परिचयः
अत्र छन्दस्त्रयस्य परिचयो दीयते। व्याजेन सोमसवनादियागाङ्गानि तद्भावाश्चोच्यन्ते।
पुराणेषु कद्र्रूसुपर्णीकथा रूपान्तरेण दृश्यते। आख्ययिकानाम् साध्व् अवगतिः कथं स्यादिति श्रुतिः स्वयं दर्शयति!
सस्वरपाठः
क॒द्रूश् च॒ वै सु॑प॒र्णी चा॑त्मरू॒प+++(सौन्दर्य)+++यो॑र् अस्पर्धेताँ॒, सा क॒द्रूस् सु॑प॒र्णीम् अ॑जय॒त्।
साब्र॑वीत् - “तृ॒तीय॑स्यामि॒तो दि॒वि सोम॒स्, तम् आ ह॑र। तेना॒त्मान॒न् निष्क्री॑णी॒ष्वे"ति।
+इ॒यव्ँ वै क॒द्रूर्, अ॒सौ सु॑प॒र्णी, छन्दाँ॑सि सौपर्णे॒यास्;
सा ऽब्र॑वीद् “अ॒स्मै वै पि॒तरौ॑ पु॒त्रान् बि॑भृतस् - तृ॒तीय॑स्यामि॒तो दि॒वि सोम॒स्, तम् आ ह॑र॒, तेना॒त्मान॒न् निष्क्री॑णीष्व - इति॑ मा क॒द्रूर् अ॑वोच॒द्” इति।
जग॒त्य् उद॑पत॒च् - चतु॑र्दशाक्षरा स॒ती। सा ऽप्रा॑प्य॒ न्य॑वर्तत। तस्यै॒ +++(श्रान्तायै)+++ द्वे अ॒क्षरे॑ अमीयेताँ॒+++(=अहीयेताम्)+++, सा +++(तृतीयद्युस्थैः)+++ प॒शुभि॑श्च दी॒क्षया॒ चाग॑च्छ॒त्। तस्मा॒ज् जग॑ती॒ छन्द॑साम् पश॒व्य॑तमा॒ +++(पशुभ्यो हिततमा)+++। तस्मा॑त् पशु॒मन्त॑न् दी॒क्षोप॑ नमति।
त्रि॒ष्टुग्+++(भ्)+++ उद॑पत॒त् - त्रयो॑दशाक्षरा स॒ती। साऽप्रा॑प्य॒ न्य॑वर्तत। तस्यै॒ द्वे अ॒क्षरे॑ अमीयेताँ॒+++(=अहीयेताम्)+++, सा दक्षि॑णाभिश्च तप॑सा॒ चाग॑च्छ॒त्। तस्मा॑त् त्रि॒ष्टुभो॑ लो॒के माध्य॑न्दिने॒ सव॑ने॒ दक्षि॑णा नीयन्त, ए॒तत्खलु॒ वाव तप॒ इत्या॑हु॒र् - यस् स्वन् ददा॒तीति॑।
गाय॒त्र्य् उद॑पत॒च् - चतु॑रक्षरा स॒त्य्, +++(सहायभूतया)+++ अ॑जया।
ज्योति॑षा॒ तम् +++(सोमम्)+++ अ॑स्या +++(गायत्र्यै)+++ अ॒जा ऽभ्य॑रुन्द्ध। +++(अज गतिक्षेपाणयोः इत्यय्तः-)+++ तद् अ॒जाया॑ अज॒त्वँ;
सा सोम॒ञ् चाह॑रच्, च॒त्वारि॑ चा॒क्षरा॑णि +++(त्रिष्टुब्जगतीगलितानि)+++। साष्टाक्ष॑रा॒ सम॑पद्यत।
ब्रह्मवा॒दिनो॑ वदन्ति- कस्मा॑त् स॒त्याद्+++(सदर्हतीति सत्यं)+++ गा॑य॒त्री कनि॑ष्ठा॒ छन्द॑साँ स॒ती य॑ज्ञमु॒खम्+++(प्रातस्सवनं)+++ परी॑या॒येति॒?
