०४

मूलम् (संयुक्तम्)

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इति॒ ग्रावा॑ण॒मा द॑त्ते॒ प्रसू॑त्या अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म्पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह॒ यत्यै॑ प॒शवो॒ वै सोमो॑ व्या॒न उ॑पाँशु॒सव॑नो॒ यदु॑पाँशु॒सव॑नम॒भि मिमी॑ते व्या॒नमे॒व प॒शुषु॑ दधा॒ति

विश्वास-प्रस्तुतिः

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इति॒ , ग्रावा॑ण॒मा द॑त्ते । प्रसू॑त्या ।
“अ॒श्विनो॑र् बा॒हुभ्या॒म्” इत्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म् ।
“पू॒ष्णो हस्ता॑भ्या॒म्” इत्या॑ह ।
यत्यै॑ प॒शवो॒ वै सोमो॑ व्या॒न उ॑पाँशु॒सव॑नः ।
यद् उ॑पाँशु॒सव॑नम् अ॒भि मिमी॑ते , व्या॒नमे॒व प॒शुषु॑ दधाति ।

मूलम्

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व इति॒ , ग्रावा॑ण॒मा द॑त्ते । प्रसू॑त्या ।
“अ॒श्विनो॑र् बा॒हुभ्या॒म्” इत्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म् ।
“पू॒ष्णो हस्ता॑भ्या॒म्” इत्या॑ह ।
यत्यै॑ प॒शवो॒ वै सोमो॑ व्या॒न उ॑पाँशु॒सव॑नः ।
यद् उ॑पाँशु॒सव॑नम् अ॒भि मिमी॑ते , व्या॒नमे॒व प॒शुषु॑ दधाति ।

पद-पाठः

दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र-स॒वे । इति॑ । ग्रावा॑णम् । एति॑ । द॒त्ते॒ ।
प्रसू॑त्या॒ इति॒ प्र-सू॒त्यै॒ ।

अ॒श्विनोः॑ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । इति॑ । आ॒ह॒ ।
अ॒श्विनौ॑ । हि । दे॒वाना॑म् । अ॒ध्व॒र्यू इति॑ । आस्ता॑म् ।
पू॒ष्णः । हस्ता॑भ्याम् । इति॑ । आ॒ह॒ । यत्यै॑ ।

प॒शवः॑ । वै । सोमः॑ । व्या॒न इति॑ वि-अ॒नः । उ॒पाँ॒शु॒सव॑न॒ इत्यु॑पाँशु-सव॑नः ।
यत् । उ॒पाँ॒शु॒सव॑न॒मित्यु॑पाँशु-सव॑नम् । अ॒भीति॑ । मिमी॑ते । व्या॒नमिति॑ वि-अ॒नम् । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ ।

भट्टभास्कर-टीका

1देवस्य त्वेत्यादि ॥ ग्रावाणमुपांशुसवनम् । गतमन्यत् । पशवो वा इत्यादि । तद्धेतुत्वात्ताच्छब्द्यम् । व्यान उपांशुसवनो ग्रावा, यथोक्तं -‘प्राणापानौ वा एतौ यदुपांश्वन्तर्यामौ व्यान उपांशुसवनः’ इति । तस्माद्यदुपांशुसवनमभिलक्ष्य तस्योपरि मिमीते व्यानं पशुषु स्थापयति ॥

मूलम् (संयुक्तम्)

इन्द्रा॑य॒ त्वेन्द्रा॑य॒ त्वेति॑ मिमीत॒ इन्द्रा॑य॒ हि सोम॑ आह्रि॒यते॒ पञ्च॒ कृत्वो॒ यजु॑षा मिमीते [16]
पञ्चा॑क्षरा प॒ङ्क्तिᳶ पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धे॒ पञ्च॒ कृत्व॑स्तू॒ष्णीन्दश॒ सम्प॑द्यन्ते॒ दशा॑क्षरा वि॒राडन्नव्ँ॑वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

