०२

मूलम् (संयुक्तम्)

दे॒वा वै य॒ज्ञमाग्नी॑ध्रे॒ व्य॑भजन्त॒ ततो॒ यद॒त्यशि॑ष्यत॒ तद॑ब्रुव॒न्वस॑तु॒ नु न॑ इ॒दमिति॒ तद्व॑सती॒वरी॑णाव्ँवसतीवरि॒त्वन्तस्मि॑न्प्रा॒तर्न सम॑शक्नुव॒न्तद॒प्सु प्रावे॑शय॒न्ता व॑सती॒वरी॑रभवन्

विश्वास-प्रस्तुतिः

दे॒वा वै य॒ज्ञमाग्नी॑ध्रे॒ व्य॑भजन्त ।
ततो॒ यद् अ॒त्यशि॑ष्यत॒ तद् अ॑ब्रुवन् ।
“वस॑तु॒ नु न॑ इ॒दम् इति॑ ।
तद् व॑सती॒वरी॑णाव्ँ वसतीवरि॒त्वम् ।
तस्मि॑न् प्रा॒तर्न सम॑शक्नुवन् ।
तद॒प्सु प्रावे॑शयन् ।
ता व॑सती॒वरी॑रभवन् ।

मूलम्

दे॒वा वै य॒ज्ञमाग्नी॑ध्रे॒ व्य॑भजन्त ।
ततो॒ यद् अ॒त्यशि॑ष्यत॒ तद् अ॑ब्रुवन् ।
“वस॑तु॒ नु न॑ इ॒दम् इति॑ ।
तद् व॑सती॒वरी॑णाव्ँ वसतीवरि॒त्वम् ।
तस्मि॑न् प्रा॒तर्न सम॑शक्नुवन् ।
तद॒प्सु प्रावे॑शयन् ।
ता व॑सती॒वरी॑रभवन् ।

पद-पाठः

दे॒वाः । वै । य॒ज्ञम् । आग्नी॑ध्र॒ इत्याग्नि॑-इ॒ध्रे॒ । वीति॑ । अ॒भ॒ज॒न्त॒ ।
ततः॑ । यत् । अ॒त्यशि॑ष्य॒तेत्य॑ति-अशि॑ष्यत । तत् । अ॒ब्रु॒व॒न् । वस॑तु । नु । नः॒ । इ॒दम् । इति॑ । तत् । व॒स॒ती॒वरी॑णाम् । व॒स॒ती॒व॒रि॒त्वमिति॑ वसतीवरि-त्वम् ।
तस्मि॑न् । प्रा॒तः । न । समिति॑ । अ॒श॒क्नु॒व॒न् ।
तत् । अ॒प्स्वित्य॑प्-सु । प्रेति॑ । अ॒वे॒श॒य॒न् ।
ताः । व॒स॒ती॒वरीः॑ । अ॒भ॒व॒न् ।

भट्टभास्कर-टीका

1देवा वा इत्यादि ॥ देवा एव यज्ञमाग्नीध्रे व्यभजन्त विभज्य गृहीतवन्तः । ततो विभक्ताद्यदत्यशिष्यत विभक्तशेषं यदतिरिक्तमासीत् तदब्रुवन् देवाः । नन्विदमपि नोस्माकमेव सर्वेषां साधारणं वसतु । इदमपि श्वः प्रातर्विभक्तारस्स्म इति । तस्माद्वसतीवरीणामपां वसतविरित्वम्, वसतीवरीरूपेण विभक्तशेषस्स्थित इति दर्शयति । वस्तन्वसति[वसनं वसतिः?] तद्वत्यो वसतीवर्यः साधारण्येन गृहीत्वा स्थिताः आपः । ‘छन्दसीवनिपौ’ इति वनिप्प्रत्ययः, ‘वनोरच’ इति ङीब्रेफौ, ‘अन्येषामपि दृश्यते’ इति दीर्घत्वम् । ‘कृदिकारादक्तिनः’ इति ङीषन्तो वा वसतीशब्दः, व्यत्ययेन वनिप उदात्तत्वम् । वनिर्वा प्रत्ययान्तरम् । तस्मिन्विभक्तशेषे श्वः प्रातः न समशक्नुवन् संविभक्तुं शक्ता नासन् । तदविभागयोग्यं मन्यमानाः देवाः अप्सु प्रावेशयन् क्वाप्युपयोक्ष्यते इति अप्सु निहितवन्तः । यद्बा - किमनेनेत्यप्सु प्राक्षिपन् ता वसतीवर्यो नामाभवन् । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् ॥

मूलम् (संयुक्तम्)

वसती॒वरी॑र्गृह्णाति य॒ज्ञो वै व॑सती॒वरी॑र्य॒ज्ञमे॒वारभ्य॑ गृही॒त्वोप॑ वसति॒ यस्यागृ॑हीता अ॒भि नि॒म्रोचे॒दना॑रब्धोऽस्य य॒ज्ञस्स्या॑त् [6]
य॒ज्ञव्ँवि च्छि॑न्द्याज्ज्योति॒ष्या॑ वा गृह्णी॒याद्धिर॑ण्यव्ँवाव॒धाय॒ सशु॑क्राणामे॒व गृ॑ह्णाति॒

