सोमऋषिः
मूलम् (संयुक्तम्)
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वि॒चित्य॒स्सोमा (३) न वि॒चित्या (३) इति॒ सोमो॒ वा ओष॑धीनाँ॒ राजा॒ तस्मि॒न्यदाप॑न्नङ्ग्रसि॒तमे॒वास्य॒ तद्यद्वि॑चिनु॒याद्यथा॒स्या॑द्ग्रसि॒तन्नि॑ष्खि॒दति॑ ता॒दृगे॒व तद्यन्न वि॑चिनु॒याद्यथा॒क्षन्नाप॑न्नव्ँवि॒धाव॑ति ता॒दृगे॒व तत्क्षोधु॑कोऽध्व॒र्युस्स्यात्क्षोधु॑को॒ यज॑मान॒स्
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति - “वि॒चित्य॒स् सोमा३ न वि॒चित्या३” इति॑ ।
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति - “वि॒चित्य॒स् सोमा३ न वि॒चित्या३” इति॑ ।
पद-पाठः
ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ । वि॒चित्य॒ इति॑ वि-चित्यः॑ । सोमा(३)ः । न । वि॒चित्या(३) इति॑ वि-चित्या(३)ः । इति॑ ।
भट्टभास्कर-टीका
‘ब्रह्मवादिन इत्यादि ॥ विचित्य विवेचनीयः तृणादिभ्यः सोमः; किं वा न विचित्यः; इति विचारं वदन्ति ब्रह्मवादिनः । विपूर्वाच्चिनोतेः छान्दसः क्यप्, कृदुत्तरप्रकृतिस्वरत्वेन धातुस्वरः । सोमशब्दो मन्प्रत्ययान्त आद्युदात्तः । तस्य टेः ‘विचार्यमाणानाम्’ इत्युदात्तः प्लुतः, तस्यासिद्धत्वाद्वर्ज्यमानस्वरप्रवृत्तिः । एवं न विचित्यः इत्यत्रापि ।
विश्वास-प्रस्तुतिः
सोमो॒ वा ओष॑धीनाँ॒ राजा॑ ।
तस्मि॒न् यदाप॑न्नङ् , ग्रसि॒तम् ए॒वास्य॒ तत् ।
यद् वि॑चिनु॒याद् यथा॒ऽऽस्या॑द् ग्रसि॒तन् नि॑ष्खि॒दति॑ ता॒दृगे॒व तत् ।
यन्न वि॑चिनु॒याद् यथा॒ ऽक्षन्नाप॑न्नव्ँ वि॒धाव॑ति ता॒दृगे॒व तत् ।
क्षोधु॑कोऽध्व॒र्युस् स्यात् क्षोधु॑को॒ यज॑मानः ।
मूलम्
सोमो॒ वा ओष॑धीनाँ॒ राजा॑ ।
तस्मि॒न् यदाप॑न्नङ् , ग्रसि॒तम् ए॒वास्य॒ तत् ।
यद् वि॑चिनु॒याद् यथा॒ऽऽस्या॑द् ग्रसि॒तन् नि॑ष्खि॒दति॑ ता॒दृगे॒व तत् ।
यन्न वि॑चिनु॒याद् यथा॒ ऽक्षन्नाप॑न्नव्ँ वि॒धाव॑ति ता॒दृगे॒व तत् ।
क्षोधु॑कोऽध्व॒र्युस् स्यात् क्षोधु॑को॒ यज॑मानः ।
पद-पाठः
सोमः॑ । वै । ओष॑धीनाम् । राजा॑ ।
तस्मि॑न् । यत् । आप॑न्न॒मित्या-प॒न्न॒म् । ग्र॒सि॒तम् । ए॒व । अ॒स्य॒ । तत् ।
यत् । वि॒चि॒नु॒यादिति॑ वि-चि॒नु॒यात् । यथा॑ । आ॒स्या॑त् । ग्र॒सि॒तम् । नि॒ष्खि॒दतीति॑ निः-खि॒दति॑ । ता॒दृक् । ए॒व । तत् ।
यत् । न । वि॒चि॒नु॒यादिति॑ वि-चि॒नु॒यात् । यथा॑ । अ॒क्षन् । आप॑न्न॒मित्या-प॒न्न॒म् । वि॒धाव॒तीति॑ वि-धाव॑ति । ता॒दृक् । ए॒व । तत् ।
क्षोधु॑कः । अ॒ध्व॒र्युः । स्यात् । क्षोधु॑कः । यज॑मानः ।
भट्टभास्कर-टीका
कुतः पुनस्संशय इत्याह - सोमो वा इति । आपन्नं प्रविष्टं सोमव्यतिरिक्तं तदस्य ग्रसितमेव अनेनौषधिराजेन भुक्तमेव तत् । सबन्धसामान्यविवक्षया षष्ठी । ‘ग्रसितस्कभित’ इति निपात्यते । आपन्नशब्दे अकर्मण्यपि क्ते व्यत्ययेन गतेः प्रकृतिस्वरत्वम् । एवं स्थिते यदि विचिनुयात्, यया आस्याद्ग्रसितं निष्खिदति निष्कर्षति भुक्तं तादृगेव तत् । खिद दैन्ये, तौदादिकः ।
