मूलम् (संयुक्तम्)
प॒शोर्वा आल॑ब्धस्य प्रा॒णाञ्छुगृ॑च्छति॒ वाक्त॒ आ प्या॑यताम्प्रा॒णस्त॒ आ प्या॑यता॒मित्या॑ह प्रा॒णेभ्य॑ ए॒वास्य॒ शुचँ॑ शमयति॒ सा प्रा॒णेभ्योऽधि॑ पृथि॒वीँ शुक्प्र वि॑शति॒ शमहो॑भ्या॒मिति॒ नि न॑यत्यहोरा॒त्राभ्या॑मे॒व पृ॑थि॒व्यै शुचँ॑ शमय॒त्य्
विश्वास-प्रस्तुतिः
प॒शोर्वा आल॑ब्धस्य प्रा॒णाञ् छुगृ॑च्छति ।
“वाक्त॒ आ प्या॑यताम् प्रा॒णस्त॒ आ प्या॑यता॒म्” इत्या॑ह ।
प्रा॒णेभ्य॑ ए॒वास्य॒ शुचँ॑ शमयति ।
सा प्रा॒णेभ्योऽधि॑ पृथि॒वीँ शुक्प्र वि॑शति ।
शमहो॑भ्या॒मिति॒ नि न॑यत्य् - अहोरा॒त्राभ्या॑मे॒व पृ॑थि॒व्यै शुचँ॑ शमयति ।
मूलम्
प॒शोर्वा आल॑ब्धस्य प्रा॒णाञ् छुगृ॑च्छति ।
“वाक्त॒ आ प्या॑यताम् प्रा॒णस्त॒ आ प्या॑यता॒म्” इत्या॑ह ।
प्रा॒णेभ्य॑ ए॒वास्य॒ शुचँ॑ शमयति ।
सा प्रा॒णेभ्योऽधि॑ पृथि॒वीँ शुक्प्र वि॑शति ।
शमहो॑भ्या॒मिति॒ नि न॑यत्य् - अहोरा॒त्राभ्या॑मे॒व पृ॑थि॒व्यै शुचँ॑ शमयति ।
पद-पाठः
प॒शोः । वै । आल॑ब्ध॒स्येत्या-ल॒ब्ध॒स्य॒ । प्रा॒णानिति॑ प्र-अ॒नान् । शुक् । ऋ॒च्छ॒ति॒ ।
वाक् । ते॒ । एति॑ । प्या॒य॒ता॒म् । प्रा॒ण इति॑ प्र-अ॒नः । ते॒ । एति॑ । प्या॒य॒ता॒म् । इति॑ । आ॒ह॒ । प्रा॒णेभ्य॒ इति॑ प्र-अ॒नेभ्यः॑ । ए॒व । अ॒स्य॒ । शुच॑म् । श॒म॒य॒ति॒ ।
सा । प्रा॒णेभ्य॒ इति॑ प्र-अ॒नेभ्यः॑ । अधीति॑ । पृ॒थि॒वीम् । शुक् । प्रेति॑ । वि॒श॒ति॒ ।
शम् । अहो॑भ्या॒मित्यहः॑-भ्या॒म् । इति॑ । नीति॑ । न॒य॒ति॒ । अ॒हो॒रा॒त्राभ्या॒मित्य॑हः-रा॒त्राभ्या॑म् । ए॒व । पृ॒थि॒व्यै । शुच॑म् । श॒म॒य॒ति॒ ।
भट्टभास्कर-टीका
1पशोर्वा इत्यादि ॥ शुक् शोकः । ‘वाक्त आ प्यायताम्’ इत्यादिभिः पत्नी अनुपूर्वं पशोः प्राणानाप्यायति । प्राणेभ्य इति ल्यब्लोपे पञ्चमी । अस्य पशोः प्राणेभ्य आदाय शोकं शमयति । सेत्यादि । सा शुक् प्राणेभ्योपनीता पृथिवीं प्रविशति । अधिरनर्थकः । पृथिवीं वा अधिष्ठाय प्रविशति । अधिष्ठाय प्रवेशोऽधिप्रवेशः । तच्छान्त्यर्थं शमहोभ्यामिति अतिशिष्टा अपः दक्षिणतो न पृष्ठतः निनयति । अहोरात्राभ्यामिति । मन्त्रपदस्येदं विवरणम् । अहस्सहिता रात्रिरप्यहरित्युच्यते मन्त्रे । यद्वा - व्यत्ययेन विरूपयोरप्येकशेषः प्रवर्तते । हेतौ तृतीया । अहोरात्राभ्यां हेतुभ्यामिति ॥
मूलम् (संयुक्तम्)
