०१

मूलम् (संयुक्तम्)

चात्वा॑ला॒द्धिष्णि॑या॒नुप॑ वपति॒ योनि॒र्वै य॒ज्ञस्य॒ चात्वा॑लय्ँ य॒ज्ञस्य॑ सयोनि॒त्वाय॑

विश्वास-प्रस्तुतिः

चात्वा॑ला॒द्धिष्णि॑या॒नुप॑ वपति ।
योनि॒र् वै य॒ज्ञस्य॒ चात्वा॑लय्ँ , य॒ज्ञस्य॑ सयोनि॒त्वाय॑ ।

मूलम्

चात्वा॑ला॒द्धिष्णि॑या॒नुप॑ वपति ।
योनि॒र् वै य॒ज्ञस्य॒ चात्वा॑लय्ँ , य॒ज्ञस्य॑ सयोनि॒त्वाय॑ ।

पद-पाठः

चात्वा॑लात् । धिष्णि॑यान् । उपेति॑ । व॒प॒ति॒ ।
योनिः॑ । वै । य॒ज्ञस्य॑ । चात्वा॑लम् । य॒ज्ञस्य॑ । स॒यो॒नि॒त्वायेति॑ सयोनि-त्वाय॑ ।

भट्टभास्कर-टीका

1चात्वालादित्यादि ॥ चात्वालात्पुरीषमादाय होत्रीयादिधिष्णियानुपवपति स्थलीकरोति । हेतुमाह - योनिरिति । ततः पुरीषमादायोत्तरवेद्याः करणाच्चात्वालं यज्ञस्य योनिः कारणम्, ‘योनिर्वै यज्ञस्य चात्वालं योनिः कृष्णविषाणा योनावेव योनिं दधाति’ इत्यादिदर्शनाच्च । यज्ञस्येति । एवं क्रियमाणे यज्ञस्य सयोनित्वं कारणसम्मितत्वं भवति ॥

मूलम् (संयुक्तम्)

दे॒वा वै य॒ज्ञम्परा॑जयन्त॒ तमाग्नी॑ध्रा॒त्पुन॒रपा॑जयन्ने॒तद्वै य॒ज्ञस्याप॑राजितय्ँ॒यदाग्नी॑ध्रय्ँ॒यदाग्नी॑ध्रा॒द्धिष्णि॑यान्वि॒हर॑ति॒ यदे॒व य॒ज्ञस्याप॑राजित॒न्तत॑ ए॒वैन॒म्पुन॑स्तनुते

विश्वास-प्रस्तुतिः

दे॒वा वै य॒ज्ञम् परा॑जयन्त । तमाग्नी॑ध्रा॒त् पुन॒रपा॑जयन् ।
ए॒तद् वै य॒ज्ञस्याप॑राजितय्ँ॒ यदाग्नी॑ध्रम् ।

यदाग्नी॑ध्रा॒द्धिष्णि॑यान् वि॒हर॑ति॒ यदे॒व य॒ज्ञस्याप॑राजित॒न् तत॑ ए॒वैन॒म् पुन॑स्तनुते ।

मूलम्

दे॒वा वै य॒ज्ञम् परा॑जयन्त । तमाग्नी॑ध्रा॒त् पुन॒रपा॑जयन् ।
ए॒तद् वै य॒ज्ञस्याप॑राजितय्ँ॒ यदाग्नी॑ध्रम् ।

यदाग्नी॑ध्रा॒द्धिष्णि॑यान् वि॒हर॑ति॒ यदे॒व य॒ज्ञस्याप॑राजित॒न् तत॑ ए॒वैन॒म् पुन॑स्तनुते ।

पद-पाठः

दे॒वाः । वै । य॒ज्ञम् । परेति॑ । अ॒ज॒य॒न्त॒ ।
तम् । आग्नी॑ध्रा॒दित्याग्नि॑-इ॒ध्रा॒त् । पुनः॑ । अपेति॑ । अ॒ज॒य॒न् ।
ए॒तत् । वै । य॒ज्ञस्य॑ । अप॑राजित॒मित्यप॑रा-जि॒त॒म् । यत् । आग्नी॑ध्र॒मित्याग्नि॑-इ॒ध्र॒म् ।
यत् । आग्नी॑ध्रा॒दित्याग्नि॑-इ॒ध्रा॒त् । धिष्णि॑यान् । वि॒हर॒तीति॑ वि-हर॑ति । यत् । ए॒व । य॒ज्ञस्य॑ । अप॑राजित॒मित्यप॑रा-जि॒त॒म् । ततः॑ । ए॒व । ए॒न॒म् । पुनः॑ । त॒नु॒ते॒ ।

भट्टभास्कर-टीका

2देवा वा इत्यादि ॥ देवा यज्ञं पराजयन्त परागमन् असुरमायया परागतयज्ञा अभवन् । ‘विपराभ्यां जेः’ इत्यात्मनेपदम् । अथ तं यज्ञं आग्नीध्राद्धिष्णियान्निमित्तात् अपादानाद्वा अपाजयन् अपादायात्मनस्समीपमागमयन् असुरजयेन पुनरावृत्तयज्ञा अभवन् । एतद्वै यज्ञस्यापराजितं यत्र यज्ञो न पराजीयते तादृशमिदं धिष्णियं यदाग्नीघ्रं नाम । तस्माद्यदाग्नीध्राद्धिष्णियान्विहरति विविधमुत्पादयति, यदेव यज्ञस्यापराजितं यद्धि महाभाग्येन तत ऊर्ध्वं यज्ञो न परानेष्यते । ततस्तादृशादेव धिष्णियात् एनं यज्ञं पुनस्तनुते पुनरभ्याहरति नातः परं असुरादिभिः पराजेतुं शक्यते इति आर्ग्नीध्रविहरणं चरति । तस्मादाग्नीध्राद्धिष्णियान्विहरतीति विधीयते ॥

