०३ कृष्णाजिने वस्त्रेण मेखलया च दीक्षाविधानम्

सोमऋषिः

मूलम् (संयुक्तम्)

ऋ॒क्सा॒मे वै दे॒वेभ्यो॑ य॒ज्ञायाति॑ष्ठमाने॒ कृष्णो॑ रू॒पङ्कृ॒त्वाप॒क्रम्या॑तिष्ठता॒न्ते॑ऽमन्यन्त॒ यव्ँवा इ॒मे उ॑पाव॒र्त्स्यत॒स्स इ॒दम्भ॑विष्य॒तीति॒ ते उपा॑मन्त्रयन्त॒ ते अ॑होरा॒त्रयो॑र्महि॒मान॑मपनि॒धाय॑ दे॒वानु॒पाव॑र्तेताम्

विश्वास-प्रस्तुतिः

ऋ॒क्सा॒मे वै दे॒वेभ्यो॑ य॒ज्ञायाति॑ष्ठमाने॒ कृष्णो॑ रू॒पङ् कृ॒त्वाऽप॒क्रम्या॑तिष्ठताम् ।
ते॑ऽमन्यन्त॒ - यव्ँ वा इ॒मे उ॑पाव॒र्त्स्यत॒स् स इ॒दम् भ॑विष्य॒तीति॒ ते उपा॑मन्त्रयन्त ।
ते अ॑होरा॒त्रयो॑र् महि॒मान॑म् अपनि॒धाय॑ दे॒वानु॒पाव॑र्तेताम् ।

मूलम्

ऋ॒क्सा॒मे वै दे॒वेभ्यो॑ य॒ज्ञायाति॑ष्ठमाने॒ कृष्णो॑ रू॒पङ् कृ॒त्वाऽप॒क्रम्या॑तिष्ठताम् ।
ते॑ऽमन्यन्त॒ - यव्ँ वा इ॒मे उ॑पाव॒र्त्स्यत॒स् स इ॒दम् भ॑विष्य॒तीति॒ ते उपा॑मन्त्रयन्त ।
ते अ॑होरा॒त्रयो॑र् महि॒मान॑म् अपनि॒धाय॑ दे॒वानु॒पाव॑र्तेताम् ।

पद-पाठः

ऋ॒क्सा॒मे इत्यृ॑क्-सा॒मे । वै । दे॒वेभ्यः॑ । य॒ज्ञाय॑ । अति॑ष्ठमाने॒ इति॑ । कृष्णः॑ । रू॒पम् । कृ॒त्वा । अ॒प॒क्रम्येत्य॑प-क्रम्य॑ । अ॒ति॒ष्ठ॒ता॒म् ।

ते । अ॒म॒न्य॒न्त॒ ।

यम् । वै । इ॒मे इति॑ । उ॒पा॒व॒र्त्स्यत॒ इत्यु॑प-आ॒व॒र्त्स्यतः॑ । सः । इ॒दम् । भ॒वि॒ष्य॒ति॒ । इति॑ । ते इति॑ । उपेति॑ । अ॒म॒न्त्र॒य॒न्त॒ ।

ते इति॑ । अ॒हो॒रा॒त्रयो॒रित्य॑हः-रा॒त्रयोः॑ । म॒हि॒मान॑म् । अ॒प॒नि॒धायेत्य॑प-नि॒धाय॑ । दे॒वान् । उ॒पाव॑र्तेता॒मित्यु॑प-आव॑र्तेताम् ।

भट्टभास्कर-टीका

1कृष्णाजिनेन दीक्षां विधास्यन् तद्गुणानाह - ऋक्सामे इति ॥ ऋक्च साम च ऋक्सामे, अचतुरादिसूत्रे अच्प्रत्ययान्तो निपात्यते । ते यज्ञार्थं देवेभ्यः अतिष्ठमाने अप्रकाशमाने अप्रकाशनहेतोः कृष्णमृगो भूत्वा तदीयं च रूपं कृत्वा देवसकाशादपक्रम्यातिष्ठतां कुत्रापि स्थिते । ‘श्लाघह्नुञ्स्थाशपाम्’ इति देवानां संप्रदानत्वम् । तिष्ठतेर्हेतौ शानच्, ‘प्रकाशनस्थेयाख्ययोश्च’ इत्यात्मनेपदम् । ते देवा अमन्यन्त यमिमे ऋक्सामे उपावर्त्स्यतः उपगन्तुमाभिमुख्येन वत्स्यतः स इदं विश्वं यागद्वारेण भविष्यति विश्वाधिपत्ये स्थास्यतीत्यर्थः । यद्वा - इदमिति क्रियाविशेषणम् । इदमत्र भविष्यति वर्धिष्यते एषा सर्वा विभूतिस्तस्येति यावत् । यद्वा - इदं विश्वं प्राप्स्यति, भू प्राप्तौ, आत्मनेपदी, चुरादिराधृषीयः, व्यत्ययेन परस्मैपदम् । ‘वृद्भ्यस्स्यसनोः’ इति वृतेः परस्मैपदम्, ‘न वृद्भ्यश्चतुर्भ्यः’ इतीट्प्रतिषेधः । एवमीदृशोरनयोर्महिमा । इमे च अस्मानुपहायापक्रान्ते, तत्किमिति तूष्णीमास्महे इतीत्थं संजातमतयो देवास्ते उपामन्त्रयन्त ते ऋक्सामे रहस्युपच्छन्दितवन्तः अस्मानुपावर्तेथामिति । अथ ते ऋक्सामे अहोरात्रयोर्महिमानं महनीयं गुणं शुक्लकृष्णरूपं अपनिधायापादाय आत्मनि निधाय कृष्णमृगात्मनि रूपे स्थापयित्वा । यद्वा - उपार्थे अपशब्दः, उपनिधाय तेन रूपेण देवानुपावर्तेतामुपागच्छताम् । महिमानमिति महच्छब्दादिमानिच्, महतेर्वा औणादिक इमनिच् ॥

मूलम् (संयुक्तम्)

ए॒ष वा ऋ॒चो वर्णो॒ यच्छु॒क्लङ्कृ॑ष्णाजि॒नस्यै॒ष साम्नो॒ यत्कृ॒ष्णम्

विश्वास-प्रस्तुतिः

ए॒ष वा ऋ॒चो वर्णो॒ यच् छु॒क्लङ् कृ॑ष्णाजि॒नस्य । ए॒ष साम्नो॒ यत् कृ॒ष्णम् ।

मूलम्

ए॒ष वा ऋ॒चो वर्णो॒ यच् छु॒क्लङ् कृ॑ष्णाजि॒नस्य । ए॒ष साम्नो॒ यत् कृ॒ष्णम् ।

पद-पाठः

ए॒षः । वै । ऋ॒चः । वर्णः॑ । यत् । शु॒क्लम् । कृ॒ष्णा॒जि॒नस्येति॑ कृष्ण-अ॒जि॒नस्य॑ ।

ए॒षः । साम्नः॑ । यत् । कृ॒ष्णम् ।

भट्टभास्कर-टीका

2कः पुनस्स महिमा? योहोरात्राभ्यां ऋक्सामयोस्सक्रान्तः सोद्यत्वे कृष्णमृगस्याजिने दृश्यते । तत्रापि को वा ऋचो महिमा, को वा साम्न इत्याह - एष वा इति ॥ एष वा ऋचो वर्णः अह्नः ऋचि संक्रान्तः । कः? यच्छुक्लं रूपं कृष्णाजिनस्य सम्बन्धि । एष साम्नो वर्णः रात्रेस्साम्नि संक्रान्तः, यत्कृष्णं रूपं कृष्णाजिनस्य ॥