विश्वास-प्रस्तुतिः

वसती॒वरी॑र् गृह्णाति । य॒ज्ञो वै व॑सती॒वरीः॑ ।
य॒ज्ञमे॒वारभ्य॑ गृही॒त्वोप॑ वसति ।
यस्यागृ॑हीता अ॒भि नि॒म्रोचे॒दना॑रब्धोऽस्य य॒ज्ञस् स्या॑त् ।[6]
य॒ज्ञव्ँ वि च्छि॑न्द्यात् ।
ज्यो॒ति॒ष्या॑ वा गृह्णी॒याद्धिर॑ण्यव्ँ वाव॒धाय॒ सशु॑क्राणामे॒व गृ॑ह्णाति ।

मूलम्

वसती॒वरी॑र् गृह्णाति । य॒ज्ञो वै व॑सती॒वरीः॑ ।
य॒ज्ञमे॒वारभ्य॑ गृही॒त्वोप॑ वसति ।
यस्यागृ॑हीता अ॒भि नि॒म्रोचे॒दना॑रब्धोऽस्य य॒ज्ञस् स्या॑त् ।[6]
य॒ज्ञव्ँ वि च्छि॑न्द्यात् ।
ज्यो॒ति॒ष्या॑ वा गृह्णी॒याद्धिर॑ण्यव्ँ वाव॒धाय॒ सशु॑क्राणामे॒व गृ॑ह्णाति ।

पद-पाठः

व॒स॒ती॒वरीः॑ । गृ॒ह्णा॒ति॒ ।
य॒ज्ञः । वै । व॒स॒ती॒वरीः॑ ।
य॒ज्ञम् । ए॒व । आ॒रभ्येत्या॑-रभ्य॑ । गृ॒ही॒त्वा । उपेति॑ । व॒स॒ति॒ । यस्य॑ । अगृ॑हीताः । अ॒भीति॑ । नि॒म्रोचे॒दिति॑ नि-म्रोचे॑त् । अना॑रब्ध॒ इत्यना॑-र॒ब्धः॒ । अ॒स्य॒ । य॒ज्ञः । स्या॒त् । [6]
य॒ज्ञम् । वीति॑ । छि॒न्द्या॒त् ।
ज्यो॒ति॒ष्या॑ । वा॒ । गृ॒ह्णी॒यात् । हिर॑ण्यम् । वा॒ । अ॒व॒धायेत्य॑व-धाय॑ । सशु॑क्राणा॒मिति॒ स-शु॒क्रा॒णा॒म् । ए॒व । गृ॒ह्णा॒ति॒ ।

भट्टभास्कर-टीका

2वसतीवरीर्गृह्णातीति विधिः ॥ यज्ञो वा इति । यज्ञशेषस्य तद्रूपेण विततत्वात् । तस्माद्वसतीवरीर्गृहीत्वा य उपवसति यज्ञमेवारभ्य प्रस्तुत्य वसति । यद्वा - यज्ञं गृहीत्वा धारयित्वैव यज्ञमुपवसति । अग्निसमीपे वास उपवासः । यस्येत्यादि । अगृहीता वसतीवरीरभिलक्ष्य निम्रोचेत् अस्तमियात् सूर्यो यस्य यज्ञोनारब्धः स्यात् अप्रस्तुत एव भवेत् पूर्वेद्युः । ततः श्वः उत्तरेद्युः यज्ञं विच्छिन्द्यात् । ज्योतिष्या वा इत्यादि । उल्कया द्योतयित्वा ज्योतिष्मतीर्गृह्णीयात् । मत्वर्थीयो यत्, ‘तत्र साधुः’ इति वा । केचिदाहुः - ‘उपयाम’ इत्यनया ऋचा गृह्णीयादिति । तत्र ज्योतिष्मत्या ऋचा ग्राह्याः ज्योतिष्याः । हिरण्यं वा कुम्भेऽवधाय गृह्णीयात् । एवमुभयस्मिन्नपि पक्षे सशुक्राणामेव सादित्यानामेव गृहीता भवन्ति ॥

मूलम् (संयुक्तम्)

यो वा॑ ब्राह्म॒णो ब॑हुया॒जी तस्य॒ कुम्भ्या॑नाङ्गृह्णीया॒त्स हि गृ॑ही॒तव॑सतीवरीको

विश्वास-प्रस्तुतिः

यो वा॑ ब्राह्म॒णो ब॑हुया॒जी , तस्य॒ कुम्भ्या॑नाङ् गृह्णीयात् ।
स हि गृ॑ही॒तव॑सतीवरीकः ।

मूलम्

यो वा॑ ब्राह्म॒णो ब॑हुया॒जी , तस्य॒ कुम्भ्या॑नाङ् गृह्णीयात् ।
स हि गृ॑ही॒तव॑सतीवरीकः ।

पद-पाठः

यः । वा॒ । ब्रा॒ह्म॒णः । ब॒हु॒या॒जीति॑ बहु-या॒जी । तस्य॑ । कुम्भ्या॑नाम् । गृ॒ह्णी॒या॒त् ।
सः । हि । गृ॒ही॒तव॑सतीवरीक॒ इति॑ गृही॒त-व॒स॒ती॒व॒री॒कः॒ ।

