०६

मूलम् (संयुक्तम्)

दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा उ॑पाँ॒शौ य॒ज्ञँ सँ॒स्थाप्य॑मपश्य॒न्तमु॑पाँ॒शौ सम॑स्थापय॒न्तेऽसु॑रा॒ वज्र॑मु॒द्यत्य॑ दे॒वान॒भ्या॑यन्त॒

विश्वास-प्रस्तुतिः

दे॒वा वै यद् य॒ज्ञेऽकु॑र्वत॒ , तदसु॑रा अकुर्वत ।
ते दे॒वा उ॑पाँ॒शौ य॒ज्ञँ सँ॒स्थाप्य॑मपश्यन् ।
तमु॑पाँ॒शौ सम॑स्थापयन् ।
तेऽसु॑रा॒ वज्र॑मु॒द्यत्य॑ दे॒वान् अ॒भ्या॑यन्त ।

मूलम्

दे॒वा वै यद् य॒ज्ञेऽकु॑र्वत॒ , तदसु॑रा अकुर्वत ।
ते दे॒वा उ॑पाँ॒शौ य॒ज्ञँ सँ॒स्थाप्य॑मपश्यन् ।
तमु॑पाँ॒शौ सम॑स्थापयन् ।
तेऽसु॑रा॒ वज्र॑मु॒द्यत्य॑ दे॒वान् अ॒भ्या॑यन्त ।

पद-पाठः

दे॒वाः । वै । यत् । य॒ज्ञे । अकु॑र्वत । तत् । असु॑राः । अ॒कु॒र्व॒त॒ ।

ते । दे॒वाः । उ॒पाँ॒शावित्यु॑प-अँ॒शौ । य॒ज्ञम् । सँ॒स्थाप्य॒मिति॑ सम्-स्थाप्य॑म् । अ॒प॒श्य॒न् ।

तम् । उ॒पाँ॒शावित्यु॑प-अँ॒शौ । समिति॑ । अ॒स्था॒प॒य॒न् ।

ते । असु॑राः । वज्र॑म् । उ॒द्यत्येत्यु॑त्-यत्य॑ । दे॒वान् । अ॒भीति॑ । आ॒य॒न्त॒ ।

भट्टभास्कर-टीका

1देवा वा इत्यादि ॥ उपांशौ ग्रहे यज्ञं संस्थाप्यमपश्यन् । तथा कृतवन्तश्च देवाः । आत्मकृतं सर्वमसुरैस्तथाकृतं दृष्ट्वा असुराणामप्रतिपत्त्यर्थं उपांशौ यज्ञं संस्थाप्य केन चिदुपायेन समापनीयं दृष्ट्वा तथा कृतवन्तः । अथासुरास्तत्प्रकारानभिज्ञास्संजातक्रोधा वज्रमायुधमुद्यम्य हस्ते गृहीत्वा दैवान् हन्तुमभ्यायन्त आभिमुख्येनागताः । अथ देवा भीता इन्द्रं शरणं गताः । अथेन्द्रस्तानसुरान् अन्तर्यामेण ग्रहेणान्तरधत्त अन्तर्हितान्विनष्टानकरोत् । तदित्यादि । अन्तर्यमनमन्तर्धानं, तद्येन भवति सोन्तर्यामः । यदित्यादि । गतम् ॥

मूलम् (संयुक्तम्)

ते दे॒वा बिभ्य॑त॒ इन्द्र॒मुपा॑धाव॒न्तानिन्द्रो॑ऽन्तर्या॒मेणा॒न्तर॑धत्त॒ तद॑न्तर्या॒मस्या॑न्तर्याम॒त्वय्ँयद॑न्तर्या॒मो गृ॒ह्यते॒ भ्रातृ॑व्याने॒व तद्यज॑मानो॒ऽन्तर्ध॑त्ते॒ऽन्तस्ते॑ [27]
द॒धा॒मि॒ द्यावा॑पृथि॒वी अ॒न्तरु॒र्व॑न्तरि॑क्ष॒मित्या॑है॒भिरे॒व लो॒कैर्यज॑मानो॒ भ्रातृ॑व्यान॒न्तर्ध॑त्ते॒ ते दे॒वा अ॑मन्य॒न्तेन्द्रो॒ वा इ॒दम॑भू॒द्यद्व॒यँ स्म इति॒ ते॑ऽब्रुव॒न्मघ॑व॒न्ननु॑ न॒ आ भ॒जेति॑ स॒जोषा॑ दे॒वैरव॑रै॒ᳶ परै॒श्चेत्य॑ब्रवी॒द्ये चै॒व दे॒वाᳶ परे॒ ये चाव॑रे॒ तानु॒भया॑न् [28]
अ॒न्वाभ॑जत्स॒जोषा॑ दे॒वैरव॑रै॒ᳶ परै॒श्चेत्या॑ह॒ ये चै॒व दे॒वाᳶ परे॒ य चाव॑रे॒ तानु॒भया॑न॒न्वाभ॑जत्यन्तर्या॒मे म॑घवन्मादय॒स्वेत्या॑ह य॒ज्ञादे॒व यज॑मान॒न्नान्तरे॑त्य्