मूलम् (संयुक्तम्)

ऋ॑क्सा॒मयो॒श्शिल्पे॑ स्थ॒ इत्या॑हर्क्सा॒मे ए॒वाव॑ रुन्ध

विश्वास-प्रस्तुतिः

ऋ॒क्सा॒मयो॒श् शिल्पे॑ स्थ॒ इत्या॑ह ।
ऋ॒क्सा॒मे ए॒वाव॑ रुन्धे ।

मूलम्

ऋ॒क्सा॒मयो॒श् शिल्पे॑ स्थ॒ इत्या॑ह ।
ऋ॒क्सा॒मे ए॒वाव॑ रुन्धे ।

पद-पाठः

ऋ॒क्सा॒मयो॒रित्यृ॑क्-सा॒मयोः॑ । शिल्पे॒ इति॑ । स्थः॒ । इति॑ । आ॒ह॒ ।
ऋ॒क्सा॒मे इत्यृ॑क्-सा॒मे । ए॒व । अवेति॑ । रु॒न्द्धे॒ ।

भट्टभास्कर-टीका

3अधुना अमुमेवार्थं मन्त्रार्थेऽपि प्रदर्शयति - ऋक्सामयोरिति ॥ शिल्पं कौशलं, ऋक्सामयोः कौशलोपार्जिते स्थ इति कृष्णाजिनस्य शुक्लकृष्णे राजी उच्येते । तस्मादेतदभिधानं ऋक्सामयोराप्त्यै भवति ॥

मूलम् (संयुक्तम्)

ए॒षः [17] वा अह्नो॒ वर्णो॒ यच्छु॒क्लङ्कृ॑ष्णाजि॒नस्यै॒ष रात्रि॑या॒ यत्कृ॒ष्णय्ँयदे॒वैन॑यो॒स्तत्र॒ न्य॑क्त॒न्तदे॒वाव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

ए॒षः वा अह्नो॒ वर्णो॒ यच्छु॒क्लङ् , कृ॑ष्णाजि॒नस्यै॒ष रात्रि॑या॒ यत् कृ॒ष्णय्ँ , यदे॒वैन॑यो॒स्तत्र॒ न्य॑क्त॒न् तदे॒वाव॑ रुन्धे ।

मूलम्

ए॒षः वा अह्नो॒ वर्णो॒ यच्छु॒क्लङ् , कृ॑ष्णाजि॒नस्यै॒ष रात्रि॑या॒ यत् कृ॒ष्णय्ँ , यदे॒वैन॑यो॒स्तत्र॒ न्य॑क्त॒न् तदे॒वाव॑ रुन्धे ।

पद-पाठः

ए॒षः । [17] वै । अह्नः॑ । वर्णः॑ । यत् । शु॒क्लम् । कृ॒ष्णा॒जि॒नस्येति॑ कृष्ण-अ॒जि॒नस्य॑ ।
ए॒षः । रात्रि॑याः । यत् । कृ॒ष्णम् ।
यत् । ए॒व । ए॒न॒योः॒ । तत्र॑ । न्य॑क्त॒मिति॒ नि-अ॒क्त॒म् । तत् । ए॒व । अवेति॑ । रु॒न्द्धे॒ ।

भट्टभास्कर-टीका

4कतरः पुनस्तर्ह्यनयोरह्नो वर्णः, कतरो रात्रेरित्याह - एष वा इति ॥ यद्वा - पूर्वमृक्सामगुणत्वेन कृष्णाजिनस्य शुक्लकृष्णे स्तुते । अधुना अहोरात्रगुणत्वेन स्तोतुमाह - एष वा इति ॥ मन्त्रे ऋक्सामयोश्शिल्पे इति अहोरात्रयोश्शुक्लकृष्णे ऋक्सामसंक्रान्तरूपतयोच्येते; तथैवाह - यदेवैनयोरहोरात्रयोस्सम्बन्धि तत्र ऋक्सामयोः न्यक्तं तदेवावरुन्धे अव्यवधानेनैवाहरात्रगुणौ प्राप्नोति, न पुनः ऋक्सामद्वारेण । यं महिमानमृक्सामे प्राप्नुतां, तं स्वयमहोरात्रसकाशादेव प्राप्नोतीत्यर्थः । पूर्ववद्गतेरुदात्तत्वम्, ततः परस्य च स्वरितत्वम् ॥

मूलम् (संयुक्तम्)

कृ॒ष्णा॒जि॒नेन॑ दीक्षयति॒

विश्वास-प्रस्तुतिः

कृ॒ष्णा॒जि॒नेन॑ दीक्षयति ।

मूलम्

कृ॒ष्णा॒जि॒नेन॑ दीक्षयति ।

पद-पाठः

कृ॒ष्णा॒जि॒नेनेति॑ कृष्ण-अ॒जि॒नेन॑ । दी॒क्ष॒य॒ति॒ ।

भट्टभास्कर-टीका

5एवं स्तुत्वा इदानीं विधत्ते - कृष्णाजिनेन दीक्षयतीति ॥ दीक्षितं संयोजयतीत्यर्थः ॥

मूलम् (संयुक्तम्)

ब्रह्म॑णो॒ वा ए॒तद्रू॒पय्ँयत्कृ॑ष्णाजि॒नम्ब्रह्म॑णै॒वैन॑न्दीक्षयती॒मान्धियँ॒ शिक्ष॑माणस्य दे॒वेत्या॑ह यथाय॒जुरे॒वैतद्गर्भो॒ वा ए॒ष यद्दी॑क्षि॒त उल्बव्ँ॒वास॒ᳶ प्रोर्णु॑ते॒ तस्मा॑त् [18]
गर्भा॒ᳶ प्रावृ॑ता जायन्ते॒ न पु॒रा सोम॑स्य क्र॒यादपो॑र्ण्वीत॒ यत्पु॒रा सोम॑स्य क्र॒याद॑पोर्ण्वी॒त गर्भाः॑ प्र॒जाना॑म्परा॒पातु॑कास्स्युᳵ क्री॒ते सोमेऽपो॑र्णुते॒ जाय॑त ए॒व तदथो॒ यथा॒ वसी॑याँसम्प्रत्यपोर्णु॒ते ता॒दृगे॒व तद्

विश्वास-प्रस्तुतिः

ब्रह्म॑णो॒ वा ए॒तद्रू॒पय्ँ यत्कृ॑ष्णाजि॒नम् । ब्रह्म॑णै॒वैन॑न् दीक्षयति ।

मूलम्

ब्रह्म॑णो॒ वा ए॒तद्रू॒पय्ँ यत्कृ॑ष्णाजि॒नम् । ब्रह्म॑णै॒वैन॑न् दीक्षयति ।

पद-पाठः

ब्रह्म॑णः । वै । ए॒तत् । रू॒पम् । यत् । कृ॒ष्णा॒जि॒नमिति॑ कृष्ण-अ॒जि॒नम् ।
ब्रह्म॑णा । ए॒व । ए॒न॒म् । दी॒क्ष॒य॒ति॒ ।

भट्टभास्कर-टीका

6इदानीं स्तुत्यन्तरमाह - ब्रह्मण इति ॥ ब्रह्मणः ऋक्सामयोरित्यस्य मन्त्रस्य एतद्रूपं यत्कृष्णाजिनं नाम । केचिदाहुः - ब्रह्मणः परस्य वस्तुन एतद्रूपम् । व्यामिश्राकारत्वसाधर्म्यादेवमुक्तम्; यथा ‘पुरुषं कृष्णपिङ्गलम्’ इति ।