भट्टभास्कर-टीका

3यो वेति ॥ बहुयाजी सोमयाजी तस्य कुम्भ्याः तदीयगृहकुम्भस्थिताः । तस्य गृहीतवसतीवरीकत्वात् तत्संबन्धिन्यस्सर्वा अप्यापो वसतीवरीतुल्या भवन्तीति ॥

मूलम् (संयुक्तम्)

वसती॒वरी॑र्गृह्णाति प॒शवो॒ वै व॑सती॒वरीः॑ प॒शूने॒वारभ्य॑ गृही॒त्वोप॑ वसति॒ यद॑न्वी॒पन्तिष्ठ॑न्गृह्णी॒यान्नि॒र्मार्गु॑का अस्मात्प॒शव॑स्स्युᳶ प्रती॒पन्तिष्ठ॑न्गृह्णाति प्रति॒रुध्यै॒वास्मै॑ प॒शून्गृ॑ह्णा॒ति

विश्वास-प्रस्तुतिः

व॒स॒ती॒वरी॑र् गृह्णाति । प॒शवो॒ वै व॑सती॒वरीः॑ ।
प॒शूने॒वारभ्य॑ गृही॒त्वोप॑ वसति ।
यद॑न्वी॒पन्तिष्ठ॑न् गृह्णी॒यान् नि॒र्मार्गु॑का अस्मात् प॒शव॑स् स्युः ।
प्र॒ती॒पन्तिष्ठ॑न् गृह्णाति । प्र॒ति॒रुध्यै॒वास्मै॑ प॒शून् गृ॑ह्णाति ।

मूलम्

व॒स॒ती॒वरी॑र् गृह्णाति । प॒शवो॒ वै व॑सती॒वरीः॑ ।
प॒शूने॒वारभ्य॑ गृही॒त्वोप॑ वसति ।
यद॑न्वी॒पन्तिष्ठ॑न् गृह्णी॒यान् नि॒र्मार्गु॑का अस्मात् प॒शव॑स् स्युः ।
प्र॒ती॒पन्तिष्ठ॑न् गृह्णाति । प्र॒ति॒रुध्यै॒वास्मै॑ प॒शून् गृ॑ह्णाति ।

पद-पाठः

व॒स॒ती॒वरीः॑ । गृ॒ह्णा॒ति॒ ।
प॒शवः॑ । वै । व॒स॒ती॒वरीः॑ ।
प॒शून् । ए॒व । आ॒रभ्येत्या॑-रभ्य॑ । गृ॒ही॒त्वा । उपेति॑ । व॒स॒ति॒ ।
यत् । अ॒न्वी॒पम् । तिष्ठ॑न् । गृ॒ह्णी॒यात् । नि॒र्मार्गु॑का॒ इति॑ निः-मार्गु॑काः । अ॒स्मा॒त् । प॒शवः॑ । स्युः॒ ।
प्र॒ती॒पम् । तिष्ठ॑न् । गृ॒ह्णा॒ति॒ ।
प्र॒ति॒रुध्येति॑ प्रति-रुध्य॑ । ए॒व । अ॒स्मै॒ । प॒शून् । गृ॒ह्णा॒ति॒ ।

भट्टभास्कर-टीका

4वसतीवरीरिति ॥ द्वितीयं विदधाति गुणान्तरमभिधास्यामीति । पशवो वा इति । तद्धेतुत्वात्ताच्छब्द्यम् । यदन्वीपमिति अन्वीपमनुगतस्रोतस्कं तिष्ठन् यत् गृह्णीयात् । यद्वा - अन्वीपं गृह्णीयात् कुम्भेन वा आत्मना वा अनुस्रोतसमवस्थितेन । अनुगता आपोनेनेति ‘ऋक्पूः’ इति समासान्तः, ‘द्व्यन्तरुपसर्गेभ्योप ईत्’ । निर्मार्गुकाः विनाशनशीलाः पशवोस्मात्स्युः । मार्ग अन्वेषणे, छान्दस उकञ्। यद्वा - निर्गमनशीलाः, गमेः ‘लषपत’ इत्यादिना उकञ्, वर्णव्यत्ययो रेफोपजनश्च । प्रतीपमिति । प्रतिस्रोतसं तिष्ठन् तादृशेन कुम्भेन गृह्णीयात् । पूर्ववदीत्वम् । प्रतिरुध्येत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

इन्द्रः॑ [7]
वृ॒त्रम॑ह॒न्त्सो३॒॑ऽपो३॒॑ऽभ्य॑म्रियत॒ तासाय्ँ॒यन्मेध्यय्ँ॑ य॒ज्ञियँ॒ सदे॑व॒मासी॒त्तदत्य॑मुच्यत॒ ता वह॑न्तीरभव॒न्वह॑न्तीनाङ्गृह्णाति॒ या ए॒व मेध्या॑ य॒ज्ञिया॒स्सदे॑वा॒ आप॒स्तासा॑मे॒व गृ॑ह्णाति॒ नान्त॒मा वह॑न्ती॒रती॑या॒द्यद॑न्त॒मा वह॑न्तीरती॒याद्य॒ज्ञमति॑ मन्येत॒ न स्था॑व॒राणा॑ङ्गृह्णीया॒द्वरु॑णगृहीता॒ वै स्था॑व॒रा यत्स्था॑व॒राणा॑ङ्गृह्णी॒यात् [8]
वरु॑णेनास्य य॒ज्ञङ्ग्रा॑हये॒द्