मूलम् (संयुक्तम्)

परा॒जित्ये॑व॒ खलु॒ वा ए॒ते य॑न्ति॒ ये ब॑हिष्पवमा॒नँ सर्प॑न्ति बहिष्पवमा॒ने स्तु॒ते [1]
आ॒हाग्नी॑द॒ग्नीन्वि ह॑र ब॒र्हिस्स्तृ॑णाहि पुरो॒डाशाँ॒ अल॑ङ्कु॒र्विति॑ य॒ज्ञमे॒वाप॒जित्य॒ पुन॑स्तन्वा॒ना य॒न्त्यङ्गा॑रै॒र्द्वे सव॑ने॒ वि ह॑रति श॒लाका॑भिस्तृ॒तीयँ॑ सशुक्र॒त्वायाथो॒ सम्भ॑रत्ये॒वैन॒द्

विश्वास-प्रस्तुतिः

परा॒जित्ये॑व॒ खलु॒ वा ए॒ते य॑न्ति॒ ये ब॑हिष्पवमा॒नँ सर्प॑न्ति ।
ब॒हि॒ष्प॒व॒मा॒ने स्तु॒त आ॒ह [1] - “अग्नी॑द॒ग्नीन् वि ह॑र ब॒र्हिस् स्तृ॑णाहि , पुरो॒डाशाँ॒ अल॑ङ्कु॒र्विति॑” ।
य॒ज्ञमे॒वाप॒जित्य॒ पुन॑स् तन्वा॒ना य॑न्ति ।

मूलम्

परा॒जित्ये॑व॒ खलु॒ वा ए॒ते य॑न्ति॒ ये ब॑हिष्पवमा॒नँ सर्प॑न्ति ।
ब॒हि॒ष्प॒व॒मा॒ने स्तु॒त आ॒ह [1] - “अग्नी॑द॒ग्नीन् वि ह॑र ब॒र्हिस् स्तृ॑णाहि , पुरो॒डाशाँ॒ अल॑ङ्कु॒र्विति॑” ।
य॒ज्ञमे॒वाप॒जित्य॒ पुन॑स् तन्वा॒ना य॑न्ति ।

पद-पाठः

प॒रा॒जित्येति॑ परा-जित्य॑ । इ॒व॒ । खलु॑ । वै । ए॒ते । य॒न्ति॒ । ये । ब॒हि॒ष्प॒व॒मा॒नमिति॑ बहिः-प॒व॒मा॒नम् । सर्प॑न्ति ।
ब॒हि॒ष्प॒व॒मा॒न इति॑ बहिः-प॒व॒मा॒ने । स्तु॒ते । [1] आ॒ह॒ ।
अग्नी॒दित्यग्नि॑-इ॒त् । अ॒ग्नीन् । वीति॑ । ह॒र॒ । ब॒र्‌हिः । स्तृ॒णा॒हि॒ । पु॒रो॒डाशा॑न् । अल॑म् । कु॒रु॒ । इति॑ । य॒ज्ञम् । ए॒व । अ॒प॒जित्येत्य॑प-जित्य॑ । पुनः॑ । त॒न्वा॒नाः । य॒न्ति॒ ।

भट्टभास्कर-टीका

3पराजित्येत्यादि ॥ एते खलु यज्ञं पराजित्येव परागमय्येव पराङ्मुखमिव यज्ञं कृत्वा यज्ञं पराजयन्त इव यन्ति गच्छन्ति ये बहिष्पवमानं सर्पन्ति समुपसर्पन्ति । त्रिवृदात्मा स्तोमो बहिष्पवमानः प्रातस्सवनीयः । तस्माद्बहिष्पवमाने उद्गातृभिस्स्तुते ‘अग्नीदग्नीन्’ इत्यादिकमाहेति विधिः; । निगदव्याख्यातः प्रैषः । एवं हि यज्ञमपराजितमिव स्थितं अपजित्य पुनरावृत्तं कृत्वा पुनरात्मीयमिव संभावयन्तः पुनर्यज्ञं तन्वानाः विस्तारयन्तो यदि निर्बाधं नयन्ति ।

विश्वास-प्रस्तुतिः

अङ्गा॑रै॒र् द्वे सव॑ने॒ वि ह॑रति श॒लाका॑भिस् तृ॒तीय॑म् ।
सशुक्र॒त्वाय॑ । अथो॒ सम्भ॑रत्ये॒वैनत् ।

मूलम्

अङ्गा॑रै॒र् द्वे सव॑ने॒ वि ह॑रति श॒लाका॑भिस् तृ॒तीय॑म् ।
सशुक्र॒त्वाय॑ । अथो॒ सम्भ॑रत्ये॒वैनत् ।

