०१ आतिथ्येष्टिविधानम्

सोमऋषिः

मूलम् (संयुक्तम्)

यदु॒भौ वि॒मुच्या॑ति॒थ्यङ्गृ॑ह्णी॒याद्य॒ज्ञव्ँविच्छि॑न्द्या॒द्यदु॒भाववि॑मुच्य॒ यथाना॑गतायाति॒थ्यङ्क्रि॒यते॑ ता॒दृगे॒व तद्

विश्वास-प्रस्तुतिः

यद् उ॒भौ वि॒मुच्या॑ऽऽति॒थ्यङ् गृ॑ह्णी॒याद् , य॒ज्ञव्ँ विच्छि॑न्द्यात् ।
यद् उ॒भाव् अवि॑मुच्य॒ , यथाऽना॑गतायाति॒थ्यङ् क्रि॒यते॑ , ता॒दृगे॒व तत् ।

मूलम्

यद् उ॒भौ वि॒मुच्या॑ऽऽति॒थ्यङ् गृ॑ह्णी॒याद् , य॒ज्ञव्ँ विच्छि॑न्द्यात् ।
यद् उ॒भाव् अवि॑मुच्य॒ , यथाऽना॑गतायाति॒थ्यङ् क्रि॒यते॑ , ता॒दृगे॒व तत् ।

पद-पाठः

यत् । उ॒भौ । वि॒मुच्येति॑ वि-मुच्य॑ । आ॒ति॒थ्यम् । गृ॒ह्णी॒यात् । य॒ज्ञम् । वीति॑ । छि॒न्द्या॒त् ।

यत् । उ॒भौ । अवि॑मु॒च्येत्यवि॑-मु॒च्य॒ । यथा॑ । अना॑गता॒येत्यना॑-ग॒ता॒य॒ । आ॒ति॒थ्यम् । क्रि॒यते॑ । ता॒दृक् । ए॒व । तत् ।

भट्टभास्कर-टीका

1गतः क्रयः । आतिथ्यः प्रस्तूयते - यदुभावित्यादि ॥ यदुभावनड्वाहौ विमुच्यातिथ्यं गृह्णीयात् आतिथ्यं हविर्निर्वपेत् । ‘अतिथेर्ण्यः’ इत्यातिथ्यः प्रारम्भोभिप्रेतः, ग्रहणस्योपलक्षणार्थत्वात् । यज्ञं विच्छिन्द्यात् पूर्वोत्तरयोः कर्मणोः परस्परापेक्षायाः प्रतिपादकाभावात् ऐदमर्थ्यस्य दुर्ज्ञानत्वात् मध्ये यज्ञविच्छित्तिस्स्यात् । अथ यदुभावविमुच्यातिथ्यं गृह्णीयात, तद्दूषयति - यथाऽनागतायातिथ्यं क्रियते तादृगेव तत्स्यात् । आतिथ्यं नामागताय क्रियते । उभयोरविमोके आगमनस्यापरिसमाप्तत्वेन अनागतावस्थातुल्यत्वात् आगमनसमाप्तिनिमित्तमिदानीमनर्थकं स्यात् ॥

मूलम् (संयुक्तम्)

विमु॑क्तो॒ऽन्यो॑ऽन॒ड्वान्भव॒त्यवि॑मुक्तो॒ऽन्योऽथा॑ति॒थ्यङ्गृ॑ह्णाति य॒ज्ञस्य॒ सन्त॑त्यै॒

विश्वास-प्रस्तुतिः

विमु॑क्तो॒ऽन्यो॑ ऽन॒ड्वान् भव॒त्य् अवि॑मुक्तो॒ ऽन्यो ,
ऽथा॑ति॒थ्यङ् गृ॑ह्णाति , य॒ज्ञस्य॒ सन्त॑त्यै ।

मूलम्

विमु॑क्तो॒ऽन्यो॑ ऽन॒ड्वान् भव॒त्य् अवि॑मुक्तो॒ ऽन्यो ,
ऽथा॑ति॒थ्यङ् गृ॑ह्णाति , य॒ज्ञस्य॒ सन्त॑त्यै ।

पद-पाठः

विमु॑क्त॒ इति॒ वि-मु॒क्तः॒ । अ॒न्यः । अ॒न॒ड्वान् । भव॑ति । अवि॑मुक्त॒ इत्यवि॑-मु॒क्तः॒ । अ॒न्यः । अथ॑ । आ॒ति॒थ्यम् । गृ॒ह्णा॒ति॒ । य॒ज्ञस्य॑ । सन्त॑त्या॒ इति॒ सम्-त॒त्यै॒ ।

भट्टभास्कर-टीका

2कथं तर्हि कर्तव्यमित्याह - विमुक्त इत्यादिविधिः ॥ एकोनड्वान्विमुक्तः कार्यः अनागतत्वनिवृत्तये, एकमविमुक्तं कुर्यात् अविच्छेदार्थं कर्मणोऽपेक्षां द्योतयितुम् । अथास्मिन् काले आतिथ्यं गृह्णाति एवं यज्ञस्य सन्तत्यै अविच्छेदाय भवति आगतायैव चातिथ्यं कृतं भवति । ‘एकान्याभ्यां समर्थाभ्याम्’ इति प्रथमा तिङ्विभक्तिर्न निहन्यते । विमुक्ताविमुक्तसन्ततिशब्दानां पूर्वपदप्रकृतिस्वरत्वमुक्तम् ॥

मूलम् (संयुक्तम्)

पत्न्य॒न्वार॑भते॒ पत्नी॒ हि पारी॑णह्य॒स्येशे॒ पत्नि॑यै॒वानु॑मत॒न्निर्व॑पति॒ यद्वै पत्नी॑ य॒ज्ञस्य॑ क॒रोति॑ मिथु॒नन्तदथो॒ पत्नि॑या ए॒व [1]
ए॒ष य॒ज्ञस्या॑न्वार॒म्भोऽन॑वच्छित्त्यै॒

विश्वास-प्रस्तुतिः

पत्न्य॒न्वार॑भते ।
पत्नी॒ हि पारी॑णह्य॒स्येशे॒ पत्नि॑यै॒वानु॑मत॒न् निर्व॑पति ।
यद्वै पत्नी॑ य॒ज्ञस्य॑ क॒रोति॑ मिथु॒नन्तत् ।
अथो॒ पत्नि॑या ए॒व + ए॒ष य॒ज्ञस्या॑न्वार॒म्भो ऽन॑वच्छित्त्यै । [1]