विश्वास-प्रस्तुतिः

इन्द्रो॑ वृ॒त्रम् अ॑हन् । [7]
सो३॒॑ऽपो३॒॑ऽभ्य॑म्रियत ।
तासाय्ँ॒ यन्मेध्यय्ँ॑ य॒ज्ञियँ॒ सदे॑व॒मासी॒त् , तदत्य॑मुच्यत ।

ता वह॑न्तीरभवन् ।
वह॑न्तीनाङ् गृह्णाति ।
या ए॒व मेध्या॑ य॒ज्ञिया॒स् सदे॑वा॒ आप॒स् तासा॑मे॒व गृ॑ह्णाति ।
नान्त॒मा वह॑न्ती॒रती॑यात् ।
यद॑न्त॒मा वह॑न्तीरती॒याद् , य॒ज्ञमति॑ मन्येत ।
न स्था॑व॒राणा॑ङ् गृह्णीयाद् ।
वरु॑णगृहीता॒ वै स्था॑व॒राः ।
यत् स्था॑व॒राणा॑ङ् गृह्णी॒यात् वरु॑णेनास्य य॒ज्ञङ् ग्रा॑हयेत् । [8]

मूलम्

इन्द्रो॑ वृ॒त्रम् अ॑हन् । [7]
सो३॒॑ऽपो३॒॑ऽभ्य॑म्रियत ।
तासाय्ँ॒ यन्मेध्यय्ँ॑ य॒ज्ञियँ॒ सदे॑व॒मासी॒त् , तदत्य॑मुच्यत ।

ता वह॑न्तीरभवन् ।
वह॑न्तीनाङ् गृह्णाति ।
या ए॒व मेध्या॑ य॒ज्ञिया॒स् सदे॑वा॒ आप॒स् तासा॑मे॒व गृ॑ह्णाति ।
नान्त॒मा वह॑न्ती॒रती॑यात् ।
यद॑न्त॒मा वह॑न्तीरती॒याद् , य॒ज्ञमति॑ मन्येत ।
न स्था॑व॒राणा॑ङ् गृह्णीयाद् ।
वरु॑णगृहीता॒ वै स्था॑व॒राः ।
यत् स्था॑व॒राणा॑ङ् गृह्णी॒यात् वरु॑णेनास्य य॒ज्ञङ् ग्रा॑हयेत् । [8]

पद-पाठः

इन्द्रः॑ । [7] वृ॒त्रम् । अ॒ह॒न् ।
सः । अ॒पः । अ॒भीति॑ । अ॒म्रि॒य॒त॒ । तासा॑म् । यत् । मेध्य॑म् । य॒ज्ञिय॑म् । सदे॑व॒मिति॒ स-दे॒व॒म् । आसी॑त् । तत् । अतीति॑ । अ॒मु॒च्य॒त॒ ।
ताः । वह॑न्तीः । अ॒भ॒व॒न् ।
वह॑न्तीनाम् । गृ॒ह्णा॒ति॒ ।
याः । ए॒व । मेध्याः॑ । य॒ज्ञियाः॑ । सदे॑वा॒ इति॒ स-दे॒वाः॒ । आपः॑ । तासा॑म् । ए॒व । गृ॒ह्णा॒ति॒ ।
न । अ॒न्त॒माः । वह॑न्तीः । अतीति॑ । इ॒या॒त् ।
यत् । अ॒न्त॒माः । वह॑न्तीः । अ॒ती॒यादित्य॑ति-इ॒यात् । य॒ज्ञम् । अतीति॑ । म॒न्ये॒त॒ ।
न । स्था॒व॒राणा॑म् । गृ॒ह्णी॒या॒त् ।
वरु॑णगृहीता॒ इति॒ वरु॑ण-गृ॒ही॒ताः॒ । वै । स्था॒व॒राः । यत् । स्था॒व॒राणा॑म् । गृ॒ह्णी॒यात् । [8]
वरु॑णेन । अ॒स्य॒ । य॒ज्ञम् । ग्रा॒ह॒ये॒त् ।

भट्टभास्कर-टीका

5इन्द्र इत्यादि ॥ व्याख्यातम् । तासामित्यादि । तासामपां संबन्धि यन्मेध्यादिलक्षणं रूपं तदत्यमुच्यत अतीत्यापो बहिस्स्वयमेवामुच्यत वेगेन मुक्तमभवत् । कर्मकर्तर्यात्मनेपदम् । ता वहन्तीरिति । ततः प्रभृत्यापो वहन्त्योभवन् । तस्माद्वहन्तीनामेव गृह्णाति । मेध्यादिलक्षणा एव गृहीता भवन्ति । नान्तमा इत्यादि । अन्तमा अन्तिकतमा आपो वहन्तरितीयात् अतिक्रम्य नेयात् । ‘तमे तादेश्च’ इति तादिलोपः । यदि ता अतीयात् यज्ञमेवातिमन्येत, वहन्तीनां मेध्यादिरूपवत्त्वात् । स्थावराः स्थानशीलाः ग्राह्याः तटाकादिस्थाः सरित्स्वपि । ‘स्थेशभास’ इति वरच् । वरुणगृहीता इति । वरुणेन गृहीता इति निरुद्धत्वात् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यदित्यादि । गतम् ॥

मूलम् (संयुक्तम्)