इन्द्रा॑य॒ त्वेन्द्रा॑य॒ त्वेति॑ मिमीते ।
इन्द्रा॑य॒ हि सोम॑ आह्रि॒यते॑ ।
पञ्च॒ कृत्वो॒ यजु॑षा मिमीते ।[16]
पञ्चा॑क्षरा प॒ङ्क्तिः । पा॒ङ्क्तो य॒ज्ञः ।
य॒ज्ञम् ए॒वाव॑ रुन्धे ।
पञ्च॒ कृत्व॑स् तू॒ष्णीन् दश॒ सम्प॑द्यन्ते ।
दशा॑क्षरा वि॒राट् ।
अन्नव्ँ॑ वि॒राट् । वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे ।

मूलम्

इन्द्रा॑य॒ त्वेन्द्रा॑य॒ त्वेति॑ मिमीते ।
इन्द्रा॑य॒ हि सोम॑ आह्रि॒यते॑ ।
पञ्च॒ कृत्वो॒ यजु॑षा मिमीते ।[16]
पञ्चा॑क्षरा प॒ङ्क्तिः । पा॒ङ्क्तो य॒ज्ञः ।
य॒ज्ञम् ए॒वाव॑ रुन्धे ।
पञ्च॒ कृत्व॑स् तू॒ष्णीन् दश॒ सम्प॑द्यन्ते ।
दशा॑क्षरा वि॒राट् ।
अन्नव्ँ॑ वि॒राट् । वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे ।

पद-पाठः

इन्द्रा॑य । त्वा॒ । इन्द्रा॑य । त्वा॒ । इति॑ । मि॒मी॒ते॒ ।
इन्द्रा॑य । हि । सोमः॑ । आ॒ह्रि॒यत॒ इत्या॑-ह्रि॒यते॑ ।
पञ्च॑ । कृत्वः॑ । यजु॑षा । मि॒मी॒ते॒ । [16]
पञ्चा॑क्ष॒रेति॒ पञ्च॑-अ॒क्ष॒रा॒ । प॒ङ्क्तिः ।
पाङ्क्तः॑ । य॒ज्ञः । य॒ज्ञम् । ए॒व । अवेति॑ । रु॒न्द्धे॒ ।
पञ्च॑ । कृत्वः॑ । तू॒ष्णीम् ।
दश॑ । समिति॑ । प॒द्य॒न्ते॒ ।

दशा॑क्ष॒रेति॒ दश॑-अ॒क्ष॒रा॒ । वि॒राडिति॑ वि-राट् ।
अन्न॑म् । वि॒राडिति॑ वि-राट् ।
वि॒राजेति॑ वि-राजा॑ । ए॒व । अ॒न्नाद्य॒मित्य॑न्न-अद्य॑म् । अवेति॑ । रु॒न्द्धे॒ ।

भट्टभास्कर-टीका

2इन्द्राय त्वेन्द्रायत्वेत्यादि ॥ ‘इन्द्राय त्वा वृत्रघ्ने’ , ‘इन्द्राय त्वा वृत्रतुरे'16 इत्यादीनां मन्त्राणां प्रतीकप्रदर्शनार्थमिदम् । इन्द्राय हि प्राधान्येन सोम आह्रियते । पञ्च कृत्व इति । क्रियाभ्यावृत्तिवचनं शब्दान्तरं, आद्युदात्तत्वात् । पञ्चाक्षरेत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

श्वा॒त्रास्स्थ॑ वृत्र॒तुर॒ इत्या॑है॒ष वा अ॒पाँ सो॑मपी॒थो य ए॒वव्ँ वेद॒ नाप्स्वार्ति॒मार्च्छ॑ति॒

विश्वास-प्रस्तुतिः

“श्वा॒त्रास्स्थ॑ वृत्र॒तुर॒” इत्या॑ह ।
ए॒ष वा अ॒पाँ सो॑मपी॒थः ।
य ए॒वव्ँ वेद॒ नाप्स्वार्ति॒मार्च्छ॑ति ।

मूलम्

“श्वा॒त्रास्स्थ॑ वृत्र॒तुर॒” इत्या॑ह ।
ए॒ष वा अ॒पाँ सो॑मपी॒थः ।
य ए॒वव्ँ वेद॒ नाप्स्वार्ति॒मार्च्छ॑ति ।

