०७ उत्तरवेदिनिर्माणम्

सोमऋषिः

मूलम् (संयुक्तम्)

तेभ्य॑ उत्तरवे॒दिस्सिँ॒ही रू॒पङ्कृ॒त्वोभया॑नन्त॒राप॒क्रम्या॑तिष्ठ॒त्ते दे॒वा अ॑मन्यन्त यत॒रान्वा इ॒यमु॑पाव॒र्त्स्यति॒ त इ॒दम्भ॑विष्य॒न्तीति॒ तामुपा॑मन्त्रयन्त॒ साब्र॑वी॒द्वरव्ँ॑वृणै॒ सर्वा॒न्मया॒ कामा॒न्व्य॑श्ञवथ॒ पूर्वान्तु मा॒ऽग्नेराहु॑तिरश्ञवता॒ इति॒ तस्मा॑दुत्तरवे॒दिम्पूर्वा॑म॒ग्नेर्व्याघा॑रयन्ति॒ वारे॑वृतँ॒ ह्य॑स्यै॒

विश्वास-प्रस्तुतिः

तेभ्य॑ उत्तरवे॒दिस् सिँ॒ही रू॒पङ्कृ॒त्वोभया॑नन्त॒राप॒क्रम्या॑तिष्ठत् ।

मूलम्

तेभ्य॑ उत्तरवे॒दिस् सिँ॒ही रू॒पङ्कृ॒त्वोभया॑नन्त॒राप॒क्रम्या॑तिष्ठत् ।

पद-पाठः

तेभ्यः॑ । उ॒त्त॒र॒वे॒दिरित्यु॑त्तर-वे॒दिः । सिँ॒हीः । रू॒पम् । कृ॒त्वा । उ॒भया॑न् । अ॒न्त॒रा । अ॒प॒क्रम्येत्य॑प-क्रम्य॑ । अ॒ति॒ष्ठ॒त् ।

भट्टभास्कर-टीका

1उत्तरवेद्या व्याघारणं विधास्यन् आह - तेभ्य इत्यादि ॥ देवासुरास्संयत्ता अधिकृताः, ते उभये अपि सर्वनाम्ना अपेक्ष्यन्ते । उत्तरवेदिस्सिंहीः तदीयं च रूपं कृत्वा तेभ्यो देवासुरेभ्योपक्रम्य उभयानन्तरा उभयेषां मध्ये उभयपक्षपरित्यागेन अतिष्ठत्, सिंहीरिति । हल्ङ्यादिलोपाभावश्छान्दसः ।

विश्वास-प्रस्तुतिः

ते दे॒वा अ॑मन्यन्त -
य॒त॒रान्वा इ॒यमु॑पाव॒र्त्स्यति॒ त इ॒दम् भ॑विष्य॒न्तीति॑ ।
तामुपा॑मन्त्रयन्त ।

मूलम्

ते दे॒वा अ॑मन्यन्त -
य॒त॒रान्वा इ॒यमु॑पाव॒र्त्स्यति॒ त इ॒दम् भ॑विष्य॒न्तीति॑ ।
तामुपा॑मन्त्रयन्त ।

पद-पाठः

ते । दे॒वाः । अ॒म॒न्य॒न्त॒ । य॒त॒रान् । वै । इ॒यम् । उ॒पा॒व॒र्त्स्यतीत्यु॑प-आ॒व॒र्त्स्यति॑ । ते । इ॒दम् । भ॒वि॒ष्य॒न्ति॒ । इति॑ ।

ताम् । उपेति॑ । अ॒म॒न्त्र॒य॒न्त॒ ।

भट्टभास्कर-टीका

ते देवा इत्यादि । व्याख्यातप्रायम् । यतरानिति । ‘किंयत्तदः’ इति इतरच् । तामिति । उपामन्त्रयन्त तामुत्तरवेदिमुपच्छन्दितवन्तो देवाः ।