यद्वै दिवा॒ भव॑त्य॒पो रात्रि॒ᳶ प्र वि॑शति॒ तस्मा॑त्ता॒म्रा आपो॒ दिवा॑ ददृश्रे॒ यन्नक्त॒म्भव॑त्य॒पोऽह॒ᳶ प्र वि॑शति॒ तस्मा॑च्च॒न्द्रा आपो॒ नक्त॑न्ददृश्रे छा॒यायै॑ चा॒तप॑तश्च स॒न्धौ गृ॑ह्णात्यहोरा॒त्रयो॑रे॒वास्मै॒ वर्ण॑ङ्गृह्णाति

विश्वास-प्रस्तुतिः

यद्वै दिवा॒ भव॑त्य॒पो रात्रि॒ᳶ प्र वि॑शति ।
तस्मा॑त्ता॒म्रा आपो॒ दिवा॑ ददृश्रे ।
यन् नक्त॒म् भव॑त्य् अ॒पो ऽह॒ᳶ प्र वि॑शति ।
तस्मा॑च् च॒न्द्रा आपो॒ नक्त॑न् ददृश्रे ।
छा॒यायै॑ चा॒तप॑तश्च स॒न्धौ गृ॑ह्णाति ।
अ॒हो॒रा॒त्र॒यो॑रे॒वास्मै॒ वर्ण॑ङ् गृह्णाति ।

मूलम्

यद्वै दिवा॒ भव॑त्य॒पो रात्रि॒ᳶ प्र वि॑शति ।
तस्मा॑त्ता॒म्रा आपो॒ दिवा॑ ददृश्रे ।
यन् नक्त॒म् भव॑त्य् अ॒पो ऽह॒ᳶ प्र वि॑शति ।
तस्मा॑च् च॒न्द्रा आपो॒ नक्त॑न् ददृश्रे ।
छा॒यायै॑ चा॒तप॑तश्च स॒न्धौ गृ॑ह्णाति ।
अ॒हो॒रा॒त्र॒यो॑रे॒वास्मै॒ वर्ण॑ङ् गृह्णाति ।

पद-पाठः

यत् । वै । दिवा॑ । भव॑ति । अ॒पः । रात्रिः॑ । प्रेति॑ । वि॒श॒ति॒ । तस्मा॑त् । ता॒म्राः । आपः॑ । दिवा॑ । द॒दृ॒श्रे॒ ।
यत् । नक्त॑म् । भव॑ति । अ॒पः । अहः॑ । प्रेति॑ । वि॒श॒ति॒ ।
तस्मा॑त् । च॒न्द्राः । आपः॑ । नक्त॑म् । द॒दृ॒श्रे॒ ।
छा॒यायै॑ । च॒ । आ॒तप॑त॒ इत्या॑-तप॑तः । च॒ । स॒न्धाविति॑ सम्-धौ । गृ॒ह्णा॒ति॒ ।
अ॒हो॒रा॒त्रयो॒रित्य॑हः-रा॒त्रयोः॑ । ए॒व । अ॒स्मै॒ । वर्ण॑म् । गृ॒ह्णा॒ति॒ ।

भट्टभास्कर-टीका

6यद्वा इत्यादि ॥ यदा दिवसः प्रवर्तते तदा रात्रिरपः प्रविशति, तस्माद्दिवा आपस्ताम्रा ईषद्रक्ताः दृश्यन्ते शुक्लकृष्णप्रभवत्वात्ताम्रस्य । कर्मणि छान्दसो लिट्, ‘इरयोरे’ इति रे आदेशः । नक्तमह्नः प्रवेशात् चन्द्राश्शुक्ला आपो दृश्यन्ते । तस्माच्छायातपसन्धौ ग्रहणात् अहोरात्रयोरेव वर्णग्रहणात् उभयानुग्रहलाभः ॥

मूलम् (संयुक्तम्)

ह॒विष्म॑तीरि॒मा आप॒ इत्या॑ह ह॒विष्कृ॑तानामे॒व गृ॑ह्णाति ह॒विष्माँ॑ अस्तु [9]
सूर्य॒ इत्या॑ह॒ सशु॑क्राणामे॒व गृ॑ह्णात्यनु॒ष्टुभा॑ गृह्णाति॒ वाग्वा अ॑नु॒ष्टुग्वा॒चैवैना॒स्सर्व॑या गृह्णाति॒ चतु॑ष्पदय॒र्चा गृ॑ह्णाति॒

विश्वास-प्रस्तुतिः

“ह॒विष्म॑तीरि॒मा आप॒” इत्या॑ह ।
ह॒विष्कृ॑तानामे॒व गृ॑ह्णाति ।
“ह॒विष्माँ॑ अस्तु सूर्य॒” इत्या॑ह ।[9]
सशु॑क्राणामे॒व गृ॑ह्णाति ।
अ॒नु॒ष्टुभा॑ गृह्णाति ।
वाग् वा अ॑नु॒ष्टुक् ।
वा॒चैवैना॒स् सर्व॑या गृह्णाति ।
चतु॑ष्पदय॒र्चा गृ॑ह्णाति ।