विश्वास-प्रस्तुतिः

ते दे॒वा बिभ्य॑त॒ इन्द्र॒मुपा॑धावन् ।
तानिन्द्रो॑ऽन्तर्या॒मेणा॒न्तर॑धत्त ।
तद॑न्तर्या॒मस्या॑न्तर्याम॒त्वम् ।
यद॑न्तर्या॒मो गृ॒ह्यते॒ भ्रातृ॑व्यान् ए॒व तद् यज॑मानो॒ ऽन्तर्ध॑त्ते ।
अ॒न्तस् ते॑ दधामि ,[27] द्यावा॑पृथि॒वी अ॒न्तरु॒र्व॑न्तरि॑क्ष॒मित्या॑ह ।
ए॒भिरे॒व लो॒कैर्यज॑मानो॒ भ्रातृ॑व्यान् अ॒न्तर्ध॑त्ते ।
ते दे॒वा अ॑मन्य॒न्त -
इन्द्रो॒ वा इ॒दम॑भू॒द्यद्व॒यँ स्म इति॑ ।
ते॑ऽब्रुव॒न् - मघ॑व॒न्ननु॑ न॒ आ भ॒जेति॑ ।
“स॒जोषा॑ दे॒वैरव॑रै॒ᳶ परै॒श्च” इत्य॑ब्रवीत् ।
ये चै॒व दे॒वाᳶ परे॒ ये चाव॑रे॒ तानु॒भयान् अ॒न्वाभ॑जत् । [28]
“स॒जोषा॑ दे॒वैरव॑रै॒ᳶ परै॒श्च”+ इत्या॑ह ।
ये चै॒व दे॒वाᳶ परे॒ य चाव॑रे॒ तानु॒भया॑न् अ॒न्वाभ॑जति । “अ॒न्त॒र्या॒मे म॑घवन् मादय॒स्व”+ इत्या॑ह ।
य॒ज्ञादे॒व यज॑मान॒न् नान्तरे॑ति ।

मूलम्

ते दे॒वा बिभ्य॑त॒ इन्द्र॒मुपा॑धावन् ।
तानिन्द्रो॑ऽन्तर्या॒मेणा॒न्तर॑धत्त ।
तद॑न्तर्या॒मस्या॑न्तर्याम॒त्वम् ।
यद॑न्तर्या॒मो गृ॒ह्यते॒ भ्रातृ॑व्यान् ए॒व तद् यज॑मानो॒ ऽन्तर्ध॑त्ते ।
अ॒न्तस् ते॑ दधामि ,[27] द्यावा॑पृथि॒वी अ॒न्तरु॒र्व॑न्तरि॑क्ष॒मित्या॑ह ।
ए॒भिरे॒व लो॒कैर्यज॑मानो॒ भ्रातृ॑व्यान् अ॒न्तर्ध॑त्ते ।
ते दे॒वा अ॑मन्य॒न्त -
इन्द्रो॒ वा इ॒दम॑भू॒द्यद्व॒यँ स्म इति॑ ।
ते॑ऽब्रुव॒न् - मघ॑व॒न्ननु॑ न॒ आ भ॒जेति॑ ।
“स॒जोषा॑ दे॒वैरव॑रै॒ᳶ परै॒श्च” इत्य॑ब्रवीत् ।
ये चै॒व दे॒वाᳶ परे॒ ये चाव॑रे॒ तानु॒भयान् अ॒न्वाभ॑जत् । [28]
“स॒जोषा॑ दे॒वैरव॑रै॒ᳶ परै॒श्च”+ इत्या॑ह ।
ये चै॒व दे॒वाᳶ परे॒ य चाव॑रे॒ तानु॒भया॑न् अ॒न्वाभ॑जति । “अ॒न्त॒र्या॒मे म॑घवन् मादय॒स्व”+ इत्या॑ह ।
य॒ज्ञादे॒व यज॑मान॒न् नान्तरे॑ति ।

