०१ प्राचीनवंशाख्यशालानिर्माणं क्षौरादिभिः संस्कृतस्य यजमानस्य तत्र प्रवेशविधानम्

सोमऋषिः

मूलम् (संयुक्तम्)

प्रा॒चीन॑वँशङ्करोति ।

विश्वास-प्रस्तुतिः

प्रा॒चीन॑ - वँशङ् करोति ।

मूलम्

प्रा॒चीन॑ - वँशङ् करोति ।

पद-पाठः

प्रा॒चीन॑वँश॒मिति॑ प्रा॒चीन॑-वँ॒श॒म् । क॒रो॒ति॒ ।

भट्टभास्कर-टीका

1अथ सौम्यस्याध्वरस्य ब्राह्मणं सौम्यं काण्डमारभ्यते । तत्र ‘प्राचीनवंशं करोति’ डति विधिः ॥ हविर्धानशब्दवत् योगाख्यैषा हि देवयजनस्य । तेन देवयजनविधिरयं, न गुणविधिमात्रम् । प्राचीनः, प्रागायतः पृष्ठवंशोस्मिन्निति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । प्रागश्चतीति ऋत्विगादिना क्विनि ‘अचः’ इति भलोपे ‘चौ’ इति दीर्घत्वं, ‘विभाषाश्चेरदिक् स्त्रियाम्’ इति खः । तादृशं देवयजनं कुर्यादिति । लिङर्थे लट्, ‘तिङतिङः’ इति निहन्यते ॥

मूलम् (संयुक्तम्)

देवमनु॒ष्या दिशो॒ व्य॑भजन्त॒ प्राची॑न्दे॒वा द॑क्षि॒णा पि॒तरᳶ॑ प्र॒तीची॑म्मनु॒ष्या॑ उदी॑चीँ रु॒द्रा

विश्वास-प्रस्तुतिः

दे॒व॒म॒नु॒ष्या दिशो॒ व्य॑भजन्त ।
प्राची॑न् दे॒वा , द॑क्षि॒णा पि॒तर॑ᳶ , प्र॒तीची॑म् मनु॒ष्या॑ , उदी॑चीँ रु॒द्राः +++( व्यभजन्त )+++ ।

मूलम्

दे॒व॒म॒नु॒ष्या दिशो॒ व्य॑भजन्त ।
प्राची॑न् दे॒वा , द॑क्षि॒णा पि॒तर॑ᳶ , प्र॒तीची॑म् मनु॒ष्या॑ , उदी॑चीँ रु॒द्राः +++( व्यभजन्त )+++ ।

पद-पाठः

दे॒व॒म॒नु॒ष्या इति॑ देव-म॒नु॒ष्याः । दिशः॑ । वीति॑ । अ॒भ॒ज॒न्त॒ ।

प्राची॑म् । दे॒वाः । द॒क्षि॒णा । पि॒तरः॑ । प्र॒तीची॑म् । म॒नु॒ष्याः॑ । उदी॑चीम् । रु॒द्राः ।

भट्टभास्कर-टीका

2अथ प्राचीनवंशत्वं विशिष्टफलहेतुत्वेन स्तोतुमाह - देवाश्च मनुष्याश्च दिशः प्रागादिका व्यभजन्त विभज्य परिगृहीतवन्तः, विविधं वा अभजन्त । ‘उदात्तस्वरितयोर्यणः’ इति संहितायामडागमस्स्वर्यते । के कामित्याह - प्राचीं देवाः । ‘अञ्चतेश्चोपसंख्यानम्’ इति ङीप्, ‘चौ’ इति पूर्वपदस्यान्तोदात्तत्वं दीर्घत्वं च, ‘आङयाजयारामुपसंख्यानम्’ इति द्वितीयाया आङादेशः । ‘दक्षिणादाच्’ इति वा व्यत्ययेन द्वितीयान्तादपि भवति । प्रतीचीम् । पूर्ववत्स्वरदीर्घत्वे, ‘अनिगन्तोञ्चतौ’ इति गतेः प्रकृतिस्वरत्वम् ॥

मूलम् (संयुक्तम्)

