मूलम् (संयुक्तम्)
प्रा॒णो वा ए॒ष यदु॑पाँ॒शुर्यदु॑पाँ॒श्व॑ग्रा॒ ग्रहा॑ गृ॒ह्यन्ते॑ प्रा॒णमे॒वानु॒ प्र य॑न्त्य्
विश्वास-प्रस्तुतिः
प्रा॒णो वा ए॒ष यदु॑पाँ॒शुः ।
यदु॑पाँ॒श्व॑ग्रा॒ ग्रहा॑ गृ॒ह्यन्ते॑ , प्रा॒णमे॒वानु॒ प्र य॑न्ति ।
मूलम्
प्रा॒णो वा ए॒ष यदु॑पाँ॒शुः ।
यदु॑पाँ॒श्व॑ग्रा॒ ग्रहा॑ गृ॒ह्यन्ते॑ , प्रा॒णमे॒वानु॒ प्र य॑न्ति ।
पद-पाठः
प्रा॒ण इति॑ प्र-अ॒नः । वै । ए॒षः । यत् । उ॒पाँ॒शुरित्यु॑प-अँ॒शुः ।
यत् । उ॒पाँ॒श्व॑ग्रा॒ इत्यु॑पाँ॒शु-अ॒ग्राः॒ । ग्रहाः॑ । गृ॒ह्यन्ते॑ । प्रा॒णमिति॑ प्र-अ॒नम् । ए॒व । अनु॑ । प्रेति॑ । य॒न्ति॒ ।
भट्टभास्कर-टीका
1प्राणो वा इत्यादि ॥ प्राणस्थितिहेतुत्वाताच्छब्द्यम् । उपांश्वग्राः उपांशुप्रथमाः अनुप्रयन्ति अनुगच्छन्ति ॥
मूलम् (संयुक्तम्)
अरु॒णो ह॑ स्मा॒हौप॑वेशिᳶ प्रातस्सव॒न ए॒वाहय्ँ य॒ज्ञँ सँस्था॑पयामि॒ तेन॒ तत॒स्सँस्थि॑तेन चरा॒मीत्य॒ष्टौ कृत्वोऽग्रे॒ऽभि षु॑णोत्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रम्प्रा॑तस्सव॒नम्प्रा॑तस्सव॒नमे॒व तेना॑प्नो॒त्येका॑दश॒ कृत्वो॑ द्वि॒तीय॒मेका॑दशाक्षरा त्रि॒ष्टुप्त्रैष्टु॑भ॒म्माध्य॑न्दिनम् [20]
सव॑न॒म्माध्य॑न्दिनमे॒व सव॑न॒न्तेना॑प्नोति॒ द्वाद॑श॒ कृत्व॑स्तृ॒तीय॒न्द्वाद॑शाक्षरा॒ जग॑ती॒ जाग॑तन्तृतीयसव॒नन्तृ॑तीयसव॒नमे॒व तेना॑प्नोत्य
विश्वास-प्रस्तुतिः
अ॒रु॒णो ह॑ स्मा॒हौप॑वेशिः ।
प्रा॒त॒स॒व॒न ए॒वाहय्ँ य॒ज्ञँ सँस्था॑पयामि॒ , तेन॒ तत॒स् सँस्थि॑तेन चरा॒मीति॑ ।
अ॒ष्टौ कृत्वोऽग्रे॒ऽभि षु॑णोति ।
अ॒ष्टाक्ष॑रा गाय॒त्री ।
गा॒य॒त्रम् प्रा॑तस् सव॒नम् ।
प्रा॒त॒स्स॒व॒नम् ए॒व तेना॑प्नोति ।
एका॑दश॒ कृत्वो॑ द्वि॒तीय॑म् ।
एका॑दशाक्षरा त्रि॒ष्टुप् ।
त्रैष्टु॑भ॒म् माध्य॑न्दिनँ॒ सव॑नम् ।[20]
माध्य॑न्दिनमे॒व सव॑न॒न् तेना॑प्नोति ।
द्वाद॑श॒ कृत्व॑स् तृ॒तीय॑म् ।
द्वाद॑शाक्षरा॒ जग॑ती ।
जाग॑तन्तृतीयसव॒नम् ।
तृ॒ती॒य॒स॒व॒नम् ए॒व तेना॑प्नोति ।
मूलम्
अ॒रु॒णो ह॑ स्मा॒हौप॑वेशिः ।
प्रा॒त॒स॒व॒न ए॒वाहय्ँ य॒ज्ञँ सँस्था॑पयामि॒ , तेन॒ तत॒स् सँस्थि॑तेन चरा॒मीति॑ ।
अ॒ष्टौ कृत्वोऽग्रे॒ऽभि षु॑णोति ।
अ॒ष्टाक्ष॑रा गाय॒त्री ।
गा॒य॒त्रम् प्रा॑तस् सव॒नम् ।
प्रा॒त॒स्स॒व॒नम् ए॒व तेना॑प्नोति ।
एका॑दश॒ कृत्वो॑ द्वि॒तीय॑म् ।
एका॑दशाक्षरा त्रि॒ष्टुप् ।
त्रैष्टु॑भ॒म् माध्य॑न्दिनँ॒ सव॑नम् ।[20]
माध्य॑न्दिनमे॒व सव॑न॒न् तेना॑प्नोति ।
द्वाद॑श॒ कृत्व॑स् तृ॒तीय॑म् ।
द्वाद॑शाक्षरा॒ जग॑ती ।
जाग॑तन्तृतीयसव॒नम् ।
तृ॒ती॒य॒स॒व॒नम् ए॒व तेना॑प्नोति ।