मूलम्

“ह॒विष्म॑तीरि॒मा आप॒” इत्या॑ह ।
ह॒विष्कृ॑तानामे॒व गृ॑ह्णाति ।
“ह॒विष्माँ॑ अस्तु सूर्य॒” इत्या॑ह ।[9]
सशु॑क्राणामे॒व गृ॑ह्णाति ।
अ॒नु॒ष्टुभा॑ गृह्णाति ।
वाग् वा अ॑नु॒ष्टुक् ।
वा॒चैवैना॒स् सर्व॑या गृह्णाति ।
चतु॑ष्पदय॒र्चा गृ॑ह्णाति ।

पद-पाठः

ह॒विष्म॑तीः । इ॒माः । आपः॑ । इति॑ । आ॒ह॒ ।
ह॒विष्कृ॑ताना॒मिति॑ ह॒विः-कृ॒ता॒ना॒म् । ए॒व । गृ॒ह्णा॒ति॒ ।
ह॒विष्मान्॑ । अ॒स्तु॒ । [9] सूर्यः॑ । इति॑ । आ॒ह॒ ।
सशु॑क्राणा॒मिति॒ स-शु॒क्रा॒णा॒म् । ए॒व । गृ॒ह्णा॒ति॒ । अ॒नु॒ष्टुभेत्य॑नु-स्तुभा॑ । गृ॒ह्णा॒ति॒ ।
वाक् । वै । अ॒नु॒ष्टुगित्य॑नु-स्तुक् ।
वा॒चा । ए॒व । ए॒नाः॒ । सर्व॑या । गृ॒ह्णा॒ति॒ ।
चतु॑ष्पद॒येति॒ चतुः॑-प॒द॒या॒ । ऋ॒चा । गृ॒ह्णा॒ति॒ ।

भट्टभास्कर-टीका

7"हविष्मतीः’ इति ग्रहणमन्त्रः ॥ हविष्कृतानामिति । कृतं हविस्स्वरूपं हविष्ट्वं यासामिति । बहुव्रीहौ निष्ठायाः पूर्वनिपाते ‘जातिकालसुखादिम्यः परवचनम्’ इति परनिपातः । यद्वा - हविष्ट्वेन संस्कृताः हविष्कृताः । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । सशुक्राणामित्यादि । सज्योतिषां सादित्यानाम् । अनुष्टुभेति । ‘हविष्मतीः’ इत्यनया । छन्दस्तुतिरियं, सर्वस्य वाङ्मयस्यानुष्टुभत्वात् तेनैव गृहीता भवन्ति । चतुष्पदयेति । ‘संख्यासुपर्वूस्य’ इति लोपस्समासान्तः, ‘टाबृचि, इति टाप्, ’ पादः पत्’ इति पद्वावः ॥

मूलम् (संयुक्तम्)

त्रिस्सा॑दयति स॒प्त सम्प॑द्यन्ते स॒प्तप॑दा॒ शक्व॑री प॒शव॒श्शक्व॑री प॒शूने॒वाव॑ रुन्द्धे॒ऽस्मै वै लो॒काय॒ गार्ह॑पत्य॒ आ धी॑यते॒ऽमुष्मा॑ आहव॒नीयो॒ यद्गार्ह॑पत्य उपसा॒दये॑द॒स्मिल्ँ लो॒के प॑शु॒मान्त्स्या॒द्यदा॑हव॒नीये॒ऽमुष्मि॑न्न् [10]
लो॒के प॑शु॒मान्त्स्या॑दु॒भयो॒रुप॑ सादयत्यु॒भयो॑रे॒वैनल्ँ॑ लो॒कयोः॑ पशु॒मन्त॑ङ्करोति

विश्वास-प्रस्तुतिः

त्रिस् सा॑दयति ।
स॒प्त सम्प॑द्यन्ते ।
स॒प्तप॑दा॒ शक्व॑री ।
प॒शव॒श् शक्व॑री । प॒शूने॒वाव॑ रुन्धे ।
अ॒स्मै वै लो॒काय॒ गार्ह॑पत्य॒ आ धी॑यते ।
अ॒मुष्मा॑ आहव॒नीयः॑ ।
यद् गार्ह॑पत्य उपसा॒दये॑द् , अ॒स्मिल्ँ लो॒के प॑शु॒मान्त् स्या॑त् ।
यदा॑हव॒नीये॒ ऽमुष्मि॑न् लो॒के प॑शु॒मान्त् स्या॑त् ।[10]
उ॒भयो॒रुप॑ सादयति ।
उ॒भयो॑र् ए॒वैनल्ँ॑ लो॒कयोः॑ पशु॒मन्त॑ङ् करोति ।

मूलम्

त्रिस् सा॑दयति ।
स॒प्त सम्प॑द्यन्ते ।
स॒प्तप॑दा॒ शक्व॑री ।
प॒शव॒श् शक्व॑री । प॒शूने॒वाव॑ रुन्धे ।
अ॒स्मै वै लो॒काय॒ गार्ह॑पत्य॒ आ धी॑यते ।
अ॒मुष्मा॑ आहव॒नीयः॑ ।
यद् गार्ह॑पत्य उपसा॒दये॑द् , अ॒स्मिल्ँ लो॒के प॑शु॒मान्त् स्या॑त् ।
यदा॑हव॒नीये॒ ऽमुष्मि॑न् लो॒के प॑शु॒मान्त् स्या॑त् ।[10]
उ॒भयो॒रुप॑ सादयति ।
उ॒भयो॑र् ए॒वैनल्ँ॑ लो॒कयोः॑ पशु॒मन्त॑ङ् करोति ।