अथैष दोषो मा भूदिति यदि न विचिनुयात, ययाऽक्षन् अक्षणि आपन्नं प्रविष्टं तूलादिकं विधावति अक्षिणी विविधमाकलयति पीडयति तादृगेव तत् । अक्ष्णस्सप्तम्याः ‘सुपां सुलुक्’ इति लुक्, ‘न डिसंबुद्ध्योः’ इति नलोपप्रतिषेधः । तस्मादवश्यं विचेतव्य एव । ततश्च क्षोधुकः क्षुच्छील अध्वर्युर्यजमानश्च स्यात् । छान्दस उकञ् । तस्माद्भवति संशय इति ॥
मूलम् (संयुक्तम्)
सोम॑विक्रयि॒न्त्सोमँ॑ शोध॒येत्ये॒व ब्रू॑या॒द्यदीत॑रम् [59]
यदीत॑रमु॒भये॑नै॒व सो॑मविक्र॒यिण॑मर्पयति॒ तस्मा॑त्सोमविक्र॒यी क्षोधु॑को
विश्वास-प्रस्तुतिः
सोम॑विक्रयि॒न्त्सोमँ॑ शोध॒येत्ये॒व ब्रू॑यात् । यदीत॑रय्ँ॒ +++( विचिनुयात् )+++ यदीत॑रम् +++( न विचिनुयात् )+++, उ॒भये॑नै॒व सो॑मविक्र॒यिण॑मर्पयति ।[59] तस्मा॑त् सोमविक्र॒यी क्षोधु॑कः ।
मूलम्
सोम॑विक्रयि॒न्त्सोमँ॑ शोध॒येत्ये॒व ब्रू॑यात् । यदीत॑रय्ँ॒ +++( विचिनुयात् )+++ यदीत॑रम् +++( न विचिनुयात् )+++, उ॒भये॑नै॒व सो॑मविक्र॒यिण॑मर्पयति ।[59] तस्मा॑त् सोमविक्र॒यी क्षोधु॑कः ।
पद-पाठः
सोम॑विक्रयि॒न्निति॒ सोम॑-वि॒क्र॒यि॒न् । सोम॑म् । शो॒ध॒य॒ । इति॑ । ए॒व । ब्रू॒या॒त् ।
यदि॑ । इत॑रम् । [59] यदि॑ । इत॑रम् । उ॒भये॑न । ए॒व । सो॒म॒वि॒क्र॒यिण॒मिति॑ सोम-वि॒क्र॒यिण॑म् । अ॒र्प॒य॒ति॒ ।
तस्मा॑त् । सो॒म॒वि॒क्र॒यीति॑ सोम-वि॒क्र॒यी । क्षोधु॑कः ।
भट्टभास्कर-टीका
2उत्तरमाह - सोमविक्रयिन्निति ॥ हे सोमविक्रयिन् सोमं शोधय विचिनुयास्त्वमित्येवमेनं ब्रूयात् । ‘कर्मणीनिविक्रयः’ इति इनिप्रत्ययः । न तु स्वयं विचिनुयात् । एवमुक्ते स यदि विचिनुयात्, यदि वा न विचिनुयात्, उभयथाऽपि यावेवान्यतरपक्षे संभावितौ दोषावुक्तौ ताम्यामुभाभ्यां सोमविक्रयिणमर्पयति प्रापयति । व्यावर्तयतीत्यन्ये । तेन च अवश्यं शोधयेति वचनाद्विचेतव्यम् । तस्मात्सोमविक्रयी क्षोधुको भवति । ‘नेतराच्छन्दसि’ इत्यडादेशाभावः । अर्तेर्णिचि ‘अर्तिह्रि’ इत्यादिना पुगागमः ॥
मूलम् (संयुक्तम्)
ऽरु॒णो ह॑ स्मा॒हौप॑वेशिस्सोम॒क्रय॑ण ए॒वाहन्तृ॑तीयसव॒नमव॑ रुन्ध॒ इति॑ पशू॒नाञ्चर्म॑न्मिमीते प॒शूने॒वाव॑ रुन्द्धे प॒शवो॒ हि तृ॒तीयँ॒ सव॑नय्ँ॒
विश्वास-प्रस्तुतिः
अ॒रु॒णो ह॑ स्मा॒हौप॑वेशिः ।
सो॒म॒क्रय॑ण ए॒वाहन्तृ॑तीयसव॒नमव॑ रुन्ध॒ इति॑ ।
प॒शू॒नाञ्चर्म॑न्मिमीते प॒शूने॒वाव॑ रुन्धे ।
प॒शवो॒ हि तृ॒तीयँ॒ सव॑नम् ।
मूलम्
अ॒रु॒णो ह॑ स्मा॒हौप॑वेशिः ।
सो॒म॒क्रय॑ण ए॒वाहन्तृ॑तीयसव॒नमव॑ रुन्ध॒ इति॑ ।
प॒शू॒नाञ्चर्म॑न्मिमीते प॒शूने॒वाव॑ रुन्धे ।
प॒शवो॒ हि तृ॒तीयँ॒ सव॑नम् ।
पद-पाठः
अ॒रु॒णः । ह॒ । स्म॒ । आ॒ह॒ । औप॑वेशि॒रित्यौप॑-वे॒शिः॒ ।
सो॒म॒क्रय॑ण॒ इति॑ सोम-क्रय॑णे । ए॒व । अ॒हम् । तृ॒ती॒य॒स॒व॒नमिति॑ तृतीय-स॒व॒नम् । अवेति॑ । रु॒न्द्धे॒ । इति॑ ।
प॒शू॒नाम् । चर्म॑न् । मि॒मी॒ते॒ । प॒शून् । ए॒व । अवेति॑ । रु॒न्द्धे॒ ।
प॒शवः॑ । हि । तृ॒तीय॑म् । सव॑नम् ।
भट्टभास्कर-टीका