पद-पाठः
अ॒रु॒णः । ह॒ । स्म॒ । आ॒ह॒ । औप॑वेशि॒रित्यौप॑-वे॒शिः॒ ।
प्रा॒त॒स्स॒व॒न इति॑ प्रातः-स॒व॒ने । ए॒व । अ॒हम् । य॒ज्ञम् । समिति॑ । स्था॒प॒या॒मि॒ । तेन॑ । ततः॑ । सँस्थि॑ते॒नेति॒ सम्-स्थि॒ते॒न॒ । च॒रा॒मि॒ । इति॑ ।
अ॒ष्टौ । कृत्वः॑ । अग्रे॑ । अ॒भीति॑ । सु॒नो॒ति॒ ।
अ॒ष्टाक्ष॒रेत्य॒ष्टा-अ॒क्ष॒रा॒ । गा॒य॒त्री ।
गा॒य॒त्रम् । प्रा॒त॒स्स॒व॒नमिति॑ प्रातः-स॒व॒नम् ।
प्रा॒त॒स्स॒व॒नमिति॑ प्रातः-स॒व॒नम् । ए॒व । तेन॑ । आ॒प्नो॒ति॒ ।
एका॑दश । कृत्वः॑ । द्वि॒तीय॑म् ।
एका॑दशाक्ष॒रेत्येका॑दश-अ॒क्ष॒रा॒ । त्रि॒ष्टुप् । त्रैष्टु॑भम् । माध्य॑न्दिनम् । [20] सव॑नम् ।
माध्य॑न्दिनम् । ए॒व । सव॑नम् । तेन॑ । आ॒प्नो॒ति॒ । द्वाद॑श । कृत्वः॑ । तृ॒तीय॑म् ।
द्वाद॑शाक्ष॒रेति॒ द्वाद॑श-अ॒क्ष॒रा॒ । जग॑ती ।
जाग॑तम् । तृ॒ती॒य॒स॒व॒नमिति॑ तृतीय-स॒व॒नम् ।
तृ॒ती॒य॒स॒व॒नमिति॑ तृतीय-स॒व॒नम् । ए॒व । तेन॑ । आ॒प्नो॒ति॒ ।
भट्टभास्कर-टीका
2अरुणो हेत्यादि ॥ उपवेशस्यापत्यं अरुणो नाम आह स्म - अहं प्रातस्सवन एव यज्ञं संस्थापयामि समापयामि सोमं, ततश्च प्रातस्सवन एव समाप्तौ तेन यज्ञेनेत्थंभूतश्चरामीति प्रतिज्ञामाह । प्रयोजनं च वक्ष्यति - अस्कन्दायेति । कथं पुनः प्रातस्सवन एव यज्ञसंस्थापनेत्यत आह - अष्टौ कृत्व इत्यादि । क्रियाभ्यावृत्तिवाचिशब्दान्तरमिदं, न प्रत्ययः । अभिषवे अष्टत्वाद्यन्वयात् गायत्र्यादिसवनत्रयलाभः । त्रिष्टुब्जगतीशब्दौ उत्सादिः ॥
मूलम् (संयुक्तम्)
ए॒ताँ ह॒ वाव स य॒ज्ञस्य॒ सँस्थि॑तिमुवा॒चास्क॑न्दा॒यास्क॑न्नँ॒ हि तद्यद्य॒ज्ञस्य॒ सँस्थि॑तस्य॒ स्कन्द॒त्य्
विश्वास-प्रस्तुतिः
ए॒ताँ ह॒ वाव स य॒ज्ञस्य॒ सँस्थि॑तिम् उवाच । आस्क॑न्दा॒य ।
आस्क॑न्नँ॒ हि तद् यद् य॒ज्ञस्य॒ सँस्थि॑तस्य॒ स्कन्द॑ति ।
मूलम्
ए॒ताँ ह॒ वाव स य॒ज्ञस्य॒ सँस्थि॑तिम् उवाच । आस्क॑न्दा॒य ।
आस्क॑न्नँ॒ हि तद् यद् य॒ज्ञस्य॒ सँस्थि॑तस्य॒ स्कन्द॑ति ।
पद-पाठः
ए॒ताम् । ह॒ । वाव । सः । य॒ज्ञस्य॑ । सँस्थि॑ति॒मिति॒ सम्-स्थि॒ति॒म् । उ॒वा॒च॒ ।
अस्क॑न्दाय ।
अस्क॑न्नम् । हि । तत् । यत् । य॒ज्ञस्य॑ । सँस्थि॑त॒स्येति॒ सम्-स्थि॒त॒स्य॒ । स्कन्द॑ति ।
भट्टभास्कर-टीका
3एतां हेत्यादि ॥ एतां यज्ञस्य संस्थितिं सोरुण उवाच । किमर्थम्? अस्कन्दाय स्कन्नदोषाभावाय । कथं पुनस्तदभाव इत्याह - अस्कन्नं हीत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
अथो॒ खल्वा॑हुर्गाय॒त्री वाव प्रा॑तस्सव॒ने नाति॒वाद॒ इत्यन॑तिवादुक एन॒म्भ्रातृ॑व्यो भवति॒ य ए॒वव्ँ वेद॒ तस्मा॑द॒ष्टाव॑ष्टौ [21]
