मूलम् (संयुक्तम्)
सु॒व॒र्गाय॒ वा ए॒तानि॑ लो॒काय॑ हूयन्ते॒ यद्वै॑सर्ज॒नानि॒ द्वाभ्या॒ङ्गार्ह॑पत्ये जुहोति द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्या॒ आग्नी॑ध्रे जुहोत्य॒न्तरि॑क्ष ए॒वा क्र॑मत आहव॒नीये॑ जुहोति सुव॒र्गमे॒वैनल्ँ॑ लो॒कङ्ग॑मयति
विश्वास-प्रस्तुतिः
सु॒व॒र्गाय॒ वा ए॒तानि॑ लो॒काय॑ हूयन्ते॒ यद्वै॑सर्ज॒नानि ।
द्वाभ्या॒ङ्गार्ह॑पत्ये जुहोति ।
द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्यै ।
आग्नी॑ध्रे जुहोति ।
अ॒न्तरि॑क्ष ए॒वा क्र॑मते ।
आ॒ह॒व॒नीये॑ जुहोति ।
सु॒व॒र्गम् ए॒वैनल्ँ॑ लो॒कङ् ग॑मयति ।
मूलम्
सु॒व॒र्गाय॒ वा ए॒तानि॑ लो॒काय॑ हूयन्ते॒ यद्वै॑सर्ज॒नानि ।
द्वाभ्या॒ङ्गार्ह॑पत्ये जुहोति ।
द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्यै ।
आग्नी॑ध्रे जुहोति ।
अ॒न्तरि॑क्ष ए॒वा क्र॑मते ।
आ॒ह॒व॒नीये॑ जुहोति ।
सु॒व॒र्गम् ए॒वैनल्ँ॑ लो॒कङ् ग॑मयति ।
पद-पाठः
सु॒व॒र्गायेति॑ सुवः-गाय॑ । वै । ए॒तानि॑ । लो॒काय॑ । हू॒य॒न्ते॒ । यत् । वै॒स॒र्ज॒नानि॑ ।
द्वाभ्या॑म् । गार्ह॑पत्य॒ इति॒ गार्ह॑-प॒त्ये॒ । जु॒हो॒ति॒ ।
द्वि॒पादिति॑ द्वि-पात् । यज॑मानः ।
प्रति॑ष्ठित्या॒ इति॒ प्रति॑-स्थि॒त्यै॒ ।
आग्नी॑ध्र॒ इत्याग्नि॑-इ॒ध्रे॒ । जु॒हो॒ति॒ ।
अ॒न्तरि॑क्षे । ए॒व । एति॑ । क्र॒म॒ते॒ ।
आ॒ह॒व॒नीय॒ इत्या॑-ह॒व॒नीये॑ । जु॒हो॒ति॒ ।
सु॒व॒र्गमिति॑ सुवः-गम् । ए॒व । ए॒न॒म् । लो॒कम् । ग॒म॒य॒ति॒ ।
भट्टभास्कर-टीका
1सुवर्गायेत्यादि ॥ अवान्तरदीक्षाविसर्जनार्थानि वैसर्जनानि ‘त्वं सोम’ इत्यादि । द्वाभ्यामित्यादि । गतम् । गार्हपत्याग्नीघ्राहवनीयानां पृथिव्यन्तरिक्षस्वर्गात्मकत्वात् प्रतिष्ठाहेतुत्वम् । यजमानस्याक्रमते अप्रतिबन्धेन गच्छति । वृत्तावात्मनेपदम् ॥
मूलम् (संयुक्तम्)
दे॒वान्वै सु॑व॒र्गल्ँ लो॒कय्ँय॒तो रक्षाँ॑स्यजिघाँस॒न्ते सोमे॑न॒ राज्ञा॒ रक्षाँ॑स्यप॒हत्या॒प्तुमा॒त्मान॑ङ्कृ॒त्वा सु॑व॒र्गल्ँ लो॒कमा॑य॒न्रक्ष॑सा॒मनु॑पलाभा॒यात्त॒स्सोमो॑ भव॒त्यथ॑ [7]
वै॒स॒र्ज॒नानि॑ जुहोति॒ रक्ष॑सा॒मप॑हत्यै॒
विश्वास-प्रस्तुतिः
दे॒वान्वै सु॑व॒र्गल्ँ लो॒कय्ँय॒तो रक्षाँ॑स्यजिघाँसन् ।
ते सोमे॑न॒ राज्ञा॒ रक्षाँ॑स्यप॒हत्या॒प्तुम् आ॒त्मान॑ङ् कृ॒त्वा सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
रक्ष॑सा॒मनु॑पलाभा॒य ।