यत्प्रा॒चीन॑वँशङ्क॒रोति॑ देवलो॒कमे॒व तद्यज॑मान उ॒पाव॑र्तते॒

विश्वास-प्रस्तुतिः

यत् प्रा॒चीन॑वँशङ् क॒रोति॑ , देवलो॒कम् ए॒व तद् यज॑मान उ॒पाव॑र्तते ।

मूलम्

यत् प्रा॒चीन॑वँशङ् क॒रोति॑ , देवलो॒कम् ए॒व तद् यज॑मान उ॒पाव॑र्तते ।

पद-पाठः

यत् । प्रा॒चीन॑वँश॒मिति॑ प्रा॒चीन॑-वँ॒श॒म् । क॒रोति॑ । दे॒व॒लो॒कमिति॑ देव-लो॒कम् । ए॒व । तत् । यज॑मानः । उ॒पाव॑र्तत॒ इत्यु॑प-आव॑र्तते ।

भट्टभास्कर-टीका

3इदानीं तमेव फलविशेषं दर्शयति - यत् यस्मात् प्राचीनवंशं करोति देवयजनम् । तत् तस्माद्यजमानः देवलोकमेवोपावर्तते उपसंप्राप्तमेवोपागम्य वर्तते देवलोकस्वभावत्वादस्य देवयजनस्य । यद्वा - उपावर्तते उपसंप्राप्तुमाभिमुख्येन वर्तते ॥

मूलम् (संयुक्तम्)

परि॑ श्रयत्य॒न्तर्हि॑तो॒ हि दे॑वलो॒को म॑नुष्यलो॒कान्

विश्वास-प्रस्तुतिः

परि॑ श्रयति । अ॒न्तर्हि॑तो॒ हि दे॑वलो॒को म॑नुष्यलो॒कात् ।

मूलम्

परि॑ श्रयति । अ॒न्तर्हि॑तो॒ हि दे॑वलो॒को म॑नुष्यलो॒कात् ।

पद-पाठः

परीति॑ । श्र॒य॒ति॒ । अ॒न्तर्हि॑त॒ इत्य॒न्तः-हि॒तः॒ । हि । दे॒व॒लो॒क इति॑ देव-लो॒कः । म॒नु॒ष्य॒लो॒कादिति॑ मनुष्य-लो॒कात् ।

भट्टभास्कर-टीका

4परि श्रयतीति विधिः - समन्ताद्देवयननं प्रच्छन्नं करोति । अयं च देवलोकत्वसंपादने द्वितीयो हेतुः । अधुना तमेव समर्थयते - हि यस्मादर्थे । यस्माद्देवलोको मनुष्यलोकादन्तर्हितः मनुष्यलोकमभिसमीक्ष्य व्यवहितो भवति । यद्वा - मनुष्यलोकमभिसमीक्ष्य तिरोहितो भवति । मनुष्यलोकमभिसमीक्षमाणः इममेव लोकं सन्तं मन्यते असन्तममुम् । ल्यब्लोपे पञ्चमी । ‘अन्तरपरिग्रहे’ इत्यन्तश्शब्दस्य गतित्वात् ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । एवं परिश्रयणेन च देवलोकत्वं कृतं भवति ॥

मूलम् (संयुक्तम्)

नास्माल्लो॒कात्स्वे॑तव्यमि॒वेत्या॑हु॒ᳵ को हि तद्वेद॒ यद्य॒मुष्मिल्ँ॑ लो॒केऽस्ति॑ वा॒ न वेति॑

विश्वास-प्रस्तुतिः

नास्माल् लो॒कात् स्वे॑तव्यम् इ॒वेत्या॑हुः ।
को हि तद्वेद॒ यदि॑ + अ॒मुष्मिल्ँ॑ लो॒केऽस्ति॑ वा॒ न वेति॑ ।

मूलम्

नास्माल् लो॒कात् स्वे॑तव्यम् इ॒वेत्या॑हुः ।
को हि तद्वेद॒ यदि॑ + अ॒मुष्मिल्ँ॑ लो॒केऽस्ति॑ वा॒ न वेति॑ ।