3इदानीं कांश्चिद्गुणान् विधास्यन् प्रवर्तयिष्यन् तदर्थमाह - अरुणो ह स्मेति ॥ उपवेशस्यापत्यमौपवेशिः । अत इञ् । उपवेशपुत्रोरुणो नाम आह स्म अब्रवीत् । ‘लट् स्मे’ इति लट् । कथमाह स्म? सोमक्रयण एव यदा सोमो विक्रीयते तदानीमेवाहं तृतीयसवनमवरुन्धे समापयामि । स एवमुपायमाह । पशूनामित्यादिविधिः । पशूनां चर्मणि सोमो मीयते पशनूवरुन्ध एव । ‘नामन्यतरस्याम्’ इति नाम उदात्तत्वम् । चर्मन्निति । लुगादि पूर्ववत् । ननु तृतीयसवनावरोधः प्रतिज्ञातः, तत्किमुच्यते पशूनवरुन्धे इत्यत आह - पशवो हि तृतीयसवनम्; पशुसाधनत्वात् । ततश्च पश्ववरोधेन तृतीयसवनमवरुद्धं भवतीति प्रतिज्ञातसिद्धः ॥
मूलम् (संयुक्तम्)
यङ्का॒मये॑ताप॒शुस्स्या॒दित्यृ॑क्ष॒तस्तस्य॑ मिमीत॒र्क्षव्ँ वा अ॑पश॒व्यम॑प॒शुरे॒व भ॑वति॒ यङ्का॒मये॑त पशु॒मान्त्स्या॑त् [60]
इति॑ लोम॒तस्तस्य॑ मिमीतै॒तद्वै प॑शू॒नाँ रू॒पँ रू॒पेणै॒वास्मै॑ प॒शूनव॑ रुन्द्धे पशु॒माने॒व भ॑वत्य्
विश्वास-प्रस्तुतिः
यङ् का॒मये॑त -
“अप॒शुस् स्या॒दि"त्यृ॑क्ष॒तस् तस्य॑ मिमीत ।
ऋ॒र्क्षव्ँ वा अ॑पश॒व्यम् अ॑प॒शुरे॒व भ॑वति ।
यङ् का॒मये॑त - “पशु॒मान्त्स्या॒द्” इति॑ लोम॒तस् तस्य॑ मिमीत ।[60]
ए॒तद्वै प॑शू॒नाँ रू॒पम् । रू॒पेणै॒वास्मै॑ प॒शूनव॑ रुन्धे । प॒शु॒माने॒व भ॑वति ।
मूलम्
यङ् का॒मये॑त -
“अप॒शुस् स्या॒दि"त्यृ॑क्ष॒तस् तस्य॑ मिमीत ।
ऋ॒र्क्षव्ँ वा अ॑पश॒व्यम् अ॑प॒शुरे॒व भ॑वति ।
यङ् का॒मये॑त - “पशु॒मान्त्स्या॒द्” इति॑ लोम॒तस् तस्य॑ मिमीत ।[60]
ए॒तद्वै प॑शू॒नाँ रू॒पम् । रू॒पेणै॒वास्मै॑ प॒शूनव॑ रुन्धे । प॒शु॒माने॒व भ॑वति ।
पद-पाठः
यम् । का॒मये॑त । अ॒प॒शुः । स्या॒त् । इति॑ । ऋ॒क्ष॒तः । तस्य॑ । मि॒मी॒त॒ ।
ऋ॒क्षम् । वै । अ॒प॒श॒व्यम् । अ॒प॒शुः । ए॒व । भ॒व॒ति॒ ।
यम् । का॒मये॑त । प॒शु॒मानिति॑ पशु-मान् । स्या॒त् । [60] इति॑ ।
लो॒म॒तः । तस्य॑ । मि॒मी॒त॒ ।
ए॒तत् । वै । प॒शू॒नाम् । रू॒पम् ।
रू॒पेण॑ । ए॒व । अ॒स्मै॒ । प॒शून् । अवेति॑ । रु॒न्द्धे॒ ।
प॒शु॒मानिति॑ पशु-मान् । ए॒व । भ॒व॒ति॒ ।
भट्टभास्कर-टीका
4यमित्यादि ॥ नास्य पशवस्सन्तीत्यपशुः । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । ऋक्षतः ऋक्षलोमान्ते चर्मणोवकाशे तस्य सोमं मिमीत । सीयुटो यकारस्य वलिलोपः । ऋक्षशब्दात् ‘आद्यादिभ्यस्तसिः’ इति तसिप्रत्ययः । अपशव्यं पशुभ्यो हितं न भवतीति ‘उगवादिभ्यो यत्’ ‘ययतोश्चातदर्थे’ इत्युत्तरपदान्तोदात्तत्वम् । पशुमान् बहुपशुः । ‘ह्रस्वनुड्भ्यां मतुप्’ इति मतुप उदात्तत्वम् । लोमतः लोम्नि । पूर्ववत्तसिः । एतद्वा इत्यादि । अस्मै यजमानाय पशूनवरुन्धे; ततः पशुमान् भवति यजमानः ॥
मूलम् (संयुक्तम्)
अ॒पामन्ते॑ क्रीणाति॒ सर॑समे॒वैन॑ङ्क्रीणात्य॒मात्यो॒ऽसीत्या॑हा॒मैवैन॑ङ्कुरुते शु॒क्रस्ते॒ ग्रह॒ इत्या॑ह शु॒क्रो ह्य॑स्य॒ ग्रहोऽन॒साच्छ॑ याति महि॒मान॑मे॒वास्याच्छ॑ या॒त्य्
विश्वास-प्रस्तुतिः
अ॒पामन्ते॑ क्रीणाति । सर॑सम् ए॒वैन॑ङ् क्रीणाति ।
“अ॒मात्यो॒ऽसी"त्या॑ह + अ॒मैवैन॑ङ् कुरुते ।
“शु॒क्रस्ते॒ ग्रह॒ “इत्या॑ह, शु॒क्रो ह्य॑स्य॒ ग्रहः ।
अन॒साच्छ॑ याति । म॒हि॒मान॑म् ए॒वास्याऽच्छ॑ या॒ति ।
मूलम्