कृत्वो॑ऽभि॒षुत्य॑म्
विश्वास-प्रस्तुतिः
अथो॒ खल्वा॑हुर् - गाय॒त्री वाव प्रा॑तस्सव॒ने नाति॒वाद॒ इति॑ ।
अन॑तिवादुक एन॒म् भ्रातृ॑व्यो भवति॒ , य ए॒वव्ँ वेद॑ ।
तस्मा॑द् अ॒ष्टाव॑ष्टौ कृत्वो॑ ऽभि॒षुत्य॑म् ।[21]
मूलम्
अथो॒ खल्वा॑हुर् - गाय॒त्री वाव प्रा॑तस्सव॒ने नाति॒वाद॒ इति॑ ।
अन॑तिवादुक एन॒म् भ्रातृ॑व्यो भवति॒ , य ए॒वव्ँ वेद॑ ।
तस्मा॑द् अ॒ष्टाव॑ष्टौ कृत्वो॑ ऽभि॒षुत्य॑म् ।[21]
पद-पाठः
अथो॒ इति॑ । खलु॑ । आ॒हुः॒ । 1गा॒य॒त्री । वाव । प्रा॒त॒स्स॒व॒न इति॑ प्रातः-स॒व॒ने । न । अ॒ति॒वाद॒ इत्य॑ति-वादे॑ । इति॑ ।
अन॑तिवादुक॒ इत्यन॑ति-वा॒दु॒कः॒ । ए॒न॒म् । भ्रातृ॑व्यः । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑ ।
तस्मा॑त् । अ॒ष्टाव॑ष्टा॒वित्य॒ष्टौ-अ॒ष्टौ॒ । [21] कृत्वः॑ । अ॒भि॒षुत्य॒मित्य॑भि-सुत्य॑म् ।
भट्टभास्कर-टीका
4अथो खल्वित्यादि पक्षान्तरम् ॥ गायत्रो खलु प्रातस्सवनेन अतिवादे न वर्तते अतिवादं न सहते, गायत्रत्वात्प्रातस्सवनस्य । गायत्र्या एव ह्यतिवादास्त्रिष्टुबादयः । तस्माच्छन्दोन्तरमयुक्तं प्रातस्सवने इत्यरुणादन्य आहुः । एवं वेदितारं भ्रातृव्यः अनतिवादुकः अतिक्रम्य वचनशीलोतिवादुकः । छान्दस उकञ्, पूर्ववत् षष्ठ्यभावः । यस्मादेवं प्रातस्सवने गायत्र्या नातिवादः तस्मादष्टावष्टौकृत्वः एकादशकृत्वः इत्यादि मुक्त्वा सर्वेष्वपि पर्यायेषु अष्टकृत्व एवाभिषुत्यमभिषोतव्यम् । छान्दसः क्यप् ॥
मूलम् (संयुक्तम्)
ब्रह्मवा॒दिनो॑ वदन्ति प॒वित्र॑वन्तो॒ऽन्ये ग्रहा॑ गृ॒ह्यन्ते॒ किम्प॑वित्र उपाँ॒शुरिति॒ वाक्प॑वित्र॒ इति॑ ब्रूयाद्वा॒चस्पत॑ये पवस्व वाजि॒न्नित्या॑ह वा॒चैवैन॑म्पवयति॒ वृष्णो॑ अँ॒शुभ्या॒मित्या॑ह॒ वृष्णो॒ ह्ये॑तावँ॒शू यौ सोम॑स्य॒ गभ॑स्तिपूत॒ इत्या॑ह॒ गभ॑स्तिना॒ ह्ये॑नम्प॒वय॑ति दे॒वो दे॒वाना॑म्प॒वित्र॑म॒सीत्या॑ह दे॒वो ह्ये॑षः [22]
सन्दे॒वाना॑म्प॒वित्रय्ँ॒येषा॑म्भा॒गोऽसि॒ तेभ्य॒स्त्वेत्या॑ह॒ येषाँ॒ ह्ये॑ष भा॒गस्तेभ्य॑ एनङ्गृ॒ह्णाति॒ स्वाङ्कृ॑तो॒ऽसीत्या॑ह प्रा॒णमे॒व स्वम॑कृत॒ मधु॑मतीर्न॒ इष॑स्कृ॒धीत्या॑ह॒ सर्व॑मे॒वास्मा॑ इ॒दँ स्व॑दयति॒
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति -
“प॒वित्र॑वन्तो॒ऽन्ये ग्रहा॑ गृ॒ह्यन्ते॒ , किम् प॑वित्र उपाँ॒शुर्” इति॑ ।
“वाक्प॑वित्र॒” इति॑ ब्रूयात् ।
“वा॒चस्पत॑ये पवस्व वाजि॒न्न्” इत्या॑ह । वा॒चैवैन॑म् पवयति ।
“वृष्णो॑ अँ॒शुभ्या॒म्” इत्या॑ह । वृष्णो॒ ह्ये॑तावँ॒शू यौ सोम॑स्य ।