विश्वास-प्रस्तुतिः

इ॒मान् धियँ॒ शिक्ष॑माणस्य दे॒वेत्या॑ह यथाय॒जुर् ए॒वैतत् ।
गर्भो॒ वा ए॒ष यद् दी॑क्षि॒त उल्बव्ँ॒ वास॒ᳶ प्रोर्णु॑ते॒ , तस्मा॑त् गर्भा॒ᳶ प्रावृ॑ता जायन्ते ।[18]
न पु॒रा सोम॑स्य क्र॒यादपो॑र्ण्वीत॒ , यत्पु॒रा सोम॑स्य क्र॒याद॑पोर्ण्वी॒त गर्भाः॑ प्र॒जाना॑म् परा॒पातु॑कास् स्युः ।

मूलम्

इ॒मान् धियँ॒ शिक्ष॑माणस्य दे॒वेत्या॑ह यथाय॒जुर् ए॒वैतत् ।

गर्भो॒ वा ए॒ष यद् दी॑क्षि॒त उल्बव्ँ॒ वास॒ᳶ प्रोर्णु॑ते॒ ,
तस्मा॑त् गर्भा॒ᳶ प्रावृ॑ता जायन्ते ।[18]

न पु॒रा सोम॑स्य क्र॒यादपो॑र्ण्वीत॒ , यत्पु॒रा सोम॑स्य क्र॒याद॑पोर्ण्वी॒त गर्भाः॑ प्र॒जाना॑म् परा॒पातु॑कास् स्युः ।

पद-पाठः

इ॒माम् । धिय॑म् । शिक्ष॑माणस्य । दे॒व॒ । इति॑ । आ॒ह॒ । य॒था॒य॒जुरिति॑ यथा-य॒जुः । ए॒व । ए॒तत् ।

गर्भः॑ । वै । ए॒षः । यत् । दी॒क्षि॒तः । उल्ब॑म् । वासः॑ । प्रेति॑ । ऊ॒र्णु॒ते॒ ।
तस्मा॑त् । [18] गर्भाः॑ । प्रावृ॑ताः । जा॒य॒न्ते॒ ।

न । पु॒रा । सोम॑स्य । क्र॒यात् । अपेति॑ । ऊ॒र्ण्वी॒त॒ ।
यत् । पु॒रा । सोम॑स्य । क्र॒यात् । अ॒पो॒र्ण्वी॒तेत्य॑प-ऊ॒र्ण्वी॒त । गर्भाः॑ । प्र॒जाना॒मिति॑ प्र-जाना॑म् । प॒रा॒पातु॑का॒ इति॑ परा-पातु॑काः । स्युः॒ ।

भट्टभास्कर-टीका

इमामित्यादि । एतं मन्त्रं यस्मादाह तस्माद्यथायजुरेव फलमवरुन्धे ‘सं शिशाधि, दुरिता तरेम, अधि नावं रुहेम’ इति यदनेन यजुषा आशास्यते तत्सर्वं प्राप्नोत्येवेत्यर्थः । पूर्ववद्यजुष्ट्वं वेदितव्यम् ॥

‘गर्भ इत्यादि ॥ गर्भः खल्वेष संजातः यो दीक्षितो भवति । तस्योल्बस्थानीयं वासः । उल्बं नाम गर्भावरणम् । प्रोर्णुत इति विधिः । वाससा छादयति दीक्षित आत्मानम् । तस्मादित्यादि । स्पष्टम् । प्रावृता इति । पूर्वपदप्रकृतिस्वरत्वम् । नापोर्ण्वीत नोद्धाटयेत् । परापातुकाः परापतनशीलाः स्युः । ‘लषपत’ इत्यादिना उकञ्, कृदुत्तरपदप्रकृतिस्वरत्वे ‘ञ्नित्यादिर्नित्यम्’ इत्याद्युदात्तत्वम् ।

विश्वास-प्रस्तुतिः

क्री॒ते सोमेऽपो॑र्णुते॒ जाय॑त ए॒व तत् । अथो॒ यथा॒ वसी॑याँसम्प्रत्य् अपोर्णु॒ते ता॒दृग् ए॒व तद् ।

मूलम्

क्री॒ते सोमेऽपो॑र्णुते॒ जाय॑त ए॒व तत् । अथो॒ यथा॒ वसी॑याँसम्प्रत्य् अपोर्णु॒ते ता॒दृग् ए॒व तद् ।

पद-पाठः

क्री॒ते । सोमे॑ । अपेति॑ । ऊ॒र्णु॒ते॒ । जाय॑ते । ए॒व । तत् ।
अथो॒ इति॑ । यथा॑ । वसी॑याँसम् । प्र॒त्य॒पो॒र्णु॒त इति॑ प्रति-अ॒पो॒र्णु॒ते । ता॒दृक् । ए॒व । तत् ।

भट्टभास्कर-टीका

क्रीते सोमेऽपोर्णुते प्रावृतमुष्णीषमिति विधिः । अपास्यतीत्यर्थः । जायत एव तज्जननं खल्वस्य तत् तदाऽसौ जायत इति वा । तिडः परत्वान्न निहन्यते, अदुपदेशाल्लसार्वधातुकानुदात्तत्वे ‘ञ्नित्यादिर्नित्यम्’ इत्याद्युदात्तत्वम् । अथो अपिच यथा वसीयांसं पूज्यगुर्वादिकं प्रति प्रावृतं वासोपोर्णुते तादृगेव तत् तत्तुल्यमेव तत् । अतिशयेन वसुमान् वसीयान् । ईयसुनि ‘विन्मतोर्लुक्’ ‘टेः’ इति टिलोपः । लक्षणादिना प्रतेः कर्मप्रवचनीयत्वाद्द्वितीया, ‘गतिर्गतौ’ इति मतेरनुदात्तत्वम् । ‘तिङि चोदात्तवति’ इत्यपशब्दस्य प्रादिसमासः । ननु ‘प्रादिप्रसंगे कर्मप्रवचनीयानां प्रतिषेधः’ इति । उच्यते - च्छान्दसत्वाददोषः । यद्वा - प्रत्यपोर्णुते उपचरति यथा वसीयांसमिति गतिसमासः । द्वितीया च कर्मण्येव । तदिव पश्यति ‘त्यदादिषु दृशः’ इति क्विन् ‘क्विन्प्रत्ययस्य कुः’ ‘आ सर्वनाम्नः’ इत्यात्वम्, कृदुत्तरपतदप्रकृतिस्वरत्वम् ॥

मूलम् (संयुक्तम्)

अङ्गि॑रसस्सुव॒र्गल्ँ लो॒कय्ँयन्त॒ ऊर्ज॒व्व्ँय॑भजन्त॒ ततो॒ यद॒त्यशि॑ष्यत॒ ते श॒रा अ॑भव॒न्नूर्ग्वै श॒रा यच्छ॑र॒मयी॑ [19]
मेख॑ला॒ भव॒त्यूर्ज॑मे॒वाव॑ रुन्द्धे

विश्वास-प्रस्तुतिः

अङ्गि॑रसस् सुव॒र्गल्ँ लो॒कय् यँन्त॒ ऊर्जव्ँ॒ व्य॑भजन्त । ततो॒ यद् अ॒त्यशि॑ष्यत॒ , ते श॒रा अ॑भव॒न्न् , ऊर्ग्वै श॒राः ।
यच् छ॑र॒मयी॒ मेख॑ला॒ भव॒त्य् , ऊर्ज॑म् ए॒वाव॑ रुन्धे ।[19]