ओष॑धे॒ त्राय॑स्वैनँ॒ स्वधि॑ते॒ मैनँ॑ हिँसी॒रित्या॑ह॒ वज्रो॒ वै स्वधि॑तिः [45]
शान्त्यै॑ पार्श्व॒त आच्छ्य॑ति मध्य॒तो हि म॑नु॒ष्या॑ आ॒च्छ्यन्ति॑ तिर॒श्चीन॒मा च्छ्य॑त्यनू॒चीनँ॒ हि म॑नु॒ष्या॑ आ॒च्छ्यन्ति॒ व्यावृ॑त्त्यै॒
विश्वास-प्रस्तुतिः
ओष॑धे॒ त्राय॑स्वैनँ॒ स्वधि॑ते॒ मैनँ॑ हिँसी॒रित्या॑ह ।
वज्रो॒ वै स्वधि॑तिः ।[45] शान्त्यै॑ ।
पार्श्व॒त आच्छ्य॑ति , मध्य॒तो हि म॑नु॒ष्या॑ आ॒च्छ्यन्ति॑ , तिर॒श्चीन॒मा च्छ्य॑त्य् - अनू॒चीनँ॒ हि म॑नु॒ष्या॑ आ॒छ्यन्ति॑ ।
व्यावृ॑त्त्यै ।
मूलम्
ओष॑धे॒ त्राय॑स्वैनँ॒ स्वधि॑ते॒ मैनँ॑ हिँसी॒रित्या॑ह ।
वज्रो॒ वै स्वधि॑तिः ।[45] शान्त्यै॑ ।
पार्श्व॒त आच्छ्य॑ति , मध्य॒तो हि म॑नु॒ष्या॑ आ॒च्छ्यन्ति॑ , तिर॒श्चीन॒मा च्छ्य॑त्य् - अनू॒चीनँ॒ हि म॑नु॒ष्या॑ आ॒छ्यन्ति॑ ।
व्यावृ॑त्त्यै ।
पद-पाठः
ओष॑धे । त्राय॑स्व । ए॒न॒म् । स्वधि॑त॒ इति॒ स्व-धि॒ते॒ । मा । ए॒न॒म् । हिँ॒सीः॒ । इति॑ । आ॒ह॒ । वज्रः॑ । वै । स्वधि॑ति॒रिति॒ स्व-धि॒तिः॒ । [45]
शान्त्यै॑ ।
प्रदीपसिंहः
अत्र इक्लूड् करणीयम्
भट्टभास्कर-टीका
2वपाग्रहणदेशे प्राचीनाग्रं बर्हिर्निदधाति - ओषधे इति ॥ तत्र स्वधितिं निदधाति - स्वधिते इति । गतम् ।
मूलम्
पार्श्व॒त आच्छ्य॑ति , मध्य॒तो हि म॑नु॒ष्या॑ आ॒च्छ्यन्ति॑ , तिर॒श्चीन॒मा च्छ्य॑त्य् - अनू॒चीनँ॒ हि म॑नु॒ष्या॑ आ॒छ्यन्ति॑ ।
व्यावृ॑त्त्यै ।
पद-पाठः
पा॒र्श्व॒तः । एति॑ । छ्य॒ति॒ । म॒ध्य॒तः । हि । म॒नु॒ष्याः॑ । आ॒च्छ्यन्तीत्या॑-छ्यन्ति॑ । ति॒र॒श्चीन॑म् । एति॑ । छ्य॒ति॒ । अ॒नू॒चीन॑म् । हि । म॒नु॒ष्याः॑ । आ॒च्छ्यन्तीत्या॑-छ्यन्ति॑ । व्यावृ॑त्त्या॒ इति॑ वि-आवृ॑त्त्यै ।
भट्टभास्कर-टीका
पार्श्वत इति । पार्श्वे आच्छ्यति आच्छिनत्ति । मध्ये हेतुमाह - मध्यतो हि मनुष्याः सौनिकादयः आच्छ्यन्ति आच्छिन्दन्ति । उभयत्र आद्यादित्वात्तसिः । छो छेदने, दैवादिकः, ‘ओतश्श्यनि’ इति लोपः, ‘हि च’ इति निघाताभावः, ‘तिङि चोदात्तवति’ इति गतेरनुदात्तत्वम्, समासश्च । तिरश्चीनमिति । तिर्यङ्मानं, नानूचीनमाछ्यति । हेतुं चाह - अनूचीनं पशुशरीरानुगुणं मनुष्या आ छ्यन्ति न तिरश्चीनम् । तस्मात् व्यावृत्त्यर्थमेवं क्रियमाणं भवत्यस्य लौकिकात्पशोः ॥
मूलम् (संयुक्तम्)