“गभ॑स्तिपूत॒” इत्या॑ह । गभ॑स्तिना॒ ह्ये॑नम् प॒वय॑ति ।
“दे॒वो दे॒वाना॑म् प॒वित्र॑म॒सि” इत्या॑ह ।
दे॒वो ह्ये॑षस् सन्दे॒वाना॑म् प॒वित्र॑म् ।[22]
“येषा॑म् भा॒गोऽसि॒ तेभ्य॒स् त्वा”+ इत्या॑ह ।
येषाँ॒ ह्ये॑ष भा॒गस् तेभ्य॑ एनङ् गृ॒ह्णाति॑ ।
“स्वाङ्कृ॑तो॒ ऽसि” इत्या॑ह । प्रा॒णमे॒व स्वम॑कृत ।
“मधु॑मतीर्न॒ इष॑स्कृ॒धि”+ इत्या॑ह ।
सर्व॑मे॒वास्मा॑ इ॒दँ स्व॑दयति ।
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति -
“प॒वित्र॑वन्तो॒ऽन्ये ग्रहा॑ गृ॒ह्यन्ते॒ , किम् प॑वित्र उपाँ॒शुर्” इति॑ ।
“वाक्प॑वित्र॒” इति॑ ब्रूयात् ।
“वा॒चस्पत॑ये पवस्व वाजि॒न्न्” इत्या॑ह । वा॒चैवैन॑म् पवयति ।
“वृष्णो॑ अँ॒शुभ्या॒म्” इत्या॑ह । वृष्णो॒ ह्ये॑तावँ॒शू यौ सोम॑स्य ।
“गभ॑स्तिपूत॒” इत्या॑ह । गभ॑स्तिना॒ ह्ये॑नम् प॒वय॑ति ।
“दे॒वो दे॒वाना॑म् प॒वित्र॑म॒सि” इत्या॑ह ।
दे॒वो ह्ये॑षस् सन्दे॒वाना॑म् प॒वित्र॑म् ।[22]
“येषा॑म् भा॒गोऽसि॒ तेभ्य॒स् त्वा”+ इत्या॑ह ।
येषाँ॒ ह्ये॑ष भा॒गस् तेभ्य॑ एनङ् गृ॒ह्णाति॑ ।
“स्वाङ्कृ॑तो॒ ऽसि” इत्या॑ह । प्रा॒णमे॒व स्वम॑कृत ।
“मधु॑मतीर्न॒ इष॑स्कृ॒धि”+ इत्या॑ह ।
सर्व॑मे॒वास्मा॑ इ॒दँ स्व॑दयति ।
पद-पाठः
ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ ।
प॒वित्र॑वन्त॒ इति॑ प॒वित्र॑-व॒न्तः॒ । अ॒न्ये । ग्रहाः॑ । गृ॒ह्यन्ते॑ ।
किम्प॑वित्र॒ इति॒ किम्-प॒वि॒त्रः॒ । उ॒पाँ॒शुरित्यु॑प-अँ॒शुः । इति॑ ।
वाक्प॑वित्र॒ इति॒ वाक्-प॒वि॒त्रः॒ । इति॑ । ब्रू॒या॒त् ।
वा॒चः । पत॑ये । प॒व॒स्व॒ । वा॒जि॒न् । इति॑ । आ॒ह॒ ।
वा॒चा । ए॒व । ए॒न॒म् । प॒व॒य॒ति॒ ।
वृष्णः॑ । अँ॒शुभ्या॒मित्यँ॒शु-भ्या॒म् । इति॑ । आ॒ह॒ ।
वृष्णः॑ । हि । ए॒तौ । अँ॒शू इति॑ । यौ । सोम॑स्य ।
गभ॑स्तिपूत॒ इति॒ गभ॑स्ति-पू॒तः॒ । इति॑ । आ॒ह॒ ।
गभ॑स्तिना । हि । ए॒न॒म् । प॒वय॑ति ।
दे॒वः । दे॒वाना॑म् । प॒वित्र॑म् । अ॒सि॒ । इति॑ । आ॒ह॒ ।
दे॒वः । हि । ए॒षः । [22]
सन् । दे॒वाना॑म् । प॒वित्र॑म् ।
येषा॑म् । भा॒गः । असि॑ । तेभ्यः॑ । त्वा॒ । इति॑ । आ॒ह॒ ।
येषा॑म् । हि । ए॒षः । भा॒गः । तेभ्यः॑ । ए॒न॒म् । गृ॒ह्णाति॑ ।
स्वाङ्कृ॑तः । अ॒सि॒ । इति॑ । आ॒ह॒ ।
प्रा॒णमिति॑ प्र-अ॒नम् । ए॒व । स्वम् । अ॒कृ॒त॒ ।
मधु॑मती॒रिति॒ मधु॑-म॒तीः॒ । नः॒ । इषः॑ । कृ॒धि॒ । इति॑ । आ॒ह॒ ।
सर्व॑म् । ए॒व । अ॒स्मै॒ । इ॒दम् । स्व॒द॒य॒ति॒ ।
भट्टभास्कर-टीका