मूलम्

पत्न्य॒न्वार॑भते ।
पत्नी॒ हि पारी॑णह्य॒स्येशे॒ पत्नि॑यै॒वानु॑मत॒न् निर्व॑पति ।
यद्वै पत्नी॑ य॒ज्ञस्य॑ क॒रोति॑ मिथु॒नन्तत् ।
अथो॒ पत्नि॑या ए॒व + ए॒ष य॒ज्ञस्या॑न्वार॒म्भो ऽन॑वच्छित्त्यै । [1]

पद-पाठः

पत्नी॑ । अ॒न्वार॑भत॒ इत्य॑नु-आर॑भते ।
पत्नी॑ । हि । पारी॑णह्य॒स्येति॒ पारि॑-न॒ह्य॒स्य॒ । ईशे॑ । पत्नि॑या । ए॒व । अनु॑मत॒मित्यनु॑-म॒त॒म् । निरिति॑ । व॒प॒ति॒ ।

यत् । वै । पत्नी॑ । य॒ज्ञस्य॑ । क॒रोति॑ । मि॒थु॒नम् । तत् ।

अथो॒ इति॑ । पत्नि॑याः । ए॒व । [1] ए॒षः । य॒ज्ञस्य॑ । अ॒न्वा॒र॒म्भ इत्य॑नु-आ॒र॒म्भः । अन॑वच्छित्त्या॒ इत्यन॑व-छि॒त्त्यै॒ ।

भट्टभास्कर-टीका

3पत्न्यन्वारभते स्पृशतीति विधिः ॥ यस्मात्पत्नी पारीणह्यस्य धनस्य ईशे ईष्टे । ‘लोपस्त आत्मनेपदेषु’ इति तलोपः, ‘हि च’ इति निघाताभावः । अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वम् । परितस्सर्वतो नह्यते बध्यते इति परिणत् गृहमुच्यते । ‘नहिवृति’ इति परेर्दीर्घत्वम् । शकटनामेति केचित् । तत्र भवं व्रीह्यादि धनं पारीणह्यम्, छान्दसो ञ्यः । यद्वा - ‘परिमुखादिभ्यश्च’ इति व्यत्ययेनानव्ययीभावादपि ञ्यः । एवं पत्न्या स्पृष्टे तयाऽनुमतमेव निर्वपति । पूर्ववद्गतेः प्रकृतिस्वरत्वम् । यस्मात्पत्न्यपि यज्ञस्य करोति मिथुनं भवति यजमानकर्मणा सह । द्वितीयो गुणः । अथ तृतीयो गुण उच्यते - अथो डति । अपिच पत्न्या अपि यज्ञस्यैव एषोन्वारम्भः यजमानमारभमाणमिवान्वारभते । एवं हि क्रियमाणे यज्ञस्यानवच्छित्यै अविरतये भवति । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । थाथादिस्वरेणान्वारम्भशब्दोन्तोदात्तः ॥

मूलम् (संयुक्तम्)

याव॑द्भि॒र्वै राजा॑नुच॒रैरा॒गच्छ॑ति॒ सर्वे॑भ्यो॒ वै तेभ्य॑ आति॒थ्यङ्क्रि॑यते॒ छन्दाँ॑सि॒ खलु॒ वै सोम॑स्य॒ राज्ञो॑ऽनुच॒राण्य॒ग्नेरा॑ति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह गायत्रि॒या ए॒वैतेन॑ करोति॒ सोम॑स्याति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह त्रि॒ष्टुभ॑ ए॒वैतेन॑ करो॒त्यति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह॒ जग॑त्यै [2]
ए॒वैतेन॑ करोत्य॒ग्नये॑ त्वा रायस्पोष॒दाव्ने॒ विष्ण॑वे॒ त्वेत्या॑हानु॒ष्टुभ॑ ए॒वैतेन॑ करोति श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे॒ त्वेत्या॑ह गायत्रि॒या ए॒वैतेन॑ करोति॒

विश्वास-प्रस्तुतिः

याव॑द्भि॒र् वै राजा॑नुच॒रैर् आ॒गच्छ॑ति॒ , सर्वे॑भ्यो॒ वै तेभ्य॑ आति॒थ्यङ् क्रि॑यते ।
छन्दाँ॑सि॒ खलु॒ वै सोम॑स्य॒ राज्ञो॑ऽनुच॒राणि॑ ।
“अ॒ग्नेरा॑ति॒थ्यम॑सि॒ , विष्ण॑वे॒ त्वे"त्या॑ह , गायत्रि॒या ए॒वैतेन॑ करोति ।
“सोम॑स्याति॒थ्यम॑सि॒ , विष्ण॑वे॒ त्वे"त्या॑ह , त्रि॒ष्टुभ॑ ए॒वैतेन॑ करोति ।
“अति॑थेराति॒थ्यम॑सि॒ , विष्ण॑वे॒ त्वे"त्या॑ह॒ , जग॑त्या ए॒वैतेन॑ करोति ।[2]
अ॒ग्नये॑ त्वा रायस्पोष॒दाव्ने॒ , विष्ण॑वे॒ त्वे"त्या॑हानु॒ष्टुभ॑ ए॒वैतेन॑ करोति ।
श्ये॒नाय॑ त्वा सोम॒भृते॒ , विष्ण॑वे॒ त्वे"त्या॑ह , गायत्रि॒या ए॒वैतेन॑ करोति ।

मूलम्

याव॑द्भि॒र् वै राजा॑नुच॒रैर् आ॒गच्छ॑ति॒ , सर्वे॑भ्यो॒ वै तेभ्य॑ आति॒थ्यङ् क्रि॑यते ।
छन्दाँ॑सि॒ खलु॒ वै सोम॑स्य॒ राज्ञो॑ऽनुच॒राणि॑ ।
“अ॒ग्नेरा॑ति॒थ्यम॑सि॒ , विष्ण॑वे॒ त्वे"त्या॑ह , गायत्रि॒या ए॒वैतेन॑ करोति ।
“सोम॑स्याति॒थ्यम॑सि॒ , विष्ण॑वे॒ त्वे"त्या॑ह , त्रि॒ष्टुभ॑ ए॒वैतेन॑ करोति ।
“अति॑थेराति॒थ्यम॑सि॒ , विष्ण॑वे॒ त्वे"त्या॑ह॒ , जग॑त्या ए॒वैतेन॑ करोति ।[2]
अ॒ग्नये॑ त्वा रायस्पोष॒दाव्ने॒ , विष्ण॑वे॒ त्वे"त्या॑हानु॒ष्टुभ॑ ए॒वैतेन॑ करोति ।
श्ये॒नाय॑ त्वा सोम॒भृते॒ , विष्ण॑वे॒ त्वे"त्या॑ह , गायत्रि॒या ए॒वैतेन॑ करोति ।