पद-पाठः

न । अ॒स्मात् । लो॒कात् । स्वे॑तव्य॒मिति॒ सु-ए॒त॒व्य॒म् । इ॒व॒ । इति॑ । आ॒हुः॒ ।

कः । हि । तत् । वेद॑ ।

यदि॑ । अ॒मुष्मि॑न् । लो॒के । अस्ति॑ । वा॒ । न । वा॒ । इति॑ ।

भट्टभास्कर-टीका

5इदनीमतीकाशान्विधास्यन् देवलोकस्य दौर्बल्यं तावत्प्रतिपादयति - नास्मादिति ॥ यत्र बहूनि भद्राणि पश्यामः अस्माल्लोकान्न स्वेतव्यम् न साधु गन्तव्यं, गन्तव्यं न साध्विति यावत् । इति खल्वाहुः प्रत्यक्षापहृतचेतसो लौकिकाः । ‘ऊडिदम्’ इतीदमो विभक्तेरुदात्तत्वम् । शोभनमेतव्यं स्वेतव्यमिति प्रादिसमासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । नन्वमुष्मिन्नपि लोके बहुभद्रकं भोक्ष्यते, तत्किमित्याहुर्न स्वेतव्यमिति, अतस्त एवाहुः - को हीति । अमुष्मिन्लोके यद्यस्ति भद्रकं, यदि वा नास्ति को वा नाम तद्वेदितुं प्रभवतीति । हि यस्मात् न कश्चिदपि तद्वेद, तस्मादितो न स्वेतव्यमित्याहुः । एतदुक्तं भवति - इतस्तावत्त्वरितेन न गन्तव्यं, परलोकसुखस्य विप्रकृष्टत्वात्, इदानीं तावदनुभवितव्यं नास्ति, तस्मादीदृशदेवलोकसाम्यापादने न कश्चिद्गुणो देवयजनस्य, अपि तु त्रासहेतुरेव स्यात् इदं मनुष्याणामिति । वेदेत्यस्य ‘हि च’ इति निघातप्रतिषेधः । अस्तीत्यस्य ‘चवायोगे प्रथमा’ इति निघाताभावः । तर्हि परिश्रयणं कर्तव्यमेव न ब्रूमः । तस्मात्परिश्रयणं न कर्तव्यमेवेति । किन्नु अत्र समाधिः कर्तव्य एवेति ब्रूमः ॥

मूलम् (संयुक्तम्)

दि॒क्ष्व॑तीका॒शान्क॑रोति [1]
उ॒भयो॑र्लो॒कयो॑र॒भिजि॑त्यै

विश्वास-प्रस्तुतिः

दि॒क्ष्व् अ॑तीका॒शान् क॑रोत्य् उभयो॑र् लो॒कयो॑र् अ॒भिजि॑त्यै [1]।

मूलम्

दि॒क्ष्व् अ॑तीका॒शान् क॑रोत्य् उभयो॑र् लो॒कयो॑र् अ॒भिजि॑त्यै [1]।

पद-पाठः

दि॒क्षु । अ॒ती॒का॒शान् । क॒रो॒ति॒ । [1]

उ॒भयोः॑ । लो॒कयोः॑ । अ॒भिजि॑त्या॒ इत्य॒भि-जि॒त्यै॒ ।

भट्टभास्कर-टीका

6कोसावित्याह - दिक्ष्वतीकाशान् करोतीति विधिः - दिक्षु सर्वासु अतीकाशान् द्वाराणि कुर्यात् । भित्तौ छदिषि वा अतीत्य, व्यवधानं काशन्त इत्यतीकाशाः, पचाद्यत्, ‘इकः काशे’ इति पूर्वपदस्य दीर्घत्वम् । अधिकरणे साधने वा घञि थाथादिनोत्तरपदान्तोदात्तत्वम्, कृदुत्तरपदप्रकृतिस्वरत्वं वा ‘कर्षात्वतः’ इत्यन्तोदात्तत्वात् ‘उपसर्गस्य घञ्यमनुष्ये बहुलम्’ इति दीर्घः । ‘सावेकाचः’ इति दिशो विभक्तेरुदात्तत्वम् । फलमाह - उभयोर्लोकयोः अस्यामुप्य च अभिजयाय भवतीति । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ॥

मूलम् (संयुक्तम्)