5ब्रह्मवादिन इत्यादि ॥ दशापवित्रवन्त एवान्ये सर्वे ग्रहा गृह्यन्ते । अयमुपांशुग्रहः किंपवित्रः केन पवित्रेण तद्वानिति पृच्छन्ति ब्रह्मवादिनः । वाक्पवित्र इत्युत्तरं ब्रूयात् तेभ्यः । वाचस्पतये इत्येतद्वचनमेव पवित्रमस्य । तस्माद्वाचैवैतयैनं पवयति किं दशापवित्रेण । सोमस्य खल्वंशू वृष्णोंशू वर्षितृत्वात् । सोमस्य गभस्तिमत्त्वेन गभस्तिनैनं पवयति । हस्तो गभस्तिरिति केचित् । स्वयं देवः सन् देवानां पवित्रं भवत्येषः । येषामेष भागः तेभ्य एवायं गृहीतो भवति । प्राणमेव स्वमात्मीयं करोति । छान्दसो लुङ् । मन्त्रे ‘स्वांकृतोसि’ इति च्वेराम् ईत्वापवादः । एवमादेश इति दर्शयति सर्वमस्मै स्वादु करोति ॥
मूलम् (संयुक्तम्)
विश्वे॑भ्यस्त्वेन्द्रि॒येभ्यो॑ दि॒व्येभ्य॒ᳶ पार्थि॑वेभ्य॒ इत्या॑हो॒भये॑ष्वे॒व दे॑वमनु॒ष्येषु॑ प्रा॒णान्द॑धाति॒ मन॑स्त्वा [23]
अ॒ष्ट्वित्या॑ह॒ मन॑ ए॒वाश्ञु॑त उ॒र्व॑न्तरि॑क्ष॒मन्वि॒हीत्या॑हान्तरिक्षदेव॒त्यो॑ हि प्रा॒णस्स्वाहा॑ त्वा सुभव॒स्सूर्या॒येत्या॑ह प्रा॒णा वै स्वभ॑वसो दे॒वास्तेष्वे॒व प॒रोक्ष॑ञ्जुहोति दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्य॒ इत्या॑हादि॒त्यस्य॒ वै र॒श्मयो॑ दे॒वा म॑रीचि॒पास्तेषा॒न्तद्भा॑ग॒धेय॒न्ताने॒व तेन॑ प्रीणाति॒
विश्वास-प्रस्तुतिः
“विश्वे॑भ्यस् त्वा + इ॒न्द्रि॒येभ्यो॑ दि॒व्येभ्य॒ᳶ पार्थि॑वेभ्य॒” इत्या॑ह ।
उ॒भये॑ष्वे॒व दे॑वमनु॒ष्येषु॑ प्रा॒णान् द॑धाति ।
“मन॑स्त्वाष्टु॒”+ इत्या॑ह । [23]
मन॑ ए॒वाश्ञु॑ते ।
“उ॒र्व॑न्तरि॑क्ष॒म् अन्वि॒हि” इत्या॑ह ।
अ॒न्त॒रि॒क्ष॒दे॒व॒त्यो॑ हि प्रा॒णः ।
“स्वाहा॑ त्वा सुभव॒स् सूर्या॒य”+ इत्या॑ह ।
प्रा॒णा वै स्वभ॑वसो दे॒वाः ।
तेष्वे॒व प॒रोक्ष॑ञ् जुहोति ।
“दे॒वेभ्य॑स् त्वा मरीचि॒पेभ्य॒” इत्या॑ह ।
आ॒दि॒त्यस्य॒ वै र॒श्मयो॑ दे॒वा म॑रीचि॒पाः ।
तेषा॒न् तद् भा॑ग॒धेय॒न् , ताने॒व तेन॑ प्रीणाति ।
मूलम्
“विश्वे॑भ्यस् त्वा + इ॒न्द्रि॒येभ्यो॑ दि॒व्येभ्य॒ᳶ पार्थि॑वेभ्य॒” इत्या॑ह ।
उ॒भये॑ष्वे॒व दे॑वमनु॒ष्येषु॑ प्रा॒णान् द॑धाति ।
“मन॑स्त्वाष्टु॒”+ इत्या॑ह । [23]
मन॑ ए॒वाश्ञु॑ते ।
“उ॒र्व॑न्तरि॑क्ष॒म् अन्वि॒हि” इत्या॑ह ।
अ॒न्त॒रि॒क्ष॒दे॒व॒त्यो॑ हि प्रा॒णः ।
“स्वाहा॑ त्वा सुभव॒स् सूर्या॒य”+ इत्या॑ह ।
प्रा॒णा वै स्वभ॑वसो दे॒वाः ।
तेष्वे॒व प॒रोक्ष॑ञ् जुहोति ।
“दे॒वेभ्य॑स् त्वा मरीचि॒पेभ्य॒” इत्या॑ह ।
आ॒दि॒त्यस्य॒ वै र॒श्मयो॑ दे॒वा म॑रीचि॒पाः ।
तेषा॒न् तद् भा॑ग॒धेय॒न् , ताने॒व तेन॑ प्रीणाति ।
पद-पाठः
विश्वे॑भ्यः । त्वा॒ । इ॒न्द्रि॒येभ्यः॑ । दि॒व्येभ्यः॑ । पार्थि॑वेभ्यः । इति॑ । आ॒ह॒ ।
उ॒भये॑षु । ए॒व । दे॒व॒म॒नु॒ष्येष्विति॑ देव-म॒नु॒ष्येषु॑ । प्रा॒णानिति॑ प्र-अ॒नान् । द॒धा॒ति॒ ।