रक्ष॑साम्भा॒गो॑ऽसीति॑ स्थविम॒तो ब॒र्हिर॒क्त्वापा॑स्यत्य॒स्नैव रक्षाँ॑सि नि॒रव॑दयत इ॒दम॒हँ रक्षो॑ऽध॒मन्तमो॑ नयामि॒ यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्म इत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यञ्चै॒व [46]
द्वे॒ष्टि॒ यश्चै॑न॒न्द्वेष्टि॒ तावु॒भाव॑ध॒मन्तमो॑ नयति
विश्वास-प्रस्तुतिः
रक्ष॑साम्भा॒गो॑ऽसीति॑ स्थविम॒तो ब॒र्हिर॒क्त्वा ऽपा॑स्यत्य् , अ॒स्नैव रक्षाँ॑सि नि॒रव॑दयते ।
इ॒दम॒हँ रक्षो॑ऽध॒मन् तमो॑ नयामि ।
यो॑ऽस्मान् द्वेष्टि॒ यञ्च॑ व॒यन् द्वि॒ष्म इत्या॑ह ।
द्वौ वाव पुरु॑षौ॒ , यञ्चै॒व द्वे॒ष्टि॒ यश्चै॑न॒न् द्वेष्टि॑ ।[46]
तावु॒भाव् अ॑ध॒मन् तमो॑ नयति ।
मूलम्
रक्ष॑साम्भा॒गो॑ऽसीति॑ स्थविम॒तो ब॒र्हिर॒क्त्वा ऽपा॑स्यत्य् , अ॒स्नैव रक्षाँ॑सि नि॒रव॑दयते ।
इ॒दम॒हँ रक्षो॑ऽध॒मन् तमो॑ नयामि ।
यो॑ऽस्मान् द्वेष्टि॒ यञ्च॑ व॒यन् द्वि॒ष्म इत्या॑ह ।
द्वौ वाव पुरु॑षौ॒ , यञ्चै॒व द्वे॒ष्टि॒ यश्चै॑न॒न् द्वेष्टि॑ ।[46]
तावु॒भाव् अ॑ध॒मन् तमो॑ नयति ।
पद-पाठः
रक्ष॑साम् । भा॒गः । अ॒सि॒ । इति॑ । स्थ॒वि॒म॒तः । ब॒र्हिः । अ॒क्त्वा । अपेति॑ । अ॒स्य॒ति॒ । अ॒स्ना । ए॒व । रक्षाँ॑सि । नि॒रव॑दयत॒ इति॑ निः-अव॑दयते ।
इ॒दम् । अ॒हम् । रक्षः॑ । अ॒ध॒मम् । तमः॑ । न॒या॒मि॒ ।
यः । अ॒स्मान् । द्वेष्टि॑ । यम् । च॒ । व॒यम् । द्वि॒ष्मः । इति॑ । आ॒ह॒ ।
द्वौ । वाव । पुरु॑षौ । यम् । च॒ । ए॒व । [46]
द्वेष्टि॑ । यः । च॒ । ए॒न॒म् । द्वेष्टि॑ ।
तौ । उ॒भौ । अ॒ध॒मम् । तमः॑ । न॒य॒ति॒ ।
भट्टभास्कर-टीका
3रक्षसां भागोसीति ॥ उपाकरणबर्हिषोर्मूलं लोहितेनाक्त्वा इमां दिशं निरस्यति । तदिदमाह - स्थविमत इति । स्थविमा स्थूलत्वम् । स्थलूदूरादिना यागादिलोपः गुणश्च । तेन तद्वान् प्रदेशो लक्ष्यते, मत्वर्थीयलोपो वा । तत आद्यादित्वात्तसिः । बर्हिः उपाकरणबर्हिः । ‘रक्षांसि निरवदयते’ इति वक्ष्यमाणत्वाद्विवेकलाभः । अस्नेति । असृजा । पद्वन्नादिना असन्भावः । निरवदानं विनाशनम् । इदमहमित्यादि । गतम् । अधमं तमः मृत्युः, नरकं वा ॥
मूलम् (संयुक्तम्)
इ॒षे त्वेति॑ व॒पामुत्खि॑दती॒च्छत॑ इव॒ ह्ये॑ष यो यज॑ते॒ यदु॑पतृ॒न्द्याद्रु॒द्रो॑ऽस्य प॒शून्घातु॑कस्स्या॒द्यन्नोप॑तृ॒न्द्यादय॑ता स्याद॒न्ययो॑पतृ॒णत्त्य॒न्यया॒ न धृत्यै॑
विश्वास-प्रस्तुतिः