अ॒पामन्ते॑ क्रीणाति । सर॑सम् ए॒वैन॑ङ् क्रीणाति ।
“अ॒मात्यो॒ऽसी"त्या॑ह + अ॒मैवैन॑ङ् कुरुते ।
“शु॒क्रस्ते॒ ग्रह॒ “इत्या॑ह, शु॒क्रो ह्य॑स्य॒ ग्रहः ।
अन॒साच्छ॑ याति । म॒हि॒मान॑म् ए॒वास्याऽच्छ॑ या॒ति ।
पद-पाठः
अ॒पाम् । अन्ते॑ । क्री॒णा॒ति॒ । सर॑स॒मिति॒ स-र॒स॒म् । ए॒व । ए॒न॒म् । क्री॒णा॒ति॒ ।
अ॒मात्यः॑ । अ॒सि॒ । इति॑ । आ॒ह॒ । अ॒मा । ए॒व । ए॒न॒म् । कु॒रु॒ते॒ ।
शु॒क्रः । ते॒ । ग्रहः॑ । इति॑ । आ॒ह॒ । शु॒क्रः । हि । अ॒स्य॒ । ग्रहः॑ ।
अन॑सा । अच्छ॑ । या॒ति॒ । म॒हि॒मान॑म् । ए॒व । अ॒स्य॒ । अच्छ॑ । या॒ति॒ ।
भट्टभास्कर-टीका
5अपामित्यादिविधिः ॥ अन्ते समीपे क्रीणाति, तथा सति सरसं सरसः क्रीतो भवति । ‘अमात्यः’ इत्यादिकः सोमाभिमर्शनमन्त्रैकदेशः । अमैव सहैव एनं सोमम् यजमानेन । अमा भवतीत्यमात्यः इति कृत्वा । शुक्र इति । शुक्रो हिरण्यं यस्मादस्य सोमस्य ग्रहः ग्रहणसाधनं तस्मादुच्यते शुक्रस्ते ग्रह इति ॥
मूलम् (संयुक्तम्)
अन॑सा [61]
अच्छ॑ याति॒ तस्मा॑दनोवा॒ह्यँ॑ स॒मे जीव॑नय्ँ॒यत्र॒ खलु॒ वा ए॒तँ शी॒र्ष्णा हर॑न्ति॒ तस्मा॑च्छीर्षहा॒र्य॑ङ्गि॒रौ जीव॑नम्
विश्वास-प्रस्तुतिः
अन॑साऽच्छ॑ याति । [61] तस्मा॑दनो वा॒ह्यँ॑ स॒मे जीव॑नम् ।
यत्र॒ खलु॒ वा ए॒तँ शी॒र्ष्णा हर॑न्ति ।
तस्मा॑च् छीर्षहा॒र्य॑ङ् गि॒रौ जीव॑नम् ।
मूलम्
अन॑साऽच्छ॑ याति । [61] तस्मा॑दनो वा॒ह्यँ॑ स॒मे जीव॑नम् ।
यत्र॒ खलु॒ वा ए॒तँ शी॒र्ष्णा हर॑न्ति ।
तस्मा॑च् छीर्षहा॒र्य॑ङ् गि॒रौ जीव॑नम् ।
पद-पाठः
अन॑सा । [61] अच्छ॑ । या॒ति॒ ।
तस्मा॑त् । अ॒नो॒वा॒ह्य॑मित्य॑नः-वा॒ह्य॑म् । स॒मे । जीव॑नम् ।
यत्र॑ । खलु॑ । वै । ए॒तम् । शी॒र्ष्णा । हर॑न्ति ।
तस्मा॑त् । शी॒र्ष॒हा॒र्य॑मिति॑ शीर्ष-हा॒र्य॑म् । गि॒रौ । जीव॑नम् ।
भट्टभास्कर-टीका
6अनसेत्यादिविधिः ॥ अनसा शकटेन सोममच्छ याति आभिमुख्येन याति महिमानं महत्त्वमेवास्य सोमस्याभिमुख्येन याति, महत्त्वस्याविक्रियमाणत्वात् । अनसेत्यादिद्वितीयविघानमर्थान्तरप्रतिपादनार्थम् । तस्मादित्यादि । अनसोह्यते इष्टदेशः प्राप्यते इत्यनोवाह्यम् । समे अविषमे जीवनं जीवनसाधनं धान्यादिकं यस्मादस्मिन् समे देशे यजेतेति विहिते अनसा वोढुं सोममच्छ याति, तस्मादनोवाह्यं समे धान्यादिकम् । अनेनैव न्यायेन, यत्र खल्वेतं सोमं विक्रेतारः क्रयस्थानप्राप्तेः पूर्वं शिरसा तत्र गिरौ पर्वतादौ गृहीत्वा विषमे स्थाने तस्मादेव कारणात् शीर्षहार्यं जीवनहेतुद्रव्यम् । कस्मात्? यस्मात्तत्र शिरसा हरन्ति सोमं विक्रेतार इति । यद्वा - व्यत्ययेन पञ्चम्यर्थे त्रल् । यतः खल्वेतं सोमं पर्वतादौ गृहीत्वा विक्रेतारश्शीर्ष्णा हरन्ति क्रयस्थानं प्रापयन्ति; तस्मात्पर्वतादौ धान्यादिकं शिरसा ह्रियते । यस्माच्च क्रयस्थानमानीतं अनसाऽच्छ याति, तस्मादनोवाह्यं समे धान्यादिकमिति ॥
मूलम् (संयुक्तम्)
अ॒भि त्यन्दे॒वँ स॑वि॒तार॒मित्यति॑च्छन्दस॒र्चा मि॑मी॒तेऽति॑च्छन्दा॒ वै सर्वा॑णि॒ छन्दाँ॑सि॒ सर्वे॑भिरे॒वैन॒ञ्छन्दो॑भिर्मिमीते॒ वर्ष्म॒ वा ए॒षा छन्द॑साय्ँ॒यदति॑च्छन्दा॒ यदति॑च्छन्दस॒र्चा मिमी॑ते॒ वर्ष्मै॒वैनँ॑ समा॒नाना॑ङ्करो॒त्य्