पद-पाठः

त्रिः । सा॒द॒य॒ति॒ ।
स॒प्त । समिति॑ । प॒द्य॒न्ते॒ । स॒प्तप॒देति॑ सप्त-प॒दा॒ । शक्व॑री ।
प॒शवः॑ । शक्व॑री । 1प॒शून् । ए॒व । अवेति॑ । रु॒न्द्धे॒ ।
अ॒स्मै । वै । लो॒काय॑ । गार्‌ह॑पत्य॒ इति॒ गार्‌ह॑-प॒त्यः॒ । एति॑ । धी॒य॒ते॒ । अ॒मुष्मै॑ । आ॒ह॒व॒नीय॒ इत्या॑-ह॒व॒नीयः॑ ।
यत् । गार्‌ह॑पत्य॒ इति॒ गार्‌ह॑-प॒त्ये॒ । उ॒प॒सा॒दये॒दित्यु॑प-सा॒दये॑त् । अ॒स्मिन् । लो॒के । प॒शु॒मानिति॑ पशु-मान् । स्या॒त् ।
यत् । आ॒ह॒व॒नीय॒ इत्या॑-ह॒व॒नीये॑ । अ॒मुष्मि॑न् । [10]
लो॒के । प॒शु॒मानिति॑ पशु-मान् । स्या॒त् ।
उ॒भयोः॑ । उपेति॑ । सा॒द॒य॒ति॒ । उ॒भयोः॑ । ए॒व । ए॒न॒म् । लो॒कयोः॑ । प॒शु॒मन्त॒मिति॑ पशु-मन्त॑म् । क॒रो॒ति॒ ।

भट्टभास्कर-टीका

8त्रिरिति ॥ उभयोरुपसादयतीति विधास्यति । तत्राहवनीयमभितो द्विस्सादयति । सकृज्जधनेन गार्हपत्यम् । सप्तेत्यादि । गतम् । पशुहेतुत्वात्ताच्छब्द्यं शक्वर्याः अस्मा इत्यादि । गतम् । गार्हपत्य इति । औपश्लेषिके अधिकरणे सप्तमी । उभयोरित्यादि । गतम्8 ॥

मूलम् (संयुक्तम्)

स॒र्वत॒ᳶ परि॑ हरति॒ रक्ष॑सा॒मप॑हत्या इन्द्राग्नि॒योर्भा॑ग॒धेयी॒स्स्थेत्या॑ह यथाय॒जुरे॒वैतद

विश्वास-प्रस्तुतिः

स॒र्वत॒ᳶ परि॑ हरति । रक्ष॑सा॒मप॑हत्यै ।
इ॒न्द्रा॒ग्नि॒योर् भा॑ग॒धेयी॒स्स्थेत्या॑ह ।
य॒था॒य॒जुरे॒वैतत् ।

मूलम्

स॒र्वत॒ᳶ परि॑ हरति । रक्ष॑सा॒मप॑हत्यै ।
इ॒न्द्रा॒ग्नि॒योर् भा॑ग॒धेयी॒स्स्थेत्या॑ह ।
य॒था॒य॒जुरे॒वैतत् ।

पद-पाठः

स॒र्वतः॑ । परीति॑ । ह॒र॒ति॒ ।
रक्ष॑साम् । अप॑हत्या॒ इत्यप॑-ह॒त्यै॒ ।
इ॒न्द्रा॒ग्नि॒योरिती॑न्द्र-अ॒ग्नि॒योः । भा॒ग॒धेयी॒रिति॑ भाग-धेयीः॑ । स्थ॒ । इति॑ । आ॒ह॒ ।
य॒था॒य॒जुरिति॑ यथा-य॒जुः । ए॒व । ए॒तत् ।

भट्टभास्कर-टीका

9सर्वत इति ॥ ‘इन्द्राग्नियोः’ इत्यादीनि मन्त्रपदानि व्याख्याय यथा यजुर्वदति ‘जागृत'9 इति तथा भवत्येव जाग्रत्येव ॥

मूलम् (संयुक्तम्)

आग्नी॑ध्र॒ उप॑ वासयत्ये॒तद्वै य॒ज्ञस्याप॑राजितय्ँ॒यदाग्नी॑ध्रय्ँ॒यदे॒व य॒ज्ञस्याप॑राजित॒न्तदे॒वैना॒ उप॑ वासयति॒

विश्वास-प्रस्तुतिः

आग्नी॑ध्र॒ उप॑ वासयति ।
ए॒तद्वै य॒ज्ञस्याप॑राजितय्ँ॒ यदाग्नी॑ध्रम् ।
यदे॒व य॒ज्ञस्याप॑राजित॒न् , तदे॒वैना॒ उप॑ वासयति ।

मूलम्

आग्नी॑ध्र॒ उप॑ वासयति ।
ए॒तद्वै य॒ज्ञस्याप॑राजितय्ँ॒ यदाग्नी॑ध्रम् ।
यदे॒व य॒ज्ञस्याप॑राजित॒न् , तदे॒वैना॒ उप॑ वासयति ।