पद-पाठः

अङ्गा॑रैः । द्वे इति॑ । सव॑ने इति॑ । वीति॑ । ह॒र॒ति॒ । श॒लाका॑भिः । तृ॒तीय॑म् ।
स॒शु॒क्र॒त्वायेति॑ सशुक्र-त्वाय॑ ।
अथो॒ इति॑ । समिति॑ । भ॒र॒ति॒ । ए॒व । ए॒न॒त् ।

भट्टभास्कर-टीका

अङ्गारैरिति । द्वयोः प्रातस्सवनमाध्यन्दिनसवनयोः धिष्णियानङ्गारैर्विहरति । तृतीयसवने शलाकाभिरिति विधिः । अयमभिप्रायः - तृतयिसवनस्य गायत्र्युद्धृतसारस्य प्रागेव गतसारत्वात् रसवत्त्वापादनाय तत्र शलाका आनीयन्ते, यदाह ‘सशुक्रत्वाय’ इति । इतरयोस्तु सवनयोः पूर्वमेव सरसत्वात् दग्धकाष्ठानयनेऽपि न दोष इति तत्राङ्गारैरेव विहार इति । एतदेव विजितमिति । अथो अपिच संभरत्येवैनत् एतत्तृतीयसवनमितराभ्यां सम्भरति समानतां नयतीति यावत् ॥

मूलम् (संयुक्तम्)

धिष्णि॑या॒ वा अ॒मुष्मिल्ँ॑ लो॒के सोम॑मरक्ष॒न्तेभ्योऽधि॒ सोम॒माह॑र॒न्तम॑न्व॒वाय॒न्तम्पर्य॑विश॒न्य ए॒वव्ँ वेद॑ वि॒न्दते॑ [2]
प॒रि॒वे॒ष्टार॒न्

विश्वास-प्रस्तुतिः

धिष्णि॑या॒ वा अ॒मुष्मिल्ँ॑ लो॒के सोम॑मरक्षन् ।
तेभ्योऽधि॒ सोम॒माह॑रन् ।
तम॑न्व॒वाय॒न् तम् पर्य॑विशन् ।
य ए॒वव्ँ वेद॑ वि॒न्दते॑ परिवे॒ष्टार॑म् । [2]

मूलम्

धिष्णि॑या॒ वा अ॒मुष्मिल्ँ॑ लो॒के सोम॑मरक्षन् ।
तेभ्योऽधि॒ सोम॒माह॑रन् ।
तम॑न्व॒वाय॒न् तम् पर्य॑विशन् ।
य ए॒वव्ँ वेद॑ वि॒न्दते॑ परिवे॒ष्टार॑म् । [2]

पद-पाठः

धिष्णि॑याः । वै । अ॒मुष्मि॑न् । लो॒के । सोम॑म् । अ॒र॒क्ष॒न् ।
तेभ्यः॑ । अधीति॑ । सोम॑म् । एति॑ । अ॒ह॒र॒न् ।
तम् । अ॒न्व॒वाय॒न्नित्य॑नु-अ॒वाय॑न् । तम् । परीति॑ । अ॒वि॒श॒न् ।
यः । ए॒वम् । वेद॑ । वि॒न्दते॑ । [2] प॒रि॒वे॒ष्टार॒मिति॑ परि-वे॒ष्टार॑म् ।

भट्टभास्कर-टीका

4धिष्णिया वा इत्यादि ॥ एते धिष्णियाः पूर्वममुष्मिन् लोके सोममरक्षन् । तेभ्यो देवास्सोममध्याहरन् । ततस्ते धिष्णिया देवैराह्रियमाणं तं सोममन्ववायन् अन्वगच्छन् । ततस्तं सोमं धिष्णियाः पर्यविशन् परित आवेष्ट्य सेवका इव समुपासत । एवं वेदिता परिवेष्टारं विन्दते लभते । विशतेस्तृचा परिवेष्टा सेवकः ॥

मूलम् (संयुक्तम्)

ते सो॑मपी॒थेन॒ व्या॑र्ध्यन्त॒ ते दे॒वेषु॑ सोमपी॒थमै॑च्छन्त॒ तान्दे॒वा अ॑ब्रुव॒न्द्वेद्वे॒ नाम॑नी कुरुध्व॒मथ॒ प्र वा॒प्स्यथ॒ न वेत्य॒ग्नयो॒ वा अथ॒ धिष्णि॑या॒स्तस्मा॑द्द्वि॒नामा॑ ब्राह्म॒णोऽर्धु॑क॒स्तेषाय्ँ॒ये नेदि॑ष्ठम्प॒र्यवि॑श॒न्ते सो॑मपी॒थम्प्राप्नु॑वन्नाहव॒नीय॑ आग्नी॒ध्रीयो॑ हो॒त्रीयो॑ मार्जा॒लीय॒स्तस्मा॒त्तेषु॑ जुह्वत्यति॒हाय॒ वष॑ट्करोति॒ वि हि [3]
ए॒ते सो॑मपी॒थेनार्ध्य॑न्त