विश्वास-प्रस्तुतिः
“अ॒भि त्यन्दे॒वँ स॑वि॒तार॒मि"त्य् अति॑च्छन्दसा + ऋ॒चा मि॑मी॒ते ।
अति॑च्छन्दा॒ वै सर्वा॑णि॒ छन्दाँ॑सि ।
सर्वे॑भिरे॒वैन॒ञ् छन्दो॑भिर्मिमीते ।
वर्ष्म॒ वा ए॒षा छन्द॑साय्ँ॒ यदति॑च्छन्दाः ।
यदति॑च्छन्दस॒र्चा मिमी॑ते॒ , वर्ष्मै॒वैनँ॑ समा॒नाना॑ङ् करो॒ति ।
मूलम्
“अ॒भि त्यन्दे॒वँ स॑वि॒तार॒मि"त्य् अति॑च्छन्दसा + ऋ॒चा मि॑मी॒ते ।
अति॑च्छन्दा॒ वै सर्वा॑णि॒ छन्दाँ॑सि ।
सर्वे॑भिरे॒वैन॒ञ् छन्दो॑भिर्मिमीते ।
वर्ष्म॒ वा ए॒षा छन्द॑साय्ँ॒ यदति॑च्छन्दाः ।
यदति॑च्छन्दस॒र्चा मिमी॑ते॒ , वर्ष्मै॒वैनँ॑ समा॒नाना॑ङ् करो॒ति ।
पद-पाठः
अ॒भीति॑ । त्यम् । दे॒वम् । स॒वि॒तार॑म् । इति॑ । अति॑च्छन्द॒सेत्यति॑-छ॒न्द॒सा॒ । ऋ॒चा । मि॒मी॒ते॒ ।
अति॑च्छन्दा॒ इत्यति॑-छ॒न्दाः॒ । वै । सर्वा॑णि । छन्दाँ॑सि ।
सर्वे॑भिः । ए॒व । ए॒न॒म् । छन्दो॑भि॒रिति॒ छन्दः॑-भिः॒ । मि॒मी॒ते॒ ।
वर्ष्म॑ । वै । ए॒षा । छन्द॑साम् । यत् । अति॑च्छन्दा॒ इत्यति॑-छ॒न्दाः॒ ।
यत् । अति॑च्छन्द॒सेत्यति॑-छ॒न्द॒सा॒ । ऋ॒चा । मिमी॑ते । वर्ष्म॑ । ए॒व । ए॒न॒म् । स॒मा॒नाना॑म् । क॒रो॒ति॒ ।
भट्टभास्कर-टीका
7अभि त्यं देवमिति अतिच्छन्दसो विधिः ॥ जगत्या पराण्यतिच्छन्दांसि । तत्रेयमष्टिष्षोडशाक्षरपदा । सर्वाणि छन्दांसीति । सर्वेषां व्यापकत्वात् । सर्वेभिः । ‘बहुलं छन्दसि’ इत्यैसभावः । वर्ष्मेत्युच्छ्रयः, समानानामेनं यजमानमुच्छ्रितं करोति ॥
मूलम् (संयुक्तम्)
एक॑यैकयो॒त्सर्ग॑म् [62] मि॒मी॒तेऽया॑तयाम्नियायातयाम्नियै॒वैन॑म्मिमीते॒ तस्मा॒न्नाना॑वीर्या अ॒ङ्गुल॑य॒स्सर्वा॑स्वङ्गु॒ष्ठमुप॒ नि गृ॑ह्णाति॒ तस्मा॑त्स॒माव॑द्वीर्यो॒ऽन्याभि॑र॒ङ्गुलि॑भि॒स्तस्मा॒त्सर्वा॒ अनु॒ सञ्च॑रति॒ यत्स॒ह सर्वा॑भि॒र्मिमी॑त॒ सँश्लि॑ष्टा अ॒ङ्गुल॑यो जायेर॒न्नेक॑यैकयो॒त्सर्ग॑म्मिमीते॒ तस्मा॒द्विभ॑क्ता जायन्ते॒
विश्वास-प्रस्तुतिः
एक॑यैकयो॒त्सर्ग॑म् मिमीते ।[62]
अया॑तयाम्निया ऽयातयाम्निया + ए॒वैन॑म् मिमीते ।
तस्मा॒न् नाना॑वीर्या अ॒ङ्गुल॑यः । सर्वा॑स्वङ्गु॒ष्ठमुप॒ नि गृ॑ह्णाति ।
तस्मा॑त्स॒माव॑द्वीर्यो॒ऽन्याभि॑र् अ॒ङ्गुलि॑भिः ।
तस्मा॒त्सर्वा॒ अनु॒ सञ्च॑रति ।
यत्स॒ह सर्वा॑भि॒र् मिमी॑त॒ सँश्लि॑ष्टा अ॒ङ्गुल॑यो जायेरन् ।
एक॑यैकयो॒त्सर्ग॑म् मिमीते । तस्मा॒द् विभ॑क्ता जायन्ते ।
मूलम्
एक॑यैकयो॒त्सर्ग॑म् मिमीते ।[62]
अया॑तयाम्निया ऽयातयाम्निया + ए॒वैन॑म् मिमीते ।
तस्मा॒न् नाना॑वीर्या अ॒ङ्गुल॑यः । सर्वा॑स्वङ्गु॒ष्ठमुप॒ नि गृ॑ह्णाति ।
तस्मा॑त्स॒माव॑द्वीर्यो॒ऽन्याभि॑र् अ॒ङ्गुलि॑भिः ।
तस्मा॒त्सर्वा॒ अनु॒ सञ्च॑रति ।
यत्स॒ह सर्वा॑भि॒र् मिमी॑त॒ सँश्लि॑ष्टा अ॒ङ्गुल॑यो जायेरन् ।
एक॑यैकयो॒त्सर्ग॑म् मिमीते । तस्मा॒द् विभ॑क्ता जायन्ते ।
पद-पाठः
एक॑यैक॒येत्येक॑या-ए॒क॒या॒ । उ॒त्सर्ग॒मित्यु॑त्-सर्ग॑म् । [62]
मि॒मी॒ते॒ ।