पद-पाठः

याव॑द्भि॒रिति॒ याव॑त्-भिः॒ । वै । राजा॑ । अ॒नु॒च॒रैरित्य॑नु-च॒रैः । आ॒गच्छ॒तीत्या॑-गच्छ॑ति ।
सर्वे॑भ्यः । वै । तेभ्यः॑ । आ॒ति॒थ्यम् । क्रि॒य॒ते॒ । छन्दाँ॑सि । खलु॑ । वै । सोम॑स्य । राज्ञः॑ । अ॒नु॒च॒राणीत्य॑नु-च॒राणि॑ ।

अ॒ग्नेः । आ॒ति॒थ्यम् । अ॒सि॒ । विष्ण॑वे । त्वा॒ । इति॑ । आ॒ह॒ ।

गा॒य॒त्रि॒यै । ए॒व । ए॒तेन॑ । क॒रो॒ति॒ ।

सोम॑स्य । आ॒ति॒थ्यम् । अ॒सि॒ । विष्ण॑वे । त्वा॒ । इति॑ । आ॒ह॒ ।

त्रि॒ष्टुभे॑ । ए॒व । ए॒तेन॑ । क॒रो॒ति॒ ।

अति॑थेः । आ॒ति॒थ्यम् । अ॒सि॒ । विष्ण॑वे । त्वा॒ । इति॑ । आ॒ह॒ ।

जग॑त्यै । [2] ए॒व । ए॒तेन॑ । क॒रो॒ति॒ ।

अ॒ग्नये॑ । त्वा॒ । रा॒य॒स्पो॒ष॒दाव्न्न॒ इति॑ रायस्पोष-दाव्न्ने॑ । विष्ण॑वे । त्वा॒ । इति॑ । आ॒ह॒ ।

अ॒नु॒ष्टुभ॒ इत्य॑नु-स्तुभे॑ । ए॒व । ए॒तेन॑ । क॒रो॒ति॒ ।

श्ये॒नाय॑ । त्वा॒ । सो॒म॒भृत॒ इति॑ सोम-भृते॑ । विष्ण॑वे । त्वा॒ । इति॑ । आ॒ह॒ । गा॒य॒त्रि॒यै । ए॒व । ए॒तेन॑ । क॒रो॒ति॒ ।

भट्टभास्कर-टीका

4यावद्भिरित्यादि ॥ यत्परिमाणैर्भृत्यैस्सह राजा आगच्छति तेभ्यस्सर्वेभ्योप्यातिथ्यं कार्यम्, न पुनः केभ्यश्चिदेव । छन्दांसि च गायत्र्यादीनि सोमस्य राज्ञोनुचराणि, अतस्तेभ्योप्यातिथ्यं कर्तव्यम् । यद्येवं कस्मात्तर्हि ‘अग्रेरातिथ्यमसि’ इत्यादिभिर्मन्त्रैः अग्न्यादिभ्य एवानुचरेभ्यः क्रियते, न तु गायत्र्यादिभ्य इत्यत आह - गायत्र्या अपि क्रियत एवातिथ्यं, तमग्निर्देवता यागात्मा सोमात्मा वा परमात्मैव वा । स हि विश्वात्मा सोमलतात्मना इदानीं गृहमागच्छति, तस्मै सानुचरायातिथ्यं क्रियते । तत्र ‘अग्नेरातिथ्यमसि’ इति यस्मादग्नये क्रियते एतेनैव गायत्र्या अपि क्रियत एवातिथ्यम्; ‘तमग्निर्देवताऽन्वसृज्यत गायत्री छन्दः’ इति द्वयोरपि प्रजापतेर्मुखजातत्वात्; अग्निग्रहणस्य च मुखजातत्वोपलक्षणत्वात् । एवं त्रिष्टुबादीनां सोमादिभिस्संबन्धविशेषोन्वेष्टव्यः, इदमेव वा वचनं प्रमाणमिति श्रद्धातव्यम् ॥

मूलम् (संयुक्तम्)

पञ्च॒ कृत्वो॑ गृह्णाति॒ पञ्चा॑क्षरा प॒ङ्क्तिᳶ पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

पञ्च॒ कृत्वो॑ गृह्णाति॒ पञ्चा॑क्षरा प॒ङ्क्तिᳶ पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धे

मूलम्

पञ्च॒ कृत्वो॑ गृह्णाति॒ पञ्चा॑क्षरा प॒ङ्क्तिᳶ पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धे

पद-पाठः

पञ्च॑ । कृत्वः॑ । गृ॒ह्णा॒ति॒ ।
पञ्चा॑क्ष॒रेति॒ पञ्च॑-अ॒क्ष॒रा॒ । प॒ङ्क्तिः ।
पाङ्क्तः॑ । य॒ज्ञः ।
य॒ज्ञम् । ए॒व । अवेति॑ । रु॒न्द्धे॒ ।

भट्टभास्कर-टीका

5पञ्च कृत्व इति विधिः ॥ पञ्चाक्षरेत्यादि । व्याख्यातम् ॥

  • [पञ्च॒ कृत्व॒ आंऽक्ते॑ । पञ्चा॑क्षरा प॒ङ्क्तिः । पाङ्क्तो॑ य॒ज्ञः, य॒ज्ञमे॒वाव॑ रुन्धे ।

पञ्चकृत्वः एकैकस्य द्वयोर्वा पञ्चकृत्वः । कृत्व इति शब्दान्तरमेवेदमभ्यावृत्तिमाचष्टे । पच्छा क्षरा पङ्क्तिः देवानां पङ्क्तेः पञ्चाक्षरत्वात् । पदानां वा पञ्चाक्षरत्वात् पङ्क्तिः पञ्चाक्षरेत्युच्यते । पङ्क्तेरागतः पाङ्क्तः । उत्सादित्वात् । धानाः, करम्भः, परिवापः, पुरोडाशः, पयस्या, तेन पङ्क्तिराप्यते । तत् यज्ञस्य पाङ्क्तत्वमिति । यज्ञः पाङ्क्त इति । एवमत्रापि पञ्चत्वसङ्ख्यासंपादनात् पाङ्को यज्ञः परिगृहीतो भवतीति । ]