आत्त॒स् सोमो॑ भव॒त्य् - अथ॑ वैसर्ज॒नानि॑ जुहोति॒ रक्ष॑सा॒मप॑हत्यै ।[7]
मूलम्
दे॒वान्वै सु॑व॒र्गल्ँ लो॒कय्ँय॒तो रक्षाँ॑स्यजिघाँसन् ।
ते सोमे॑न॒ राज्ञा॒ रक्षाँ॑स्यप॒हत्या॒प्तुम् आ॒त्मान॑ङ् कृ॒त्वा सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
रक्ष॑सा॒मनु॑पलाभा॒य ।
आत्त॒स् सोमो॑ भव॒त्य् - अथ॑ वैसर्ज॒नानि॑ जुहोति॒ रक्ष॑सा॒मप॑हत्यै ।[7]
पद-पाठः
दे॒वान् । वै । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । य॒तः । रक्षाँ॑सि । अ॒जि॒घाँ॒स॒न् ।
ते । सोमे॑न । राज्ञा॑ । रक्षाँ॑सि । अ॒प॒हत्येत्य॑प-हत्य॑ । अ॒प्तुम् । आ॒त्मान॑म् । कृ॒त्वा । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । आ॒य॒न् ।
रक्ष॑साम् । अनु॑पलाभा॒येत्यनु॑प-ला॒भा॒य॒ ।
आत्तः॑ । सोमः॑ । भ॒व॒ति॒ । अथ॑ । [7] वै॒स॒र्ज॒नानि॑ । जु॒हो॒ति॒ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑-ह॒त्यै॒ ।
भट्टभास्कर-टीका
2देवान्त इत्यादि ॥ यतः गच्छतः । ‘शतुरनुमः’ इति विभक्तेरुदात्तत्वम् । अप्तुं स्वल्पमात्मानं कृत्वा स्वर्गं गताः रक्षसामनुपलाभाय रक्षांसि मोपलाभं जिघांसन् । यस्मादेवं तस्मात्तदर्थं आत्तः गृहीतस्सोमो भवति । अथास्मिन्नवसरे वैसर्जनानि जुहोति रक्षसामपहत्यै यथा भवति तथा गृहीतस्सोमो भवति ॥
मूलम् (संयुक्तम्)
त्वँ सो॑म तनू॒कृद्भ्य॒ इत्या॑ह तनू॒कृद्ध्ये॑ष द्वेषो॑भ्यो॒ऽन्यकृ॑तेभ्य॒ इत्या॑हा॒न्यकृ॑तानि॒ हि रक्षाँ॑स्यु॒रु य॒न्तासि॒ वरू॑थ॒मित्या॑हो॒रु ण॑स्कृ॒धीति॒ वावैतदा॑ह जुषा॒णो अ॒प्तुराज्य॑स्य वे॒त्वित्या॑हा॒प्तुमे॒व यज॑मानङ्कृ॒त्वा सु॑व॒र्गल्ँ लो॒कङ्ग॑मयति॒ रक्ष॑सा॒मनु॑पलाभा॒या सोम॑न्ददते [8]
आ ग्राव्ण्ण॒ आ वा॑य॒व्या॑न्या द्रो॑णकल॒शमुत्पत्नी॒मा न॑य॒न्त्यन्वनाँ॑सि॒ प्र व॑र्तयन्ति॒ याव॑दे॒वास्यास्ति॒ तेन॑ स॒ह सु॑व॒र्गल्ँ लो॒कमे॑ति॒
विश्वास-प्रस्तुतिः
त्वँ सो॑म तनू॒कृद्भ्य॒ इत्या॑ह ।
त॒नू॒कृद्ध्ये॑ष । द्वेषो॑भ्यो॒ऽन्यकृ॑तेभ्य॒ इत्या॑ह ।
अ॒न्यकृ॑तानि॒ हि रक्षाँ॑सि ।
उ॒रु य॒न्तासि॒ वरू॑थ॒मित्या॑ह ।
उ॒रुण॑स् कृ॒धीति॒ वावैतदा॑ह ।
जु॒षा॒णो अ॒प्तुर् आज्य॑स्य वे॒त्वित्या॑ह ।
मूलम्
त्वँ सो॑म तनू॒कृद्भ्य॒ इत्या॑ह ।
त॒नू॒कृद्ध्ये॑ष । द्वेषो॑भ्यो॒ऽन्यकृ॑तेभ्य॒ इत्या॑ह ।
अ॒न्यकृ॑तानि॒ हि रक्षाँ॑सि ।
उ॒रु य॒न्तासि॒ वरू॑थ॒मित्या॑ह ।
उ॒रुण॑स् कृ॒धीति॒ वावैतदा॑ह ।
जु॒षा॒णो अ॒प्तुर् आज्य॑स्य वे॒त्वित्या॑ह ।
