सोमक्रयः

परिचयः

अत्र गवा सोमक्रये विशेषा उच्यन्ते। प्रसङ्गात् कन्याकर्षणं कथमित्यपि।

सस्वरपाठः

सोम॑माह्रि॒यमा॑णङ् गन्ध॒र्वो वि॒श्वाव॑सु॒ᳶ पर्य॑मुष्णा॒त्। स ति॒स्रो रात्री॒ᳶ परि॑मुषितो ऽवस॒त्। तस्मा॑त्ति॒स्रो रात्रीः॑ क्री॒तस् सोमो॑ वसति।

ते दे॒वा अ॑ब्रुव॒न्त् स्त्रीका॑मा॒ वै ग॑न्ध॒र्वास्म्, स्त्रि॒या निष्क्री॑णा॒मेति॑। ते वाचँ॒ स्त्रिय॒म् एक॑हायनीङ्+++(एकवर्षां)+++ कृ॒त्वा, तया॒ निर॑क्रीण॒न्त्, सा रो॒हिद्+++(गो)+++-रू॒पङ् कृ॒त्वा ग॑न्ध॒र्वेभ्यः॑ अ॒प॒क्रम्या॑तिष्ठ॒त्। तद् रो॒हितो॒ जन्म॑।

ते दे॒वा अ॑ब्रुव॒न्न् अप॑ यु॒ष्मद् अक्र॑मी॒न् नास्मान् उ॒पाव॑र्तते॒ +++(मध्ये तिष्ठति)+++। वि ह्व॑यामहा॒ इति॒ +++(देवा गन्धर्वाश् च निरचिन्वन्)+++। ब्रह्म॑ गन्ध॒र्वा अव॑द॒न्न्, अगा॑यन् दे॒वास्, सा दे॒वान् गाय॑त उ॒पाव॑र्तत। तस्मा॒द् गाय॑न्तँ॒ स्त्रिय॑ᳵ कामयन्ते। कामु॑का एनँ॒ स्त्रियो॑ भवन्ति॒, य ए॒वव्ँ वेदाथो॒ य ए॒वव्ँ वि॒द्वान् अपि॒ जन्ये॑षु॒ +++(=वरितृषु)+++ भव॑ति॒, तेभ्य॑ ए॒व +++(कन्यां)+++ द॑दत्य्, उ॒त यद् ब॒हुत॑याः+++(=बहुगुणान्विता)+++ भव॒न्त्य् +++(अन्ये)+++,

एक॑हायन्या क्रीणाति, वा॒चैवैनँ॒ सर्व॑या क्रीणाति। तस्मा॒देक॑हायना मनु॒ष्या॑ वाचव्ँ॑ वद॒न्त्य्,

अकू॑ट॒या ऽक॑र्ण॒या ऽका॑ण॒या ऽश्लो॑ण॒या +++(=अशून्यया)+++ ऽस॑प्तशफया क्रीणाति॒ - सर्व॑यै॒वैन॑ङ् क्रीणाति।
यच्छ्वे॒तया॑ क्रीणी॒याद् दु॒श्चर्मा॒ यज॑मानस् स्या॒द्,
यत्कृ॒ष्णया॑ ऽनु॒स्तर॑णी स्यात्
प्र॒मायु॑को॒ यज॑मानस्स्या॒द् यद्द् वि॑रू॒पया॒
वात्र॑घ्नी स्या॒त् स वा॒न्यञ् जि॑नी॒यात् तव्ँ वा॒न्यो जि॑नीयाद्।

अरु॒णया॑ पिङ्गा॒क्ष्या क्री॑णात्य् - ए॒तद्वै सोम॑स्य रू॒पँ, स्वयै॒वैन॑न् दे॒वत॑या क्रीणाति ॥