मूलम् (संयुक्तम्)

ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा॑त्स॒त्याद्गा॑यत्रि॒या उ॑भ॒यत॑ आति॒थ्यस्य॑ क्रियत॒ इति॒ यदे॒वादस्सोम॒मा [3]
अह॑र॒त्तस्मा॑द्गायत्रि॒या उ॑भ॒यत॑ आति॒थ्यस्य॑ क्रियते पु॒रस्ता॑च्चो॒परि॑ष्टाच्च॒

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -
“कस्मा॑त् स॒त्याद् गा॑यत्रि॒या उ॑भ॒यत॑ आति॒थ्यस्य॑ क्रियत॒” इति॑ ।
यद् ए॒वादस् सोम॒मा ऽह॑र॒त् [3] ,
तस्मा॑द् गायत्रि॒या उ॑भ॒यत॑ आति॒थ्यस्य॑ क्रियते ,
पु॒रस्ता॑च् चो॒परि॑ष्टाच् च ।

मूलम्

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -
“कस्मा॑त् स॒त्याद् गा॑यत्रि॒या उ॑भ॒यत॑ आति॒थ्यस्य॑ क्रियत॒” इति॑ ।
यद् ए॒वादस् सोम॒मा ऽह॑र॒त् [3] ,
तस्मा॑द् गायत्रि॒या उ॑भ॒यत॑ आति॒थ्यस्य॑ क्रियते ,
पु॒रस्ता॑च् चो॒परि॑ष्टाच् च ।

पद-पाठः

ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ ।
कस्मा॑त् । स॒त्यात् । गा॒य॒त्रि॒यै । उ॒भ॒यतः॑ । आ॒ति॒थ्यस्य॑ । क्रि॒य॒ते॒ । इति॑ ।
यत् । ए॒व । अ॒दः । सोम॑म् । एति॑ । [3]
अह॑रत् । तस्मा॑त् । गा॒य॒त्रि॒यै । उ॒भ॒यतः॑ । आ॒ति॒थ्यस्य॑ । क्रि॒य॒ते॒ । पु॒रस्ता॑त् । च॒ । उ॒परि॑ष्टात् । च॒ ।

भट्टभास्कर-टीका

6ब्रह्मवादिन इत्यादि ॥ कस्मात्कारणात् गायत्र्या उभयतः क्रियते । किं कारणान्तरेणेत्येवशब्दार्थः । क्रियते इति किं विवक्षितं ब्रह्मवादिनामित्याह - पुरस्ताच्चोपरिष्टाच्चेति । पूर्वस्मिन् काले ऊर्ध्वकाले च । ‘अस्ताति च’ इति पूर्वशब्दस्य पुरादेशः ‘उपर्युपरिष्टात्’ इत्यूर्ध्वशब्दस्य निपात्यते ॥

मूलम् (संयुक्तम्)

शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यदा॑ति॒थ्यन्नव॑कपालᳶ पुरो॒डाशो॑ भवति॒ तस्मा॑न्नव॒धा शिरो॒ विष्यू॑त॒न्…

विश्वास-प्रस्तुतिः

शिरो॒ वा ए॒तद् य॒ज्ञस्य॒ यदा॑ति॒थ्यन् नव॑कपालᳶ पुरो॒डाशो॑ भवति॒ ,
तस्मा॑न् नव॒धा शिरो॒ विष्यू॑तम् ।

मूलम्

शिरो॒ वा ए॒तद् य॒ज्ञस्य॒ यदा॑ति॒थ्यन् नव॑कपालᳶ पुरो॒डाशो॑ भवति॒ ,
तस्मा॑न् नव॒धा शिरो॒ विष्यू॑तम् ।

पद-पाठः

शिरः॑ । वै । ए॒तत् । य॒ज्ञस्य॑ । यत् । आ॒ति॒थ्यम् । नव॑कपाल॒ इति॒ नव॑-क॒पा॒लः॒ । पु॒रो॒डाशः॑ । भ॒व॒ति॒ ।

तस्मा॑त् । न॒व॒धेति॑ नव-धा । शिरः॑ । विष्यू॑त॒मिति॒ वि-स्यू॒त॒म् ।

भट्टभास्कर-टीका

7अथ नवकपालत्वं पुरोडाशस्य विधातुमाह - शिरो वा इति ॥ शिर एवैतत् प्रधानमातिथ्यं यज्ञस्य, सोमार्थत्वात् । तस्मात् नवकपाल इत्यादिविधिः । नवसु कपालेषु संस्कृतः इत्युत्पन्नस्याणः ‘द्विगोर्लुक्’ इति लुक्, ‘इगन्तकाल’ इति पूर्वपदप्रकृतिस्वरत्वम् । पुरो दाशन्ते एनमिति पुरोडाशाः, पृषोदरादिः, ‘छन्दसि बहुलम्’ इत्युत्तरपदाद्युदात्तत्वम्, ‘पुरोव्ययम्’ इति गतित्वात्थाथादिस्वरः प्राप्तो बाध्यते । तस्मादिति । शिरोव्रतस्यातिथ्यस्य नवकपालत्वात् नवधा विष्यूतं परस्परस्यूतं नवकपालखण्डं शिरः प्रजानाम् । सिवेर्निष्ठायां ‘छ्वोश्शूठ्’ इत्यूठ्, ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् ॥

मूलम् (संयुक्तम्)

नव॑कपालᳶ पुरो॒डाशो॑ भवति॒ ते त्रय॑स्त्रिकपा॒लास्त्रि॒वृता॒ स्तोमे॑न॒ सम्मि॑ता॒स्तेज॑स्त्रि॒वृत्तेज॑ ए॒व य॒ज्ञस्य॑ शी॒र्षन्द॑धाति॒

विश्वास-प्रस्तुतिः

नव॑कपालᳶ पुरो॒डाशो॑ भवति ।
ते त्रय॑स् त्रिकपा॒लास् त्रि॒वृता॒ स्तोमे॑न॒ सम्मि॑ता॒स् , तेज॑स्त्रि॒वृत् , तेज॑ ए॒व य॒ज्ञस्य॑ शी॒र्षन् द॑धाति ।

मूलम्

नव॑कपालᳶ पुरो॒डाशो॑ भवति ।
ते त्रय॑स् त्रिकपा॒लास् त्रि॒वृता॒ स्तोमे॑न॒ सम्मि॑ता॒स् , तेज॑स्त्रि॒वृत् , तेज॑ ए॒व य॒ज्ञस्य॑ शी॒र्षन् द॑धाति ।