पद-पाठः
त्वम् । सो॒म॒ । त॒नू॒कृद्भ्य॒ इति॑ तनू॒कृत्-भ्यः॒ । इति॑ । आ॒ह॒ ।
त॒नू॒कृदिति॑ तनू-कृत् । हि । ए॒षः ।
द्वेषो॑भ्य॒ इति॒ द्वेषः॑-भ्यः॒ । अ॒न्यकृ॑तेभ्य॒ इत्य॒न्य-कृ॒ते॒भ्यः॒ । इति॑ । आ॒ह॒ ।
अ॒न्यकृ॑ता॒नीत्य॒न्य-कृ॒ता॒नि॒ । हि । रक्षाँ॑सि ।
उ॒रु । य॒न्ता । अ॒सि॒ । वरू॑थम् । इति॑ । आ॒ह॒ ।
उ॒रु । नः॒ । कृ॒धि॒ । इति॑ । वाव । ए॒तत् । आ॒ह॒ ।
जु॒षा॒णः । अ॒प्तुः । आज्य॑स्य । वे॒तु॒ । इति॑ । आ॒ह॒ ।
भट्टभास्कर-टीका
3इदानीं मन्त्रपदानि व्याचष्टे - त्वं सोमेति ॥ तनूकृद्ध्येष इति । कृती छेदने । तनूकृतां तनुच्छिदां रक्षःप्रभृतीनामपि तनूकृत् । अन्यकृतानि हीति । अन्यैरमित्रैः कृतानि रक्षःप्रभृतीनि । वरूथमिति । अन्ये उक्तेभ्यो भयेभ्यो रक्षकं वरूथं वरणीयं नमस्कारवत्त्वमसीति उरुधनरूपेण स्तुतः उरुधनमस्मभ्यं देहीत्याहेत्यर्थः । ‘नश्च धातुस्थोरुषभ्यः’ इति नसो णत्वम् । ‘कः करत्’ इति विसर्जनीयस्य सत्वम् । करोतेर्लोटि शपो लुक् । ‘श्रुशृणुपॄकृवृभ्यः’ इति धिभावः ।
विश्वास-प्रस्तुतिः
अ॒प्तुमे॒व यज॑मानङ् कृ॒त्वा सु॑व॒र्गल्ँ लो॒कङ् ग॑मयति ।
रक्ष॑सा॒मनु॑पलाभा॒य ।
आ सोम॑न् ददते,
आ ग्राव्ण्ण॒ , आ वा॑य॒व्या॑न्य् आ द्रो॑णकल॒शम् ।[8]
उत्पत्नी॒मा न॑य॒न्ति ।
यन्वनाँ॑सि॒ प्र व॑र्तयन्ति ।
याव॑द् ए॒वास्यास्ति॒ तेन॑ स॒ह सु॑व॒र्गल्ँ लो॒कमे॑ति ।
मूलम्
अ॒प्तुमे॒व यज॑मानङ् कृ॒त्वा सु॑व॒र्गल्ँ लो॒कङ् ग॑मयति ।
रक्ष॑सा॒मनु॑पलाभा॒य ।
आ सोम॑न् ददते,
आ ग्राव्ण्ण॒ , आ वा॑य॒व्या॑न्य् आ द्रो॑णकल॒शम् ।[8]
उत्पत्नी॒मा न॑य॒न्ति ।
यन्वनाँ॑सि॒ प्र व॑र्तयन्ति ।
याव॑द् ए॒वास्यास्ति॒ तेन॑ स॒ह सु॑व॒र्गल्ँ लो॒कमे॑ति ।
पद-पाठः
अ॒प्तुम् । ए॒व । यज॑मानम् । कृ॒त्वा । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । ग॒म॒य॒ति॒ ।
रक्ष॑साम् । अनु॑पलाभा॒येत्यनु॑प-ला॒भा॒य॒ । 1एति॑ । सोम॑म् । द॒द॒ते॒ । [8]
एति॑ । ग्राव्ण्णः॑ । एति॑ । वा॒य॒व्या॑नि । एति॑ । द्रो॒ण॒क॒ल॒शमिति॑ द्रोण-क॒ल॒शम् ।
उदिति॑ । पत्नी॑म् । एति॑ । न॒य॒न्ति॒ ।
अन्विति॑ । अनाँ॑सि । प्रेति॑ । व॒र्त॒य॒न्ति॒ ।
याव॑त् । ए॒व । अ॒स्य॒ । अस्ति॑ । तेन॑ । स॒ह । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । ए॒ति॒ ।
भट्टभास्कर-टीका
अप्तुमेवेत्यादि । गतम् ॥ +++(सम्पादकटिप्पनी - विस्तृतं व्याख्यानमन्यत्र मृग्यम्)+++।