विश्वास-प्रस्तुतिः

साऽब्र॑वी॒द् , वरव्ँ॑ वृणै॒ सर्वा॒न् मया॒ कामा॒न्व्य॑श्ञवथ॒ पूर्वान् तु मा॒ऽग्नेराहु॑तिरश्ञवता॒ इति॑ ।

मूलम्

साऽब्र॑वी॒द् , वरव्ँ॑ वृणै॒ सर्वा॒न् मया॒ कामा॒न्व्य॑श्ञवथ॒ पूर्वान् तु मा॒ऽग्नेराहु॑तिरश्ञवता॒ इति॑ ।

पद-पाठः

सा । अ॒ब्र॒वी॒त् ।
वर॑म् । वृ॒णै॒ । सर्वा॑न् । मया॑ । कामा॑न् । वीति॑ । अ॒श्ञ॒व॒थ॒ । पूर्वा॑म् । तु । मा॒ । अ॒ग्नेः । आहु॑ति॒रित्या-हु॒तिः॒ । अ॒श्ञ॒व॒तै॒ । इति॑ ।

भट्टभास्कर-टीका

साऽब्रवीदिति । सर्वान्कामान् हविर्विषयान् मया सह मया हेतुभूतया व्यश्नवथ व्यश्नुवीतं तदर्थमिदं ममास्तु अग्नेः पूर्वां तु माऽऽहुतिं व्यश्नवतै व्यश्नुवीत आप्नोत्विति वरं वृणै इति साऽब्रवीत् ।

विश्वास-प्रस्तुतिः

तस्मा॑दुत्तरवे॒दिम् पूर्वा॑म॒ग्नेर् व्याघा॑रयन्ति॒ वारे॑वृतँ॒ ह्य॑स्यै ।

मूलम्

तस्मा॑दुत्तरवे॒दिम् पूर्वा॑म॒ग्नेर् व्याघा॑रयन्ति॒ वारे॑वृतँ॒ ह्य॑स्यै ।

पद-पाठः

तस्मा॑त् । उ॒त्त॒र॒वे॒दिमित्यु॑त्तर-वे॒दिम् । पूर्वा॑म् । अ॒ग्नेः । व्याघा॑रय॒न्तीति॑ वि-आघा॑रयन्ति ।
वारे॑वृत॒मिति॒ वारे॑-वृ॒त॒म् । हि । अ॒स्यै॒ ।

भट्टभास्कर-टीका

तस्मादग्नेः पूर्वमेव उत्तरवेदिं व्याघारयन्ति दक्षिणांसप्रभृति विविधमाघारयन्ति । वारेवृतं ह्येतत् अस्यै अस्या यद्व्याघारणादि । अश्नोतेर्लेटि ‘लेटोऽडाटौ’ इत्यडागमः ॥

मूलम् (संयुक्तम्)

शम्य॑या॒ परि॑ मिमीते [34]
मात्रै॒वास्यै॒ साऽथो॑ यु॒क्तेनै॒व यु॒क्तमव॑ रुन्द्धे वि॒त्ताय॑नी मे॒ऽसीत्या॑ह

विश्वास-प्रस्तुतिः

शम्य॑या॒ परि॑ मिमीते ।[34]
मात्रै॒वास्यै॒ सा ऽथो॑ यु॒क्तेनै॒व यु॒क्तमव॑ रुन्धे ।
वि॒त्ताय॑नी मे॒ऽसीत्या॑ह ।

मूलम्

शम्य॑या॒ परि॑ मिमीते ।[34]
मात्रै॒वास्यै॒ सा ऽथो॑ यु॒क्तेनै॒व यु॒क्तमव॑ रुन्धे ।
वि॒त्ताय॑नी मे॒ऽसीत्या॑ह ।