पद-पाठः

आग्नी॑ध्र॒ इत्याग्नि॑-इ॒ध्रे॒ । उपेति॑ । वा॒स॒य॒ति॒ ।
ए॒तत् । वै । य॒ज्ञस्य॑ । अप॑राजित॒मित्यप॑रा-जि॒त॒म् । यत् । आग्नी॑ध्र॒मित्याग्नि॑-इ॒ध्र॒म् ।
यत् । ए॒व । य॒ज्ञस्य॑ । अप॑राजित॒मित्यप॑रा-जि॒त॒म् । तत् । ए॒व । ए॒नाः॒ । उपेति॑ । वा॒स॒य॒ति॒ ।

भट्टभास्कर-टीका

10यज्ञार्थमाप उपवासयति आग्नीध्रमुपेत्य रात्रिं वासयति वसतविरीः । अपराजितमिति । रक्षःप्रभृतिभिरनभिभूतं स्थानम्, अग्नीधश्शरणम् । ‘अग्नीधश्शरणे रण्’ । तदेवेति । तत्स्थानमुपेत्य एना वसतीवरीर्वासयति ॥

मूलम् (संयुक्तम्)

यत॒ᳵ खलु॒ वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तदनु॑ य॒ज्ञँ रक्षाँ॒स्यव॑ चरन्ति॒ यद्वह॑न्तीनाङ्गृ॒ह्णाति॑ क्रि॒यमा॑णमे॒व तद्य॒ज्ञस्य॑ शये॒ रक्ष॑सा॒मन॑न्ववचाराय॒ न ह्ये॑ता ई॒लय॒न्त्या तृ॑तीयसव॒नात्परि॑ शेरे य॒ज्ञस्य॒ सन्त॑त्यै ॥ [11]

विश्वास-प्रस्तुतिः

यत॒ᳵ खलु॒ वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ , तदनु॑ य॒ज्ञँ रक्षाँ॒स्यव॑ चरन्ति ।
यद् वह॑न्तीनाङ् गृ॒ह्णाति॑ , क्रि॒यमा॑णमे॒व तद् य॒ज्ञस्य॑ शये ।
रक्ष॑सा॒मन॑न्ववचाराय ।
न ह्ये॑ता ई॒लय॑न्ति । आ तृ॑तीयसव॒नात् परि॑ शेरे ।
य॒ज्ञस्य॒ सन्त॑त्यै ॥ [11]

मूलम्

यत॒ᳵ खलु॒ वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ , तदनु॑ य॒ज्ञँ रक्षाँ॒स्यव॑ चरन्ति ।
यद् वह॑न्तीनाङ् गृ॒ह्णाति॑ , क्रि॒यमा॑णमे॒व तद् य॒ज्ञस्य॑ शये ।
रक्ष॑सा॒मन॑न्ववचाराय ।
न ह्ये॑ता ई॒लय॑न्ति । आ तृ॑तीयसव॒नात् परि॑ शेरे ।
य॒ज्ञस्य॒ सन्त॑त्यै ॥ [11]

पद-पाठः

यतः॑ । खलु॑ । वै । य॒ज्ञस्य॑ । वित॑त॒स्येति॒ वि-त॒त॒स्य॒ । न । क्रि॒यते॑ । तत् । अन्विति॑ । य॒ज्ञम् । रक्षाँ॑सि । अवेति॑ । च॒र॒न्ति॒ ।
यत् । वह॑न्तीनाम् । गृ॒ह्णाति॑ । क्रि॒यमा॑णम् । ए॒व । तत् । य॒ज्ञस्य॑ । श॒ये॒ ।
रक्ष॑साम् । अन॑न्ववचारा॒येत्यन॑नु-अ॒व॒चा॒रा॒य॒ ।
न । हि । ए॒ताः । ई॒लय॑न्ति ।
एति॑ । तृ॒ती॒य॒स॒व॒नादिति॑ तृतीय-स॒व॒नात् । परीति॑ । शे॒रे॒ ।
य॒ज्ञस्य॑ । सन्त॑त्या॒ इति॒ सम्-त॒त्यै॒ ॥ [11]

भट्टभास्कर-टीका

11यतः खल्वित्यादि ॥ यज्ञस्य वितायमानस्य संबन्धि कर्म यतः यतः मभृति न क्रियते तदनु तदेव लक्षीकृत्य हेतुं वा कृत्वा रक्षांसि यज्ञं तस्मिंस्तस्मिन् छिद्रे अवचरन्ति अवकुर्वन्ति, तस्माद्वहन्तीनां गृह्णाति । तत्कर्म क्रियमाणमेव शये शेते लुप्तं न भवति । ‘लोपस्त आत्मनेपदेषु’ इति तलोपः । वहन्तीग्रहणं स्वयंयज्ञत्वात् वहन्तीनाम् । यथोक्तं ‘वहन्तीनां गृह्णाति या एव मेध्या यज्ञियास्सदेवा आपः’ इति । तस्माच्छिद्राभावाद्रक्षसामनन्वचाराय भवति । न ह्येता ईलन्ति गच्छन्ति आतृतीयसवनात् परिशेरे परिशेरते अविचलिता अवतिष्ठन्ते । पूवर्वत्तलोपः, ‘अतो गुणे’ पररूपत्वम् । तत् यज्ञस्याविच्छेदाय अविच्छेदेव चन्द्रो [च्छेदेन चलना] भावः ॥

इति षष्ठे चतुर्थे द्वितीयोनुवाकः ॥