केशश्म॒श्रु व॑पते न॒खानि॒ नि कृ॑न्तते मृ॒ता वा ए॒षा त्वग॑मे॒ध्या यत्के॑शश्म॒श्रु मृ॒तामे॒व त्वच॑ममे॒ध्याम॑प॒हत्य॑ य॒ज्ञियो॑ भू॒त्वा मेध॒मुपै॒त्य्

विश्वास-प्रस्तुतिः

के॒श॒श्म॒श्रु व॑पते , न॒खानि॒ नि कृ॑न्तते । मृ॒ता वा ए॒षा त्वग् अ॑मे॒ध्या यत् के॑शश्म॒श्रु ।

मूलम्

के॒श॒श्म॒श्रु व॑पते , न॒खानि॒ नि कृ॑न्तते । मृ॒ता वा ए॒षा त्वग् अ॑मे॒ध्या यत् के॑शश्म॒श्रु ।

पद-पाठः

के॒श॒श्म॒श्र्विति॑ केश-श्म॒श्रु । व॒प॒ते॒ ।
न॒खानि॑ । नीति॑ । कृ॒न्त॒ते॒ ।

मृ॒ता । वै । ए॒षा । त्वक् । अ॒मे॒ध्या । यत् । के॒श॒श्म॒श्र्विति॑ केश-श्म॒श्रु ।

भट्टभास्कर-टीका

7’केशश्मश्रु वपते नखानि नि कृन्तते’ इति विधिः - केशाश्च श्मश्रूणि च इति समाहारद्वन्द्वे ‘जातिरप्राणिनाम्’ इत्येकवद्ग्रावः । अधुना केशादित्रयं निन्दति - मृतेति । मृता वा मृतावत् प्राणादिभिरनधिष्ठितत्वात् । तद्वत् छिद्यमानायामप्यस्यां जन्तोः पीडानुदयात् । शवकल्पा खल्वेषा त्वक् । त्वगिव त्वक्; पुरुषस्य छादकत्वात् । अत एवामेध्या अयज्ञार्हा । मेधं नार्हतीति दण्डादिभ्यो यः, ‘तत्र साधुः’ इति वा यत्, ‘ययतोश्चातदर्थे’ इत्युत्तरपदान्तोदात्तत्वम् । किं पुनस्तदित्याह - यत्केशश्मश्रु यदिदं केशश्मश्रुनखं प्रकृतोपलक्षणत्वात्त्रयमपि गृह्यते ।

विश्वास-प्रस्तुतिः

मृ॒तामे॒व त्वच॑म् अमे॒ध्याम् अ॑प॒हत्य॑ य॒ज्ञियो॑ भू॒त्वा मेध॒म् उपै॑ति ।

मूलम्

मृ॒तामे॒व त्वच॑म् अमे॒ध्याम् अ॑प॒हत्य॑ य॒ज्ञियो॑ भू॒त्वा मेध॒म् उपै॑ति ।

पद-पाठः

मृ॒ताम् । ए॒व । त्वच॑म् । अ॒मे॒ध्याम् । अ॒प॒हत्येत्य॑प-हत्य॑ । य॒ज्ञियः॑ । भू॒त्वा । मेध॑म् । उपेति॑ । ए॒ति॒ ।

भट्टभास्कर-टीका

फलमाह - मृतामिति । वपनकर्तनाभ्यां मृतकल्पां त्वचं अमेधार्हामपहत्य अपास्य यज्ञियः यज्ञार्हो भूत्वा मेघं यज्ञमुपैति उपसंप्राप्नोति । ‘यज्ञर्त्विग्भ्याम्’ इति घः ॥

मूलम् (संयुक्तम्)

अङ्गि॑रसस्सुव॒र्गल्ँ लो॒कय्ँयन्तो॒ऽप्सु दी॑क्षात॒पसी॒ प्रावे॑शयन्न॒प्सु स्ना॑ति सा॒क्षादे॒व दी॑क्षात॒पसी॒ अव॑ रुन्द्धे ती॒र्थे स्ना॑ति ती॒र्थे हि ते ताम्प्रावे॑शयन्ती॒र्थे स्ना॑ति [2]
ती॒र्थमे॒व स॑मा॒नाना॑म्भवत्य्