इ॒षे त्वेति॑ व॒पामुत्खि॑दती॒च्छत॑ इव॒ ह्ये॑ष यो यज॑ते ।
यदु॑पतृ॒न्द्याद् रु॒द्रो॑ऽस्य प॒शून् घातु॑कस् स्यात् । यन्नोप॑तृ॒न्द्यादय॑ता स्यात् ।
अ॒न्ययो॑पतृ॒णत्त्य् - अ॒न्यया॒ न । धृत्यै॑ ।
मूलम्
इ॒षे त्वेति॑ व॒पामुत्खि॑दती॒च्छत॑ इव॒ ह्ये॑ष यो यज॑ते ।
यदु॑पतृ॒न्द्याद् रु॒द्रो॑ऽस्य प॒शून् घातु॑कस् स्यात् । यन्नोप॑तृ॒न्द्यादय॑ता स्यात् ।
अ॒न्ययो॑पतृ॒णत्त्य् - अ॒न्यया॒ न । धृत्यै॑ ।
पद-पाठः
इ॒षे । त्वा॒ । इति॑ । व॒पाम् । उदिति॑ । खि॒द॒ति॒ । इ॒च्छते॑ । इ॒व॒ । हि । ए॒षः । यः । यज॑ते ।
यत् । उ॒प॒तृ॒न्द्यादित्यु॑प-तृ॒न्द्यात् । रु॒द्रः । अ॒स्य॒ । प॒शून् । घातु॑कः । स्या॒त् । यत् ।
न । उ॒प॒तृ॒न्द्यादित्यु॑प-तृ॒न्द्यात् । अय॑ता । स्या॒त् ।
अ॒न्यया॑ । उ॒प॒तृ॒णत्तीत्यु॑प-तृ॒णत्ति॑ । अ॒न्यया॑ । न । धृत्यै॑ ।
भट्टभास्कर-टीका
4इषे त्वेति ॥ वपामुत्खिदति उद्धरति । खिद दैन्यै । इच्छत इवेति । यजमानस्येष्टत्वं दर्शयति ।यदुपतृन्द्यादिति । वपाश्रपणीभ्यां वपां यद्युपतृन्द्यात् हिंस्यात् रुद्रः पशूनां हननपरस्स्यात् । ‘लषपदपत’ इत्युकञ्, ‘न लोकाव्यय’ इति षष्ठीप्रतिषेधः । अथ यदि नोपतृन्द्यात् ताभ्यां तदा अयता अनियता स्यात् वपा । तस्मादन्यया एकया । अन्यया न । तद्धृत्यै धारणाय भवति । उ तृदिर् हिंसायाम्, ‘एकान्याभ्यां समर्थाभ्याम्’ इति निघाताभावः ॥
मूलम् (संयुक्तम्)
घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्ण्वा॑था॒मित्या॑ह॒ द्यावा॑पृथि॒वी ए॒व रसे॑नान॒क्त्यछि॑न्नः [47]
राय॑स्सु॒वीर॒ इत्या॑ह यथाय॒जुरे॒वैतत्क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ यद्व॒पामु॑त्खि॒दत्यु॒र्व॑न्तरि॑क्ष॒मन्वि॒हीत्या॑ह॒ शान्त्यै॒ प्र वा ए॒षो॑ऽस्माल्लो॒काच्च्य॑वते॒ यᳶ प॒शुम्मृ॒त्यवे॑ नी॒यमा॑नमन्वा॒रभ॑ते वपा॒श्रप॑णी॒ पुन॑र॒न्वार॑भते॒ऽस्मिन्ने॒व लो॒के प्रति॑ तिष्ठत्य
विश्वास-प्रस्तुतिः
“घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्ण्वा॑था॒म्” इत्या॑ह ।
द्यावा॑पृथि॒वी ए॒व रसे॑नान॒क्ति ।
अछि॑न्नो राय॑स् सु॒वीर॒ इत्या॑ह ।[47] य॒था॒य॒जुर् ए॒वैतत् ।
क्रू॒रमि॑व॒ वा ए॒तत् क॑रोति॒ यद्व॒पामु॑त्खि॒दति॑ ।
“उ॒र्व॑न्तरि॑क्ष॒मन्वि॒हि” + इत्या॑ह । शान्त्यै॑ ।