मूलम् (संयुक्तम्)
नय॑वत्य॒र्चाग्नी॑ध्रे जुहोति सुव॒र्गस्य॑ लो॒कस्या॒भिनी॑त्यै॒
विश्वास-प्रस्तुतिः
नय॑वत्य॒र्चाग्नी॑ध्रे जुहोति ।
सु॒व॒र्गस्य॑ लो॒कस्या॒भिनी॑त्यै ।
मूलम्
नय॑वत्य॒र्चाग्नी॑ध्रे जुहोति ।
सु॒व॒र्गस्य॑ लो॒कस्या॒भिनी॑त्यै ।
पद-पाठः
नय॑व॒त्येति॒ नय॑-व॒त्या॒ । ऋ॒चा । आग्नी॑ध्र॒ इत्याग्नि॑-इ॒ध्रे॒ । जु॒हो॒ति॒ ।
सु॒व॒र्गस्येति॑ सुवः-गस्य॑ । लो॒कस्य॑ । अ॒भिनी॑त्या॒ इत्य॒भि-नी॒त्यै॒ ।
भट्टभास्कर-टीका
4नयवत्येति ॥ आग्नीध्रे अग्निं प्रतिष्ठाप्य’ अग्ने नय’ इति नयशब्दवत्या जुहोति सुवर्गस्याभिमुख्येन प्राप्त्यैभवति ॥
मूलम् (संयुक्तम्)
ग्राव्ण्णो॑ वाय॒व्या॑नि द्रोणकल॒शमाग्नी॑ध्र॒ उप॑ वासयति॒ वि ह्ये॑न॒न्तैर्गृ॒ह्णते॒ यत्स॒होप॑वा॒सये॑दपुवा॒येत॑
विश्वास-प्रस्तुतिः
ग्राव्ण्णो॑ वाय॒व्या॑नि द्रोणकल॒शमाग्नी॑ध्र॒ उप॑ वासयति ।
वि ह्ये॑न॒न् तैर् गृ॒ह्णते॑ ।
यत् स॒होप॑वा॒सये॑दपुवा॒येत॑ ।
मूलम्
ग्राव्ण्णो॑ वाय॒व्या॑नि द्रोणकल॒शमाग्नी॑ध्र॒ उप॑ वासयति ।
वि ह्ये॑न॒न् तैर् गृ॒ह्णते॑ ।
यत् स॒होप॑वा॒सये॑दपुवा॒येत॑ ।
पद-पाठः
ग्राव्ण्णः॑ । वा॒य॒व्या॑नि । द्रो॒ण॒क॒ल॒शमिति॑ द्रोण-क॒ल॒शम् । आग्नी॑ध्र॒ इत्याग्नि॑-इ॒ध्रे॒ । उपेति॑ । वा॒स॒य॒ति॒ ।
वीति॑ । हि । ए॒न॒म् । तैः । गृ॒ह्णते॑ ।
यत् । स॒ह । उ॒प॒वा॒सये॒दित्यु॑प-वा॒सये॑त् । अ॒पु॒वा॒येत॑ ।
भट्टभास्कर-टीका
5ग्रावादीनि तत्रैवाग्नीध्रे उपवासयति स्थापयति । तैर्ग्रावादिभिर्विभज्य विश्लेष्य एनं सोमं गृह्णते । एवं हि कर्तुं युज्यते हिंसकत्वादस्यैषाम् । ‘हि च’ इति निघातप्रतिषेधः । अथ यदि तैस्सह एनमुपवासयेत् । पूर्ववद्गतेरनुदात्तत्वम्, समासश्च । तदा अयमपुवायेत पूतीभवेत् । इहत्यं धात्वन्तरमित्येके । एतेरपपूर्वस्येदं वैकृतमित्यन्ये । सर्वथा समानवाक्ये पदात्परत्वाभावः ॥
मूलम् (संयुक्तम्)
सौ॒म्यर्चा प्र पा॑दयति॒ स्वया॑ [9]
ए॒वैन॑न्दे॒वत॑या॒ प्र पा॑दय॒त्य्
विश्वास-प्रस्तुतिः
सौ॒म्यर्चा प्र पा॑दयति ।
स्वया॑ ए॒वैन॑न् दे॒वत॑या॒ प्र पा॑दयति ।[9]
मूलम्
सौ॒म्यर्चा प्र पा॑दयति ।
स्वया॑ ए॒वैन॑न् दे॒वत॑या॒ प्र पा॑दयति ।[9]
पद-पाठः
सौ॒म्या । ऋ॒चा । प्रेति॑ । पा॒द॒य॒ति॒ ।
स्वया॑ । [9] ए॒व । ए॒न॒म् । दे॒वत॑या । प्रेति॑ । पा॒द॒य॒ति॒ ।
भट्टभास्कर-टीका
6सौम्येति ॥ ‘सोमो जिगाति’ इत्यादिना हविर्धानं प्रतिपादयति सोमम् । स्वया आत्मनैव देवतया प्रपादयति दक्षिणस्य हविर्धानस्य नीडे कृष्णाजिनास्तरणम् ॥