पद-पाठः

ते । दे॒वाः । बिभ्य॑तः । इन्द्र॑म् । उपेति॑ । अ॒धा॒व॒न् ।
तान् । इन्द्रः॑ । अ॒न्त॒र्या॒मेणेत्य॑न्तः-या॒मेन॑ । अ॒न्तः । अ॒ध॒त्त॒ ।
तत् । अ॒न्त॒र्या॒मस्येत्य॑न्तः-या॒मस्य॑ । अ॒न्त॒र्या॒म॒त्वमित्य॑न्तर्याम-त्वम् ।
यत् । अ॒न्त॒र्या॒म इत्य॑न्तः-या॒मः । गृ॒ह्यते॑ । भ्रातृ॑व्यान् । ए॒व । तत् । यज॑मानः । अ॒न्तः । ध॒त्ते॒ ।
अ॒न्तः । ते॒ । [27] द॒धा॒मि॒ ।

द्यावा॑पृथि॒वी इति॒ द्यावा॑-पृ॒थि॒वी । अ॒न्तः । उ॒रु । अ॒न्तरि॑क्षम् । इति॑ । आ॒ह॒ ।
ए॒भिः । ए॒व । लो॒कैः । यज॑मानः । भ्रातृ॑व्यान् । अ॒न्तः । ध॒त्ते॒ ।

ते । दे॒वाः । अ॒म॒न्य॒न्त॒ ।
इन्द्रः॑ । वै । इ॒दम् । अ॒भू॒त् । यत् । व॒यम् । स्मः । इति॑ ।
ते । अ॒ब्रु॒व॒न् ।
मघ॑व॒न्निति॒ मघ॑-व॒न् । अन्विति॑ । नः॒ । एति॑ । भ॒ज॒ । इति॑ ।
स॒जोषा॒ इति॑ स-जोषाः॑ । दे॒वैः । अव॑रैः । परैः॑ । च॒ । इति॑ । अ॒ब्र॒वी॒त् ।
ये । च॒ । ए॒व । दे॒वाः । परे॑ । ये । च॒ । अव॑रे । तान् । उ॒भयान्॑ । [28] अ॒न्वाभ॑ज॒दित्य॑नु-आभ॑जत् ।

स॒जोषा॒ इति॑ स-जोषाः॑ । दे॒वैः । अव॑रैः । परैः॑ । च॒ । इति॑ । आ॒ह॒ ।

ये । च॒ । ए॒व । दे॒वाः । परे॑ । ये । च॒ । अव॑रे । तान् । उ॒भयान्॑ । अ॒न्वाभ॑ज॒तीत्य॑नु-आभ॑जति ।

अ॒न्त॒र्या॒म इत्य॑न्तः-या॒मे । म॒घ॒व॒न्निति॑ मघ-व॒न् । मा॒द॒य॒स्व॒ । इति॑ । आ॒ह॒ ।
य॒ज्ञात् । ए॒व । यज॑मानम् । न । अ॒न्तः । ए॒ति॒ ।

भट्टभास्कर-टीका

2ते देवा इत्यादि ॥ इन्द्र एवेदं विश्वमभूत् यद्वयं स्मः याऽस्माकं विभूतिस्सा इन्द्रस्यैव विभूतिरभूत् न वयं स्म इति । अथ ते देवा इन्द्रमब्रुवन् - हे मघवन् अस्मानपि अन्वाभज त्वय्यागतेऽस्मिन् विश्वाधिपत्ये अस्मानप्यनुभागिनः कुर्विति । अथेन्द्रस्सजोषा देवैरित्युक्तः ये चैव देवाः परे उत्कृष्टा ये चावरे निकृष्टाः तानुभयानन्वाभजत् । ‘अवरैः परैश्च, मादयस्व’ इति लिङ्गात् । यथा यजमानो यज्ञेयज्ञे उभयानन्वाभजति । यज्ञादेवेति । सम्यग्यज्ञनिर्वृत्त्याऽपि यज्ञे मघवा माद्यतीति । अन्तरायो विनाशः ॥

मूलम् (संयुक्तम्)