प्र वा ए॒षो॑ऽस्माल् लो॒काच् च्य॑वते॒ , यᳶ प॒शुम् मृ॒त्यवे॑ नी॒यमा॑नमन्वा॒रभ॑ते ।
व॒पा॒श्रप॑णी॒ पुन॑र॒न्वार॑भते॒ , ऽस्मिन्न् ए॒व लो॒के प्रति॑ तिष्ठति ।
मूलम्
“घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्ण्वा॑था॒म्” इत्या॑ह ।
द्यावा॑पृथि॒वी ए॒व रसे॑नान॒क्ति ।
अछि॑न्नो राय॑स् सु॒वीर॒ इत्या॑ह ।[47] य॒था॒य॒जुर् ए॒वैतत् ।
क्रू॒रमि॑व॒ वा ए॒तत् क॑रोति॒ यद्व॒पामु॑त्खि॒दति॑ ।
“उ॒र्व॑न्तरि॑क्ष॒मन्वि॒हि” + इत्या॑ह । शान्त्यै॑ ।
प्र वा ए॒षो॑ऽस्माल् लो॒काच् च्य॑वते॒ , यᳶ प॒शुम् मृ॒त्यवे॑ नी॒यमा॑नमन्वा॒रभ॑ते ।
व॒पा॒श्रप॑णी॒ पुन॑र॒न्वार॑भते॒ , ऽस्मिन्न् ए॒व लो॒के प्रति॑ तिष्ठति ।
पद-पाठः
घृ॒तेन॑ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ द्यावा-पृ॒थि॒वी॒ । प्रेति॑ । ऊ॒र्ण्वा॒था॒म् । इति॑ । आ॒ह॒ ।
द्यावा॑पृथि॒वी इति॒ द्यावा॑-पृ॒थि॒वी । ए॒व । रसे॑न । अ॒न॒क्ति॒ ।
अच्छि॑न्नः । [47] रायः॑ । सु॒वीर॒ इति॑ सु-वीरः॑ । इति॑ । आ॒ह॒ ।
य॒था॒य॒जुरिति॑ यथा-य॒जुः । ए॒व । ए॒तत् ।
क्रू॒रम् । इ॒व॒ । वै । ए॒तत् । क॒रो॒ति॒ । यत् । व॒पाम् । उ॒त्खि॒दतीत्यु॑त्-खि॒दति॑ । उ॒रु । अ॒न्तरि॑क्षम् । अन्विति॑ । इ॒हि॒ । इति॑ । आ॒ह॒ । शान्त्यै॑ ।
प्रेति॑ । वै । ए॒षः । अ॒स्मात् । लो॒कात् । च्य॒व॒ते॒ । यः । प॒शुम् । मृ॒त्यवे॑ । नी॒यमा॑नम् । अ॒न्वा॒रभ॑त॒ इत्य॑नु-आ॒रभ॑ते ।
व॒पा॒श्रप॑णी॒ इति॑ वपा-श्रप॑णी । पुनः॑ । अ॒न्वार॑भत॒ इत्य॑नु-आर॑भते । अ॒स्मिन् । ए॒व । लो॒के । प्रतीति॑ । ति॒ष्ठ॒ति॒ ।
भट्टभास्कर-टीका
5धृतेनेति ॥ वपाश्रपण्येका । वपया प्रोर्णोति । द्यावापृथिवी इति । ‘दिवो द्यावा’ इति द्यावादेशः, ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम्, ‘देवताद्वन्द्वे च’ इत्युदात्तत्वम् । अच्छिन्न इति । वपामधस्तात्परिवासयति । क्रूरमिवेत्यादि । महदन्तरिक्षमनुच्छेत्युक्त्वा वपामादायेति तच्छान्त्यै भवति । प्र वा एष इति । गतम् ॥
मूलम् (संयुक्तम्)
अ॒ग्निना॑ पु॒रस्ता॑देति॒ रक्ष॑सा॒मप॑हत्या॒ अथो॑ दे॒वता॑ ए॒व ह॒व्येन॑ [48]
अन्वे॑ति॒ नान्त॒ममङ्गा॑र॒मति॑ हरे॒द्यद॑न्त॒ममङ्गा॑रमति॒हरे॑द्दे॒वता॒ अति॑ मन्येत॒
विश्वास-प्रस्तुतिः
अ॒ग्निना॑ पु॒रस्ता॑देति । रक्ष॑सा॒मप॑हत्यै ।
अथो॑ दे॒वता॑ ए॒व ह॒व्येनान्वे॑ति । [48]