विश्वास-प्रस्तुतिः

अङ्गि॑रसस् सुव॒र्गल्ँ लो॒कय् यँन्तो॒ऽप्सु दी॑क्षात॒पसी॒ प्रावे॑शयन् । अ॒प्सु स्ना॑ति । सा॒क्षाद् ए॒व दी॑क्षात॒पसी॒ अव॑ रुन्धे । ती॒र्थे स्ना॑ति । ती॒र्थे हि ते ताम् प्रावे॑शयन् । ती॒र्थे स्ना॑ति । ती॒र्थम् ए॒व स॑मा॒नाना॑म् भवति [2] ।

मूलम्

अङ्गि॑रसस् सुव॒र्गल्ँ लो॒कय् यँन्तो॒ऽप्सु दी॑क्षात॒पसी॒ प्रावे॑शयन् । अ॒प्सु स्ना॑ति । सा॒क्षाद् ए॒व दी॑क्षात॒पसी॒ अव॑ रुन्धे । ती॒र्थे स्ना॑ति । ती॒र्थे हि ते ताम् प्रावे॑शयन् । ती॒र्थे स्ना॑ति । ती॒र्थम् ए॒व स॑मा॒नाना॑म् भवति [2] ।

पद-पाठः

अङ्गि॑रसः । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । यन्तः॑ । अ॒प्स्वित्य॑प्-सु । दी॒क्षा॒त॒पसी॒ इति॑ दीक्षा-त॒पसी॑ । प्रेति॑ । अ॒वे॒श॒य॒न् ।
अ॒प्स्वित्य॑प्-सु । स्ना॒ति॒ ।
सा॒क्षादिति॑ स-अ॒क्षात् । ए॒व । दी॒क्षा॒त॒पसी॒ इति॑ दीक्षा-त॒पसी॑ । अवेति॑ । रु॒न्द्धे॒ ।
ती॒र्थे । स्ना॒ति॒ ।
ती॒र्थे । हि । ते । ताम् । प्रेति॑ । अ॒वे॒श॒य॒न् ।
ती॒र्थे । स्ना॒ति॒ । [2]
ती॒र्थम् । ए॒व । स॒मा॒नाना॑म् । भ॒व॒ति॒ ।

भट्टभास्कर-टीका

8’अथाप्सु स्नानं विधास्यन् तासां गुणविशेषमाह - अङ्गिरस इति ॥ दीक्षा मौण्ड्यादिलक्षणा, तपः उपसदाख्यं, तस्य चेह प्रासङ्गिकं ग्रहणं, दीक्षाधिकारात् । यथा वक्ष्यति ‘तीर्थे हि ते ताम्’ इति । ‘ऊडिदम्’ इत्यद्भ्यो विभक्तेरुदात्तत्वम् । अप्सु स्नातीति विधिः । फलमाह - साक्षादिति । अक्ष्णा सह साक्षात् । ‘बहुव्रीहौ सक्थ्यक्ष्णोः’ इति षच् । अप्सु स्नानेन प्रत्यक्षमेव ते अवरुन्धे गृह्णाति, न पुनर्वपनादिवत् स्नानादृष्टद्बारको दीक्षालाभः । तीर्थे स्नातीति विधिः । तीर्थमवतारः । हेतुमाह - हि यस्मात्ते अङ्गिरसः तां दीक्षा तीर्थे प्रावेशयन्, तस्मात्तीर्थे स्नातव्यमिति । ‘हि च’ इति निघाताभावः । तीर्थे स्नातीति द्वितीयं विधानं फलविधित्सया । फलं चाह - तीर्थमेवेति । समानानां सजातानां तीर्थमेव भवति यजमानः । यथा तत् स्नानपानावगाहादिना लोकस्योपकारकं भवति, एवमसौ समानानां बहुप्रकारमुपजीव्यो भवति ॥

मूलम् (संयुक्तम्)