विश्वास-प्रस्तुतिः

ते सो॑मपी॒थेन॒ व्या॑र्ध्यन्त ।
ते दे॒वेषु॑ सोमपी॒थमै॑च्छन्त ।
तान् दे॒वा अ॑ब्रुव॒न् - द्वेद्वे॒ नाम॑नी कुरुध्व॒म थ॒ प्र वा॒प्स्यथ॒ न वेति॑ ।
अ॒ग्नयो॒ वा अथ॒ धिष्णि॑याः ।
तस्मा॑द् द्वि॒नामा॑ ब्राह्म॒णोऽर्धु॑कः ।
तेषाय्ँ॒ ये नेदि॑ष्ठम् प॒र्यवि॑श॒न् , ते सो॑मपी॒थम् प्राप्नु॑वन्नाहव॒नीय॑ आग्नी॒ध्रीयो॑ हो॒त्रीयो॑ मार्जा॒लीयः ।
तस्मा॒त्तेषु॑ जुह्वति ।
अ॒ति॒हाय॒ वष॑ट्करोति । वि ह्य् - ए॒ते सो॑मपी॒थेनार्ध्य॑न्त ।[3]

मूलम्

ते सो॑मपी॒थेन॒ व्या॑र्ध्यन्त ।
ते दे॒वेषु॑ सोमपी॒थमै॑च्छन्त ।
तान् दे॒वा अ॑ब्रुव॒न् - द्वेद्वे॒ नाम॑नी कुरुध्व॒म थ॒ प्र वा॒प्स्यथ॒ न वेति॑ ।
अ॒ग्नयो॒ वा अथ॒ धिष्णि॑याः ।
तस्मा॑द् द्वि॒नामा॑ ब्राह्म॒णोऽर्धु॑कः ।
तेषाय्ँ॒ ये नेदि॑ष्ठम् प॒र्यवि॑श॒न् , ते सो॑मपी॒थम् प्राप्नु॑वन्नाहव॒नीय॑ आग्नी॒ध्रीयो॑ हो॒त्रीयो॑ मार्जा॒लीयः ।
तस्मा॒त्तेषु॑ जुह्वति ।
अ॒ति॒हाय॒ वष॑ट्करोति । वि ह्य् - ए॒ते सो॑मपी॒थेनार्ध्य॑न्त ।[3]

पद-पाठः

ते । सो॒म॒पी॒थेनेति॑ सोम-पी॒थेन॑ । वीति॑ । आ॒र्ध्य॒न्त॒ । ते । दे॒वेषु॑ । सो॒म॒पी॒थमिति॑ सोम-पी॒थम् । ऐ॒च्छ॒न्त॒ ।
तान् । दे॒वाः । अ॒ब्रु॒व॒न् ।
द्वेद्वे॒ इति॒ द्वे-द्वे॒ । नाम॑नी॒ इति॑ । कु॒रु॒ध्व॒म् । अथ॑ । प्रेति॑ । वा॒ । आ॒प्स्यथ॑ । न । वा॒ । इति॑ ।
अ॒ग्नयः॑ । वै । अथ॑ । धिष्णि॑याः ।
तस्मा॑त् । द्वि॒नामेति॑ द्वि-नामा॑ । ब्रा॒ह्म॒णः । अर्धु॑कः ।
तेषा॑म् । ये । नेदि॑ष्ठम् । प॒र्यवि॑श॒न्निति॑ परि-अवि॑शन् । ते । सो॒म॒पी॒थमिति॑ सोम-पी॒थम् । प्रेति॑ । आ॒प्नु॒व॒न् । आ॒ह॒व॒नीय॒ इत्या॑-ह॒व॒नीयः॑ । आ॒ग्नी॒ध्रीय॒ इत्या॑ग्नि-इ॒ध्रीयः॑ । हो॒त्रीयः॑ । मा॒र्जा॒लीयः॑ ।
तस्मा॑त् । तेषु॑ । जु॒ह्व॒ति॒ ।
अ॒ति॒हायेत्य॑ति-हाय॑ । वष॑ट् । क॒रो॒ति॒ । वीति॑ । हि । [3] ए॒ते । सो॒म॒पी॒थेनेति॑ सोम-पी॒थेन॑ । आर्ध्य॑न्त ।

भट्टभास्कर-टीका

5ते धिष्णियाः पूर्वं सोमपीथेन सोमपानेन व्यार्ध्यन्त व्ययुज्यन्त देवेषु सोमपीथमैच्छन्त पायास्म सोममिति प्रार्थयन्त । तांस्तथा प्रार्थयमानान् देवा अब्रुवन् द्वेद्वे नामनी युष्माकं कुरुध्वं द्वेद्वे नामनी बिभृत । अथ द्वितीयनामकरणानन्तरं सोमपीयं प्राप्स्यथ न वा प्राप्स्यथेति । तथा देवैरुक्तास्ते धिष्णियाः द्वितीयं नाम चक्रुः । तद्दर्शयितुमाह - अग्नयो वा अथ धिष्णिया इत्यादि । पूर्वमग्निनामानो देववचनानन्तरं धिष्णियनामानो बभूवुरिति यावत् । तस्माद्द्विनामा ब्राह्मणः अर्धुकः ऋद्धिशीलः । छान्दस उकञ् । तेषां धिष्णियानां मध्ये ये नेदिष्ठमन्तिकतमं पर्यविशन् पर्यासीनाः । ‘अन्तिकबाढयोः’ इति नेदादेशः । ते सोमपीथं प्राप्नुवन् । आहवनीयादयश्चत्वारः । तस्मात्तेषु जुह्वति सोमं, सोमेन तेषु व्याघारणहोमं कुर्वन्ति, इतरेष्वाज्येनैव व्याधारणं, न सर्वेष्वपि । अतिहाय वषट्कऽरोति अन्यान् धिष्णियान् प्रशास्त्रीयादीनतिहाय अतिलङ्घ्य वषट्करोति सोमदानं तेष्वेवेत्यर्थः । एतदेव दर्शयितुमाह - वि हीति । एते खल्वाहवनीयादिव्यतिरिक्ताः सोमपीथेन व्यार्ध्यन्त व्ययुज्यन्त । तस्मान्न तेषु वषट्कारप्रदानमिति, अस्ति व्याघारणमिति भावः । ननु द्वितीयनामधारणादेतेषामपि सोमपोथेन भाव्यम् । नोक्तं द्वितीयनाम बिभ्रतां भवत्येव सोमपीथ इति । किं तर्हि? द्वितीये नाम बिभ्रतस्सोमपीथ इत्युच्यते । यथाऽऽह ‘अथ प्रवाप्स्यथ न वेति’ ॥