नान्त॒ममङ्गा॑र॒मति॑ हरेत् ।
यद् अ॑न्त॒मम् अङ्गा॑रमति॒हरे॑द् , दे॒वता॒ अति॑ मन्येत ।
मूलम्
अ॒ग्निना॑ पु॒रस्ता॑देति । रक्ष॑सा॒मप॑हत्यै ।
अथो॑ दे॒वता॑ ए॒व ह॒व्येनान्वे॑ति । [48]
नान्त॒ममङ्गा॑र॒मति॑ हरेत् ।
यद् अ॑न्त॒मम् अङ्गा॑रमति॒हरे॑द् , दे॒वता॒ अति॑ मन्येत ।
पद-पाठः
अ॒ग्निना॑ । पु॒रस्ता॑त् । ए॒ति॒ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑-ह॒त्यै॒ ।
अथो॒ इति॑ । दे॒वताः॑ । ए॒व । ह॒व्येन॑ । [48] अन्विति॑ । ए॒ति॒ ।
न । अ॒न्त॒मम् । अङ्गा॑रम् । अतीति॑ । ह॒रे॒त् ।
यत् । अ॒न्त॒मम् । अङ्गा॑रम् । अ॒ति॒हरे॒दित्य॑ति-हरे॑त् । दे॒वताः॑ । अतीति॑ । म॒न्ये॒त॒ ।
भट्टभास्कर-टीका
6अग्निनेति ॥ उल्मुकेन सहाग्रतो गच्छति रक्षसामपघातार्थम् । अपि च देवता एव ह्येनाननुगच्छति, सर्वदेवतात्मकत्वादग्रेः । नान्तममिति । अन्तं सर्वान्त्यमङ्गारमाहवनीयस्थं नातिहरेत् अतिक्रम्य न गच्छेत् । अन्तममितीकारलोपश्छान्दसः । यद्वा - अन्तमं अन्तिकतमं सन्निहिततमं ‘अन्तात्यन्ते’ इति (?)[तमेतादेश्च]’ इति तादिलोपः । प्रथमं सन्निहिते त्वङ्गारे बर्हिषोग्रमुपास्यति ॥
मूलम् (संयुक्तम्)
वायो॒ वीहि॑ स्तो॒काना॒मित्या॑ह॒ तस्मा॒द्विभ॑क्तास्स्तो॒का अव॑ पद्य॒न्तेऽग्रव्ँ॒वा ए॒तत्प॑शू॒नाय्ँयद्व॒पाग्र॒मोष॑धीनाम्ब॒र्हिरग्रे॑णै॒वाग्रँ॒ सम॑र्धय॒त्यथो॒ ओष॑धीष्वे॒व प॒शून्प्रति॑ ष्ठापयति॒
विश्वास-प्रस्तुतिः
वायो॒ वीहि॑ स्तो॒काना॒मित्या॑ह॒ तस्मा॒द्विभ॑क्तास्स्तो॒का अव॑ पद्य॒न्ते ।
अग्रव्ँ॒ वा ए॒तत् प॑शू॒नाय्ँ , यद् व॒पाग्र॒मोष॑धीनाम् ब॒र्हिरग्रे॑णै॒वाग्रँ॒ सम॑र्धयति ।
अथो॒ ओष॑धीष्वे॒व प॒शून् प्रति॑ ष्ठापयति ।
मूलम्
वायो॒ वीहि॑ स्तो॒काना॒मित्या॑ह॒ तस्मा॒द्विभ॑क्तास्स्तो॒का अव॑ पद्य॒न्ते ।
अग्रव्ँ॒ वा ए॒तत् प॑शू॒नाय्ँ , यद् व॒पाग्र॒मोष॑धीनाम् ब॒र्हिरग्रे॑णै॒वाग्रँ॒ सम॑र्धयति ।
अथो॒ ओष॑धीष्वे॒व प॒शून् प्रति॑ ष्ठापयति ।
पद-पाठः
वायो॒ इति॑ । वीति॑ । इ॒हि॒ । स्तो॒काना॑म् । इति॑ । आ॒ह॒ । तस्मा॑त् । विभ॑क्ता॒ इति॒ वि-भ॒क्ताः॒ । स्तो॒काः । अवेति॑ । प॒द्य॒न्ते॒ ।
अग्र॑म् । वै । ए॒तत् । प॒शू॒नाम् । यत् । व॒पा । अग्र॑म् । ओष॑धीनाम् । ब॒र्हिः । अग्रे॑ण । ए॒व । अग्र॑म् । समिति॑ । अ॒र्ध॒य॒ति॒ ।