पद-पाठः

श्वा॒त्राः । स्थ॒ । वृ॒त्र॒तुर॒ इति॑ वृत्र-तुरः॑ । इति॑ । आ॒ह॒ ।
ए॒षः । वै । अ॒पाम् । सो॒म॒पी॒थ इति॑ सोम-पी॒थः । यः । ए॒वम् । वेद॑ । न । अ॒प्स्वित्य॑प्-सु । आर्ति॑म् । एति॑ । ऋ॒च्छ॒ति॒ ।

भट्टभास्कर-टीका

3श्वात्रा इति ॥ होतृचमसीयाभिरद्भिः एकदेशेन राज्ञ उपसर्जनम् । एष खल्वपां सोमपीथः सोमपानं प्रथममापस्सोमं पिबन्ति, ‘सोमस्य पिबत’ इति मन्त्रलिङ्गात् । अप्स्विति निमित्तात्सप्तमी । अम्निमित्तामार्तिं न गच्छति एवं वेदिता ॥

मूलम् (संयुक्तम्)

यत्ते॑ सोम दि॒वि ज्योति॒रित्या॑है॒भ्य ए॒वैन॑म् [17]
लो॒केभ्य॒स्सम्भ॑रति॒ सोमो॒ वै राजा॒ दिशो॒ऽभ्य॑ध्याय॒त्स दिशोऽनु॒ प्रावि॑श॒त्प्रागपा॒गुद॑गध॒रागित्या॑ह दि॒ग्भ्य ए॒वैनँ॒ सम्भ॑र॒त्यथो॒ दिश॑ ए॒वास्मा॒ अव॑ रु॒न्द्धे

विश्वास-प्रस्तुतिः

“यत्ते॑ सोम दि॒वि ज्योति॒र्” इत्या॑ह । ए॒भ्य ए॒वैनल्ँ लो॒केभ्य॒स् सम्भ॑रति ।[17]
सोमो॒ वै राजा॒ दिशो॒ऽभ्य॑ध्यायत् ।
स दिशोऽनु॒ प्रावि॑शत् ।
“प्रागपा॒गुद॑गध॒राग्” इत्या॑ह ।
दि॒ग्भ्य ए॒वैनँ॒ सम्भ॑र॒त्य् - अथो॒ दिश॑ ए॒वास्मा॒ अव॑ रु॒न्धे ।

मूलम्

“यत्ते॑ सोम दि॒वि ज्योति॒र्” इत्या॑ह । ए॒भ्य ए॒वैनल्ँ लो॒केभ्य॒स् सम्भ॑रति ।[17]
सोमो॒ वै राजा॒ दिशो॒ऽभ्य॑ध्यायत् ।
स दिशोऽनु॒ प्रावि॑शत् ।
“प्रागपा॒गुद॑गध॒राग्” इत्या॑ह ।
दि॒ग्भ्य ए॒वैनँ॒ सम्भ॑र॒त्य् - अथो॒ दिश॑ ए॒वास्मा॒ अव॑ रु॒न्धे ।

पद-पाठः

यत् । ते॒ । सो॒म॒ । दि॒वि । ज्योतिः॑ । इति॑ । आ॒ह॒ ।
ए॒भ्यः । ए॒व । ए॒न॒म् । [17]

लो॒केभ्यः॑ । समिति॑ । भ॒र॒ति॒ ।
सोमः॑ । वै । राजा॑ । दिशः॑ । अ॒भीति॑ । अ॒ध्या॒य॒त् । सः । दिशः॑ । अनु॑ । प्रेति॑ । अ॒वि॒श॒त् ।
प्राक् । अपा॑क् । उद॑क् । अ॒ध॒राक् । इति॑ । आ॒ह॒ ।
दि॒ग्भ्य इति॑ दिक्-भ्यः । ए॒व । ए॒न॒म् । समिति॑ । भ॒र॒ति॒ ।