मूलम् (संयुक्तम्)

दे॒वा वै याᳶ प्राची॒राहु॑ती॒रजु॑हवु॒र्ये पु॒रस्ता॒दसु॑रा॒ आस॒न्ताँस्ताभि॒ᳶ प्राणु॑दन्त॒ याᳶ प्र॒तीची॒र्ये प॒श्चादसु॑रा॒ आस॒न्ताँस्ताभि॒रपा॑नुदन्त॒ प्राची॑र॒न्या आहु॑तयो हू॒यन्ते॑ प्र॒त्यङ्ङासी॑नो॒ धिष्णि॑या॒न्व्याघा॑रयति प॒श्चाच्चै॒व पु॒रस्ता॑च्च॒ यज॑मानो॒ भ्रातृ॑व्या॒न्प्र णु॑दते॒ तस्मा॒त्परा॑चीᳶ प्र॒जाᳶ प्र वी॑यन्ते प्र॒तीचीः॑ [4]
जा॒य॒न्ते॒

विश्वास-प्रस्तुतिः

दे॒वा वै याᳶ प्राची॒राहु॑ती॒रजु॑हवु॒र् ये पु॒रस्ता॒दसु॑रा॒ आस॒न् , ताँस् ताभि॒ᳶ प्राणु॑दन्त ।
याᳶ प्र॒तीची॒र्ये प॒श्चादसु॑रा॒ आस॒न्ताँस्ताभि॒रपा॑नुदन्त ।
प्राची॑र॒न्या आहु॑तयो हू॒यन्ते॑ प्र॒त्यङ्ङासी॑नो॒ धिष्णि॑या॒न् व्याघा॑रयति ।
प॒श्चाच् चै॒व पु॒रस्ता॑च् च॒ यज॑मानो॒ भ्रातृ॑व्या॒न् प्र णु॑दते ।
तस्मा॒त् परा॑चीᳶ प्र॒जाᳶ प्र वी॑यन्ते प्र॒तीची॑र् जायन्ते । [4]

मूलम्

दे॒वा वै याᳶ प्राची॒राहु॑ती॒रजु॑हवु॒र् ये पु॒रस्ता॒दसु॑रा॒ आस॒न् , ताँस् ताभि॒ᳶ प्राणु॑दन्त ।
याᳶ प्र॒तीची॒र्ये प॒श्चादसु॑रा॒ आस॒न्ताँस्ताभि॒रपा॑नुदन्त ।
प्राची॑र॒न्या आहु॑तयो हू॒यन्ते॑ प्र॒त्यङ्ङासी॑नो॒ धिष्णि॑या॒न् व्याघा॑रयति ।
प॒श्चाच् चै॒व पु॒रस्ता॑च् च॒ यज॑मानो॒ भ्रातृ॑व्या॒न् प्र णु॑दते ।
तस्मा॒त् परा॑चीᳶ प्र॒जाᳶ प्र वी॑यन्ते प्र॒तीची॑र् जायन्ते । [4]

पद-पाठः

दे॒वाः । वै । याः । प्राचीः॑ । आहु॑ती॒रित्या-हु॒तीः॒ । अजु॑हवुः । ये । पु॒रस्ता॑त् । असु॑राः । आस॑न् । तान् । ताभिः॑ । प्रेति॑ । अ॒नु॒द॒न्त॒ ।

याः । प्र॒तीचीः॑ । ये । प॒श्चात् । असु॑राः । आस॑न् । तान् । ताभिः॑ । अपेति॑ । अ॒नु॒द॒न्त॒ ।

प्राचीः॑ । अ॒न्याः । आहु॑तय॒ इत्या-हु॒त॒यः॒ । हू॒यन्ते॑ । प्र॒त्यङ्ङ् । आसी॑नः । धिष्णि॑यान् । व्याघा॑रय॒तीति॑ वि-आघा॑रयति ।

प॒श्चात् । च॒ । ए॒व । पु॒रस्ता॑त् । च॒ । यज॑मानः । भ्रातृ॑व्यान् । प्रेति॑ । नु॒द॒ते॒ ।

तस्मा॑त् । परा॑चीः । प्र॒जा इति॑ प्र-जाः । प्रेति॑ । वी॒य॒न्ते॒ । प्र॒तीचीः॑ । [4] जा॒य॒न्ते॒ ।