पद-पाठः

नव॑कपाल॒ इति॒ नव॑-क॒पा॒लः॒ । पु॒रो॒डाशः॑ । भ॒व॒ति॒ । ते । त्रयः॑ । त्रि॒क॒पा॒ला इति॑ त्रि-क॒पा॒लाः । त्रि॒वृतेति॑ त्रि-वृता॑ । स्तोमे॑न । सम्मि॑ता॒ इति॒ सम्-मि॒ताः॒ । तेजः॑ । त्रि॒वृदिति॑ त्रि-वृत् । तेजः॑ । ए॒व । य॒ज्ञस्य॑ । शी॒र्‌षन् । द॒धा॒ति॒ ।

भट्टभास्कर-टीका

8द्वितीयं विधत्ते गुणान्तरं दर्शयितुं - नवकपाल इति ॥ ते इत्याधारभूतानि कपालानि बुद्ध्या निष्कृष्य निर्दिश्यन्ते, वक्ष्यमाणस्वरूपापेक्षया पुल्लिङ्गता । तानि नव कपालानि त्रयस्त्रिकपालाः कपालत्रयवन्तः संघातविशेषा इत्यर्थः । यथा मध्ये त्रीणि प्राचीनानि, त्रीणि दक्षिणतः, त्रीण्युत्तरतः । त्रीणि कपालानि येषां सन्तीति त्रिकपालाः, मत्त्वर्थीयोऽकारः, अर्श आदित्वादच्, बहुव्रीहौ वा स्वरव्यत्ययः, त्रिचक्रादिर्वा द्रष्टव्यः । द्विगावेव वा स्वरलिङ्गव्यत्ययः । यस्मादेवं तस्मात्ते त्रिवृता स्तोमेन सम्मिताः तुल्याः । त्रिवृदिति । त्रिभिस्तृचैः नव स्तोत्रिया भवन्ति । तस्मात्तत्सामान्यात् त्रिवृता तुल्यत्वं नवानां कपालानाम् । समुदायस्य तत्तुल्यत्वात्समुदायिनामपि तत्तुल्यत्वमुपचर्यते । एतदुक्तं भवति - कपालत्रयावृत्तनवकपालसंबन्धात् तृचत्रयात्मकेन त्रिवृता तुल्यो नवकपालः पुरोडाश डति । त्रिचक्रादित्वात् त्रिवृत उत्तरपदान्तोदात्तत्वम् । संमिते गतेः पूर्वपदप्रकृतिस्वरत्वं पूर्ववत् । तेजस्त्रिवृदिति । तेजसा सहोत्पन्नत्वात् यथा - ‘स मुखतस्त्रिवृतं निरमिमीत तमग्रिर्देवताऽन्वसृज्यत’ इति । तेजस्साधनत्वाद्वा । तस्मात् यज्ञस्य शीर्षन् शिरस्स्थानीये आतिथ्ये तेजो दधाति स्थापयति । ‘शीर्षञ्छन्दसि’ इति शीर्षादेशः, ‘सुपां सुलुक्’ इति ङेर्लुक्, ‘न ङिसंबुद्ध्योः’ इति नलोपप्रतिषेधः ॥

मूलम् (संयुक्तम्)

नव॑कपालᳶ पुरो॒डाशो॑ भवति॒ ते त्रय॑स्त्रिकपा॒लास्त्रि॒वृता॑ प्रा॒णेन॒ सम्मि॑तास्त्रि॒वृद्वै [4]
प्रा॒णस्त्रि॒वृत॑मे॒व प्रा॒णम॑भिपू॒र्वय्ँ य॒ज्ञस्य॑ शी॒र्षन्द॑धाति

विश्वास-प्रस्तुतिः

नव॑कपालᳶ पुरो॒डाशो॑ भवति ।
ते त्रय॑स् त्रिकपा॒लास् त्रि॒वृता॑ प्रा॒णेन॒ सम्मि॑तास् , त्रि॒वृद्वै प्रा॒णस् , त्रि॒वृत॑मे॒व प्रा॒णम॑भिपू॒र्वय्ँ य॒ज्ञस्य॑ शी॒र्षन् द॑धाति ।[4]

मूलम्

नव॑कपालᳶ पुरो॒डाशो॑ भवति ।
ते त्रय॑स् त्रिकपा॒लास् त्रि॒वृता॑ प्रा॒णेन॒ सम्मि॑तास् , त्रि॒वृद्वै प्रा॒णस् , त्रि॒वृत॑मे॒व प्रा॒णम॑भिपू॒र्वय्ँ य॒ज्ञस्य॑ शी॒र्षन् द॑धाति ।[4]

पद-पाठः

नव॑कपाल॒ इति॒ नव॑-क॒पा॒लः॒ । पु॒रो॒डाशः॑ । भ॒व॒ति॒ ।
ते । त्रयः॑ । त्रि॒क॒पा॒ला इति॑ त्रि-क॒पा॒लाः । त्रि॒वृतेति॑ त्रि-वृता॑ । प्रा॒णेनेति॑ प्र-अ॒नेन॑ । सम्मि॑ता॒ इति॒ सम्-मि॒ताः॒ । त्रि॒वृदिति॑ त्रि-वृत् । वै । [4] प्रा॒ण इति॑ प्र-अ॒नः । त्रि॒वृत॒मिति॑ त्रि-वृत॑म् । ए॒व । प्रा॒णमिति॑ प्र-अ॒नम् । अ॒भि॒पू॒र्वमित्य॑भि-पू॒र्वम् । य॒ज्ञस्य॑ । शी॒र्‌षन् । द॒धा॒ति॒ ।

भट्टभास्कर-टीका

9अथ तृतीयं विधत्ते गुणान्तरप्रदर्शनार्थं - नवकपाल इति ॥ पूर्वेणैवावगतप्रायमिदम्, प्राणेन साम्यं प्रतिपाद्यते इति विशेषः । त्रिवृता त्रिवृत्तुल्येन प्राणेन ते संमिताः; प्राणोपि हि त्रिवृता तुल्यो भवति, नवत्वयोगात्, ‘नव वै पुरुषे प्राणाः’ इति नवाधिष्ठानत्वात् । तस्मात्त्रिवृतं नवाधिष्ठानं प्राणं यज्ञस्य प्रधानभूते अस्मिन्नातिथ्ये अभिपूर्वमनुक्रमेण दधाति स्थापयति । अत्रापि त्रिकत्रयात्मकत्वं प्राणस्य द्रष्टव्यम् । त्रयो दक्षिणतस्तिर्यक्स्वर्गते, त्रय उत्तरतस्तिर्यक्, त्रय उपर्यधोभावेनेति ॥