मूलम्

अङ्गि॑रसस् सुव॒र्गल्ँ लो॒कय् यँन्त॒ ऊर्जव्ँ॒ व्य॑भजन्त । ततो॒ यद् अ॒त्यशि॑ष्यत॒ , ते श॒रा अ॑भव॒न्न् , ऊर्ग्वै श॒राः ।
यच् छ॑र॒मयी॒ मेख॑ला॒ भव॒त्य् , ऊर्ज॑म् ए॒वाव॑ रुन्धे ।[19]

पद-पाठः

अङ्गि॑रसः । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । यन्तः॑ । ऊर्ज॑म् । वीति॑ । अ॒भ॒ज॒न्त॒ ।
ततः॑ । यत् । अ॒त्यशि॑ष्य॒तेत्य॑ति-अशि॑ष्यत ।
ते । श॒राः । अ॒भ॒व॒न् ।
ऊर्क् । वै । श॒राः ।
यत् । श॒र॒मयीति॑ शर-मयी॑ । [19] मेख॑ला । भव॑ति ।
ऊर्ज॑म् । ए॒व । अवेति॑ । रु॒न्द्धे॒ ।

भट्टभास्कर-टीका

8अथ मेखलां विधास्यन् आह - अङ्गिरस इति ॥ ऊर्जं ऊर्जितमन्नं वलं वा व्यभजन्त व्यत्ययेनाभजन्त । ततः ऊर्जं यदत्यशिष्यत यत्किंचिदविभक्तमत्यरिच्यत ते शरा अभवन् । शरास्तृणविशेषाः । विकृत्यवस्थापेक्षं बहुवचनम् पुल्लिङ्गता च । ऊर्ग्वै शराः ऊर्क्प्रकृतिकत्वात् । यच्छरमयीत्यादि । ‘नित्यं वृद्धशरादिभ्यः’ इति मयट् । तस्मात् शरमय्या मेखलया दीक्षयतीति विधिरनुमीयते ॥

मूलम् (संयुक्तम्)

मध्य॒तस्सन्न॑ह्यति मध्य॒त ए॒वास्मा॒ ऊर्ज॑न्दधाति॒ तस्मा॑न्मध्य॒त ऊ॒र्जा भु॑ञ्जत…

विश्वास-प्रस्तुतिः

म॒ध्य॒तस् सन्न॑ह्यति । म॒ध्य॒त ए॒वास्मा॒ ऊर्ज॑न् दधाति । तस्मा॑न् मध्य॒त ऊ॒र्जा भु॑ञ्जते ।

मूलम्

म॒ध्य॒तस् सन्न॑ह्यति । म॒ध्य॒त ए॒वास्मा॒ ऊर्ज॑न् दधाति । तस्मा॑न् मध्य॒त ऊ॒र्जा भु॑ञ्जते ।

पद-पाठः

म॒ध्य॒तः । समिति॑ । न॒ह्य॒ति॒ ।
म॒ध्य॒तः । ए॒व । अ॒स्मै॒ । ऊर्ज॑म् । द॒धा॒ति॒ ।
तस्मा॑त् । म॒ध्य॒तः । ऊ॒र्जा । भु॒ञ्ज॒ते॒ ।

भट्टभास्कर-टीका

9मध्यतस्सं नह्यति मेखलामिति विधिः ॥ मध्यत एव शरीर मध्य एव । अस्मा उर्जमन्नं बलं वा दधाति स्थापयति । यद्वा - मध्यमायामवस्थायाम् । तस्मात्सर्वेऽपि शरीरमध्ये मध्यमावस्थायां वा ऊर्जा भुञ्जते अन्नेन सहिता भवन्ति । बलेन वा उपलक्षिता भुञ्जते । विभक्तिव्यत्ययो वा । ऊर्ज भुञ्जते इत्यर्थः । ‘आद्यादिभ्यस्तसिः’ । ‘सावेकाचः’ इति ऊर्जेर्विभक्तेरुदात्तत्वम् ॥

मूलम् (संयुक्तम्)

ऊ॒र्ध्वव्ँ वै पुरु॑षस्य॒ नाभ्यै॒ मेध्य॑मवा॒चीन॑ममे॒ध्यय्ँयन्म॑ध्य॒तस्स॒न्नह्य॑ति॒ मेध्य॑ञ्चै॒वास्या॑मे॒ध्यञ्च॒ व्याव॑र्तय॒ति

विश्वास-प्रस्तुतिः

ऊ॒र्ध्वव्ँ वै पुरु॑षस्य॒ नाभ्यै॒ मेध्य॑म् , अवा॒चीन॑म् अमे॒ध्यय्ँ , यन् म॑ध्य॒तस् स॒न्नह्य॑ति॒ , मेध्य॑ञ् च ए॒वास्या॑मे॒ध्यञ्च॒ व्याव॑र्तय॒ति ।

मूलम्

ऊ॒र्ध्वव्ँ वै पुरु॑षस्य॒ नाभ्यै॒ मेध्य॑म् , अवा॒चीन॑म् अमे॒ध्यय्ँ , यन् म॑ध्य॒तस् स॒न्नह्य॑ति॒ , मेध्य॑ञ् च ए॒वास्या॑मे॒ध्यञ्च॒ व्याव॑र्तय॒ति ।

पद-पाठः

ऊ॒र्ध्वम् । वै । पुरु॑षस्य । नाभ्यै॑ । मेध्य॑म् । अ॒वा॒चीन॑म् । अ॒मे॒ध्यम् ।
यत् । म॒ध्य॒तः । स॒न्नह्य॒तीति॑ सम्-नह्य॑ति । मेध्य॑म् । च॒ । ए॒व । अ॒स्य॒ । अ॒मे॒ध्यम् । च॒ । व्याव॑र्तय॒तीति॑ वि-आव॑र्तयति ।

भट्टभास्कर-टीका

10मध्यतस्सन्नहनस्य फलान्तरमाह - ऊर्ध्वमित्यादि ॥ नाभ्यै नाभ्याः षष्ठ्यर्थे चतुर्थी । मेध्यं मेधे भवं शुद्धम्, दिगादित्वाद्यत्, ‘यतो नावः’ इत्याद्युदात्तत्वम् । अवाचीनमधोभागः । अञ्चतेः क्विनि ‘अचः’ इति लोपे ‘चौ’ इति दीर्घत्वम्, ‘विभाषाञ्चेरदिक्स्त्रियाम्’ इति खः । अमेध्यममेधार्हम् । दण्डादिभ्यो यः, ‘ययतोश्चातदर्थे’ इत्युत्तरपदान्तोदात्तत्वम् । तस्मान्मध्यतस्सनहनेन अस्य मेध्यामेध्ये व्यावर्तयति विभागेनावस्थापयति ॥

मूलम् (संयुक्तम्)

इन्द्रो॑ वृ॒त्राय॒ वज्र॒म्प्राह॑र॒त्स त्रे॒धा व्य॑भव॒त्स्फ्यस्तृती॑यँ॒ रथ॒स्तृती॑यय्ँ॒यूप॒स्तृती॑यम् [20]
ये॑ऽन्तश्श॒रा अशी॑र्यन्त॒ ते श॒रा अ॑भव॒न्तच्छ॒राणाँ॑ शर॒त्वव्ँ वज्रो॒ वै श॒राः क्षुत्खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ यच्छ॑र॒मयी॒ मेख॑ला॒ भव॑ति॒ वज्रे॑णै॒व सा॒क्षात्क्षुध॒म्भ्रातृ॑व्यम्मध्य॒तोऽप॑ हते