मूलम् (संयुक्तम्)
अदि॑त्या॒स्सदो॒ऽस्यदि॑त्या॒स्सद॒ आ सी॒देत्या॑ह यथाय॒जुरे॒वैतद्
विश्वास-प्रस्तुतिः
अदि॑त्या॒स् सदो॒ऽस्यदि॑त्या॒स् सद॒ आ सी॒देत्या॑ह ।
य॒था॒ य॒जु॒र् ए॒वैतत् ।
मूलम्
अदि॑त्या॒स् सदो॒ऽस्यदि॑त्या॒स् सद॒ आ सी॒देत्या॑ह ।
य॒था॒ य॒जु॒र् ए॒वैतत् ।
पद-पाठः
अदि॑त्याः । सदः॑ । अ॒सि॒ । अदि॑त्याः । सदः॑ । एति॑ । सी॒द॒ । इति॑ । आ॒ह॒ । य॒था॒य॒जुरिति॑ यथा-य॒जुः । ए॒व । ए॒तत् ।
भट्टभास्कर-टीका
7अदित्यास्सद इति ॥ तत्र राज्ञ आसादनम् । ‘अदित्यास्सद आ सीद’ इति यथा यजुर्वदति एवमेवैतदवगन्तव्यम्, तन्न व्याख्येयमिति ॥
मूलम् (संयुक्तम्)
यज॑मानो॒ वा ए॒तस्य॑ पु॒रा गो॒प्ता भ॑वत्ये॒ष वो॑ देव सवित॒स्सोम॒ इत्या॑ह सवि॒तृप्र॑सूत ए॒वैन॑न्दे॒वता॑भ्य॒स्सम्प्र य॑च्छत्य्
विश्वास-प्रस्तुतिः
यज॑मानो॒ वा ए॒तस्य॑ पु॒रा गो॒प्ता भ॑वति ।
“ए॒ष वो॑ देव सवित॒स् सोम॒” इत्या॑ह ।
स॒वि॒तृप्रसू॑त ए॒वैन॑न् दे॒वता॑भ्य॒स् सम्प्र य॑च्छति ।
मूलम्
यज॑मानो॒ वा ए॒तस्य॑ पु॒रा गो॒प्ता भ॑वति ।
“ए॒ष वो॑ देव सवित॒स् सोम॒” इत्या॑ह ।
स॒वि॒तृप्रसू॑त ए॒वैन॑न् दे॒वता॑भ्य॒स् सम्प्र य॑च्छति ।
पद-पाठः
यज॑मानः । वै । ए॒तस्य॑ । पु॒रा । गो॒प्ता । भ॒व॒ति॒ ।
ए॒षः । वः॒ । दे॒व॒ । स॒वि॒तः॒ । सोमः॑ । इति॑ । आ॒ह॒ ।
स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ-प्र॒सू॒तः॒ । ए॒व । ए॒न॒म् । दे॒वता॑भ्यः । सम् । प्रेति॑ । य॒च्छ॒ति॒ ।
भट्टभास्कर-टीका
8यजमानो वा इत्यादि ॥ यजमान एवास्य पूर्वं प्राग्वंशे रक्षक आसीत् । ‘पुरि लुङ् चास्मे’ इति लट् । इदानीं तु ‘एष वो देव'7 इत्यनेन देवेभ्यो रक्षार्थं संप्रयच्छति । तत्र सवितारमामन्त्र्य देवेभ्यः प्रदानात् सवितृप्रसूतः सवित्राऽनुज्ञात एव देवताभ्यस्संप्रयच्छति । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्व- रत्वम् ॥
मूलम् (संयुक्तम्)
ए॒तत्त्वँ सो॑म दे॒वो दे॒वानुपा॑गा॒ इत्या॑ह दे॒वो ह्ये॑ष सन् [10]
दे॒वानु॒पैती॒दम॒हम्म॑नु॒ष्यो॑ मनु॒ष्या॑नित्या॑ह मनु॒ष्यो३॒॑ ह्ये॑ष सन्म॑नु॒ष्या॑नु॒पैति॒
विश्वास-प्रस्तुतिः
“ए॒तत्त्वँ सो॑म दे॒वो दे॒वानुपा॑गा॒” इत्या॑ह ।
दे॒वो ह्ये॑ष सन् दे॒वानु॒पैति॑ ।[10]
“इ॒दम॒हम् म॑नु॒ष्यो॑ मनु॒ष्या॑न्” इत्या॑ह ।
म॒नु॒ष्यो३॒॑ ह्ये॑ष सन् म॑नु॒ष्या॑नु॒पैति॑ ।