पद-पाठः

शम्य॑या । परीति॑ । मि॒मी॒ते॒ । [34]
मात्रा॑ । ए॒व । अ॒स्यै॒ । सा । अथो॒ इति॑ । यु॒क्तेन॑ । ए॒व । यु॒क्तम् । अवेति॑ । रु॒न्द्धे॒ ।
वि॒त्ताय॒नीति॑ वित्त-अय॑नी । मे॒ । अ॒सि॒ । इति॑ । आ॒ह॒ ।

भट्टभास्कर-टीका

2शम्ययेति विधिः ॥ परिमिमीते सर्वासु दिक्षु मिमीते । चात्वालत्वमुक्तमग्नेः पूर्वमेव, उत्तरवेद्या व्याघारणं कर्तव्यमेवेति तदर्थं तामेवोत्तरवेदिमुत्पादयित्वा प्रकृतिभूतं चात्वालमादायोत्पादनीयमिति आचार्याभिप्रायः । वित्तायन्यादयश्चात्वालमाने विनियुज्यन्ते । वित्तायन्यादिभिश्चात्वालस्था उत्तरवेदिरुच्यते, चात्वालभूमिर्वा । एवं मन्त्रब्राह्मणयोरविरोधः, उत्तरवेदिरेव प्रकृतिस्थानीयेति । मात्रैवेति । मात्रा प्रमाणमस्यास्सा शम्या मात्रैव शम्याप्रमाणत्वादस्याः । अथो अपिच युक्तेन योग्येनैव सूक्तं योग्यमवरुन्धे । युक्तकारिणो ह्यर्थं योग्यं लभन्ते ॥

मूलम् (संयुक्तम्)

वि॒त्ता ह्ये॑ना॒नाव॑त्ति॒क्ताय॑नी मे॒ऽसीत्या॑ह ति॒क्तान्ह्ये॑ना॒नाव॒दव॑तान्मा नाथि॒तमित्या॑ह नाथि॒तान्ह्ये॑ना॒नाव॒दव॑तान्मा व्यथि॒तमित्या॑ह व्यथि॒तान्ह्ये॑ना॒नाव॑द्

विश्वास-प्रस्तुतिः

वि॒त्ता ह्ये॑ना॒नाव॑त् । ति॒क्ताय॑नी मे॒ऽसीत्या॑ह । ति॒क्तान्ह्ये॑ना॒नाव॑त्।
अव॑तान्मा नाथि॒तमित्या॑ह । ना॒थि॒तान् ह्ये॑ना॒नाव॑त् ।
अव॑तान्मा व्यथि॒तमित्या॑ह । व्य॒थि॒तान् ह्ये॑ना॒नाव॑त् ।

मूलम्

वि॒त्ता ह्ये॑ना॒नाव॑त् । ति॒क्ताय॑नी मे॒ऽसीत्या॑ह । ति॒क्तान्ह्ये॑ना॒नाव॑त्।
अव॑तान्मा नाथि॒तमित्या॑ह । ना॒थि॒तान् ह्ये॑ना॒नाव॑त् ।
अव॑तान्मा व्यथि॒तमित्या॑ह । व्य॒थि॒तान् ह्ये॑ना॒नाव॑त् ।

पद-पाठः

वि॒त्ता । हि । ए॒ना॒न् । आव॑त् ।
ति॒क्ताय॒नीति॑ तिक्त-अय॑नी । मे॒ । अ॒सि॒ । इति॑ । आ॒ह॒ ।
ति॒क्तान् । हि । ए॒ना॒न् । आव॑त् ।
अव॑तात् । मा॒ । ना॒थि॒तम् । इति॑ । आ॒ह॒ ।
ना॒थि॒तान् । हि । ए॒ना॒न् । आव॑त् ।
अव॑तात् । मा॒ । व्य॒थि॒तम् । इति॑ । आ॒ह॒ ।
व्य॒थि॒तान् । हि । ए॒ना॒न् । आव॑त् ।