मूलम् (संयुक्तम्)

प्र॒जाप॑ते॒र्वा ए॒तानि॒ पक्ष्मा॑णि॒ यद॑श्ववा॒ला ऐ॑क्ष॒वी ति॒रश्ची॒ यदाश्व॑वालᳶ प्रस्त॒रो भव॑त्यैक्ष॒वी ति॒रश्ची॑ प्र॒जाप॑तेरे॒व तच्चक्षु॒स्सम्भ॑रति

विश्वास-प्रस्तुतिः

प्र॒जाप॑ते॒र्वा ए॒तानि॒ पक्ष्मा॑णि॒ , यद॑श्ववा॒ला ऐ॑क्ष॒वी ति॒रश्ची॒ ,
यदाश्व॑वालᳶ प्रस्त॒रो भव॑त्यैक्ष॒वी ति॒रश्ची॑ प्र॒जाप॑तेर् ए॒व तच् चक्षु॒स् सम्भ॑रति ।

मूलम्

प्र॒जाप॑ते॒र्वा ए॒तानि॒ पक्ष्मा॑णि॒ , यद॑श्ववा॒ला ऐ॑क्ष॒वी ति॒रश्ची॒ ,
यदाश्व॑वालᳶ प्रस्त॒रो भव॑त्यैक्ष॒वी ति॒रश्ची॑ प्र॒जाप॑तेर् ए॒व तच् चक्षु॒स् सम्भ॑रति ।

पद-पाठः

प्र॒जाप॑ते॒रिति॑ प्र॒जा-प॒तेः॒ । वै । ए॒तानि॑ । पक्ष्मा॑णि । यत् । अ॒श्व॒वा॒ला इत्य॑श्व-वा॒लाः । ऐ॒क्ष॒वी इति॑ । ति॒रश्ची॒ इति॑ । यत् । आश्व॑वाल॒ इत्याश्व॑-वा॒लः॒ । प्र॒स्त॒र इति॑ प्र-स्त॒रः । भव॑ति । ऐ॒क्ष॒वी इति॑ । ति॒रश्ची॒ इति॑ । प्र॒जाप॑ते॒रिति॑ प्र॒जा-प॒तेः॒ । ए॒व । तत् । चक्षुः॑ । समिति॑ । भ॒र॒ति॒ ।

भट्टभास्कर-टीका

10प्रस्तरादिविशेषान्विधास्यन् आह - प्रजापतेर्वा इत्यादि ॥ पक्ष्माणि अक्षिरोमाणि । ‘पत्यावैश्वर्ये’ इति पूर्वपदप्रकृतिस्वरत्वम् । अश्ववालाः अश्वस्य पुच्छरोमाणीति केचित् । अन्य आहुः - ऐक्षवी स्या[वीव]त् समुदायप्रसिद्धेश्च । अश्वकर्णादिवत्संज्ञैषा; तेन काशा उच्यन्ते न प्राजापत्यपक्ष्मतया स्तूयन्त इति । ऐक्षवी इक्षुलतिके तिरश्ची तिरश्चीने प्रजापेतरक्ष्णोश्चर्मपुटिके तिर्यक्त्वयोगादुच्यते । वक्ष्यति च ‘प्रजापतेरेव तच्चक्षुस्सं भरति’ इति । ‘चौ’ इति पूर्वपदान्तोदात्तत्वम् । उभयत्रापि ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । प्रजापतेर्वा एते अक्ष्णोश्चर्मपुटिके तिरश्च्यौ यदैक्षव्यौ लतिके इत्यर्थः । यदिति । अश्ववालविकार आश्ववालः । ‘अनुदात्तादेश्च’ इत्यम् । प्रस्तीर्यते इति प्रस्तरः, ‘ऋदोरप्’, थाथादिनोत्तरपदान्तोदात्तत्वम् । अत्र तु तिरश्ची इति विधृती उच्येते तिर्यक्त्वयोगादेव । यस्मादेवं तस्मादाश्ववालः प्रस्तरः कार्यः, ऐक्षवी विधृती इति विधिरनुमीयते ॥

मूलम् (संयुक्तम्)

दे॒वा वै या आहु॑ती॒रजु॑हवु॒स्ता असु॑रा नि॒ष्काव॑माद॒न्ते दे॒वाᳵ का॑र्ष्म॒र्य॑मपश्यन्कर्म॒ण्यो॑ वै कर्मै॑नेन कुर्वी॒तेति॒ ते का॑र्ष्मर्य॒मया॑न्परि॒धीन् [5]
अ॒कु॒र्व॒त॒ तैर्वै ते रक्षाँ॒स्यपा॑घ्नत॒ यत्का॑र्ष्मर्य॒मयाः॑ परि॒धयो॒ भव॑न्ति॒ रक्ष॑सा॒मप॑हत्यै॒

विश्वास-प्रस्तुतिः

दे॒वा वै या आहु॑ती॒रजु॑हवु॒स्ता असु॑रा नि॒ष्काव॑माद॒न्ते दे॒वाᳵ का॑र्ष्म॒र्य॑मपश्यन्कर्म॒ण्यो॑ वै ।
कर्मै॑नेन कुर्वी॒तेति॒ ते का॑र्ष्मर्य॒मया॑न्परि॒धीन् अ॑कुर्वत ।[5]
तैर् वै ते रक्षाँ॒स्यपा॑घ्नत । यत् का॑र्ष्मर्य॒मयाः॑ परि॒धयो॒ भव॑न्ति॒ , रक्ष॑सा॒मप॑हत्यै ।

मूलम्

दे॒वा वै या आहु॑ती॒रजु॑हवु॒स्ता असु॑रा नि॒ष्काव॑माद॒न्ते दे॒वाᳵ का॑र्ष्म॒र्य॑मपश्यन्कर्म॒ण्यो॑ वै ।

कर्मै॑नेन कुर्वी॒तेति॒ ते का॑र्ष्मर्य॒मया॑न्परि॒धीन् अ॑कुर्वत ।[5]
तैर् वै ते रक्षाँ॒स्यपा॑घ्नत ।