अथो॒ इति॑ । ओष॑धीषु । ए॒व । प॒शून् । प्रतीति॑ । स्था॒प॒य॒ति॒ ।
भट्टभास्कर-टीका
17वायो वीहीति ॥ उपासनमन्त्रः बर्हिषः । तमेतादेश्च इति चादिलोपः, छान्दसमन्तोदात्तत्वम्, उदात्तनिवृत्तिस्वरो वा । यद्यस्तमतीत्य गच्छेत् देवता अतिमन्येत । तस्मादिति । विविधं गच्छ, ष्टथक्पृथग्गच्छेति मन्त्रवचनात् विभक्ताः स्तोका वपाबिन्दवः ष्टथिव्यामवपद्यन्ते । अग्रं वा इति । वपानाम पशूनामग्रं प्रधानं, बर्हिर्नाम ओषधीनामग्रम् । अग्रेणैवेत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
स्वाहा॑कृतीभ्य॒ᳶ प्रेष्येत्या॑ह [49]
य॒ज्ञस्य॒ समि॑ष्ट्यै
विश्वास-प्रस्तुतिः
“स्वाहा॑कृतीभ्य॒ᳶ प्रेष्य”+ इत्या॑ह ।[49]
य॒ज्ञस्य॒ समि॑ष्ट्यै ।
मूलम्
“स्वाहा॑कृतीभ्य॒ᳶ प्रेष्य”+ इत्या॑ह ।[49]
य॒ज्ञस्य॒ समि॑ष्ट्यै ।
पद-पाठः
स्वाहा॑कृतीभ्य॒ इति॒ स्वाहा॑कृति-भ्यः॒ । प्रेति॑ । इ॒ष्य॒ । इति॑ । आ॒ह॒ । [49]
य॒ज्ञस्य॑ । समि॑ष्ट्या॒ इति॒ सम्-इ॒ष्ट्यै॒ ।
भट्टभास्कर-टीका
8स्वाहाकृतीभ्य इति मैत्रावरुणं संप्रेष्यति ‘होता यक्षदग्निम्’ इति । योयमन्त्यः प्रयाजः स स्वाहाकृतिशब्देनोच्यते । देवताबहुत्वाद्बहुवचनम् । स हि ‘वपामेकः परि शये’ इति पूर्वं न कृतः, स इदानीं क्रियमाणो यज्ञस्य समष्ट्यै सम्यग्यागनिवृत्त्यर्थं भवति । स्वाहाशब्देन ऊर्यादित्वेन गतित्वात् ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम्, छान्दसं क्तिनो दीर्घत्वं सांहितिकम् ॥
मूलम् (संयुक्तम्)
प्राणापा॒नौ वा ए॒तौ प॑शू॒नाय्ँयत्पृ॑षदा॒ज्यमा॒त्मा व॒पा पृ॑षदा॒ज्यम॑भि॒घार्य॑ व॒पाम॒भि घा॑रयत्या॒त्मन्ने॒व प॑शू॒नाम्प्रा॑णापा॒नौ द॑धाति
विश्वास-प्रस्तुतिः
प्रा॒णा॒पा॒नौ वा ए॒तौ प॑शू॒नाय्ँ , यत् पृ॑षदा॒ज्यमा॒त्मा व॒पा ।
पृ॒ष॒दा॒ज्यम् अ॑भि॒घार्य॑ व॒पाम॒भि घा॑रयति ।
आ॒त्मन्ने॒व प॑शू॒नाम् प्रा॑णापा॒नौ द॑धाति ।
मूलम्
प्रा॒णा॒पा॒नौ वा ए॒तौ प॑शू॒नाय्ँ , यत् पृ॑षदा॒ज्यमा॒त्मा व॒पा ।
पृ॒ष॒दा॒ज्यम् अ॑भि॒घार्य॑ व॒पाम॒भि घा॑रयति ।
आ॒त्मन्ने॒व प॑शू॒नाम् प्रा॑णापा॒नौ द॑धाति ।
पद-पाठः
प्रा॒णा॒पा॒नाविति॑ प्राण-अ॒पा॒नौ । वै । ए॒तौ । प॒शू॒नाम् । यत् । पृ॒ष॒दा॒ज्यमिति॑ पृषत्-आ॒ज्यम् । आ॒त्मा । व॒पा ।
पृ॒ष॒दा॒ज्यमिति॑ पृषत्-आ॒ज्यम् । अ॒भि॒घार्येत्य॑भि-घार्य॑ । व॒पाम् । अ॒भीति॑ । घा॒र॒य॒ति॒ ।