अ॒पो॑ऽश्ञात्यन्तर॒त ए॒व मेध्यो॑ भवति॒

विश्वास-प्रस्तुतिः

अ॒पो॑ ऽश्नाति । अ॒न्त॒र॒त॒ ए॒व मेध्यो॑ भवति ।

मूलम्

अ॒पो॑ ऽश्नाति । अ॒न्त॒र॒त॒ ए॒व मेध्यो॑ भवति ।

पद-पाठः

अ॒पः । अ॒श्ञा॒ति॒ ।

अ॒न्त॒र॒तः । ए॒व । मेध्यः॑ । भ॒व॒ति॒ ।

भट्टभास्कर-टीका

9अपोश्नातीति विधिः ॥ ‘ऊडिदम्’ इति शस उदात्तत्वम्, ‘स्वरितोवानुदात्ते’ इत्येकादेशस्य स्वरितत्वम् । फलमाह - अन्तरत एव मेध्यो भवतीति । मेध्यः मेधार्हः भवति । पूर्ववद्यत्प्रत्यये वृषादित्वादाद्युदात्तत्वम् । मेधे साधुरिति वा यत् । यद्वा - मेध्यध्शुद्धः, मेधे भवः इति दिगादित्वाद्यत्, ‘यतो नावः’ इत्याद्युदात्तत्वम् ॥

मूलम् (संयुक्तम्)

वास॑सा दीक्षयति सौ॒म्यव्ँ वै क्षौम॑न्दे॒वत॑या॒ सोम॑मे॒ष दे॒वता॒मुपै॑ति॒ यो दीक्ष॑ते॒

विश्वास-प्रस्तुतिः

वास॑सा दीक्षयति , सौ॒म्यव्ँ वै क्षौम॑न् दे॒वत॑या ।
सोम॑म् ए॒ष दे॒वता॒म् उपै॑ति॒ , यो दीक्ष॑ते ।

मूलम्

वास॑सा दीक्षयति , सौ॒म्यव्ँ वै क्षौम॑न् दे॒वत॑या ।
सोम॑म् ए॒ष दे॒वता॒म् उपै॑ति॒ , यो दीक्ष॑ते ।

पद-पाठः

वास॑सा । दी॒क्ष॒य॒ति॒ ।
सौ॒म्यम् । वै । क्षौम॑म् । दे॒वत॑या ।
सोम॑म् । ए॒षः । दे॒वता॑म् । उपेति॑ । ए॒ति॒ ।
यः । दीक्ष॑ते ।

भट्टभास्कर-टीका

10वाससा दीक्षयतीति विधिः ॥ वासः क्षौमं, अर्थवादे त्वात् । फलमाह - सौम्यमिति । सोमो देवता अस्य ‘सोमाट्ट्याण्’ । देवतया देवतासंबन्धेन । किं देवत्यमिति निरूप्यमाणे सौम्यं क्षौममिति यावत् । तस्माद्यो वाससा सोमदेवत्येन दीक्षते एषः सोमं वक्ष्यमाणं देवतां उपैतीति सोमावाप्तिः फलम् । यद्वा - यो दीक्षते एषः सोमदेवतामुपैति उपसंप्राप्तुं यतते; वासश्च सोमदेवत्यं, तस्मात् तदुपेतव्यप्राप्तिसाधनमिति ॥

मूलम् (संयुक्तम्)

सोम॑स्य त॒नूर॑सि त॒नुव॑म्मे पा॒हीत्या॑ह॒ स्वामे॒व दे॒वता॒मुपै॒त्यथो॑ आ॒शिष॑मे॒वैतामा शा॑स्ते॒

विश्वास-प्रस्तुतिः

सोम॑स्य त॒नूर॑सि त॒नुव॑म् मे पा॒हि॒ + इत्या॑ह । स्वामे॒व दे॒वता॒म् उपै॑ति ।
अथो॑ आ॒शिष॑म् ए॒वैताम् आशा॑स्ते ।

मूलम्

सोम॑स्य त॒नूर॑सि त॒नुव॑म् मे पा॒हि॒ + इत्या॑ह । स्वामे॒व दे॒वता॒म् उपै॑ति ।
अथो॑ आ॒शिष॑म् ए॒वैताम् आशा॑स्ते ।

पद-पाठः

सोम॑स्य । त॒नूः । अ॒सि॒ ।
त॒नुव॑म् । मे॒ । पा॒हि॒ । इति॑ । आ॒ह॒ ।
स्वाम् । ए॒व । दे॒वता॑म् । उपेति॑ । ए॒ति॒ ।
अथो॒ इति॑ । आ॒शिष॒मित्या॑-शिष॑म् । ए॒व । ए॒ताम् । एति॑ । शा॒स्ते॒ ।