अया॑तयाम्नियायातयाम्नि॒येत्यया॑तयाम्निया-अ॒या॒त॒या॒म्नि॒या॒ । ए॒व । ए॒न॒म् । मि॒मी॒ते॒ ।
तस्मा॑त् । नाना॑वीर्या॒ इति॒ नाना॑-वी॒र्याः॒ । अ॒ङ्गुल॑यः ।
सर्वा॑सु । अ॒ङ्गु॒ष्ठम् । उप॑ । नीति॑ । गृ॒ह्णा॒ति॒ ।
तस्मा॑त् । स॒माव॑द्वीर्य॒ इति॑ स॒माव॑त्-वी॒र्यः॒ । अ॒न्याभिः॑ । अ॒ङ्गुलि॑भि॒रित्य॒ङ्गुलि॑-भिः॒ ।
तस्मा॑त् । सर्वाः॑ । अनु॑ । समिति॑ । च॒र॒ति॒ ।
यत् । स॒ह । सर्वा॑भिः । मिमी॑त । सँश्लि॑ष्टा॒ इति॒ सम्-श्लि॒ष्टाः॒ । अ॒ङ्गुल॑यः । जा॒ये॒र॒न् ।
एक॑यैक॒येत्येक॑या-ए॒क॒या॒ । उ॒त्सर्ग॒मित्यु॑त्-सर्ग॑म् । मि॒मी॒ते॒ ।
तस्मा॑त् । विभ॑क्ता॒ इति॒ वि-भ॒क्ताः॒ । जा॒य॒न्ते॒ ।
भट्टभास्कर-टीका
8एकयेति विधिः ॥ एकया अङ्गुळ्या उत्सृज्योत्सृज्य मिमीते । ‘नित्यवीप्सयोः’ इति द्विर्वचनम्, ‘अनुदात्तं च’ इति परस्यानुदात्तत्वम् । एकयैकयेति एकत्वविधिः, उत्सर्गमित्यङ्गुळ्युत्सर्गविधिः । आभीक्ष्ण्ये छान्दसो णमुल्, तेनैव गतत्वादाभीक्ष्ण्यस्य द्विर्वचनं न क्रियते । एवमयातयाम्न्या अगतसारया अङ्गुल्या सोमो मितो भवति । पूर्ववद्द्विर्वचनादि । यद्यनुत्सृज्य मिमीते पुनरुक्ता गतसारैव स्यात् पूर्वेण मानेन । तस्मात् नानावीर्याः पृथग्वीर्या अङ्गुलयः; पृथङ्मानसाधनत्वात् । सर्वास्वङ्गुळीषु अङ्गुष्ठमुपनिगृह्णाति समीपे नियमेन प्रापयति । तस्मादङ्गुष्ठोऽन्याभिरङ्गुलीभिः समावद्वीर्यस्तुल्यवीर्यः । समादावतुप्प्रत्ययः । तस्मात्सर्वाभिस्तुल्यवीर्यत्वात् सर्वा अङ्गलीः अनुसंचरति तत्कार्यकरणायानुक्रमेण सञ्चरति । अथ यदि सर्वाभिस्सहभूताभिः लौकिककार्यवत्तस्य मानं कुर्यात् संश्लिष्टाः परस्परं लग्नाः अङ्गुलयो जायेरन् प्रजानाम् । पूर्ववद्गतेः प्रकृतिस्वरत्वम् । तस्मात् - एकयेत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
पञ्च॒ कृत्वो॒ यजु॑षा मिमीते॒ पञ्चा॑क्षरा प॒ङ्क्तिᳶ पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धे॒
विश्वास-प्रस्तुतिः
पञ्च॒ कृत्वो॒ यजु॑षा मिमीते ।
पञ्चा॑क्षरा प॒ङ्क्तिᳶ ।
पाङ्क्तो॑ य॒ज्ञः ।
य॒ज्ञमे॒वाव॑ रुन्धे ।
मूलम्
पञ्च॒ कृत्वो॒ यजु॑षा मिमीते ।
पञ्चा॑क्षरा प॒ङ्क्तिᳶ ।
पाङ्क्तो॑ य॒ज्ञः ।
य॒ज्ञमे॒वाव॑ रुन्धे ।
पद-पाठः
पञ्च॑ । कृत्वः॑ । यजु॑षा । मि॒मी॒ते॒ ।
पञ्चा॑क्ष॒रेति॒ पञ्च॑-अ॒क्ष॒रा॒ । प॒ङ्क्तिः ।
पाङ्क्तः॑ । य॒ज्ञः ।
य॒ज्ञम् । ए॒व । अवेति॑ । रु॒न्द्धे॒ ।
भट्टभास्कर-टीका
9पञ्च कृत्व इत्यादिविधिः ॥ क्रियाभ्यावृत्तिगणने शब्दान्तरमेवेदमाद्युदात्तं न तु प्रत्ययः । यजुषा ‘अभि त्यम्’ इत्यादिना । अनवसानत्वाद्यजुष्ट्वम् । पञ्चत्वसंख्यान्वयात्पाङ्क्तो यज्ञः अवरुद्धो भवति । पङ्क्ति शब्दे उत्सादित्वादञि ङित्त्वादाद्युदात्तत्वम् ॥
मूलम् (संयुक्तम्)
पञ्च॒ कृत्व॑स्तू॒ष्णीम् [63]
दश॒ सम्प॑द्यन्ते॒ दशा॑क्षरा वि॒राडन्नव्ँ॑वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्द्धे॒ यद्यजु॑षा॒ मिमी॑ते भू॒तमे॒वाव॑ रुन्द्धे॒ यत्तू॒ष्णीम्भ॑वि॒ष्यद्
विश्वास-प्रस्तुतिः