भट्टभास्कर-टीका

3अथ मानमन्त्रान्व्याचष्टे ‘वित्तायनी’ इत्यादीन् ॥ वित्ता हीत्यादि । वित्तं लब्धं परेणापहृतं ईयते प्राप्यतेऽनयेति वित्तायनी । देवैश्चापहृतमात्मानमीयते तदिति वित्ता परेणापहृता एषा एनान् देवानावत् आगच्छत् । तस्माद्वित्तस्यात्मनः प्रापणी या त्वं ममापि वित्तस्याग्न्याख्यस्य प्रापणी भवेति मन्त्रार्थं इति भावः । अवतिर्गतिकर्मा । यथा - अव रक्षणगतितृप्तीत्यादि । विन्दतिरनुदात्तः । यद्वा - वित्तस्य धनस्य प्रापिता वित्तायनी, अभिमतप्रदानेन रक्षिकेतियावत् । तदाह - वित्ता लब्धा देवैः देवानावत् अरक्षदिति । तिक्तायनीति । तिक्तं तेजः तस्य प्रापणी तिक्तायनी । देवानतिक्तान् स्वापक्रमेण अतेजस्कान् तिक्तान् आवत् अरक्षत् तेजस्विनोकरोत् तेजसः प्रापिता तेषामासीत् । नाथितानिति । देवैर्निर्याचितानेनानावत् आगच्छत् अरक्षत् वा । मन्त्रे कर्तरि निष्ठा, ब्राह्मणे वा ऐश्वर्यकर्मा । इदमेवैश्वर्यं यद्याचारं रक्षन्तीति । व्यथितानिति । व्यथितात् देवानरक्षत् ॥

मूलम् (संयुक्तम्)

वि॒देर॒ग्निर्नभो॒ नाम॑ [35]
अग्ने॑ अङ्गिर॒ इति॒ त्रिर्ह॑रति॒ य ए॒वैषु लो॒केष्व॒ग्नय॒स्ताने॒वाव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

वि॒देर॒ग्निर् नभो॒ नामाग्ने॑ अङ्गिर॒ इति॒ त्रिर् ह॑रति ।[35]
य ए॒वैषु लो॒केष्व् अ॒ग्नय॒स् ताने॒वाव॑ रुन्धे ।

मूलम्

वि॒देर॒ग्निर् नभो॒ नामाग्ने॑ अङ्गिर॒ इति॒ त्रिर् ह॑रति ।[35]
य ए॒वैषु लो॒केष्व् अ॒ग्नय॒स् ताने॒वाव॑ रुन्धे ।

पद-पाठः

वि॒देः । अ॒ग्निः । नभः॑ । नाम॑ । [35]
अग्ने॑ । अ॒ङ्गि॒रः॒ । इति॑ । त्रिः । ह॒र॒ति॒ ।

ये । ए॒व । ए॒षु । लो॒केषु॑ । अ॒ग्नयः॑ । तान् । ए॒व । अवेति॑ । रु॒न्द्धे॒ ।

भट्टभास्कर-टीका

4विदेरिति विधिः ॥ य एतेषु त्रिष्वपि लोकेष्वग्नयः तान् सर्वानवरुन्धे ॥

मूलम् (संयुक्तम्)

तू॒ष्णीञ्च॑तु॒र्थँ ह॑र॒त्यनि॑रुक्तमे॒वाव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

तू॒ष्णीञ् च॑तु॒र्थँ ह॑र॒त्यनि॑रुक्तमे॒वाव॑ रुन्धे ।

मूलम्

तू॒ष्णीञ् च॑तु॒र्थँ ह॑र॒त्यनि॑रुक्तमे॒वाव॑ रुन्धे ।

पद-पाठः

तू॒ष्णीम् । च॒तु॒र्थम् । ह॒र॒ति॒ । अनि॑रुक्त॒मित्यनिः॑-उ॒क्त॒म् । ए॒व । अवेति॑ । रु॒न्द्धे॒ ।