मूलम्
“ए॒तत्त्वँ सो॑म दे॒वो दे॒वानुपा॑गा॒” इत्या॑ह ।
दे॒वो ह्ये॑ष सन् दे॒वानु॒पैति॑ ।[10]
“इ॒दम॒हम् म॑नु॒ष्यो॑ मनु॒ष्या॑न्” इत्या॑ह ।
म॒नु॒ष्यो३॒॑ ह्ये॑ष सन् म॑नु॒ष्या॑नु॒पैति॑ ।
पद-पाठः
ए॒तत् । त्वम् । सो॒म॒ । दे॒वः । दे॒वान् । उपेति॑ । अ॒गाः॒ । इति॑ । आ॒ह॒ ।
दे॒वः । हि । ए॒षः । सन् । [10] दे॒वान् । उ॒पैतीत्यु॑प-एति॑ ।
इ॒दम् । अ॒हम् । म॒नु॒ष्यः॑ । म॒नु॒ष्या॑न् । इति॑ । आ॒ह॒ ।
म॒नु॒ष्यः॑ । हि । ए॒षः । सन् । म॒नु॒ष्या॑न् । उ॒पैतीत्यु॑प-एति॑ ।
भट्टभास्कर-टीका
9एतत्त्वमिति ॥ राज्ञ उपस्थानम् । एतावन्तं कालं बद्ध इव जितो राजा, यजमानश्च गोपायिता । इदानीं तु देवेषु रक्षत्सु देवानुपागतः मनुष्यस्सन् यजमानो मनुष्यान् एत्युपस्थानार्थं इत्यर्थः । उभयत्र ‘हि च’ इति निघातप्रतिषेधे ‘तिङि चोदात्तवति’ इति गतेरनुदात्तत्वम्, समासश्च ॥
मूलम् (संयुक्तम्)
यदे॒तद्यजु॒र्न ब्रू॒यादप्र॑जा अप॒शुर्यज॑मानस्स्यात्स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॒णेत्या॑ह प्र॒जयै॒व प॒शुभि॑स्स॒हेमल्ँ लो॒कमु॒पाव॑र्तते
विश्वास-प्रस्तुतिः
यदे॒तद् यजु॒र्न ब्रू॒याद् , अप्र॑जा अप॒शुर् यज॑मानस् स्यात् ।
“स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॒ण” + इत्या॑ह ।
प्र॒जयै॒व प॒शुभि॑स् स॒हेमल्ँ लो॒कम् उ॒पाव॑र्तते ।
मूलम्
यदे॒तद् यजु॒र्न ब्रू॒याद् , अप्र॑जा अप॒शुर् यज॑मानस् स्यात् ।
“स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॒ण” + इत्या॑ह ।
प्र॒जयै॒व प॒शुभि॑स् स॒हेमल्ँ लो॒कम् उ॒पाव॑र्तते ।
पद-पाठः
यत् । ए॒तत् । यजुः॑ । न । ब्रू॒यात् । अप्र॑जा॒ इत्यप्र॑-जाः॒ । अ॒प॒शुः । यज॑मानः । स्या॒त् ।
स॒ह । प्र॒जयेति॑ प्र-जया॑ । स॒ह । रा॒यः । पोषे॑ण । इति॑ । आ॒ह॒ ।
प्र॒जयेति॑ प्र-जया॑ । ए॒व । प॒शुभि॒रिति॑ प॒शु-भिः॒ । स॒ह । इ॒मम् । लो॒कम् । उ॒पाव॑र्तत॒ इत्यु॑प-आव॑र्तते ।
भट्टभास्कर-टीका
10यदेतदित्यादि ॥ गतम् । अप्रजा इति । ‘नित्यमसिच्प्रजामेधयोः’ इत्यसिच् । उपावर्तते इति । ‘गतिर्गतौ’ इति प्रथमस्य गतेरनुदात्तत्वम्, समासश्च गत्याख्यातसमुदायेन ॥
मूलम् (संयुक्तम्)
नमो॑ दे॒वेभ्य॒ इत्या॑ह नमस्का॒रो हि दे॒वानाँ॑ स्व॒धा पि॒तृभ्य॒ इत्या॑ह स्वधाका॒रो हि [11]
पि॒तृ॒णाम्
विश्वास-प्रस्तुतिः
“नमो॑ दे॒वेभ्य॒” इत्या॑ह ।
न॒म॒स्का॒रो हि दे॒वाना॑म् ।
“स्व॒धा पि॒तृभ्य॒” इत्या॑ह ।