विश्वास-प्रस्तुतिः

इन्द्रो॑ वृ॒त्राय॒ वज्र॒म् प्राह॑रत् । स त्रे॒धा व्य॑भव॒त् स्फ्यस्तृती॑यँ॒ , रथ॒स्तृती॑यय्ँ॒ , यूप॒स् तृती॑यम् ।[20]
ये॑ऽन्तश् श॒रा अशी॑र्यन्त॒ , ते श॒रा अ॑भव॒न् , तच् छ॒राणाँ॑ शर॒त्वम् ।
वज्रो॒ वै श॒राः । क्षुत् खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यः । यच् छ॑र॒मयी॒ मेख॑ला॒ भव॑ति॒ , वज्रे॑णै॒व सा॒क्षात् क्षुध॒म् भ्रातृ॑व्यम् मध्य॒तोऽप॑ हते ।

मूलम्

इन्द्रो॑ वृ॒त्राय॒ वज्र॒म् प्राह॑रत् । स त्रे॒धा व्य॑भव॒त् स्फ्यस्तृती॑यँ॒ , रथ॒स्तृती॑यय्ँ॒ , यूप॒स् तृती॑यम् ।[20]
ये॑ऽन्तश् श॒रा अशी॑र्यन्त॒ , ते श॒रा अ॑भव॒न् , तच् छ॒राणाँ॑ शर॒त्वम् ।
वज्रो॒ वै श॒राः । क्षुत् खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यः । यच् छ॑र॒मयी॒ मेख॑ला॒ भव॑ति॒ , वज्रे॑णै॒व सा॒क्षात् क्षुध॒म् भ्रातृ॑व्यम् मध्य॒तोऽप॑ हते ।

पद-पाठः

इन्द्रः॑ । वृ॒त्राय॑ । वज्र॑म् । प्रेति॑ । अ॒ह॒र॒त् ।
सः । त्रे॒धा । वीति॑ । अ॒भ॒व॒त् । स्फ्यः । तृती॑यम् । रथः॑ । तृती॑यम् । यूपः॑ । तृती॑यम् । [20]
ये । अ॒न्त॒श्श॒रा इत्य॑न्तः-श॒राः । अशी॑र्यन्त । ते । श॒राः । अ॒भ॒व॒न् । तत् । श॒राणा॑म् । श॒र॒त्वमिति॑ शर-त्वम् ।
वज्रः॑ । वै । श॒राः ।
क्षुत् । खलु॑ । वै । म॒नु॒ष्य॑स्य । भ्रातृ॑व्यः । यत् । श॒र॒मयीति॑ शर-मयी॑ । मेख॑ला । भव॑ति ।
वज्रे॑ण । ए॒व । सा॒क्षादिति॑ स-अ॒क्षात् । क्षुध॑म् । भ्रातृ॑व्यम् । म॒ध्य॒तः । अपेति॑ । ह॒ते॒ ।

भट्टभास्कर-टीका

11अथ मध्यतस्सन्नहनस्यैव तृतीयं फलं दर्शयति - इन्द्रो वृत्रायेति ॥ इन्द्रो वृत्रमसुरं हन्तुं वज्रं निर्माय प्राहरत् प्राहिणोत् । स वज्रस्त्रेधा विभक्तोभवत् स्फ्यादिरूपेण । वृत्रवधानन्तरं स्फ्यादियज्ञोपकरणभावेन त्रेधा विभक्तात्मा बभूवेति । यद्वा - इन्द्रेण प्रहितो वज्रस्तं हन्तुं तदीययज्ञे स्फ्यादिभावेन विभक्तात्माऽभवत् । तृतीयमिति । सामान्यरूपत्वान्नपुंसकत्वम् । वज्रतृतीयं स्फ्यो भवतीति । ‘पूरणाद्भागे तीयादन्’ । एवं रथयूपौ द्रष्टव्यौ । येऽन्तश्शरा अशीर्यन्त शीर्णाः क्षुद्रशकलाः शातनप्रभवाः ते शरा अभवम् । अन्तश्शीर्यन्ते इत्यन्तश्शराः । ‘ऋदोरप्’ थाथादिनोत्तरपदान्तोदात्तत्वम् । तच्छराणां शरत्वम् । यस्मादशीर्यन्त तस्माच्छरा अभवन् वज्रशकलात्मानश्शराः । किमनेनेत्याह - वज्रो वै शराः वज्रप्रभवत्वात् । शरशब्द उञ्छादिर्द्रष्टव्यः । अजन्तो वा पचादिर्द्रष्टव्यः । मनुष्यस्य क्षुत् भ्रातृव्यः शत्रुः । ‘व्यन् सपत्ने’ । यच्छरमयी मेखला मध्यतस्सन्नद्धा भवति वज्रेणैव साक्षात्क्षुधम् शत्रुभूतां भ्रातृव्यं मध्यतोपहते अपहन्ति । व्यत्ययेनात्मनेपदम् ॥

मूलम् (संयुक्तम्)

त्रि॒वृद्भ॑वति त्रि॒वृद्वै प्रा॒णस्त्रि॒वृत॑मे॒व प्रा॒णम्म॑ध्य॒तो यज॑माने दधाति

विश्वास-प्रस्तुतिः

त्रि॒वृद् भ॑वति , त्रि॒वृद् वै प्रा॒णस् , त्रि॒वृत॑म् ए॒व प्रा॒णम् म॑ध्य॒तो यज॑माने दधाति ।

मूलम्

त्रि॒वृद् भ॑वति , त्रि॒वृद् वै प्रा॒णस् , त्रि॒वृत॑म् ए॒व प्रा॒णम् म॑ध्य॒तो यज॑माने दधाति ।

पद-पाठः

त्रि॒वृदिति॑ त्रि-वृत् । भ॒व॒ति॒ । त्रि॒वृदिति॑ त्रि-वृत् । वै । प्रा॒ण इति॑ प्र-अ॒नः । त्रि॒वृत॒मिति॑ त्रि-वृत॑म् । ए॒व । प्रा॒णमिति॑ प्र-अ॒नम् । म॒ध्य॒तः । यज॑माने । द॒धा॒ति॒ ।

भट्टभास्कर-टीका

12त्रिवृद्भवतीति विधिः ॥ तिस्रो वृत्तयो यस्य स त्रिवृत् । अन्तोदात्तप्रकरणे ‘त्रिचकादीनां छन्दसि’ इत्युत्तरपदान्तोदात्तत्वम् । त्रिवृत्प्राणः, अपानोदानसहितत्वात् ॥

मूलम् (संयुक्तम्)

पृ॒थ्वी भ॑वति॒ रज्जू॑नाव्ँ॒ व्यावृ॑त्त्यै॒

विश्वास-प्रस्तुतिः

पृ॒थ्वी भ॑वति॒ , रज्जू॑नाव्ँ॒ व्यावृ॑त्त्यै ।

मूलम्

पृ॒थ्वी भ॑वति॒ , रज्जू॑नाव्ँ॒ व्यावृ॑त्त्यै ।

पद-पाठः

पृ॒थ्वी । भ॒व॒ति॒ । रज्जू॑नाम् । व्यावृ॑त्त्या॒ इति॑ वि-आवृ॑त्त्यै ।

भट्टभास्कर-टीका

13पृथ्वी भवतीति विधिः ॥ पृथ्वी विस्तीर्णा रज्जूनां ततो व्यावृत्त्यै ॥

मूलम् (संयुक्तम्)

मेख॑लया॒ यज॑मानन्दीक्षयति॒ योक्त्रे॑ण॒ पत्नी॑म्मिथुन॒त्वाय॑ [21]

विश्वास-प्रस्तुतिः

मेख॑लया॒ यज॑मानन् दीक्षयति॒ , योक्त्रे॑ण॒ पत्नी॑म् मिथुन॒त्वाय॑ ।[21]

मूलम्

मेख॑लया॒ यज॑मानन् दीक्षयति॒ , योक्त्रे॑ण॒ पत्नी॑म् मिथुन॒त्वाय॑ ।[21]