भट्टभास्कर-टीका

5तूष्णीमिति विधिः ॥ अनिरुक्तं अव्याकृतमप्रार्थितमिष्टमवरुन्धे ॥

मूलम् (संयुक्तम्)

सिँ॒हीर॑सि महि॒षीर॒सीत्या॑ह सिँ॒हीर्ह्ये॑षा रू॒पङ्कृ॒त्वोभया॑नन्त॒राप॒क्रम्याति॑ष्ठदु॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिᳶ प्रथता॒मित्या॑ह॒ यज॑मानमे॒व प्र॒जया॑ प॒शुभि॑ᳶ प्रथयति ध्रु॒वा [36]
अ॒सीति॒ सँ ह॑न्ति॒ धृत्यै॑ दे॒वेभ्य॑श्शुन्धस्व दे॒वेभ्य॑श्शुम्भ॒स्वेत्यव॑ चो॒क्षति॒ प्र च॑ किरति॒ शुद्ध्या॑

विश्वास-प्रस्तुतिः

“सिँ॒हीर॑सि महि॒षीर॒सी"त्या॑ह ।
सिँ॒हीर्ह्ये॑षा रू॒पङ् कृ॒त्वोभया॑नन्त॒राप॒क्रम्याति॑ष्ठत् ।

उ॒रु प्र॑थस्व + उ॒रु ते॑ य॒ज्ञप॑तिᳶ प्रथता॒मित्या॑ह ।
यज॑मानमे॒व प्र॒जया॑ प॒शुभि॑ᳶ प्रथयति ।

ध्रु॒वा अ॒सीति॒ सँ ह॑न्ति॒ धृत्यै॑ [36], दे॒वेभ्य॑श् शुन्धस्व ,
दे॒वेभ्य॑श् शुम्भ॒स्वेत्यव॑ चो॒क्षति॒ , प्र च॑ किरति॒ शुद्ध्यै॑ ।

मूलम्

“सिँ॒हीर॑सि महि॒षीर॒सी"त्या॑ह ।
सिँ॒हीर्ह्ये॑षा रू॒पङ् कृ॒त्वोभया॑नन्त॒राप॒क्रम्याति॑ष्ठत् ।

उ॒रु प्र॑थस्व + उ॒रु ते॑ य॒ज्ञप॑तिᳶ प्रथता॒मित्या॑ह ।
यज॑मानमे॒व प्र॒जया॑ प॒शुभि॑ᳶ प्रथयति ।

ध्रु॒वा अ॒सीति॒ सँ ह॑न्ति॒ धृत्यै॑ [36], दे॒वेभ्य॑श् शुन्धस्व ,
दे॒वेभ्य॑श् शुम्भ॒स्वेत्यव॑ चो॒क्षति॒ , प्र च॑ किरति॒ शुद्ध्यै॑ ।

पद-पाठः

सिँ॒हीः । अ॒सि॒ । म॒हि॒षीः । अ॒सि॒ । इति॑ । आ॒ह॒ ।
सिँ॒हीः । हि । ए॒षा । रू॒पम् । कृ॒त्वा । उ॒भया॑न् । अ॒न्त॒रा । अ॒प॒क्रम्येत्य॑प-क्रम्य॑ । अति॑ष्ठत् ।

उ॒रु । प्र॒थ॒स्व॒ । उ॒रु । ते॒ । य॒ज्ञप॑ति॒रिति॑ य॒ज्ञ-प॒तिः॒ । प्र॒थ॒ता॒म् । इति॑ । आ॒ह॒ ।
यज॑मानम् । ए॒व । प्र॒जयेति॑ प्र-जया॑ । प॒शुभि॒रिति॑ प॒शु-भिः॒ । प्र॒थ॒य॒ति॒ ।