भट्टभास्कर-टीका

11अधुना अमुमेवार्थं मन्त्रार्थेऽपि प्रकाशयति - सोमस्येति ॥ वक्ष्यमाणाया मदीयाया देवतायास्सोमस्य तनूस्त्वमसीति यस्मादाह मन्त्रः, तस्मात्स्वामेव देवतामुपैति, अनेन मन्त्रेण अनेन च वाससा दीक्षणेन । किमेतावदेव प्रतिपाद्यं मन्त्रस्य? नेत्याह - अथो इति । अपि चेत्यर्थः । तनुवं मे पाहीत्येतामप्याशिषमनेन मन्त्रेणाशास्ते । तदेवं वाससा दीक्षायाः फलद्वयमभीष्टदेवताप्राप्तिरात्मरक्षा चेति ब्राह्मणाभिप्रायः । ‘आङश्शासु इच्छायां’ इत्यस्य ‘क्वौ च’ इतीत्वम्, ‘शासिवसिघसीनां च’ इति षत्वम् ॥

मूलम् (संयुक्तम्)

अ॒ग्नेस्तू॑षा॒धानव्ँ॑वा॒योर्वा॑त॒पान॑म्पितृ॒णान्नी॒विरोष॑धीनाम्प्रघा॒तः [3]
आ॒दि॒त्याना॑म्प्राचीनता॒नो विश्वे॑षान्दे॒वाना॒मोतु॒र्नक्ष॑त्राणामतीका॒शास्तद्वा ए॒तत्स॑र्वदेव॒त्यय्ँ॑यद्वासो॒ यद्वास॑सा दी॒क्षय॑ति॒ सर्वा॑भिरे॒वैन॑न्दे॒वता॑भिर्दीक्षयति

विश्वास-प्रस्तुतिः

अ॒ग्नेस्तू॑षा॒धान॑म् ।
वा॒योर्वा॑त॒पान॑म् ।
पि॒तृ॒णाम्नी॒विः ।
ओष॑धीनाम्प्रघा॒तः । [3]
आदि॒त्याना॑म् प्राचीनता॒नः ।
विश्वे॑षान् दे॒वाना॒म् ओतुः॑ ।
नक्ष॑त्राणाम् अतीका॒शाः ।
तद्वा ए॒तत्स॑र्वदेवत्यय्ँ॑ यद्वासः॑ ।
यद् वास॑सा दी॒क्षय॑ति॒ , सर्वा॑भिर् ए॒वैन॑न् दे॒वता॑भिर् दीक्षयति ।

मूलम्

अ॒ग्नेस्तू॑षा॒धान॑म् ।
वा॒योर्वा॑त॒पान॑म् ।
पि॒तृ॒णाम्नी॒विः ।
ओष॑धीनाम्प्रघा॒तः । [3]
आदि॒त्याना॑म् प्राचीनता॒नः ।
विश्वे॑षान् दे॒वाना॒म् ओतुः॑ ।
नक्ष॑त्राणाम् अतीका॒शाः ।
तद्वा ए॒तत्स॑र्वदेवत्यय्ँ॑ यद्वासः॑ ।
यद् वास॑सा दी॒क्षय॑ति॒ , सर्वा॑भिर् ए॒वैन॑न् दे॒वता॑भिर् दीक्षयति ।

पद-पाठः

अ॒ग्नेः । तू॒षा॒धान॒मिति॑ तूष-आ॒धान॑म् ।
वा॒योः । वा॒त॒पान॒मिति॑ वात-पान॑म् ।
पि॒तृ॒णाम् । नी॒विः ।
ओष॑धीनाम् । प्र॒घा॒त इति॑ प्र-घा॒तः । [3]
आ॒दि॒त्याना॑म् । प्रा॒ची॒न॒ता॒न इति॑ प्राचीन-ता॒नः ।
विश्वे॑षाम् । दे॒वाना॑म् । ओतुः॑ । नक्ष॑त्राणाम् । अ॒ती॒का॒शाः । तत् । वै । ए॒तत् । स॒र्व॒दे॒व॒त्य॑मिति॑ सर्व-दे॒व॒त्य॑म् । यत् । वासः॑ । यत् । वास॑सा । दी॒क्षय॑ति । सर्वा॑भिः । ए॒व । ए॒न॒म् । दे॒वता॑भिः । दी॒क्ष॒य॒ति॒ ।