स्व॒धा॒का॒रो हि पि॑तृ॒णाम् ।[11]
मूलम्
“नमो॑ दे॒वेभ्य॒” इत्या॑ह ।
न॒म॒स्का॒रो हि दे॒वाना॑म् ।
“स्व॒धा पि॒तृभ्य॒” इत्या॑ह ।
स्व॒धा॒का॒रो हि पि॑तृ॒णाम् ।[11]
पद-पाठः
नमः॑ । दे॒वेभ्यः॑ । इति॑ । आ॒ह॒ ।
न॒म॒स्का॒र इति॑ नमः-का॒रः । हि । दे॒वाना॑म् ।
स्व॒धेति॑ स्व-धा । पि॒तृभ्य॒ इति॑ पि॒तृ-भ्यः॒ । इति॑ । आ॒ह॒ ।
स्व॒धा॒का॒र इति॑ स्वधा-का॒रः । हि । [11] पि॒तृ॒णाम् ।
भट्टभास्कर-टीका
11नमो देवेभ्य इति ॥ अञ्जलिकरणात् देवेभ्यः । नमस्कारो हि देवानां कार्यः । स्वधा पितृभ्यः स्वधा पितृभ्य इति दक्षिणा अञ्जलिं न्यञ्चं पितृभ्यः । स्वधाकारो हि पितृणां कार्य इति ॥
मूलम् (संयुक्तम्)
इ॒दम॒हन्निर्वरु॑णस्य॒ पाशा॒दित्या॑ह वरुणपा॒शादे॒व निर्मु॑च्य॒ते
विश्वास-प्रस्तुतिः
“इ॒दम॒हन् निर्वरु॑णस्य॒ पाशा॒द्” इत्या॑ह ।
व॒रु॒ण॒पा॒शाद् ए॒व निर्मु॑च्यते ।
मूलम्
“इ॒दम॒हन् निर्वरु॑णस्य॒ पाशा॒द्” इत्या॑ह ।
व॒रु॒ण॒पा॒शाद् ए॒व निर्मु॑च्यते ।
पद-पाठः
इ॒दम् । अ॒हम् । निरिति॑ । वरु॑णस्य । पाशा॑त् । इति॑ । आ॒ह॒ । व॒रु॒ण॒पा॒शादिति॑ वरुण-पा॒शात् । ए॒व । निरिति॑ । मु॒च्य॒ते॒ ।
भट्टभास्कर-टीका
12इदमहमित्युपनिष्क्रयणम् ॥ वरुणपाशादेवेति । शालायां पृष्ठ्य इवासीद्यजमानः । इदानीं निर्गच्छन् वरुणपाशादिव मुक्तो भवति ॥
मूलम् (संयुक्तम्)
ऽग्ने॑ व्रतपत आ॒त्मन॒ᳶ पूर्वा॑ त॒नूरा॒देयेत्या॑हु॒ᳵ को हि तद्वेद॒ यद्वसी॑या॒न्त्स्वे वशे॑ भू॒ते पुन॑र्वा॒ ददा॑ति॒ न वेति॒
विश्वास-प्रस्तुतिः
अग्ने॑ व्रतपते ।
मूलम्
अग्ने॑ व्रतपते ।
पद-पाठः
अग्ने॑ । व्र॒त॒प॒त॒ इति॑ व्रत-प॒ते॒ ।
प्रदीपसिंहः
इन्क्लूड्
- अग्ने॑ व्रतपते॒ त्वव्व्ँर॒ताना॑व्व्ँर॒तप॑तिरसि॒ या मम॑ त॒नूरे॒षा सा त्वयि॑ [20] या तव॑ त॒नूरि॒यँ सा मयि॑ स॒ह नौ॑ व्रतपते व्र॒तिनो॑र्व्र॒तानि
4यजमानमवान्तरदीक्षामुपनयति- अग्न इति । हे अग्ने व्रतपते व्रतानां पते त्वं व्रतानां सर्वेषां सम्बन्धिनां व्रतपतिरसि; न पुनरेकस्य व्रतस्य पतित्वाद्व्रतपतिरुच्यते । समासे सङ्ख्याविशेषस्याप्रतिपत्तेः बहुत्वप्रतिपादनाय व्रतानामित्युक्तम् । नित्यसम्बन्धाविप्रतिपत्त्यर्थं वृत्तिश्च कृता । पतिः पालयिता स्वामी वा । सर्वेषां व्रतानां सर्वदा सर्वात्मना च पतिस्त्वमसि ।
भट्टभास्कर-टीका
13’अग्ने व्रतवते’ इति प्रतीकग्रहणमिदं ‘अग्रे व्रतपते त्वं व्रतानां व्रतपतिरसि’ इत्यवान्तरदीक्षाविसर्जनमन्त्रस्य ।