ध्रु॒वा । [36] अ॒सि॒ । इति॑ । समिति॑ । ह॒न्ति॒ । धृत्यै॑ ।

दे॒वेभ्यः॑ । शु॒न्ध॒स्व॒ । दे॒वेभ्यः॑ । शु॒म्भ॒स्व॒ । इति॑ । अवेति॑ । च॒ । उ॒क्षति॑ । प्रेति॑ । च॒ । कि॒र॒ति॒ । शुद्ध्यै॑ ।

भट्टभास्कर-टीका

6’सिंहीरसि’ इति पुरीषसंप्रयणं व्याचष्टे - सिंहीरसि । सिंही रूपं कृत्वा यस्मादतिष्ठत् देवासुराणां मध्ये, तस्मादेवमाह । ‘चवायोगे प्रथमा’ इति तिङ्विभक्तिर्न निहन्यते । अवोक्षति चाद्भिः प्रकिरति च सिकताभिः । शुद्ध्यै भवति ॥

मूलम् (संयुक्तम्)

इन्द्रघो॒षस्त्वा॒ वसु॑भिᳶ पु॒रस्ता॑त्पा॒त्वित्या॑ह दि॒ग्भ्य ए॒वैना॒म्प्रोक्ष॑ति दे॒वाँश्चेदु॑त्तरवे॒दिरु॒पाव॑वर्ती॒हैव वि ज॑यामहा॒ इत्यसु॑रा॒ वज्र॑मु॒द्यत्य॑ दे॒वान॒भ्या॑यन्त॒ तानि॑न्द्रघो॒षो वसु॑भिᳶ पु॒रस्ता॒दप॑ [37]
अ॒नु॒द॒त॒ मनो॑जवाᳶ पि॒तृभि॑र्दक्षिण॒तᳶ प्रचे॑ता रु॒द्रैᳶ प॒श्चाद्वि॒श्वक॑र्मादि॒त्यैरु॑त्तर॒तो यदे॒वमु॑त्तरवे॒दिम्प्रो॒क्षति॑ दि॒ग्भ्य ए॒व तद्यज॑मानो॒ भ्रातृ॑व्या॒न्प्रणु॑दत॒

विश्वास-प्रस्तुतिः

इन्द्रघो॒षस्त्वा॒ वसु॑भिᳶ पु॒रस्ता॑त्पा॒त्वित्या॑ह दि॒ग्भ्य ए॒वैना॒म्प्रोक्ष॑ति ।
दे॒वाँश्चेदु॑त्तरवे॒दिर् उ॒पाव॑वर्ती॒हैव वि ज॑यामहा॒ इत्यसु॑रा॒ वज्र॑म् उ॒द्यत्य॑ दे॒वान॒भ्या॑यन्त॒ , तानि॑न्द्रघो॒षो वसु॑भिᳶ पु॒रस्ता॒दपा॑नुदत , [37]
मनो॑जवाᳶ पि॒तृभि॑र् दक्षिण॒तᳶ , प्रचे॑ता रु॒द्रैᳶ प॒श्चाद् , वि॒श्वक॑र्मादि॒त्यैर् उ॑त्तर॒तः ।

यदे॒वमु॑त्तरवे॒दिम् प्रो॒क्षति॑ , दि॒ग्भ्य ए॒व तद् यज॑मानो॒ भ्रातृ॑व्या॒न् प्रणु॑दते ।

मूलम्

इन्द्रघो॒षस्त्वा॒ वसु॑भिᳶ पु॒रस्ता॑त्पा॒त्वित्या॑ह दि॒ग्भ्य ए॒वैना॒म्प्रोक्ष॑ति ।
दे॒वाँश्चेदु॑त्तरवे॒दिर् उ॒पाव॑वर्ती॒हैव वि ज॑यामहा॒ इत्यसु॑रा॒ वज्र॑म् उ॒द्यत्य॑ दे॒वान॒भ्या॑यन्त॒ , तानि॑न्द्रघो॒षो वसु॑भिᳶ पु॒रस्ता॒दपा॑नुदत , [37]
मनो॑जवाᳶ पि॒तृभि॑र् दक्षिण॒तᳶ , प्रचे॑ता रु॒द्रैᳶ प॒श्चाद् , वि॒श्वक॑र्मादि॒त्यैर् उ॑त्तर॒तः ।