मनः॑ । त्वा॒ । [23] अ॒ष्टु॒ । इति॑ । आ॒ह॒ ।
मनः॑ । ए॒व । अ॒श्ञु॒ते॒ ।
उ॒रु । अ॒न्तरि॑क्षम् । अन्विति॑ । इ॒हि॒ । इति॑ । आ॒ह॒ ।
अ॒न्त॒रि॒क्ष॒दे॒व॒त्य॑ इत्य॑न्तरिक्ष-दे॒व॒त्यः॑ । हि । प्रा॒ण इति॑ प्र-अ॒नः ।
स्वाहा॑ । त्वा॒ । सु॒भ॒व॒ इति॑ सु-भ॒वः॒ । सूर्या॑य । इति॑ । आ॒ह॒ ।
प्रा॒णा इति॑ प्र-अ॒नाः । वै । स्वभ॑वस॒ इति॒ स्व-भ॒व॒सः॒ । दे॒वाः ।
तेषु॑ । ए॒व । प॒रोक्ष॒मिति॑ परः-अक्ष॑म् । जु॒हो॒ति॒ ।
दे॒वेभ्यः॑ । त्वा॒ । म॒री॒चि॒पेभ्य॒ इति॑ मरीचि-पेभ्यः॑ । इति॑ । आ॒ह॒ ।
आ॒दि॒त्यस्य॑ । वै । र॒श्मयः॑ । दे॒वाः । म॒री॒चि॒पा इति॑ मरीचि-पाः ।
तेषा॑म् । तत् । भा॒ग॒धेय॒मिति॑ भाग-धेय॑म् । तान् । ए॒व । तेन॑ । प्री॒णा॒ति॒ ।
भट्टभास्कर-टीका
6विश्वेभ्यस्त्वेति ॥ गतम् । प्राणा वै स्वभवस इत्यादि । मन्त्रे सुभव इति स्वभवसां प्राणापानानां परोक्षमामन्त्रणमिति दर्शयति । स्वस्मिन्नात्मनि जाता देवास्स्वभवसः, तेषु परोक्षं हुतं भवति । स्वभवस इति । आदित्यस्य वै रश्मय इत्यादि । गतम् ॥ +++(सम्पादकटिप्पनी - विस्तृतं व्याख्यानमन्यत्र मृग्यम्)+++।
मूलम् (संयुक्तम्)
यदि॑ का॒मये॑त॒ वर्षु॑कᳶ प॒र्जन्यः॑ [24]
स्या॒दिति॒ नीचा॒ हस्ते॑न॒ नि मृ॑ज्या॒द्वृष्टि॑मे॒व नि य॑च्छति॒ यदि॑ का॒मये॒ताव॑र्षुकस्स्या॒दित्यु॑त्ता॒नेन॒ नि मृ॑ज्या॒द्वृष्टि॑मे॒वोद्य॑च्छति॒
विश्वास-प्रस्तुतिः
यदि॑ का॒मये॑त॒ -
“वर्षु॑कᳶ प॒र्जन्यः॑ स्या॒द्” इति॒ , नीचा॒ हस्ते॑न॒ नि मृ॑ज्या॒द् । [24]
वृष्टि॑मे॒व नि य॑च्छति ।
यदि॑ का॒मये॒त -
“अव॑र्षुकस् स्या॒द्” इति॑ +उ॒त्ता॒नेन॒ नि मृ॑ज्या॒द् ।
वृष्टि॑म् ए॒वोद्य॑च्छति ।
मूलम्
यदि॑ का॒मये॑त॒ -
“वर्षु॑कᳶ प॒र्जन्यः॑ स्या॒द्” इति॒ , नीचा॒ हस्ते॑न॒ नि मृ॑ज्या॒द् । [24]
वृष्टि॑मे॒व नि य॑च्छति ।
यदि॑ का॒मये॒त -
“अव॑र्षुकस् स्या॒द्” इति॑ +उ॒त्ता॒नेन॒ नि मृ॑ज्या॒द् ।
वृष्टि॑म् ए॒वोद्य॑च्छति ।
पद-पाठः
यदि॑ । का॒मये॑त । वर्षु॑कः । प॒र्जन्यः॑ । [24]
स्या॒त् । इति॑ । नीचा॑ । हस्ते॑न । नीति॑ । मृ॒ज्या॒त् ।
वृष्टि॑म् । ए॒व । नीति॑ । य॒च्छ॒ति॒ ।
यदि॑ । का॒मये॑त ।
अव॑र्षुकः । स्या॒त् । इति॑ । उ॒त्ता॒नेनेत्यु॑त्-ता॒नेन॑ । नीति॑ । मृ॒ज्या॒त् ।
वृष्टि॑म् । ए॒व । उदिति॑ । य॒च्छ॒ति॒ ।
भट्टभास्कर-टीका
7यदीत्यादि ॥ वर्षुकः वर्षणशीलः पजर्न्यस्स्यादिति यदि कामयेत तदा नीचा अधोमुखेन हस्तेन निमृज्यात् शोधयेत् । वृष्टिं नियच्छति न्यक्पातयति । अवर्षुकः अवर्षणशीलः, पूर्ववदुकञ् । उत्तानमुखः उद्यच्छति ऊर्ध्वमाकर्षति ॥