विश्वास-प्रस्तुतिः
आ॒त्मन॒ᳶ पूर्वा॑ त॒नूरा॒देयेत्या॑हुः ।
को हि तद्वेद॒ यद् वसी॑या॒न्त् स्वे वशे॑ भू॒ते पुन॑र् वा॒ ददा॑ति॒ न वेति॑ ।
मूलम्
आ॒त्मन॒ᳶ पूर्वा॑ त॒नूरा॒देयेत्या॑हुः ।
को हि तद्वेद॒ यद् वसी॑या॒न्त् स्वे वशे॑ भू॒ते पुन॑र् वा॒ ददा॑ति॒ न वेति॑ ।
पद-पाठः
आ॒त्मनः॑ । पूर्वा॑ । त॒नूः । आ॒देयेत्या॑-देया॑ । इति॑ । आ॒हुः॒ ।
कः । हि । तत् । वेद॑ । यत् । वसी॑यान् । स्वे । वशे॑ । भू॒ते । पुनः॑ । वा॒ । ददा॑ति । न । वा॒ । इति॑ ।
भट्टभास्कर-टीका
अस्याभिप्रायमाह - आत्मन इति ॥ परत्र निहिता आत्मनस्तनूः समाना पूर्वा तनूरात्मनैव । तत आदेया कर्मसमाप्तौ अग्निना यजमानेन च, न तु तत्रैव चिरं स्थाप्या । कुतः? को नाम तज्जानाति, यद्वसीयान् वसुमत्तरः श्रेष्ठो जनः स्वे वशे भूते आत्मवशं गते वस्तुनि तत्तादृशं पूर्वगृहीतं पूर्वस्वामिने किं वा ददाति किं वा न ददाति । तस्मात् वशीकरणात्प्रागेव द्रुततरमादेयेति आहुरभियुक्ताः । तस्मादस्मिन्मन्त्रे या मम तनूस्त्वय्यभूत्पूर्वं सेयमिदानीं मयि वर्तते । या तव तनूर्मय्यभूदेषा सेदानीं अवान्तरदीक्षाविसर्जने वैसर्जनहोमान्ते निवर्तते इति । ‘चवायोगे प्रथमा’ इति तिङ् ददातीत्येतन्न निपात्यते । यद्वृत्तं व्याख्यातेन नान्वीयते । ददाति वा न वेति यदिदमर्थरूपं कस्तद्वेदेति ॥
मूलम् (संयुक्तम्)
ग्रावा॑णो॒ वै सोम॑स्य॒ राज्ञो॑ मलिम्लुसे॒ना य ए॒वव्ँवि॒द्वान्ग्राव्ण्ण॒ आग्नी॑ध्र उपवा॒सय॑ति॒ नैन॑म्मलिम्लुसे॒ना वि॑न्दति ॥ [12]
विश्वास-प्रस्तुतिः
ग्रावा॑णो॒ वै सोम॑स्य॒ राज्ञो॑ मलिम्लुसे॒ना ।
य ए॒वव्ँ वि॒द्वान् ग्राव्ण्ण॒ आग्नी॑ध्र उपवा॒सय॑ति॒ , नैन॑म् मलिम्लुसे॒ना वि॑न्दति ॥ [12]
मूलम्
ग्रावा॑णो॒ वै सोम॑स्य॒ राज्ञो॑ मलिम्लुसे॒ना ।
य ए॒वव्ँ वि॒द्वान् ग्राव्ण्ण॒ आग्नी॑ध्र उपवा॒सय॑ति॒ , नैन॑म् मलिम्लुसे॒ना वि॑न्दति ॥ [12]
पद-पाठः
ग्रावा॑णः । वै । सोम॑स्य । राज्ञः॑ । म॒लि॒म्लु॒से॒नेति॑ मलिम्लु-से॒ना ।
यः । ए॒वम् । वि॒द्वान् । ग्राव्ण्णः॑ । आग्नी॑ध्र॒ इत्याग्नि॑-इ॒ध्रे॒ । उ॒प॒वा॒सय॒तीत्यु॑प-वा॒सय॑ति । न । ए॒न॒म् । म॒लि॒म्लु॒से॒नेति॑ मलिम्लु-से॒ना । वि॒न्द॒ति॒ ॥ [12]
भट्टभास्कर-टीका
14ग्रावाण इति ॥ यदुक्तं ‘द्रोणकलशमाग्नीध्र उपवासयति’ इति । पूर्ववद्गतेः निघातस्समासश्च ॥
इति षष्ठे तृतीये द्वितीयोनुवाकः ॥