पद-पाठः

मेख॑लया । यज॑मानम् । दी॒क्ष॒य॒ति॒ । योक्त्रे॑ण । पत्नी॑म् । मि॒थु॒न॒त्वायेति॑ मिथुन-त्वाय॑ । [21]

भट्टभास्कर-टीका

14मेखलयेत्यादिविधिः ॥ वेणीग्रथिता मेखला । विपरीतं योक्त्रम् । मिथुनत्वाय रज्ज्वोः । यद्वा - पत्नीयजमानयोरेकरूप्ये हि रज्ज्वोस्स्वाभाविकं दम्पत्योर्मिथुनत्वं तिरोहितं स्यात् । तस्माद्रज्ज्वोः वैरूप्यं तयोर्मिथुनत्वरक्षार्थमिति । ‘पत्युर्नो यज्ञसंयोगे’ इति ङीब्नकारौ ॥

मूलम् (संयुक्तम्)

य॒ज्ञो दक्षि॑णाम॒भ्य॑ध्याय॒त्ताँ सम॑भव॒त्तदिन्द्रो॑ऽचाय॒त्सो॑ऽमन्यत॒ यो वा इ॒तो ज॑नि॒ष्यते॒ स इ॒दम्भ॑विष्य॒तीति॒ ताम्प्रावि॑श॒त्तस्या॒ इन्द्र॑ ए॒वाजा॑यत॒ सो॑ऽमन्यत॒ यो वै मदि॒तोऽप॑रो जनि॒ष्यते॒ स इ॒दम्भ॑विष्य॒तीति॒ तस्या॑ अनु॒मृश्य॒ योनि॒माच्छि॑न॒त्सा सू॒तव॑शाभव॒त्तत्सू॒तव॑शायै॒ जन्म॑ [22]
ताँ हस्ते॒ न्य॑वेष्टयत॒ ताम्मृ॒गेषु॒ न्य॑दधा॒त्सा कृ॑ष्णविषा॒णाभ॑व॒दिन्द्र॑स्य॒ योनि॑रसि॒ मा मा॑ हिँसी॒रिति॑ कृष्णविषा॒णाम्प्र य॑च्छति॒

विश्वास-प्रस्तुतिः

य॒ज्ञो दक्षि॑णाम् अ॒भ्य॑ध्याय॒त् ताँ सम॑भव॒त् तदिन्द्रो॑ऽचाय॒थ् । सो॑ऽमन्यत॒ - “यो वा इ॒तो ज॑नि॒ष्यते॒ स इ॒दम्भ॑विष्य॒ति”+इति॒ , ताम् प्रावि॑श॒त् तस्या॒ इन्द्र॑ ए॒वाजा॑यत ।

मूलम्

य॒ज्ञो दक्षि॑णाम् अ॒भ्य॑ध्याय॒त् ताँ सम॑भव॒त् तदिन्द्रो॑ऽचाय॒थ् । सो॑ऽमन्यत॒ - “यो वा इ॒तो ज॑नि॒ष्यते॒ स इ॒दम्भ॑विष्य॒ति”+इति॒ , ताम् प्रावि॑श॒त् तस्या॒ इन्द्र॑ ए॒वाजा॑यत ।

पद-पाठः

य॒ज्ञः । दक्षि॑णाम् । अ॒भीति॑ । अ॒ध्या॒य॒त् ।
ताम् । समिति॑ । अ॒भ॒व॒त् ।
तत् । इन्द्रः॑ । अ॒चा॒य॒त् ।
सः । अ॒म॒न्य॒त॒ । यः । वै । इ॒तः । ज॒नि॒ष्यते॑ । सः । इ॒दम् । भ॒वि॒ष्य॒ति॒ । इति॑ । ताम् । प्रेति॑ । अ॒वि॒श॒त् ।
तस्याः॑ । इन्द्रः॑ । ए॒व । अ॒जा॒य॒त॒ ।

भट्टभास्कर-टीका

15अथ कृष्णविषाणां प्रतिविधास्यन् तदुत्पत्तिमाह - यज्ञो दक्षिणामित्यादि ॥ यज्ञात्मा दक्षिणामकामयत तां समभवत्समगृह्णात् मिथुन्यभवत् । तदिन्द्रोचायत् । चायृ पूजानिशामनयोः, जातवान् । अथ सोमन्यत यो वा इतो दक्षिणाया जनिष्यते स इदं विश्वं भविष्यति इदं सर्वं तदधीनं भविष्यति । यद्वा - स इदं विश्वं प्राप्स्यति विश्वस्य स्वामी भविष्यति, तस्मादस्या अहं जनिषीयेति समालोच्य तां प्राविशदिन्द्रः । ततस्तस्या इन्द्र एव पुत्रोजायत ।

विश्वास-प्रस्तुतिः

सो॑ऽमन्यत॒ - “यो वै मदि॒तोऽप॑रो जनि॒ष्यते॒ स इ॒दम् भ॑विष्य॒ती"ति॒ , तस्या॑ अनु॒मृश्य॒ योनि॒म् आच्छि॑न॒त् , सा सू॒तव॑शाभव॒त् तत् सू॒तव॑शायै॒ जन्म॑ । [22]

मूलम्

सो॑ऽमन्यत॒ - “यो वै मदि॒तोऽप॑रो जनि॒ष्यते॒ स इ॒दम् भ॑विष्य॒ती"ति॒ , तस्या॑ अनु॒मृश्य॒ योनि॒म् आच्छि॑न॒त् , सा सू॒तव॑शाभव॒त् तत् सू॒तव॑शायै॒ जन्म॑ । [22]

पद-पाठः

सः । अ॒म॒न्य॒त॒ ।
यः । वै । मत् । इ॒तः । अप॑रः । ज॒नि॒ष्यते॑ । सः । इ॒दम् । भ॒वि॒ष्य॒ति॒ । इति॑ ।
तस्याः॑ । अ॒नु॒मृश्येत्य॑नु-मृश्य॑ । योनि॑म् । एति॑ । अ॒च्छि॒न॒त् ।
सा । सू॒तव॒शेति॑ सू॒त-व॒शा॒ । अ॒भ॒व॒त् ।
तत् । सू॒तव॑शाया॒ इति॑ सू॒त-व॒शा॒यै॒ । जन्म॑ । [22]

भट्टभास्कर-टीका

सोमन्यत पुनरपि मिथुनीभवन्तौ तौ दृष्ट्वा इन्द्रोचिन्तयत् यो मत्तोप्यपरः इतो जनिष्यते स इदं भविष्यति । तस्मान्मत्तोपरो यथाऽस्या न जनिष्यते तथा कर्तव्यमिति सोनुमृश्य विचार्य तस्या योनिमाच्छिनत् सा सूतवशाऽभवत् सकृत्प्रसूता वन्ध्याऽभवत् । सूतेन कृता वशा सूतवशा, सूत्या कृतं वशात्वमिति कृत्वा तृतीयापूर्वपदप्रकृतिस्वरत्वम् । तदिदं सूतवशायै जन्म । षष्ठ्यर्थे चतुर्थी ।

विश्वास-प्रस्तुतिः

ताँ हस्ते॒ न्य॑वेष्टयत॒ । ताम् मृ॒गेषु॒ न्य॑दधा॒त् सा कृ॑ष्णविषा॒णाभ॑व॒द् , इन्द्र॑स्य॒ योनि॑रसि॒ , मा मा॑ हिँसी॒रिति॑ कृष्णविषा॒णाम् प्र य॑च्छति ।