मूलम् (संयुक्तम्)
यद्य॑भि॒चरे॑द॒मुञ्ज॒ह्यथ॑ त्वा होष्या॒मीति॑ ब्रूया॒दाहु॑तिमे॒वैन॑म्प्रे॒प्सन्ह॑न्ति॒ यदि॑ दू॒रे स्यादा तमि॑तोस्तिष्ठेत्प्रा॒णमे॒वास्या॑नु॒गत्य॑ हन्ति॒
विश्वास-प्रस्तुतिः
यद्य॑भि॒चरे॑द् अ॒मुञ् ज॒ह्यथ॑ त्वा होष्या॒मीति॑ ब्रूयात् ।
आहु॑तिम् ए॒वैन॑म् प्रे॒प्सन् ह॑न्ति ।
यदि॑ दू॒रे स्याद् आ तमि॑तोस्तिष्ठेत् ।
प्रा॒णमे॒वास्या॑नु॒गत्य॑ हन्ति ।
मूलम्
यद्य॑भि॒चरे॑द् अ॒मुञ् ज॒ह्यथ॑ त्वा होष्या॒मीति॑ ब्रूयात् ।
आहु॑तिम् ए॒वैन॑म् प्रे॒प्सन् ह॑न्ति ।
यदि॑ दू॒रे स्याद् आ तमि॑तोस्तिष्ठेत् ।
प्रा॒णमे॒वास्या॑नु॒गत्य॑ हन्ति ।
पद-पाठः
यदि॑ । अ॒भि॒चरे॒दित्य॑भि-चरे॑त् । अ॒मुम् । ज॒हि॒ । अथ॑ । त्वा॒ । हो॒ष्या॒मि॒ । इति॑ । ब्रू॒या॒त् ।
आहु॑ति॒मित्या-हु॒ति॒म् । ए॒व । ए॒न॒म् । प्रे॒प्सन्निति॑ प्र-ई॒प्सन् । ह॒न्ति॒ ।
यदि॑ । दू॒रे । स्यात् । एति॑ । तमि॑तोः । ति॒ष्ठे॒त् ।
प्रा॒णमिति॑ प्र-अ॒नम् । ए॒व । अ॒स्य॒ । अ॒नु॒गत्येत्य॑नु-गत्य॑ । ह॒न्ति॒ ।
भट्टभास्कर-टीका
8यद्यभिचरेदित्यादि ॥ अमुं देवदत्तं जहि मारय अथानन्तरं तुभ्यं ग्रहं होष्यामि नेदानीमिति भविष्यति निर्देशं कुर्यात् । आहुतिमेव प्रेप्सन् प्रणस्सूर्यो वा एनमभिचरितव्यं हन्ति नाशयति । अथ यदि दूरे स्यादभिचरितव्यः तदा आतमितोस्तिष्ठेत् यावन्तं कालं निरुच्छ्वासस्स्थातुं न शक्नुयात् तावन्तं कालमुच्छ्वसन् तिष्ठेत् । अस्याभिचरितव्यस्य प्राणमनुगत्यैनं हन्ति ॥
मूलम् (संयुक्तम्)
यद्य॑भि॒चरे॑द॒मुष्य॑ [25]
त्वा॒ प्रा॒णे सा॑दया॒मीति॑ सादये॒दस॑न्नो॒ वै प्रा॒णᳶ प्रा॒णमे॒वास्य॑ सादयति
विश्वास-प्रस्तुतिः
यद्य॑भि॒चरे॑द् अ॒मुष्य॑ त्वा॒ प्रा॒णे सा॑दया॒मीति॑ सादयेत् ।[25]
अस॑न्नो॒ वै प्रा॒णᳶ , प्रा॒णम् ए॒वास्य॑ सादयति ।
मूलम्
यद्य॑भि॒चरे॑द् अ॒मुष्य॑ त्वा॒ प्रा॒णे सा॑दया॒मीति॑ सादयेत् ।[25]
अस॑न्नो॒ वै प्रा॒णᳶ , प्रा॒णम् ए॒वास्य॑ सादयति ।
पद-पाठः
यदि॑ । अ॒भि॒चरे॒दित्य॑भि-चरे॑त् । अ॒मुष्य॑ । [25] त्वा॒ । प्रा॒ण इति॑ प्र-अ॒ने । सा॒द॒या॒मि॒ । इति॑ । सा॒द॒ये॒त् ।
अस॑न्नः । वै । प्रा॒ण इति॑ प्र-अ॒नः । प्रा॒णमिति॑ प्र-अ॒नम् । ए॒व । अ॒स्य॒ । सा॒द॒य॒ति॒ ।
भट्टभास्कर-टीका
9यद्यभिचरेदित्यादि ॥ प्रयोगान्तरमुच्यते । अभिचरन्नमुष्य देवदत्तस्य प्राणे त्वां सादयामीति हुत्वा पात्रं सादयेत् । प्राणो वा असन्नः अनष्टः अनेन सादनेन अस्य प्राणमेव सादयति नाशयति ॥
मूलम् (संयुक्तम्)