यत् का॑र्ष्मर्य॒मयाः॑ परि॒धयो॒ भव॑न्ति॒ , रक्ष॑सा॒मप॑हत्यै ।

पद-पाठः

दे॒वाः । वै । याः । आहु॑ती॒रित्या-हु॒तीः॒ । अजु॑हवुः ।

ताः । असु॑राः । नि॒ष्काव॑म् । आ॒द॒न् । ते । दे॒वाः । का॒र्‌ष्म॒र्य॑म् । अ॒प॒श्य॒न् । क॒र्म॒ण्यः॑ । वै । कर्म॑ । ए॒ने॒न॒ । कु॒र्वी॒त॒ । इति॑ । ते । का॒र्‌ष्म॒र्य॒मया॒निति॑ कार्‌ष्मर्य-मया॑न् । प॒रि॒धीनिति॑ परि-धीन् । [5] अ॒कु॒र्व॒त॒ ।

तैः । वै । ते । रक्षाँ॑सि । अपेति॑ । अ॒घ्न॒त॒ ।

यत् । का॒र्‌ष्म॒र्य॒मया॒ इति॑ कार्‌ष्मर्य-मयाः॑ । प॒रि॒धय॒ इति॑ परि-धयः॑ । भव॑न्ति । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑-ह॒त्यै॒ ।

भट्टभास्कर-टीका

11देवा वा इत्यादि ॥ निष्कावं निष्कृष्यग्न्यास्यादाच्छिद्याच्छिद्य आदन् अभक्षयन् आहुतिम् । कवति कौति कूव[कुना]तीनामन्यतमस्तस्मादाभीक्ष्ण्ये णमुल्, द्विर्वचनं तु न क्रियते, अनित्यत्वात् । गतिकर्मा चायमत्र द्रष्टव्यः । यद्वा - निष्कावं अशब्दयित्वा निःशब्दं, निरिति प्रतिषेधमाचष्टे । ते देवाः कार्ष्मर्यं श्रीपर्णीवृक्षं अपश्यन् शक्तिविशेषं तत्राधातुं विशिष्टसंकल्पात्मिकां दृष्टिं तत्र कृतवन्तः । कथमित्याह - कर्मण्य इत्यादि । एष कर्मण्यः कर्मणि साधुः अभिमतकर्मसाधनयोग्यः । तस्मादेनेन सर्वमभिमतं कर्म कुर्वीत; तत्कारणं वयमित्थं प्रतिजानीमहे इति । एनादेशोनुदात्तः । ततस्ते देवाः कार्ष्मर्यमयान् कार्ष्मर्यविकारान् परिधीनकुर्वत । ‘नित्यं वृद्धशरादिभ्यः’ इति मयट् । परितो धीयन्ते इति परिधयः, ‘उपसर्गे घोः किः’ कृदुत्तरपदप्रकृतिस्वरत्वम् । तैरित्यादि । गतम् ॥

मूलम् (संयुक्तम्)

सँस्प॑र्शयति॒ रक्ष॑सा॒मन॑न्ववचाराय॒ न पु॒रस्ता॒त्परि॑ दधात्यादि॒त्यो ह्ये॑वोद्यन्पु॒रस्ता॒द्रक्षाँ॑स्यप॒हन्त्यू॒र्ध्वे स॒मिधा॒वा द॑धात्यु॒परि॑ष्टादे॒व रक्षाँ॒स्यप॑हन्ति॒ यजु॑षा॒न्यान्तू॒ष्णीम॒न्याम्मि॑थुन॒त्वाय॒ द्वे आ द॑धाति द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्यै

विश्वास-प्रस्तुतिः

सँस्प॑र्शयति॒ रक्ष॑सा॒मन॑न्ववचाराय ।
न पु॒रस्ता॒त् परि॑ दधात्यादि॒त्यो ह्ये॑वोद्यन्पु॒रस्ता॒द् रक्षाँ॑स्यप॒हन्ति॑ ।
ऊ॒र्ध्वे स॒मिधा॒वा द॑धात्य् - उ॒परि॑ष्टादे॒व रक्षाँ॒स्यप॑हन्ति ।
यजु॑षा॒न्यान् तू॒ष्णीम् अ॒न्याम् मि॑थुन॒त्वाय ।
द्वे आ द॑धाति द्वि॒पाद् यज॑मान॒ᳶ प्रति॑ष्ठित्यै ।

मूलम्

सँस्प॑र्शयति॒ रक्ष॑सा॒मन॑न्ववचाराय ।
न पु॒रस्ता॒त् परि॑ दधात्यादि॒त्यो ह्ये॑वोद्यन्पु॒रस्ता॒द् रक्षाँ॑स्यप॒हन्ति॑ ।
ऊ॒र्ध्वे स॒मिधा॒वा द॑धात्य् - उ॒परि॑ष्टादे॒व रक्षाँ॒स्यप॑हन्ति ।
यजु॑षा॒न्यान् तू॒ष्णीम् अ॒न्याम् मि॑थुन॒त्वाय ।
द्वे आ द॑धाति द्वि॒पाद् यज॑मान॒ᳶ प्रति॑ष्ठित्यै ।

पद-पाठः

समिति॑ । स्प॒र्‌श॒य॒ति॒ । रक्ष॑साम् । अन॑न्ववचारा॒येत्यन॑नु-अ॒व॒चा॒रा॒य॒ ।

न । पु॒रस्ता॑त् । परीति॑ । द॒धा॒ति॒ ।

आ॒दि॒त्यः । हि । ए॒व । उ॒द्यन्नित्यु॑त्-यन् । पु॒रस्ता॑त् । रक्षाँ॑सि । अ॒प॒हन्तीत्य॑प-हन्ति॑ ।

ऊ॒र्ध्वे इति॑ । स॒मिधा॒विति॑ सम्-इधौ॑ । एति॑ । द॒धा॒ति॒ । उ॒परि॑ष्टात् । ए॒व । रक्षाँ॑सि । अपेति॑ । ह॒न्ति॒ ।

यजु॑षा । अ॒न्याम् । तू॒ष्णीम् । अ॒न्याम् । मि॒थु॒न॒त्वायेति॑ मिथुन-त्वाय॑ ।

द्वे इति॑ । एति॑ । द॒धा॒ति॒ ।
द्वि॒पादिति॑ द्वि-पात् । यज॑मानः । प्रति॑ष्ठित्या॒ इति॒ प्रति॑-स्थि॒त्यै॒ ।