उपया॒मगृ॑हीतो॒ऽसीत्या॑हापा॒नस्य॒ धृत्यै॒

विश्वास-प्रस्तुतिः

“उ॒प॒या॒मगृ॑हीतोऽसि” + इत्या॑ह ।
अ॒पा॒नस्य॒ धृत्यै॑ ।

मूलम्

“उ॒प॒या॒मगृ॑हीतोऽसि” + इत्या॑ह ।
अ॒पा॒नस्य॒ धृत्यै॑ ।

पद-पाठः

उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म-गृ॒ही॒तः॒ । अ॒सि॒ । इति॑ । आ॒ह॒ ।
अ॒पा॒नस्येत्य॑प-अ॒नस्य॑ । धृत्यै॑ ।

भट्टभास्कर-टीका

3उपयामगृहीत इत्यादि ग्रहणमन्त्रः ॥ अपानस्येति । अन्तर्यामस्यापानस्थितिहेतुत्वात् तस्योपयामगृहीतत्वं प्रजानामपानस्य धारणाय भवति ॥

मूलम् (संयुक्तम्)

यदु॒भाव॑पवि॒त्रौ गृ॒ह्येया॑ताम्प्रा॒णम॑पा॒नोऽनु॒ न्यृ॑च्छेत्प्र॒मायु॑कस्स्यात्प॒वित्र॑वानन्तर्या॒मो गृ॑ह्यते । [29]
प्रा॒णा॒पा॒नयो॒र्विधृ॑त्यै

विश्वास-प्रस्तुतिः

यद् उ॒भाव् अ॑पवि॒त्रौ गृ॒ह्येया॑ताम् , प्रा॒णम् अ॑पा॒नोऽनु॒ न्यृ॑च्छेत् ।
प्र॒मायु॑कस् स्यात् । प॒वित्र॑वानन्तर्या॒मो गृ॑ह्यते । [29]
प्रा॒णा॒पा॒नयो॒र् विधृ॑त्यै ।

मूलम्

यद् उ॒भाव् अ॑पवि॒त्रौ गृ॒ह्येया॑ताम् , प्रा॒णम् अ॑पा॒नोऽनु॒ न्यृ॑च्छेत् ।
प्र॒मायु॑कस् स्यात् । प॒वित्र॑वानन्तर्या॒मो गृ॑ह्यते । [29]
प्रा॒णा॒पा॒नयो॒र् विधृ॑त्यै ।

पद-पाठः

यत् । उ॒भौ । अ॒प॒वि॒त्रौ । गृ॒ह्येया॑ताम् । प्रा॒णमिति॑ प्र-अ॒नम् । अ॒पा॒न इत्य॑प-अ॒नः । अनु॑ । नीति॑ । ऋ॒च्छे॒त् ।
प्र॒मायु॑क॒ इति॑ प्र-मायु॑कः । स्यात् ।
प॒वित्र॑वा॒निति॑ प॒वित्र॑-वा॒न् । अ॒न्त॒र्या॒म इत्य॑न्तः-या॒मः । गृ॒ह्य॒ते॒ । [29]
प्रा॒णा॒पा॒नयो॒रिति॑ प्राण-अ॒पा॒नयोः॑ । विधृ॑त्या॒ इति॒ वि-धृ॒त्यै॒ ।

भट्टभास्कर-टीका

4यदुभावित्यादि ॥ यद्युपांश्वन्तर्यामौ अपवित्रौ दशापवित्ररहितौ गृह्येयातां प्राणमनु निर्गच्छेदपानः, अव्यवधानात् । ततश्च प्रमायुकस्स्याद्यजमानः अपानाभावात् । यदाऽप्ययमन्तर्यामः पवित्रवान् गृह्यते तदा तयोर्मध्ये दशापवित्रस्यावस्थानात् प्राणापानौ विघृतौ विविधं भिन्नस्रोतस्कौ धारितौ भवतः । ततस्तयोर्यथायथप्रवृत्तेः न प्रमायुकत्वम् ॥

मूलम् (संयुक्तम्)