यद् ए॒वादस् सोम॒म् आह॑र॒त्, तस्मा॑द् यज्ञमु॒खम् पर्यै॒त्, तस्मा॑त् तेज॒स्विनी॑तमा।
प॒द्भ्यान् द्वे सव॑ने स॒मगृ॑ह्णा॒न्, मुखे॒नैकय्ँ॒;
यन् मुखे॑न स॒मगृ॑ह्णा॒त्, तद् अ॑धय॒त्+++(अपिबत्)+++। तस्मा॒द् द्वे सव॑ने शु॒क्र+++(=रस)+++व॑ती - प्रातस्सव॒नञ्च॒ माध्य॑न्दिनञ्च। तस्मा॑त् तृतीय-सव॒न ऋ॑जी॒षम्+++(=सोमशेषम्)+++ अ॒भि षु॑ण्वन्ति - धी॒तम्+++(=पीतम्)+++ इ॑व॒ हि मन्य॑न्ते।
+++(ऋजीषे)+++ आ॒शिर॒म्+++(=[दधि]मिश्रणम्)+++ अव॑ नयति सशुक्र॒+++(रस)+++त्वायाथो॒ +++(पुष्टं)+++ सम्भ॑रत्य् ए॒वैन॒त्।
विश्वरपाठः
कद्रूश्च वै सुपर्णी चात्मरूपयोरस्पर्धेताँ सा कद्रूस्सुपर्णीमजयत्साब्रवीत्तृतीयस्यामितो दिवि सोमस्तमा हर तेनात्मानन्निष्क्रीणीष्वेतीयव्ँ वै कद्रूरसौ सुपर्णी छन्दाँसि सौपर्णेयास्साब्रवीदस्मै वै पितरौ पुत्रान्बिभृतस्तृतीयस्यामितो दिवि सोमस्तमा हर तेनात्मानन्निष्क्रीणीष्व [39] इति मा कद्रूरवोचदिति जगत्युदपतच्चतुर्दशाक्षरा सती साऽप्राप्य न्यवर्तत तस्यै द्वे अक्षरे अमीयेताँ सा पशुभिश्च दीक्षया चागच्छत्तस्माज्जगती छन्दसाम्पशव्यतमा तस्मात्पशुमन्तन्दीक्षोप नमति त्रिष्टुगुदपतत्त्रयोदशाक्षरा सती साऽप्राप्य न्यवर्तत तस्यै द्वे अक्षरे अमीयेताँ सा दक्षिणाभिश्च [40] तपसा चागच्छत्तस्मात्त्रिष्टुभो लोके माध्यन्दिने सवने दक्षिणा नीयन्त एतत्खलु वाव तप इत्याहुर्यस्स्वन्ददातीति गायत्र्युदपतच्चतुरक्षरा सत्यजया ज्योतिषा तमस्या अजाभ्यरुन्द्ध तदजाया अजत्वँ सा सोमञ्चाहरच्चत्वारि चाक्षराणि साष्टाक्षरा समपद्यत ब्रह्मवादिनो वदन्ति [41] कस्मात्सत्याद्गायत्री कनिष्ठा छन्दसाँ सती यज्ञमुखम्परीयायेति यदेवादस्सोममाहरत्तस्माद्यज्ञमुखम्पर्यैत्तस्मात्तेजस्विनीतमा पद्भ्यान्द्वे सवने समगृह्णान्मुखेनैकय्ँयन्मुखेन समगृह्णात्तदधयत्तस्माद्द्वे सवने शुक्रवती प्रातस्सवनञ्च माध्यन्दिनञ्च तस्मात्तृतीयसवन ऋजीषमभि षुण्वन्ति धीतमिव हि मन्यन्ते [42]