पञ्च॒ कृत्व॑स् तू॒ष्णीम् दश॒ सम्प॑द्यन्ते ।[63]
दशा॑क्षरा वि॒राट् ।
अन्नव्ँ॑ वि॒राट् ।
वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे ।
मूलम्
पञ्च॒ कृत्व॑स् तू॒ष्णीम् दश॒ सम्प॑द्यन्ते ।[63]
दशा॑क्षरा वि॒राट् ।
अन्नव्ँ॑ वि॒राट् ।
वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे ।
पद-पाठः
पञ्च॑ । कृत्वः॑ । तू॒ष्णीम् । [63] दश॑ । समिति॑ । प॒द्य॒न्ते॒ । दशा॑क्ष॒रेति॒ दश॑-अ॒क्ष॒रा॒ । वि॒राडिति॑ वि-राट् । अन्न॑म् । वि॒राडिति॑ वि-राट् । वि॒राजेति॑ वि-राजा॑ । ए॒व । अ॒न्नाद्य॒मित्य॑न्न-अद्य॑म् । अवेति॑ । रु॒न्द्धे॒ ।
भट्टभास्कर-टीका
10पञ्च कृत्वस्तूष्णीमिति ॥ मिमीते इत्येव । दश दशमुष्टयस्संपद्यन्ते । ततश्च दशसंख्यान्वयात् दशाक्षरा विराट्परिगृहीता भवति । सा च छन्दोलक्षणा विराट्परिगृहीता अन्नात्मिकामपि विराजं प्रतिलम्भयतीति । तथा अन्नाद्यमवरुन्धे । यद्वा - अन्नं विराट् अन्नहेतुर्विराडित्यर्थः । तस्माद्विराजा अन्नाद्यमवरुन्धे । विविधं राजतीति विराट् । ‘सत्सूद्विष’ इति क्विप्, व्रश्चादिना षत्वम्, कृदुत्तरपदप्रकृतिस्वरत्वम् । अन्नस्यादनमन्नाद्यम्, अन्नादनसामर्थ्यम् । छान्दसो भावे क्यप्, कृदुत्तरपदप्रकृतिस्वरत्वम् ।
विश्वास-प्रस्तुतिः
यद् यजु॑षा॒ मिमी॑ते , भू॒तम् ए॒वाव॑ रुन्धे ।
यत् तू॒ष्णीम् भ॑वि॒ष्यत् ।
मूलम्
यद् यजु॑षा॒ मिमी॑ते , भू॒तम् ए॒वाव॑ रुन्धे ।
यत् तू॒ष्णीम् भ॑वि॒ष्यत् ।
पद-पाठः
यत् । यजु॑षा । मिमी॑ते । भू॒तम् । ए॒व । अवेति॑ । रु॒न्द्धे॒ ।
यत् । तू॒ष्णीम् । भ॒वि॒ष्यत् ।
भट्टभास्कर-टीका
यदित्यादि । यस्माद्यजुषा मिमीते तस्माद्भूतमुत्पन्नमवरुन्धे व्यपदेश्यम् । यस्मात्तूष्णीं मिमीते इत्येतस्माद्भविष्यदवरुन्धे अव्यपदेश्यम्, उत्पत्स्यमानमव्यपदेश्यम् ॥
मूलम् (संयुक्तम्)
यद्वै तावा॑ने॒व सोम॒स्स्याद्याव॑न्त॒म्मिमी॑ते॒ यज॑मानस्यै॒व स्या॒न्नापि॑ सद॒स्या॑नाम्प्र॒जाभ्य॒स्त्वेत्युप॒ समू॑हति सद॒स्या॑ने॒वान्वाभ॑जति॒
विश्वास-प्रस्तुतिः
यद्वै तावा॑ने॒व सोम॒स्स्याद् याव॑न्त॒म् मिमी॑ते॒ ,
यज॑मानस्यै॒व स्या॒न् नापि॑ सद॒स्या॑नाम् ।
प्र॒जाभ्य॑स्त्वा + इत्युप॒ समू॑हति ।
स॒द॒स्या॑न् ए॒वान्वाभ॑जति ।
मूलम्
यद्वै तावा॑ने॒व सोम॒स्स्याद् याव॑न्त॒म् मिमी॑ते॒ ,
यज॑मानस्यै॒व स्या॒न् नापि॑ सद॒स्या॑नाम् ।
प्र॒जाभ्य॑स्त्वा + इत्युप॒ समू॑हति ।
स॒द॒स्या॑न् ए॒वान्वाभ॑जति ।
पद-पाठः
यत् । वै । तावा॑न् । ए॒व । सोमः॑ । स्यात् । याव॑न्तम् । मिमी॑ते । यज॑मानस्य । ए॒व । स्या॒त् । न । अपीति॑ । स॒द॒स्या॑नाम् ।
प्र॒जाभ्य॒ इति॑ प्र-जाभ्यः॑ । त्वा॒ । इति॑ । उप॑ । समिति॑ । ऊ॒ह॒ति॒ ।
स॒द॒स्या॑न् । ए॒व । अ॒न्वाभ॑ज॒तीत्य॑नु-आभ॑जति ।
भट्टभास्कर-टीका
11अथोपसमूहनं विधास्यन् आह - यद्वा इति ॥ यदि तावन्मात्र एव सोमस्स्यात्, यावन्तं दशमुष्टिमात्रं मिमीते । ‘यत्तदेतेभ्यः’ इति वतुप्, ‘आ सर्वनाम्नः’ इत्यात्वम् । तथा सति यजमानस्यैव स्यात्, न सदस्यानामपि । तस्मात् ‘प्रजाभ्यस्त्वा’ इत्युपसमूहति तमतिरिक्तं चैकराशीकरोतीति विधिः । सदस्यानन्वाभजाति तानप्यत्रान्वाशिनः करोति ॥