भट्टभास्कर-टीका

12संस्पर्शयतीत्यादि ॥ किमर्थमिदम्, ननु प्रकृतावुक्तमत्रापि भविष्यति? तर्हि साधाराणविधानार्थमिदं, तेन यद्यत्प्राप्तं तदर्थं भविष्यति । तेन उपसत्सु विस्रंभयति संस्पर्शयति परिधीनिति विधिः । अनन्ववचाराय अननुप्रवेशाय । आदित्य एव पूर्वस्यां दिशि परिधिकार्यकारी । ऊर्ध्वे समिधो आघाराख्ये । उपरिष्टादूर्ध्वायां दिशि स्थितानि रक्षांसि अपहन्ति । यजुषेति । ‘वीतिहोत्रं त्वा’ हति गायत्र्यपि अनवसानत्वाद्यजुरुच्यते । दक्षिणां यनुषा उत्तरा तूष्णीम् । मिथुनत्वायेति । द्वैरूप्येण हि मिथुनत्वं भवति । द्वे इति द्वित्वविधिः । द्विपादिति । ‘संख्या सुपूर्वस्य’ इति लोपस्समासान्तः, ‘द्वित्रिभ्यां पद्दन्’ इत्युत्तरपदान्तोदात्तत्वम् । प्रतिष्ठित्यै भवति यजमानस्य यस्माद्द्विपाद्यजमानः तस्माद्वे आदधाति; तस्य प्रतिष्ठित्यै अप्रच्युतस्वरूपत्वाय तद्भवति । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ॥

मूलम् (संयुक्तम्)

ब्रह्मवा॒दिनो॑ वदन्ति [6]
अ॒ग्निश्च॒ वा ए॒तौ सोम॑श्च क॒था सोमा॑याति॒थ्यङ्क्रि॒यते॒ नाग्नय॒ इति॒ यद॒ग्नाव॒ग्निम्म॑थि॒त्वा प्र॒हर॑ति॒ तेनै॒वाग्नय॑ आति॒थ्यङ्क्रि॑य॒ते

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति [6] -
“अ॒ग्निश्च॒ वा ए॒तौ सोम॑श्च क॒था सोमा॑याति॒थ्यङ् क्रि॒यते॒ नाग्नय॒” इति॑ ।

यद॒ग्नाव् अ॒ग्निम् म॑थि॒त्वा प्र॒हर॑ति॒ , तेनै॒वाग्नय॑ आति॒थ्यङ् क्रि॑यते ।
अथो॒ खल्वा॑हुर् - “अ॒ग्निस् सर्वा॑ दे॒वता॒"इति॒ , यद्ध॒विर् आ॒साद्या॒ग्निम् मन्थ॑ति , ह॒व्यायै॒वास॑न्नाय॒ सर्वा॑ दे॒वता॑ जनयति ॥ [7]

मूलम्

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति [6] -
“अ॒ग्निश्च॒ वा ए॒तौ सोम॑श्च क॒था सोमा॑याति॒थ्यङ् क्रि॒यते॒ नाग्नय॒” इति॑ ।

यद॒ग्नाव् अ॒ग्निम् म॑थि॒त्वा प्र॒हर॑ति॒ , तेनै॒वाग्नय॑ आति॒थ्यङ् क्रि॑यते ।
अथो॒ खल्वा॑हुर् - “अ॒ग्निस् सर्वा॑ दे॒वता॒"इति॒ , यद्ध॒विर् आ॒साद्या॒ग्निम् मन्थ॑ति , ह॒व्यायै॒वास॑न्नाय॒ सर्वा॑ दे॒वता॑ जनयति ॥ [7]

पद-पाठः

ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ । [6]
अ॒ग्निः । च॒ । वै । ए॒तौ । सोमः॑ । च॒ । क॒था । सोमा॑य । आ॒ति॒थ्यम् । क्रि॒यते॑ । न । अ॒ग्नये॑ । इति॑ ।

यत् । अ॒ग्नौ । अ॒ग्निम् । म॒थि॒त्वा । प्र॒हर॒तीति॑ प्र-हर॑ति । तेन॑ । ए॒व । अ॒ग्नये॑ । आ॒ति॒थ्यम् । क्रि॒य॒ते॒ ।

अथो॒ इति॑ । खलु॑ । आ॒हुः॒ । अ॒ग्निः । सर्वाः॑ । दे॒वताः॑ । इति॑ । यत् । ह॒विः । आ॒साद्येत्या॑-साद्य॑ । अ॒ग्निम् । मन्थ॑ति । ह॒व्याय॑ । ए॒व । आस॑न्ना॒येत्या-स॒न्ना॒य॒ । सर्वाः॑ । दे॒वताः॑ । ज॒न॒य॒ति॒ ॥ [7]

भट्टभास्कर-टीका

13ब्रह्मवादिन इत्यादि ॥ द्वावेतौ देवौ अग्निश्च सोमश्च; तत्कथा केन हेतुना सोमायैवातिथ्यं क्रियते नाग्नय इति प्रश्नमाहुर्ब्रह्यवादिनः । ‘था हेतौ च’ इति थाप्रत्ययः । उत्तरम् - यदग्नावित्यादि । योयं मथितस्याग्रेः अग्नौ प्रहारः तेनैवाग्निः कृतातिथ्यो भवति, न पृथक्कर्तव्यमिति । अथो इति । अथ खल्वन्य आहुः - अग्निस्सर्वा देवताः यद्धविरातिथ्यमासाद्याग्रिं मन्थति, तत्तस्मै आतिथ्याय हव्याय सर्वा देवता जनयति प्रादुर्भावयति, तस्मादासन्नमातिथ्यं हविः सर्वदेवतार्थं सदग्न्यर्थमपि भविष्यतीति । यदुक्तं ‘यदग्नावग्निं मथित्वा प्र हरति तेनैवाग्नय आतिथ्यं क्रियते’ इति तेनैतत्समीचीनमुत्तरमिति तेषामभिप्रायः । यद्वा - मथित्वा प्रहरणेनैवाग्निः कृतातिथ्य इत्युक्तम्, इदानीं तदेव मथनं स्नूयते - हविरासादनानन्तरं यदिदं मथितं क्रियते तेनैतद्धविरर्थं सर्वा देवता जनयति, तस्मादग्निं मन्थेदिति विधिरनुमीयते । हवमर्हतीति ‘छन्दसि च’ इति यः ॥

इति षष्ठे द्वितीये प्रथमोनुवाकः ।