ष॒ड्भिरँ॒शुभिᳶ॑ पवयति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॑म्पवयति॒ त्रिᳶ प॑वयति॒ त्रय॑ इ॒मे लो॒का ए॒भिरे॒वैनल्ँ॑ लो॒कैᳶ प॑वयति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा॑त्स॒त्यात्त्रयᳶ॑ पशू॒नाँ हस्ता॑दाना॒ इति॒ यत्त्रिरु॑पाँ॒शुँ हस्ते॑न विगृ॒ह्णाति॒ तस्मा॒त्त्रयᳶ॑ पशू॒नाँ हस्ता॑दाना॒ᳶ पुरु॑षो ह॒स्ती म॒र्कटः॑ ॥ [26]
विश्वास-प्रस्तुतिः
ष॒ड्भिरँ॒शुभिᳶ॑ पवयति ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तुभि॑र् ए॒वैन॑म् पवयति ।
त्रिᳶ प॑वयति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒भिर् ए॒वैनल्ँ॑ लो॒कैᳶ प॑वयति ।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -
कस्मा॑त् स॒त्यात् त्रयᳶ॑ पशू॒नाँ हस्ता॑दाना॒ इति॑ ।
यत् त्रिरु॑पाँ॒शुँ हस्ते॑न विगृ॒ह्णाति॑ ।
तस्मा॒त् त्रयᳶ॑ पशू॒नाँ हस्ता॑दाना॒ᳶ पुरु॑षो ह॒स्ती म॒र्कटः॑ ॥ [26]
मूलम्
ष॒ड्भिरँ॒शुभिᳶ॑ पवयति ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तुभि॑र् ए॒वैन॑म् पवयति ।
त्रिᳶ प॑वयति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒भिर् ए॒वैनल्ँ॑ लो॒कैᳶ प॑वयति ।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -
कस्मा॑त् स॒त्यात् त्रयᳶ॑ पशू॒नाँ हस्ता॑दाना॒ इति॑ ।
यत् त्रिरु॑पाँ॒शुँ हस्ते॑न विगृ॒ह्णाति॑ ।
तस्मा॒त् त्रयᳶ॑ पशू॒नाँ हस्ता॑दाना॒ᳶ पुरु॑षो ह॒स्ती म॒र्कटः॑ ॥ [26]
पद-पाठः
ष॒ड्भिरिति॑ षट्-भिः । अँ॒शुभि॒रित्यँ॒शु-भिः॒ । प॒व॒य॒ति॒ ।
षट् । वै । ऋ॒तवः॑ ।
ऋ॒तुभि॒रित्यृ॒तु-भिः॒ । ए॒व । ए॒न॒म् । प॒व॒य॒ति॒ ।
त्रिः । प॒व॒य॒ति॒ ।
त्रयः॑ । इ॒मे । लो॒काः ।
ए॒भिः । ए॒व । ए॒न॒म् । लो॒कैः । प॒व॒य॒ति॒ ।
ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ ।
कस्मा॑त् । स॒त्यात् । त्रयः॑ । प॒शू॒नाम् । हस्ता॑दाना॒ इति॒ हस्त॑-आ॒दा॒नाः॒ । इति॑ ।
यत् । त्रिः । उ॒पाँ॒शुमित्यु॑प-अँ॒शुम् । हस्ते॑न । वि॒गृ॒ह्णातीति॑ वि-गृ॒ह्णाति॑ ।
तस्मा॑त् । त्रयः॑ । प॒शू॒नाम् । हस्ता॑दाना॒ इति॒ हस्त॑-आ॒दा॒नाः॒ । पुरु॑षः । ह॒स्ती । म॒र्कटः॑ ॥ [26]
भट्टभास्कर-टीका
10षड्भिरिति ॥ द्वाभ्यांद्वाभ्याम् । त्रिरित्यादि । गतम् । ब्रह्मवादिन इत्यादि । कस्मात्कारणात्पशूनां मध्ये त्रय एव हस्तादाना इति वदन्ति ब्रह्मवादिनः । यदित्याद्युत्तरम् - यस्मादुपांशुग्रहमञ्जलिना त्रिर्गृह्णाति तस्मात्त्रय एव हस्तादानाः हस्तः आदानः आदानकरणं येषां ते तथोक्ताः । के. पुनस्त्रय इत्याह - पुरुष इत्यदि ॥
इति षष्ठे चतुर्थे पञ्चमोनुवाकः ॥