भट्टभास्कर-टीका

6देवा वा इत्यादि ॥ याः प्राचीरात्मनः प्राग्गताः प्रतीचीरात्मनः प्रत्यग्गताः । शिष्टं ‘स्पष्टम् । उभयत्रापि ‘चौ’ इति पूर्वपदस्य दीर्घत्वमन्तोदात्तत्वं च । यस्मादेवं देवाः प्राचीभिः प्रतीचीभिश्चाहुतिभिः सर्वानसुरान्नाशितवन्तः तस्मात् प्राचीरन्या इति । अन्यास्सोमाहुतयः प्राच्यः आत्मनः प्राग्गता हूयन्ते । स तान् प्राङ्मुखेनेति यान् धिष्णियान् प्रत्यङ्मुख आसीनो व्याघारयति । ‘एकान्याभ्याम्’ इति प्रथमा तिङ्विभक्तिर्न निहन्यते । पश्चादित्यादि । गतम् । तस्मादित्यादि । पराचीः प्रजाः प्रवीयन्ते तत्प्रतिकूलगत्या जायन्ते ॥

मूलम् (संयुक्तम्)

प्रा॒णा वा ए॒ते यद्धिष्णि॑या॒ यद॑ध्व॒र्युᳶ प्र॒त्यङ्धिष्णि॑यानति॒सर्पे॑त्प्रा॒णान्त्सङ्क॑र्षेत्प्र॒मायु॑कस्स्या॒न्

विश्वास-प्रस्तुतिः

प्रा॒णा वा ए॒ते यद्धिष्णि॑याः ।
यद॑ध्व॒र्युᳶ प्र॒त्यङ् धिष्णि॑यानति॒सर्पे॑त् , प्रा॒णान्त् सङ्क॑र्षेत् , प्र॒मायु॑कस् स्यात् ।

मूलम्

प्रा॒णा वा ए॒ते यद्धिष्णि॑याः ।
यद॑ध्व॒र्युᳶ प्र॒त्यङ् धिष्णि॑यानति॒सर्पे॑त् , प्रा॒णान्त् सङ्क॑र्षेत् , प्र॒मायु॑कस् स्यात् ।

पद-पाठः

प्रा॒णा इति॑ प्र-अ॒नाः । वै । ए॒ते । यत् । धिष्णि॑याः ।

यत् । अ॒ध्व॒र्युः । प्र॒त्यङ्ङ् । धिष्णि॑यान् । अ॒ति॒सर्पे॒दित्य॑ति-सर्पे॑त् । प्रा॒णानिति॑ प्र-अ॒नान् । समिति॑ । क॒र्‌षे॒त् ।
प्र॒मायु॑क॒ इति॑ प्र-मायु॑कः । स्या॒त् ।

भट्टभास्कर-टीका

7प्राणा इत्यादि ॥ अतिसर्पेत् अतीत्य प्रत्यगञ्चेत् प्राणान् संकर्षेत् स्थानाच्च्यावयेत् । ततश्च प्रामायुको मरणशलिस्स्यादध्वर्युः ॥

मूलम् (संयुक्तम्)

नाभि॒र्वा ए॒षा य॒ज्ञस्य॒ यद्धोतो॒र्ध्वᳵ खलु॒ वै नाभ्यै॑ प्रा॒णोऽवा॑ङपा॒नो यद॑ध्व॒र्युᳶ प्र॒त्यङ्होता॑रमति॒सर्पे॑दपा॒ने प्रा॒णन्द॑ध्यात्प्र॒मायु॑कस्स्या॒न्

विश्वास-प्रस्तुतिः

नाभि॒र्वा ए॒षा य॒ज्ञस्य॒ यद्धोता॑ ।
ऊ॒र्ध्वᳵ खलु॒ वै नाभ्यै॑ प्रा॒णो ऽवा॑ङपा॒नः ।
यद॑ध्व॒र्युᳶ प्र॒त्यङ्होता॑रमति॒सर्पे॑दपा॒ने प्रा॒णन् द॑ध्यात् प्र॒मायु॑कस् स्यात् ।

मूलम्

नाभि॒र्वा ए॒षा य॒ज्ञस्य॒ यद्धोता॑ ।
ऊ॒र्ध्वᳵ खलु॒ वै नाभ्यै॑ प्रा॒णो ऽवा॑ङपा॒नः ।
यद॑ध्व॒र्युᳶ प्र॒त्यङ्होता॑रमति॒सर्पे॑दपा॒ने प्रा॒णन् द॑ध्यात् प्र॒मायु॑कस् स्यात् ।

पद-पाठः

नाभिः॑ । वै । ए॒षा । य॒ज्ञस्य॑ । यत् । होता॑ ।
ऊ॒र्ध्वः । खलु॑ । वै । नाभ्यै॑ । प्रा॒ण इति॑ प्र-अ॒नः । अवाङ्॑ । अ॒पा॒न इत्य॑प-अ॒नः ।
यत् । अ॒ध्व॒र्युः । प्र॒त्यङ्ङ् । होता॑रम् । अ॒ति॒सर्पे॒दित्य॑ति-सर्पे॑त् । अ॒पा॒न इत्य॑प-अ॒ने । प्रा॒णमिति॑ प्र-अ॒नम् । द॒ध्या॒त् । प्र॒मायु॑क॒ इति॑ प्र-मायु॑कः । स्या॒त् ।

