव्व्ँयाकृ॑ता॒ वागु॑द्यते॒ तस्मा॑त्स॒कृदिन्द्रा॑य मध्य॒तो गृ॑ह्यते॒ द्विर्वा॒यवे॒ द्वौ हि स वरा॒ववृ॑णीत ॥ [33]
विश्वास-प्रस्तुतिः
वाग्वै परा॒च्यव्या॑कृता ऽवदत् ।
ते दे॒वा इन्द्र॑मब्रुवन्न् - “इ॒मान् नो॒ वाचव्ँ॒ व्याकु॒र्व्” इति॑ ।
सो॑ऽब्रवी॒द् - “वरव्ँ॑ वृणै॒ मह्य॑ञ् चै॒वैष वा॒यवे॑ च स॒ह गृ॑ह्याता॒” इति ।
तस्मा॑दैन्द्रवाय॒वस् स॒ह गृ॑ह्यते । तामिन्द्रो॑ मध्य॒तो॑ऽव॒क्रम्य॒ व्याक॑रोत् ।
तस्मा॑द् इ॒यव्ँ व्याकृ॑ता॒ वागु॑द्यते ।
तस्मा॑त् स॒कृदिन्द्रा॑य मध्य॒तो गृ॑ह्यते॒ , द्विर् वा॒यवे॑ ।
द्वौ हि स वरा॒ववृ॑णीत ॥ [33]
मूलम्
वाग्वै परा॒च्यव्या॑कृता ऽवदत् ।
ते दे॒वा इन्द्र॑मब्रुवन्न् - “इ॒मान् नो॒ वाचव्ँ॒ व्याकु॒र्व्” इति॑ ।
सो॑ऽब्रवी॒द् - “वरव्ँ॑ वृणै॒ मह्य॑ञ् चै॒वैष वा॒यवे॑ च स॒ह गृ॑ह्याता॒” इति ।
तस्मा॑दैन्द्रवाय॒वस् स॒ह गृ॑ह्यते । तामिन्द्रो॑ मध्य॒तो॑ऽव॒क्रम्य॒ व्याक॑रोत् ।
तस्मा॑द् इ॒यव्ँ व्याकृ॑ता॒ वागु॑द्यते ।
तस्मा॑त् स॒कृदिन्द्रा॑य मध्य॒तो गृ॑ह्यते॒ , द्विर् वा॒यवे॑ ।
द्वौ हि स वरा॒ववृ॑णीत ॥ [33]
पद-पाठः
वाक् । वै । परा॑ची । अव्या॑कृ॒तेत्यवि॑-आ॒कृ॒ता॒ । अ॒व॒द॒त् ।
ते । दे॒वाः । इन्द्र॑म् । अ॒ब्रु॒व॒न् ।
इ॒माम् । नः॒ । वाच॑म् । व्याकु॒र्विति॑ वि-आकु॑रु । इति॑ ।
सः । अ॒ब्र॒वी॒त् ।
वर॑म् । वृ॒णै॒ । मह्य॑म् । च॒ । ए॒व । ए॒षः । वा॒यवे॑ । च॒ । स॒ह । गृ॒ह्या॒तै॒ । इति॑ ।
तस्मा॑त् । ऐ॒न्द्र॒वा॒य॒व इत्यै॑न्द्र-वा॒य॒वः । स॒ह । गृ॒ह्य॒ते॒ ।
ताम् । इन्द्रः॑ । म॒ध्य॒तः । अ॒व॒क्रम्येत्य॑व-क्रम्य॑ । व्याक॑रो॒दिति॑ वि-आक॑रोत् ।
तस्मा॑त् । इ॒यम् । व्याकृ॒तेति॑ वि-आकृ॑ता । वाक् । उ॒द्य॒ते॒ ।
तस्मा॑त् । स॒कृत् । इन्द्रा॑य । म॒ध्य॒तः । गृ॒ह्य॒ते॒ । द्विः । वा॒यवे॑ ।
द्वौ । हि । सः । वरौ॑ । अवृ॑णीत ॥ [33]
भट्टभास्कर-टीका
5वाग्वा इत्यादि ॥ पराची अपुनरुक्तरूपा अविभक्तरूपा पूर्वमवदत् अभिव्यक्तिमगमत् ध्वनिमात्रमेवोदचरत् । अथ देवा इन्द्रमब्रुवन् - इमां वाचं व्याकुरु विभक्तरूपां कुरु । व्यत्ययविधेयं व्याकृतां कुर्विति । सोब्रवीदित्यादि । गतम् । तामित्यादि । उदारवृत्तिश्शब्द इति परमार्थः । तां वाचं मध्यतोवक्रम्यानुमविश्य इन्द्रो व्याकरोत् व्यावृत्तामकरोत् । तस्मादियं व्याकृता अस्माभिरुद्यते उच्यते । तस्मान्मध्ये सकृदिन्द्राय गृह्यते, वायवे तु द्विः आदावन्ते च गृह्यते, यस्माद्वायुर्द्वौ वराववृणीत मदग्रा एव वो ग्रहा गृह्यान्तै’ ‘मद्द्वेवत्यान्येव वः पात्राण्युच्यान्तै'29 इति ॥