यदे॒वमु॑त्तरवे॒दिम् प्रो॒क्षति॑ , दि॒ग्भ्य ए॒व तद् यज॑मानो॒ भ्रातृ॑व्या॒न् प्रणु॑दते ।

पद-पाठः

इ॒न्द्र॒घो॒ष इती॑न्द्र-घो॒षः । त्वा॒ । वसु॑भि॒रिति॒ वसु॑-भिः॒ । पु॒रस्ता॑त् । पा॒तु॒ । इति॑ । आ॒ह॒ । दि॒ग्भ्य इति॑ दिक्-भ्यः । ए॒व । ए॒ना॒म् । प्रेति॑ । उ॒क्ष॒ति॒ ।

दे॒वान् । च॒ । इत् । उ॒त्त॒र॒वे॒दिरित्यु॑त्तर-वे॒दिः । उ॒पाव॑व॒र्तीत्यु॑प-आव॑वर्ति । इ॒ह । ए॒व । वीति॑ । ज॒या॒म॒है॒ । इति॑ । असु॑राः । वज्र॑म् । उ॒द्यत्येत्यु॑त्-यत्य॑ । दे॒वान् । अ॒भीति॑ । आ॒य॒न्त॒ । तान् । इ॒न्द्र॒घो॒ष इती॑न्द्र-घो॒षः । वसु॑भि॒रिति॒ वसु॑-भिः॒ । पु॒रस्ता॑त् । अपेति॑ । [37]
अ॒नु॒द॒त॒ ।

मनो॑जवा॒ इति॒ मनः॑-ज॒वाः॒ । पि॒तृभि॒रिति॑ पि॒तृ-भिः॒ । द॒क्षि॒ण॒तः । प्रचे॑ता॒ इति॒ प्र-चे॒ताः॒ । रु॒द्रैः । प॒श्चात् । वि॒श्वक॒र्मेति॑ वि॒श्व-क॒र्मा॒ । आ॒दि॒त्यैः । उ॒त्त॒र॒त इत्यु॑त्-त॒र॒तः ।

यत् । ए॒वम् । उ॒त्त॒र॒वे॒दिमित्यु॑त्तर-वे॒दिम् । प्रो॒क्षतीति॑ प्र-उ॒क्षति॑ । दि॒ग्भ्य इति॑ दिक्-भ्यः । ए॒व । तत् । यज॑मानः । भ्रातृ॑व्यान् । प्रेति॑ । नु॒द॒ते॒ ।

भट्टभास्कर-टीका

7उत्तरवेद्याः प्रागादिप्रोक्षणमन्त्राः - ‘इन्द्रघोषस्त्वा’ इत्यादयः । दिग्भ्य एवेति । प्राच्यादिदिग्भ्योपादाय एनां क्रमेण प्रोक्षति । देवांश्चेदिति । यदि देवानुत्तरवेदिः उपावर्तते देवसमीपमागच्छति चेत् ततस्तेषामेव जयो नास्माकं तस्मादिहैव इदानीमेव तदुपावर्तनात्प्रागेव देवान्विजयामहै इति मत्वा असुरा वज्रमुद्यत्य देवानभ्यायन्त उत्तरवेदिस्थानमागताः । उपपूर्वाद्वृतेः लेटि ‘बहुलं छन्दसि’ इति शापश्श्लुः । तानिन्द्रघोषादयो वस्वादिगणसहिताः पूर्वादिदिग्भ्योसुरानपानुदत । यदेवमित्यादि । गतम् । ‘सावेकाचः’ इति दिग्भ्यो विभक्तेरुदात्तत्वम् ॥

मूलम् (संयुक्तम्)