भट्टभास्कर-टीका

8नाभिर्वा इत्यादि ॥ मध्यमत्वसामान्याद्यज्ञस्य नाभिरेव होता । ऊर्ध्वः ऊर्ध्वप्रवृत्तिः खलु नाभ्याः प्राणः शरीरे मुखनासिकाधारत्वात् । अवाङ् अवाङ्मुखप्रवृत्तिः अपानः नाभ्या इत्येव । ‘अनिगन्तोञ्चतौ’ इति गतेः प्रकृतिस्वरत्वम् । तत्र यदध्वर्युर्होतारं अतीत्य प्रत्यग्गच्छेत् अपाने प्राणं दध्यात्, तथा प्रमायुकस्स्यात् । तस्मात्प्रत्यगध्वर्युः न गच्छेदिति विधिः ॥

मूलम् (संयुक्तम्)

नाध्व॒र्युरुप॑ गाये॒द्वाग्वी॑र्यो॒ वा अ॑ध्व॒र्युर्यद॑ध्व॒र्युरु॑प॒गाये॑दुद्गा॒त्रे [5]
वाचँ॒ सम्प्र य॑च्छेदुप॒दासु॑कास्य॒ वाक्स्या॑द्

विश्वास-प्रस्तुतिः

नाध्व॒र्युरुप॑ गायेत् ।
वाग्वी॑र्यो॒ वा अ॑ध्व॒र्युः ।
यद् अ॑ध्व॒र्युर् उ॑प॒गाये॑द् - उद्गा॒त्रे वाचँ॒ सम्प्र य॑च्छेदुप॒दासु॑कास्य॒ वाक्स्या॑द् ।[5]

मूलम्

नाध्व॒र्युरुप॑ गायेत् ।
वाग्वी॑र्यो॒ वा अ॑ध्व॒र्युः ।
यद् अ॑ध्व॒र्युर् उ॑प॒गाये॑द् - उद्गा॒त्रे वाचँ॒ सम्प्र य॑च्छेदुप॒दासु॑कास्य॒ वाक्स्या॑द् ।[5]

पद-पाठः

न । अ॒ध्व॒र्युः । उपेति॑ । गा॒ये॒त् ।
वाग्वी॑र्य॒ इति॒ वाक्-वी॒र्यः॒ । वै । अ॒ध्व॒र्युः ।
यत् । अ॒ध्व॒र्युः । उ॒प॒गाये॒दित्यु॑प-गाये॑त् । उ॒द्गा॒त्र इत्यु॑त्-गा॒त्रे । [5]
वाच॑म् । सम् । प्रेति॑ । य॒च्छे॒त् । उ॒प॒दासु॒केत्यु॑प-दासु॑का । अ॒स्य॒ । वाक् । स्या॒त् ।

भट्टभास्कर-टीका

9नाध्वर्युरुपगायेदिति विधिः ॥ ‘ऋत्विज उप गायन्ति’ इति प्राप्तमस्य निषिध्यते । वाग्वीर्य इत्यादि । वागधीनवीर्यः । यदित्यादि । उपगानं नामोद्गातुः कर्म तत्कुर्वन्नध्वर्युः ऊद्गात्रे आत्मनो वाचं संप्रयच्छेत् । ततश्चाध्वर्योरुपदासुका क्षयशीला वाक्य्सात् । सर्वत्र छान्दस उकञ् । सर्वेषु यद्वृत्तेषु निघाते प्रतिषिद्धे ‘तिकि चोदात्तवति’ इति गतेरनुदात्तत्वम्, ‘उदात्तवता तिङा’ इति गतेः आख्यातेन समासः ॥

मूलम् (संयुक्तम्)

ब्रह्मवा॒दिनो॑ वदन्ति॒ नासँ॑स्थिते॒ सोमे॑ऽध्व॒र्युᳶ प्र॒त्यङ्क्सदोऽती॑या॒दथ॑ क॒था दा॑क्षि॒णानि॒ होतु॑मेति॒ यामो॒ हि स तेषा॒ङ्कस्मा॒ अह॑ दे॒वा यामव्ँ॒वाया॑मव्ँ॒वानु॑ ज्ञास्य॒न्तीत्युत्त॑रे॒णाग्नी॑ध्रम्प॒रीत्य॑ जुहोति दाक्षि॒णानि॒ न प्रा॒णान्त्सङ्क॑र्षति॒

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति -
नासँ॑स्थिते॒ सोमे॑ऽध्व॒र्युᳶ प्र॒त्यङ्क्सदो ऽती॑या॒दथ॑ क॒था दा॑क्षि॒णानि॒ होतु॑मेति॒ ,
यामो॒ हि स तेषा॒ङ् कस्मा॒ अह॑ दे॒वा यामव्ँ॒ वा ऽया॑मव्ँ॒ वाऽनु॑ ज्ञास्य॒न्तीति॑ ।
उत्त॑रे॒णाग्नी॑ध्रम् प॒रीत्य॑ जुहोति दाक्षि॒णानि॒ न प्रा॒णान्त् सङ्क॑र्षति ।

मूलम्

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति -
नासँ॑स्थिते॒ सोमे॑ऽध्व॒र्युᳶ प्र॒त्यङ्क्सदो ऽती॑या॒दथ॑ क॒था दा॑क्षि॒णानि॒ होतु॑मेति॒ ,
यामो॒ हि स तेषा॒ङ् कस्मा॒ अह॑ दे॒वा यामव्ँ॒ वा ऽया॑मव्ँ॒ वाऽनु॑ ज्ञास्य॒न्तीति॑ ।
उत्त॑रे॒णाग्नी॑ध्रम् प॒रीत्य॑ जुहोति दाक्षि॒णानि॒ न प्रा॒णान्त् सङ्क॑र्षति ।