प्राणापा॒नौ वा ए॒तौ यदु॑पाँश्वन्तर्या॒मौ व्या॒न उ॑पाँशु॒सव॑नो॒ यङ्का॒मये॑त प्र॒मायु॑कस्स्या॒दित्यसँ॑स्पृष्टौ॒ तस्य॑ सादयेद्व्या॒नेनै॒वास्य॑ प्राणापा॒नौ वि च्छि॑नत्ति ता॒जक्प्रमी॑यते॒ यङ्का॒मये॑त॒ सर्व॒मायु॑रिया॒दिति॒ सँस्पृ॑ष्टौ॒ तस्य॑ सादयेद्व्या॒नेनै॒वास्य॑ प्राणापा॒नौ सन्त॑नोति॒ सर्व॒मायु॑रेति ॥ [30]

विश्वास-प्रस्तुतिः

प्राणापा॒नौ वा ए॒तौ यदु॑पाँश्वन्तर्या॒मौ व्या॒न उ॑पाँशु॒सव॑नः ।
यङ्का॒मये॑त -
“प्र॒मायु॑कस् स्या॒द्” इत्यसँ॑स्पृष्टौ॒ तस्य॑ सादयेत् ।
व्या॒नेनै॒वास्य॑ प्राणापा॒नौ वि च्छि॑नत्ति ।
ता॒जक् प्रमी॑यते । यङ्का॒मये॑त॒ -
“सर्व॒मायु॑रिया॒द्” इति॒ सँस्पृ॑ष्टौ॒ तस्य॑ सादयेत् ।
व्या॒नेनै॒वास्य॑ प्राणापा॒नौ सन्त॑नोति ।
सर्व॒मायु॑रेति ॥ [30]

मूलम्

प्राणापा॒नौ वा ए॒तौ यदु॑पाँश्वन्तर्या॒मौ व्या॒न उ॑पाँशु॒सव॑नः ।
यङ्का॒मये॑त -
“प्र॒मायु॑कस् स्या॒द्” इत्यसँ॑स्पृष्टौ॒ तस्य॑ सादयेत् ।
व्या॒नेनै॒वास्य॑ प्राणापा॒नौ वि च्छि॑नत्ति ।
ता॒जक् प्रमी॑यते । यङ्का॒मये॑त॒ -
“सर्व॒मायु॑रिया॒द्” इति॒ सँस्पृ॑ष्टौ॒ तस्य॑ सादयेत् ।
व्या॒नेनै॒वास्य॑ प्राणापा॒नौ सन्त॑नोति ।
सर्व॒मायु॑रेति ॥ [30]

पद-पाठः

प्रा॒णा॒पा॒नाविति॑ प्राण-अ॒पा॒नौ । वै । ए॒तौ । यत् । उ॒पाँ॒श्व॒न्त॒र्या॒मावित्यु॑पाँशु-अ॒न्त॒र्या॒मौ । व्या॒न इति॑ वि-अ॒नः । उ॒पाँ॒शु॒सव॑न॒ इत्यु॑पाँशु-सव॑नः ।

यम् । का॒मये॑त । प्र॒मायु॑क॒ इति॑ प्र-मायु॑कः । स्यात् । इति॑ ।
असँ॑स्पृष्टा॒वित्यस॑म्-स्पृ॒ष्टौ॒ । तस्य॑ । सा॒द॒ये॒त् ।
व्या॒नेनेति॑ वि-अ॒नेन॑ । ए॒व । अ॒स्य॒ । प्रा॒णा॒पा॒नाविति॑ प्राण-अ॒पा॒नौ । वीति॑ । छि॒न॒त्ति॒ ।
ता॒जक् । प्रेति॑ । मी॒य॒ते॒ ।

यम् । का॒मये॑त ।
सर्व॑म् । आयुः॑ । इ॒या॒त् । इति॑ । सँस्पृ॑ष्टा॒विति॒ सम्-स्पृ॒ष्टौ॒ । तस्य॑ । सा॒द॒ये॒त् ।

व्या॒नेनेति॑ वि-अ॒नेन॑ । ए॒व । अ॒स्य॒ । प्रा॒णा॒पा॒नाविति॑ प्राण-अ॒पा॒नौ । समिति॑ । त॒नो॒ति॒ ।
सर्व॑म् । आयुः॑ । ए॒ति॒ ॥ [30]

भट्टभास्कर-टीका

5प्राणापानौ वा इत्यादि ॥ असंस्पृष्टौ मध्ये स्थितेनोपांशुसवनेन उपांश्वन्तर्यामौ सादयेत् । ताजक् तदानीमेव । गतमन्यत् ॥

इति षष्ठे चतुर्थे षष्ठोनुवाकः ॥