अथो॒ इति॑ । दिशः॑ । ए॒व । अ॒स्मै॒ । अवेति॑ । रु॒न्द्धे॒ ।

भट्टभास्कर-टीका

4यत्ते सोमेति राज्ञोभिमन्त्रणम् ॥ एम्य इति । लोकत्रयार्थं राजानं एकत्र संगृह्णाति । सोमो वा इत्यादि । अभ्यध्यायत् अभ्यकामयत । अथ कामयमानो दिशोनुप्राविशत् । तस्मात्प्रागपागिति निग्राहोपायनं दिग्भ्यो राज्ञ इत्येकत्र संभरणाय भवति । अपि च दिशश्चास्मै यजमानाय अवरुन्धे वशीकरोति दिग्वासिनः ॥

मूलम् (संयुक्तम्)

ऽम्ब॒ नि ष्व॒रेत्या॑ह॒ कामु॑का एनँ॒ स्त्रियो॑ भवन्ति॒ य ए॒वव्ँ वेद॒

विश्वास-प्रस्तुतिः

“अम्ब॒ नि ष्व॒र” + इत्या॑ह ।
कामु॑का एनँ॒ स्त्रियो॑ भवन्ति॒ , य ए॒वव्ँ वेद ।

मूलम्

“अम्ब॒ नि ष्व॒र” + इत्या॑ह ।
कामु॑का एनँ॒ स्त्रियो॑ भवन्ति॒ , य ए॒वव्ँ वेद ।

पद-पाठः

अम्ब॑ । नीति॑ । स्व॒र॒ । इति॑ । आ॒ह॒ ।
कामु॑काः । ए॒न॒म् । स्त्रियः॑ । भ॒व॒न्ति॒ । यः । ए॒वम् । वेद॑ ।

भट्टभास्कर-टीका

5यां भार्यां कामयेत तां मनसा ध्यायेत् - अम्ब निष्वरेति ॥ ‘अम्ब मातः’ इत्यादीनि स्त्रीणां प्रीतिजननानि पूजावचनानि यैः प्रयुक्तैः एनं कामयन्ते स्त्रियः । अथ एवं वेदितारं सर्वास्स्त्रियः कामुका भवन्ति । स्वस्त्रियश्च विशेषेण । ‘लषपत’ इत्युकञ्प्रत्ययः, ‘न लोकाव्यय’ इति षष्ठीप्रतिषेधः ।

मूलम् (संयुक्तम्)

यत्ते॑ सो॒मादा॑भ्य॒न्नाम॒ जागृ॒वीति॑ [18]
आ॒है॒ष वै सोम॑स्य सोमपी॒थो य ए॒वव्ँ वेद॒ न सौ॒म्यामार्ति॒मार्च्छ॑ति॒

विश्वास-प्रस्तुतिः

“यत्ते॑ सो॒मादा॑भ्य॒न्नाम॒ जागृ॑वि”+ इत्या॑ह ।[18]
ए॒ष वै सोम॑स्य सोमपी॒थः ।
य ए॒वव्ँ वेद॒ न सौ॒म्यामार्ति॒मार्च्छ॑ति ।

मूलम्

“यत्ते॑ सो॒मादा॑भ्य॒न्नाम॒ जागृ॑वि”+ इत्या॑ह ।[18]
ए॒ष वै सोम॑स्य सोमपी॒थः ।
य ए॒वव्ँ वेद॒ न सौ॒म्यामार्ति॒मार्च्छ॑ति ।

पद-पाठः

यत् । ते॒ । सो॒म॒ । अदा॑भ्यम् । नाम॑ । जागृ॑वि । इति॑ । [18] आ॒ह॒ ।
ए॒षः । वै । सोम॑स्य । सो॒म॒पी॒थ इति॑ सोम-पी॒थः । यः । ए॒वम् । वेद॑ । न । सौ॒म्याम् । आर्ति॑म् । एति॑ । ऋ॒च्छ॒ति॒ ।

भट्टभास्कर-टीका

6यत्ते सोमादाभ्यमिति ॥ उपांशुपावमानानामनुसवनं द्वौद्वावंशू महाभिषवेष्वपिसृजति । एष खलु सोमस्यापि सोमपीथः सोमपानम् । सोमोपि सोममपि प्रथममेव पिबति । ‘सोमाय स्वाहा’ इति च मन्त्रलिङ्गम् । एवं वेदिता सोमनिमित्तामार्तिं न गच्छति ॥