इन्द्रो॒ यती॑न्त्सालावृ॒केभ्य॒ᳶ प्राय॑च्छ॒त्तान्द॑क्षिण॒त उ॑त्तरवे॒द्या आ॑द॒न्यत्प्रोक्ष॑णीनामु॒च्छिष्ये॑त॒ तद्द॑क्षिण॒त उ॑त्तरवे॒द्यै नि न॑ये॒द्यदे॒व तत्र॑ क्रू॒रन्तत्तेन॑ शमयति॒ यन्द्वि॒ष्यात्तन्ध्या॑येच्छु॒चैवैन॑मर्पयति ॥ [38]

विश्वास-प्रस्तुतिः

इन्द्रो॒ यती॑न्त् सालावृ॒केभ्य॒ᳶ प्राय॑च्छ॒त् , तान्द॑क्षिण॒त उ॑त्तरवे॒द्या आ॑दन् ।
यत् प्रोक्ष॑णीनाम् उ॒च्छिष्ये॑त॒ तद् द॑क्षिण॒त उ॑त्तरवे॒द्यै नि न॑येद् ।
यदे॒व तत्र॑ क्रू॒रन् तत् तेन॑ शमयति ।
यन् द्वि॒ष्यात् तन् ध्या॑येच् छु॒चैवैन॑मर्पयति ॥ [38]

मूलम्

इन्द्रो॒ यती॑न्त् सालावृ॒केभ्य॒ᳶ प्राय॑च्छ॒त् , तान्द॑क्षिण॒त उ॑त्तरवे॒द्या आ॑दन् ।
यत् प्रोक्ष॑णीनाम् उ॒च्छिष्ये॑त॒ तद् द॑क्षिण॒त उ॑त्तरवे॒द्यै नि न॑येद् ।
यदे॒व तत्र॑ क्रू॒रन् तत् तेन॑ शमयति ।
यन् द्वि॒ष्यात् तन् ध्या॑येच् छु॒चैवैन॑मर्पयति ॥ [38]

पद-पाठः

इन्द्रः॑ । यती॑न् । सा॒ला॒वृ॒केभ्यः॑ । प्रेति॑ । अ॒य॒च्छ॒त् । तान् । द॒क्षि॒ण॒तः । उ॒त्त॒र॒वे॒द्या इत्यु॑त्तर-वे॒द्याः । आ॒द॒न् ।
यत् । प्रोक्ष॑णीना॒मिति॑ प्र-उक्ष॑णीनाम् । उ॒च्छिष्ये॒तेत्यु॑त्-शिष्ये॑त । तत् । द॒क्षि॒ण॒तः । उ॒त्त॒र॒वे॒द्या इत्यु॑त्तर-वे॒द्यै । नीति॑ । न॒ये॒त् ।
यत् । ए॒व । तत्र॑ । क्रू॒रम् । तत् । तेन॑ । श॒म॒य॒ति॒ ।
यम् । द्वि॒ष्यात् । तम् । ध्या॒ये॒त् । शु॒चा । ए॒व । ए॒न॒म् । अ॒र्प॒य॒ति॒ ॥ [38]

भट्टभास्कर-टीका

8इन्द्रो यतीनित्यादि ॥ यतन्त इति यतयः, ‘इन् सर्वधातुभ्यः’ इतीन् । असुरविशेषाः ये सदैव देवान् जेतुं यतन्ते । दाम्भिकाः बिडालवृत्तयश्च यतय इत्यन्ये । तान् हत्वेन्द्रः सालावृकेभ्यः प्रायच्छत् । तानुत्तरवेद्या दक्षिणतः आदन् अभक्षयन् । तस्माद्यत्प्रोक्षणीनामतिरिच्येत्, तदुत्तरवेद्या दक्षिणतो निनयेत् इति विधिः । यदेवेत्यादि । गतम् ॥

इति षष्ठे द्वितीये सप्तमोनुवाकः ॥