मूलम्

ताँ हस्ते॒ न्य॑वेष्टयत॒ । ताम् मृ॒गेषु॒ न्य॑दधा॒त् सा कृ॑ष्णविषा॒णाभ॑व॒द् , इन्द्र॑स्य॒ योनि॑रसि॒ , मा मा॑ हिँसी॒रिति॑ कृष्णविषा॒णाम् प्र य॑च्छति ।

पद-पाठः

ताम् । हस्ते॑ । नीति॑ । अ॒वे॒ष्ट॒य॒त॒ ।
ताम् । मृ॒गेषु॑ । नीति॑ । अ॒द॒धा॒त् । सा । कृ॒ष्ण॒वि॒षा॒णेति॑ कृष्ण-वि॒षा॒णा । अ॒भ॒व॒त् ।
इन्द्र॑स्य । योनिः॑ । अ॒सि॒ ।
मा । मा॒ । हिँ॒सीः॒ । इति॑ ।
कृ॒ष्ण॒वि॒षा॒णामिति॑ कृष्ण-वि॒षा॒णाम् । प्रेति॑ । य॒च्छ॒ति॒ ।

भट्टभास्कर-टीका

अथेन्द्रस्तां योनिं हस्ते न्यवेष्टयत । अथ तां योनिं मृगेषु न्यदधात् निहितवान् सा कृष्णविषाणाऽभवत् । इन्द्रस्येत्यादिविधिः । प्रयच्छति यजमानाय ददाति ॥

मूलम् (संयुक्तम्)

सयो॑निमे॒व य॒ज्ञङ्क॑रोति॒ सयो॑नि॒न्दक्षि॑णाँ॒ सयो॑नि॒मिन्द्रँ॑ सयोनि॒त्वाय॑

विश्वास-प्रस्तुतिः

सयो॑निमे॒व य॒ज्ञङ्क॑रोति॒ , सयो॑नि॒न् दक्षि॑णाँ॒ , सयो॑नि॒म् इन्द्रँ॑ सयोनि॒त्वाय॑ ।

मूलम्

सयो॑निमे॒व य॒ज्ञङ्क॑रोति॒ , सयो॑नि॒न् दक्षि॑णाँ॒ , सयो॑नि॒म् इन्द्रँ॑ सयोनि॒त्वाय॑ ।

पद-पाठः

सयो॑नि॒मिति॒ स-यो॒नि॒म् । ए॒व । य॒ज्ञम् । क॒रो॒ति॒ ।
सयो॑नि॒मिति॒ स-यो॒नि॒म् । दक्षि॑णाम् ।
सयो॑नि॒मिति॒ स-यो॒नि॒म् । इन्द्र॑म् । स॒यो॒नि॒त्वायेति॑ सयोनि-त्वाय॑ ।

भट्टभास्कर-टीका

16फलमाह - सयोनिमिति ॥ तत्र दक्षिणा योनिमती । यज्ञस्तद्योन्यभिध्यायी । इन्द्रोपि तस्या योनेर्जातः । त इमे सर्वेऽपि तस्या योन्यभावादयोनयस्स्युः । कृष्णविषाणाप्रदानेन तु सर्वेऽपि यज्ञादयो योनिमन्तः कृता भवन्ति । सह योन्या वर्तते इति । ‘तेन सहेति तुल्ययोगे’ इति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्, ‘वोपसर्जनस्य’ इति सभावः । सयोनित्वाय भवत्यात्मनोपि ॥

मूलम् (संयुक्तम्)

कृ॒ष्यै त्वा॑ सुस॒स्याया॒ इत्या॑ह॒ तस्मा॑दकृष्टप॒च्या ओष॑धयᳶ पच्यन्ते

विश्वास-प्रस्तुतिः

कृ॒ष्यै त्वा॑ सुस॒स्याया॒ इत्या॑ह॒ - तस्मा॑द् अकृष्टप॒च्या ओष॑धयᳶ पच्यन्ते ।

मूलम्

कृ॒ष्यै त्वा॑ सुस॒स्याया॒ इत्या॑ह॒ - तस्मा॑द् अकृष्टप॒च्या ओष॑धयᳶ पच्यन्ते ।

पद-पाठः

कृ॒ष्यै । त्वा॒ । सु॒स॒स्याया॒ इति॑ सु-स॒स्यायै॑ । इति॑ । आ॒ह॒ ।
तस्मा॑त् । अ॒कृ॒ष्ट॒प॒च्या इत्य॑कृष्ट-प॒च्याः । ओष॑धयः । प॒च्य॒न्ते॒ ।

भट्टभास्कर-टीका

17कृष्यै त्वेति लोष्टोन्नयनमन्त्रोयम् ॥ अकृष्टपच्याः । राजसूयादौ ‘अकृष्टे चेति वक्तव्यम्’ इति यः, कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा - कृष्टं क्षेत्रमेव अकृष्टपच्यं, तत्र हि ताः पच्यन्ते । य एव राजसूयादौ कृष्टपच्यशब्दो निष्पद्यते ततो बहुव्रीहौ ‘नङ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम्, पच्यन्ते इति कर्मवद्भावात् । यद्वा - कृष्टे पच्यन्ते इति कृष्टपच्याः, न कष्टपच्याः अकृष्टपच्याः, अतादृक्स्वभावात्स्वयमेव पच्यन्ते इति अव्ययपूर्वपदप्रकृतिस्वरत्वं व्यत्ययेन प्रवर्तते ॥

मूलम् (संयुक्तम्)

सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्य॒ इत्या॑ह॒ तस्मा॒दोष॑धय॒ᳶ फल॑ङ्गृह्णन्ति॒

विश्वास-प्रस्तुतिः

सु॒पि॒प्प॒लाभ्य॒॑स् त्वौष॑धीभ्य॒ इत्या॑ह॒ , तस्मा॒द् ओष॑धय॒ᳶ फल॑ङ् गृह्णन्ति ।

मूलम्

सु॒पि॒प्प॒लाभ्य॒॑स् त्वौष॑धीभ्य॒ इत्या॑ह॒ , तस्मा॒द् ओष॑धय॒ᳶ फल॑ङ् गृह्णन्ति ।

पद-पाठः

सु॒पि॒प्प॒लाभ्य॒ इति॑ सु-पि॒प्प॒लाभ्यः॑ । त्वा॒ । ओष॑धीभ्य॒ इत्योष॑धि-भ्यः॒ । इति॑ । आ॒ह॒ ।
तस्मा॑त् । ओष॑धयः । फल॑म् । गृ॒ह्ण॒न्ति॒ ।

भट्टभास्कर-टीका

18सुपिप्पलाभ्य इति दक्षिणे गोदाने कण्डूयनमन्त्रः ॥ यस्मात्सुपिप्पलाभ्यः शोभनफलाभ्य इत्याह, तस्मादोषधयः फलं गृह्णन्ति ॥

मूलम् (संयुक्तम्)

यद्धस्ते॑न [23]
क॒ण्डू॒येत॑ पामन॒म्भावु॑काᳶ प्र॒जास्स्यु॒र्यत्स्मये॑त नग्न॒म्भावु॑काᳵ कृष्णविषा॒णया॑ कण्डूयतेऽपि॒गृह्य॑ स्मयते प्र॒जाना॑ङ्गोपी॒थाय॒ न पु॒रा दक्षि॑णाभ्यो॒ नेतोः॑ कृष्णविषा॒णामव॑ चृते॒द्यत्पु॒रा दक्षि॑णाभ्यो॒ नेतोः॑ कृष्णविषा॒णाम॑वचृ॒तेद्योनि॑ᳶ प्र॒जाना॑म्परा॒पातु॑का स्यान्