मूलम् (संयुक्तम्)

घ्नन्ति॒ वा ए॒तत्सोमय्ँ॒यद॑भिषु॒ण्वन्त्यँ॒शूनप॑ गृह्णाति॒ त्राय॑त ए॒वैन॑म्प्रा॒णा वा अँ॒शवᳶ॑ प॒शव॒स्सोमो॒ऽँ॒शून्पुन॒रपि॑ सृजति प्रा॒णाने॒व प॒शुषु॑ दधाति॒ द्वौद्वा॒वपि॑ सृजति॒ तस्मा॒द्द्वौद्वौ॑ प्रा॒णाः ॥ [19]

विश्वास-प्रस्तुतिः

घ्न॒न्ति॒ वा ए॒तत्सोमय्ँ॒ यद् अ॑भिषु॒ण्वन्ति ।
अँ॒शूनप॑ गृह्णाति ।
त्राय॑त ए॒वैन॑म् ।
प्रा॒णा वा अँ॒शवᳶ॑ प॒शव॒स् सोमः॑ ।
अँ॒शून् पुन॒रपि॑ सृजति ।
प्रा॒णाने॒व प॒शुषु॑ दधाति ।
द्वौद्वा॒वपि॑ सृजति ।
तस्मा॒द् द्वौद्वौ॑ प्रा॒णाः ॥ [19]

मूलम्

घ्न॒न्ति॒ वा ए॒तत्सोमय्ँ॒ यद् अ॑भिषु॒ण्वन्ति ।
अँ॒शूनप॑ गृह्णाति ।
त्राय॑त ए॒वैन॑म् ।
प्रा॒णा वा अँ॒शवᳶ॑ प॒शव॒स् सोमः॑ ।
अँ॒शून् पुन॒रपि॑ सृजति ।
प्रा॒णाने॒व प॒शुषु॑ दधाति ।
द्वौद्वा॒वपि॑ सृजति ।
तस्मा॒द् द्वौद्वौ॑ प्रा॒णाः ॥ [19]

पद-पाठः

घ्नन्ति॑ । वै । ए॒तत् । सोम॑म् । यत् । अ॒भि॒षु॒ण्वन्तीत्य॑भि-सु॒न्वन्ति॑ ।
अँ॒शून् । अपेति॑ । गृ॒ह्णा॒ति॒ ।
त्राय॑ते । ए॒व । ए॒न॒म् ।
प्रा॒णा इति॑ प्र-अ॒नाः । वै । अँ॒शवः॑ । प॒शवः॑ । सोमः॑ ।
अँ॒शून् । पुनः॑ । अपीति॑ । सृ॒ज॒ति॒ ।
प्रा॒णानिति॑ प्र-अ॒नान् । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ ।
द्वौद्वा॒विति॒ द्वौ-द्वौ॒ । अपीति॑ । सृ॒ज॒ति॒ ।

तस्मा॑त् । द्वौद्वा॒विति॒ द्वौ-द्वौ॒ । प्रा॒णा इति॑ प्र-अ॒नाः ॥ [19]

भट्टभास्कर-टीका

7घ्नन्तीत्यादि ॥ अंशवो लताः । षडंशूनवगृह्णाति संघातादपादत्ते । तेनैतं सोमं त्रायते वधपरिहारेण रक्षति । प्राणा वा इत्यादि । प्राणस्थानीया अंशवः । संघातावयवा लताः पशुस्थानीयाः । संघातात्मा सोमः । तस्मादंशून् महाभिषवेषु पुनरपिसृजति पूर्वमपनीतान् पुनस्संघाते एकीकरोति, प्राणानेव पशुषु स्थापयति । द्वौद्वाविति । द्वौद्वौ संसृष्टौ प्रक्षिपति । तस्माच्चक्षुरादयः प्राणाः द्वौद्वौ संहत्यकारिणौ भवतः ॥

इति षष्ठे चतुर्थे चतुर्थोनुवाकः ॥