मूलम् (संयुक्तम्)
वास॒सोप॑ नह्यति सर्वदेव॒त्यव्ँ॑ वै [64]
वास॒स्सर्वा॑भिरे॒वैन॑न्दे॒वता॑भि॒स्सम॑र्धयति
विश्वास-प्रस्तुतिः
वास॒सोप॑ नह्यति । स॒र्व॒दे॒व॒त्यव्ँ॑ वै वासः॑ ।[64]
सर्वा॑भिर् ए॒वैन॑न् दे॒वता॑भि॒स् सम॑र्धयति ।
मूलम्
वास॒सोप॑ नह्यति । स॒र्व॒दे॒व॒त्यव्ँ॑ वै वासः॑ ।[64]
सर्वा॑भिर् ए॒वैन॑न् दे॒वता॑भि॒स् सम॑र्धयति ।
पद-पाठः
वास॑सा । उपेति॑ । न॒ह्य॒ति॒ ।
स॒र्व॒दे॒व॒त्य॑मिति॑ सर्व-दे॒व॒त्य॑म् । वै । [64] वासः॑ ।
सर्वा॑भिः । ए॒व । ए॒न॒म् । दे॒वता॑भिः । समिति॑ । अ॒र्ध॒य॒ति॒ ।
भट्टभास्कर-टीका
12वाससोपनह्यति बध्नातीति विधिः ॥ सर्वदेवत्यमित्यादि विधिः । ‘अग्नेस्तूषाधानम्’ इत्यत्र सर्वदेवत्यत्वमस्योक्तम् । सर्वाभिर्देवताभिरेनं समृद्धं करोति ॥
मूलम् (संयुक्तम्)
प॒शवो॒ वै सोम॑ᳶ प्रा॒णाय॒ त्वेत्युप॑ नह्यति प्रा॒णमे॒व प॒शुषु॑ दधाति व्या॒नाय॒ त्वेत्यनु॑ शृन्थति व्या॒नमे॒व प॒शुषु॑ दधाति॒ तस्मा॑त्स्व॒पन्त॑म्प्रा॒णा न ज॑हति ॥ [65]
विश्वास-प्रस्तुतिः
प॒शवो॒ वै सोमः॑ ।
प्रा॒णाय॒ त्वेत्युप॑ नह्यति ।
प्रा॒णमे॒व प॒शुषु॑ दधाति ।
व्या॒नाय॒ त्वेत्यनु॑ शृन्थति ।
व्या॒नमे॒व प॒शुषु॑ दधाति ।
तस्मा॑त् स्व॒पन्त॑म् प्रा॒णा न ज॑हति ॥ [65]
मूलम्
प॒शवो॒ वै सोमः॑ ।
प्रा॒णाय॒ त्वेत्युप॑ नह्यति ।
प्रा॒णमे॒व प॒शुषु॑ दधाति ।
व्या॒नाय॒ त्वेत्यनु॑ शृन्थति ।
व्या॒नमे॒व प॒शुषु॑ दधाति ।
तस्मा॑त् स्व॒पन्त॑म् प्रा॒णा न ज॑हति ॥ [65]
पद-पाठः
प॒शवः॑ । वै । सोमः॑ ।
प्रा॒णायेति॑ प्र-अ॒नाय॑ । त्वा॒ । इति॑ । उपेति॑ । न॒ह्य॒ति॒ ।
प्रा॒णमिति॑ प्र-अ॒नम् । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ ।
व्या॒नायेति॑ वि-अ॒नाय॑ । त्वा॒ । इति॑ । अन्विति॑ । शृ॒न्थ॒ति॒ ।
व्या॒नमिति॑ वि-अ॒नम् । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ ।
तस्मा॑त् । स्व॒पन्त॑म् । प्रा॒णा इति॑ प्र-अ॒नाः । न । ज॒ह॒ति॒ ॥ [65]
भट्टभास्कर-टीका
13पशवो वा इति ॥ पशूनां कारणत्वात् । प्राणाय त्वेति । वाससोपनह्यतीति विधिः । प्राणः पशुष्वेव स्थापितो भवति । व्यानाय त्वेत्यनुशृन्थति श्लथयति बन्धमिति विधिः । श्रथि शैथिल्ये, छान्दसं संप्रसारणम्, शृन्थिर्वा द्रष्टव्यः, सर्वथा व्यत्ययेन परस्मैपदम् । व्यानमेव पशुषु दधाति । ननु श्लथने क्रियमाणे कथं व्यानस्य स्थापनं भवति? प्रत्युत च्युतिर्व्यानस्य स्यात् । अयं भावः - मध्यमा खल्वियमवस्थाऽनेन विधीयते । न दृढं बध्नाति, न च सर्वथा मुञ्चति, किन्तु बद्धाबद्धं स्थापयति मध्यमश्च व्यानः प्राणापानयोः । तस्मात् व्यानं पशुषु दधातीत्युक्तम् । तस्मात्स्वपन्तं प्राणा न जहति न त्यजन्ति । यदि हि दृढं बध्नीयात् निरुच्छ्वासः प्राणी म्रियते, सर्वात्मना मोक्षे निर्गच्छेयुरेव सर्वात्मना प्राणाः । बद्धस्थानीयश्चायं सुप्त इति स्वपन्तमित्युक्तम् ॥
इति षष्ठे प्रथमे नवमोनुवाकः ॥