आ॒त्मन् । ए॒व । प॒शू॒नाम् । प्रा॒णा॒पा॒नाविति॑ प्राण-अ॒पा॒नौ । द॒धा॒ति॒ ।
भट्टभास्कर-टीका
9प्राणापानाविति ॥ पृषदाज्यं नाम दधिमिश्रमाज्यं तत्प्राणापानस्थानीयम् । पशूनामात्मस्थानीया वपा । पृषदाज्यमित्यादि । गतम् । उपरि घृतासेचनमभिघारः ॥
मूलम् (संयुक्तम्)
स्वाहो॒र्ध्वन॑भसम्मारु॒तङ्ग॑च्छत॒मित्या॑हो॒र्ध्वन॑भा ह स्म॒ वै मा॑रु॒तो दे॒वानाव्ँ॑वपा॒श्रप॑णी॒ प्रह॑रति॒ तेनै॒वैने॒ प्र ह॑रति॒ विषू॑ची॒ प्र ह॑रति॒ तस्मा॒द्विष्व॑ञ्चौ प्राणापा॒नौ ॥ [50]
विश्वास-प्रस्तुतिः
“स्वाहो॒र्ध्वन॑भसम्मारु॒तङ् ग॑च्छत॒म्” इत्या॑ह ।
उ॒र्ध्वन॑भा ह स्म॒ वै मा॒रु॒तो दे॒वानाव्ँ॑ वपा॒श्रप॑णी॒ प्रह॑रति ।
तेनै॒वैने॒ प्र ह॑रति॒ , विषू॑ची॒ प्र ह॑रति ।
तस्मा॒द् विष्व॑ञ्चौ प्राणापा॒नौ ॥ [50]
मूलम्
“स्वाहो॒र्ध्वन॑भसम्मारु॒तङ् ग॑च्छत॒म्” इत्या॑ह ।
उ॒र्ध्वन॑भा ह स्म॒ वै मा॒रु॒तो दे॒वानाव्ँ॑ वपा॒श्रप॑णी॒ प्रह॑रति ।
तेनै॒वैने॒ प्र ह॑रति॒ , विषू॑ची॒ प्र ह॑रति ।
तस्मा॒द् विष्व॑ञ्चौ प्राणापा॒नौ ॥ [50]
पद-पाठः
स्वाहा॑ । ऊ॒र्ध्वन॑भस॒मित्यू॒र्ध्व-न॒भ॒स॒म् । मा॒रु॒तम् । ग॒च्छ॒त॒म् । इति॑ । आ॒ह॒ ।
ऊ॒र्ध्वन॑भा॒ इत्यू॒र्ध्व-न॒भाः॒ । ह॒ । स्म॒ । वै । मा॒रु॒तः । दे॒वाना॑म् । व॒पा॒श्रप॑णी॒ इति॑ वपा-श्रप॑णी । प्रेति॑ । ह॒र॒ति॒ ।
तेन॑ । ए॒व । ए॒ने॒ इति॑ । प्रेति॑ । ह॒र॒ति॒ ।
विषू॑ची॒ इति॑ । प्रेति॑ । ह॒र॒ति॒ ।
तस्मा॑त् । विष्व॑ञ्चौ । प्रा॒णा॒पा॒नाविति॑ प्राण-अ॒पा॒नौ ॥ [50]
भट्टभास्कर-टीका
10स्वाहोर्ध्वनभसमिति वपाश्रपण्योः प्रहरणम् । ऊर्ध्वनभा नाम देवानां वपाश्रपण्योः प्रहर्ता । तेनैवैते प्रहृते भवतः, अनेनैव मन्त्रेण प्रहरणात् । विषूची इति । विष्वङ् नाना अञ्चत इति विषूच्यौ व्यत्यस्ताग्रे । पूर्ववत्पूर्वसवर्णदीर्घत्वम्, ‘चौ’ इति पूर्वपदस्य दीर्घत्वम् । धातोरनच्कत्वाद्दीर्घश्च । परत्वान्निपातस्वर आद्युदात्तः प्रवर्तते । यद्वा - अव्ययपूर्वपदप्रकृतिस्वरत्वं, गत्याद्यभावात् कृदुत्तरपदप्रकृतिस्वराप्रसङ्गः । ‘चौ’ इत्यन्तोदात्तत्वं व्यत्ययेन न प्रवर्तते । तस्मादिति । ऊर्ध्वगतिः प्राणः, अधोगतिरपान इति विष्वक्त्वमनयोः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
इति षष्ठे तृतीये नवमोनुवाकः ॥