पद-पाठः

ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ । न । असँ॑स्थित॒ इत्यस॑म्-स्थि॒ते॒ । सोमे॑ । अ॒ध्व॒र्युः । प्र॒त्यङ्ङ् । सदः॑ । अतीति॑ । इ॒या॒त् । अथ॑ । क॒था । दा॒क्षि॒णानि॑ । होतु॑म् । ए॒ति॒ । यामः॑ । हि । सः । तेषा॑म् । कस्मै॑ । अह॑ । दे॒वाः । याम॑म् । वा॒ । अया॑मम् । वा॒ । अन्विति॑ । ज्ञा॒स्य॒न्ति॒ । इति॑ ।
उत्त॑रे॒णेत्युत्-त॒रे॒ण॒ । आग्नी॑ध्र॒मित्याग्नि॑-इ॒ध्र॒म् । प॒रीत्येति॑ परि-इत्य॑ । जु॒हो॒ति॒ । दा॒क्षि॒णानि॑ ।
न । प्रा॒णानिति॑ प्र-अ॒नान् । समिति॑ । क॒र्‌ष॒ति॒ ।

भट्टभास्कर-टीका

10ब्रह्मवादिन इत्यादि ॥ असमाप्ते सोमे अध्वर्युः प्रत्यङ् सदो नातीयात् नातिक्रम्य गच्छेत् । अथैवं स्थिते दाक्षिणानि ‘उदु त्यं’ ‘चित्रम्’ इति होतुं कथं प्रत्यङ्ङेति । तत्र हि द्वाभ्यां गार्हपत्ये जुहोति । एवं ब्रह्मवादिनः पर्यनुयोगं कृत्वा परिहारमुद्भावयन्ति दूषयितुम् - यामो हीति । यद्यत्रोत्तरं ब्रूयाद् यामः उपरमः खल्वसौ कर्मणः, तेषां देवानामुपरतं कर्मेति यावत् । तस्मात्कर्मव्युपरमे लौकिके गमनमात्रे नास्ति दोषः । पानादिकर्मकाले हि नानुजानन्ति प्रत्यग्गमनं देवा इति । अथैतद्दूषयति - कस्मै अर्थाय देवाः यामं वाऽयामं वा कर्मणोनुज्ञास्यन्ति सन्ततिनिषेधशास्त्रे यामायामपर्यालोचनां किमिति करिष्यन्ति सर्वथा न सहन्ते सदोतीत्य प्रत्यग्गमनमिति ब्रह्मवादिनः पर्यनुयोगमाहुः । अत्रोत्तरमाह - उत्तरेणाग्नीध्रं परीत्य दाक्षिणानि जुहोति । एवं कुर्वन् प्राणान् न संकर्षतीति ॥

मूलम् (संयुक्तम्)

न्य॑न्ये धिष्णि॑या उ॒प्यन्ते॒ नान्ये यान्नि॒वप॑ति॒ तेन॒ तान्प्री॑णाति॒ यान्न नि॒वप॑ति॒ यद॑नुदि॒शति॒ तेन॒ तान् ॥ [6]

विश्वास-प्रस्तुतिः

न्य॑न्ये धिष्णि॑या उ॒प्यन्ते॒ नान्ये ।
यान् नि॒वप॑ति॒ तेन॒ तान्प्री॑णाति ।
यान् न नि॒वप॑ति॒ यद् अ॑नुदि॒शति॒ तेन॒ तान् +++(प्रीणाति)+++॥ [6]

मूलम्

न्य॑न्ये धिष्णि॑या उ॒प्यन्ते॒ नान्ये ।
यान् नि॒वप॑ति॒ तेन॒ तान्प्री॑णाति ।
यान् न नि॒वप॑ति॒ यद् अ॑नुदि॒शति॒ तेन॒ तान् +++(प्रीणाति)+++॥ [6]

पद-पाठः

नीति॑ । अ॒न्ये । धिष्णि॑याः । उ॒प्यन्ते॑ । न । अ॒न्ये ।

यान् । नि॒वप॒तीति॑ नि-वप॑ति । तेन॑ । तान् । प्री॒णा॒ति॒ ।

यान् । न । नि॒वप॒तीति॑ नि-वप॑ति । यत् । अ॒नु॒दि॒शतीत्य॑नु-दि॒शति॑ । तेन॑ । तान् ॥ [6]

भट्टभास्कर-टीका

11न्यन्य इति ॥ अन्ये धिष्णिया आग्नीध्रादयो न्युप्यन्ते । ‘एकान्याभ्यां समर्थाभ्याम्’ इत्याख्यातं न निहन्यते । नान्य इति । न्युप्यन्त इत्येव । आहवनीयादयो न्युप्यन्ते । तत्र यान् निवपति ‘विभूरसि’ इत्यादिविहितेन निवपनेन तान् प्रीणाति । यान्न निवपति तान् अपि ‘सम्राडसि'3 इत्यादिना अनुदेशेन प्रीणाति । पूर्ववद्यद्वृत्तेषु गतेरनुदात्तत्वम्, समासश्च ॥

इति षष्ठे काण्डे तृतीयप्रश्ने प्रथमोनुवाकः ॥