विश्वास-प्रस्तुतिः

यद्धस्ते॑न क॒ण्डू॒येत॑ पामन॒म् भावु॑काᳶ प्र॒जास् स्यु॒र् यत् स्मये॑त नग्न॒म् भावु॑काः ।
कृ॒ष्ण॒वि॒षा॒णया॑ कण्डूयत ,+ ऽपि॒गृह्य॑ स्मयते प्र॒जाना॑ङ् गोपी॒थाय ।

मूलम्

यद्धस्ते॑न क॒ण्डू॒येत॑ पामन॒म् भावु॑काᳶ प्र॒जास् स्यु॒र् यत् स्मये॑त नग्न॒म् भावु॑काः ।
कृ॒ष्ण॒वि॒षा॒णया॑ कण्डूयत ,+ ऽपि॒गृह्य॑ स्मयते प्र॒जाना॑ङ् गोपी॒थाय ।

पद-पाठः

यत् । हस्ते॑न । [23] क॒ण्डू॒येत॑ । पा॒म॒न॒म्भावु॑का॒ इति॑ पामनम्-भावु॑काः । प्र॒जा इति॑ प्र-जाः । स्युः॒ । यत् । स्मये॑त । न॒ग्न॒म्भावु॑का॒ इति॑ नग्नम्-भावु॑काः ।

कृ॒ष्ण॒वि॒षा॒णयेति॑ कृष्ण-वि॒षा॒णया॑ । क॒ण्डू॒य॒ते॒ । अ॒पि॒गृह्येत्य॑पि-गृह्य॑ । स्म॒य॒ते॒ । प्र॒जाना॒मिति॑ प्र-जाना॑म् । गो॒पी॒थाय॑ ।

भट्टभास्कर-टीका

19यद्धस्तेनेत्यादि ॥ पामनंभावुकाः पामान्यासां सन्तीति पामनाः, पामादित्वान्नप्रत्ययः, पामना भवन्तीति पामनंभावुकाः । ‘कर्तरि भुवः खिष्णुच्खुखञौ’ इति व्यत्ययेन पामनेऽपि भवति, ‘खित्यनव्ययस्य’ इति मुम्, कृदुत्तरपदप्रकृतिस्वरत्वम् । यत्स्मयेत हसेत् नग्नंभावुकाः प्रजास्स्युरित्येव । नग्ना भवन्ति ताच्छील्येनेति नग्नंभावुकाः, पूर्ववत्प्रत्ययादि । तस्मात् कृष्णविषाणया कण्डूयते, न हस्तेन । अपिगृह्य स्मयते अपिधाय मुखं स्मयते चेति विधिः । गोपीथाय रक्षणार्थम् । ‘निशीथगोपीथावसथाः’ इति निपात्यते ।

विश्वास-प्रस्तुतिः

न पु॒रा दक्षि॑णाभ्यो॒ नेतोः॑ कृष्णविषा॒णामव॑ चृते॒द्, यत् पु॒रा दक्षि॑णाभ्यो॒ नेतोः॑ कृष्णविषा॒णाम् अ॑वचृ॒तेद्, योनि॑ᳶ प्र॒जाना॑म् परा॒पातु॑का स्यात् ।

मूलम्

न पु॒रा दक्षि॑णाभ्यो॒ नेतोः॑ कृष्णविषा॒णामव॑ चृते॒द्, यत् पु॒रा दक्षि॑णाभ्यो॒ नेतोः॑ कृष्णविषा॒णाम् अ॑वचृ॒तेद्, योनि॑ᳶ प्र॒जाना॑म् परा॒पातु॑का स्यात् ।

पद-पाठः

न । पु॒रा । दक्षि॑णाभ्यः । नेतोः॑ । कृ॒ष्ण॒वि॒षा॒णामिति॑ कृष्ण-वि॒षा॒णाम् । अवेति॑ । चृ॒ते॒त् । यत् । पु॒रा । दक्षि॑णाभ्यः । नेतोः॑ । कृ॒ष्ण॒वि॒षा॒णामिति॑ कृष्ण-वि॒षा॒णाम् । अ॒व॒चृ॒तेदित्य॑व-चृ॒तेत् । योनिः॑ । प्र॒जाना॒मिति॑ प्र-जाना॑म् । प॒रा॒पातु॒केति॑ परा-पातु॑का । स्या॒त् ।

भट्टभास्कर-टीका

न पुरेति निषेधविधिः । दक्षिणानयनात्प्राक् कृष्णविषाणां नावचूतेत् न मुञ्चेत् । नयतेर्भावलक्षणे तोसुन् । दक्षिणाभ्य इति । षष्ठ्यर्थे चतुर्थी । चृततिर्हिंसार्थकस्तौदादिकः । यदवचृतेत् यन्मुश्चेत् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे शस्यैवोदात्तत्वम् । प्रजानां योनिः परापातुका परापतनशीला स्यात् । पूर्ववदुकञ् ॥

मूलम् (संयुक्तम्)

नी॒तासु॒ दक्षि॑णासु॒ चात्वा॑ले कृष्णविषा॒णाम्प्रास्य॑ति॒ योनि॒र्वै य॒ज्ञस्य॒ चात्वा॑लय्ँ॒योनि॑ᳵ कृष्णविषा॒णा योना॑वे॒व योनि॑न्दधाति य॒ज्ञस्य॑ सयोनि॒त्वाय॑ ॥ [24]

विश्वास-प्रस्तुतिः

नी॒तासु॒ दक्षि॑णासु॒ चात्वा॑ले कृष्णविषा॒णाम् प्रास्य॑ति । योनि॒र्वै य॒ज्ञस्य॒ चात्वा॑लय्ँ॒ योनि॑ᳵ कृष्णविषा॒णा । योना॑व् ए॒व योनि॑न् दधाति , य॒ज्ञस्य॑ सयोनि॒त्वाय॑ ॥ [24]

मूलम्

नी॒तासु॒ दक्षि॑णासु॒ चात्वा॑ले कृष्णविषा॒णाम् प्रास्य॑ति । योनि॒र्वै य॒ज्ञस्य॒ चात्वा॑लय्ँ॒ योनि॑ᳵ कृष्णविषा॒णा । योना॑व् ए॒व योनि॑न् दधाति , य॒ज्ञस्य॑ सयोनि॒त्वाय॑ ॥ [24]

पद-पाठः

नी॒तासु॑ । दक्षि॑णासु । चात्वा॑ले । कृ॒ष्ण॒वि॒षा॒णामिति॑ कृष्ण-वि॒षा॒णाम् । प्रेति॑ । अ॒स्य॒ति॒ ।
योनिः॑ । वै । य॒ज्ञस्य॑ । चात्वा॑लम् । योनिः॑ । कृ॒ष्ण॒वि॒षा॒णेति॑ कृष्ण-वि॒षा॒णा ।
योनौ॑ । ए॒व । योनि॑म् । द॒धा॒ति॒ । य॒ज्ञस्य॑ । स॒यो॒नि॒त्वायेति॑ सयोनि-त्वाय॑ ॥ [24]

भट्टभास्कर-टीका

20तस्मात् नीतास्वित्यादिविघिः ॥ प्रास्यति प्रत्यस्येत् । योनिरित्यादि । चात्वालं यज्ञस्य योनिः धिष्ण्योपवनादेः प्रकृतत्वात् । कृष्णविषाणाया योनित्वमुक्तमेव । तस्माद्योनावेव योनिं स्थापयति, यदियं चात्वाले प्रास्यते, तस्मादेतद्यज्ञस्य सयोनित्वाय भवति, योनेरपरित्यागात् ॥

इति षष्ठे प्रथमे तृतीयोनुवाकः ॥