भट्टभास्कर-टीका

12अधुना सर्वदेवत्यत्वेन वासस्स्तौति - अग्नेरिति ॥ शलाकोपधानरज्जवः तूषाः । तत्र तन्तूनामाधानं पूरणं तूषाधानं, तदग्नेः तदग्निदैवत्यम् । सेचनानि पाययित्वा वातेन पानं शोषणं वातपानम् । पै ओ वै शोषणे, उभयत्रापि कृदुत्तरपदप्रकृतिस्वरत्वम् । व्यत्ययेन ‘अनो भावकर्मवचनः’ इति न क्रियते । नीविः नहनविशेषः, तन्तूनां तत्र तत्र प्रतिष्ठापनम् । प्रघातः वेमाख्येन दण्डेन प्रहारः । प्राचीनानां द्राघीयसां तन्तूनां तानः तननं प्राचीनतानः । उभयत्र थाथादिनोत्तरपदान्तोदात्तत्वम् । ओतुः तिरश्चीनतानः, तेन हि प्राचीनतानो रक्ष्यते । वयतेरौणादिके तुनि ‘छ्वोश्शूट्’ इति वकारस्य ऊडादेशः । अतीकाशाश्छिद्राणि प्राचीनतिरश्चीनान्तरवकाशाः, पूर्ववत्स्वरदीर्धत्वे । एवं यद्वा - सो नाम तदेतत्खलु सर्वदेवत्यं सर्वदेवताभ्य इदं सर्वदेवत्यं, देवतान्तात्तादर्थ्ये यत् । तस्माद्वाससा दीक्षितः सर्वाभिर्देवताभिर्दीक्षितो भवति । एनादेशोनुदात्तः ॥

मूलम् (संयुक्तम्)

ब॒हिᳶप्रा॑णो॒ वै म॑नु॒ष्य॑स्तस्याश॑नम्प्रा॒णो॑ऽश्ञाति॒ सप्रा॑ण ए॒व दी॑क्षत॒ आशि॑तो भवति॒ यावा॑ने॒वास्य॑ प्रा॒णस्तेन॑ स॒ह मेध॒मुपै॑ति

विश्वास-प्रस्तुतिः

ब॒हिᳶप्रा॑णो॒ वै म॑नु॒ष्यः॑ । तस्याश॑नम् प्रा॒णः ।

मूलम्

ब॒हिᳶप्रा॑णो॒ वै म॑नु॒ष्यः॑ । तस्याश॑नम् प्रा॒णः ।

पद-पाठः

ब॒हिᳶप्रा॑ण॒ इति॑ ब॒हिः-प्रा॒णः॒ । वै । म॒नु॒ष्यः॑ ।
तस्य॑ । अश॑नम् । प्रा॒ण इति॑ प्र-अ॒नः ।

भट्टभास्कर-टीका

13अशनं विधास्यन् अशनीयं स्तौति - बहिःप्राण इति ॥ बहिर्भूता अन्नादयः प्राणहेतवो यस्य । बहिर्भूतैर्वा अन्नादिभिः प्राणनं यस्येति व्यधिकरणो बहुव्रीहिः । यस्मादेवं तस्मात् तस्य मनुष्यस्याशनं प्राणहेतुः । यद्वा - तस्य बहिर्भतूस्यान्नादेरशनं स्वयं प्राणः । प्राणयति जिवयतीति प्राणः, पचाद्यच्, थाथादिनोत्तरपदान्तोदात्तत्वम् ।

विश्वास-प्रस्तुतिः

अ॒श्नाति॒ सप्रा॑ण ए॒व दी॑क्षते ।
आशि॑तो भवति । यावा॑न् ए॒वास्य॑ प्रा॒णस् तेन॑ स॒ह मेध॒म् उपै॑ति ।

मूलम्

अ॒श्नाति॒ सप्रा॑ण ए॒व दी॑क्षते ।
आशि॑तो भवति । यावा॑न् ए॒वास्य॑ प्रा॒णस् तेन॑ स॒ह मेध॒म् उपै॑ति ।

पद-पाठः

अ॒श्ञाति॑ । सप्रा॑ण॒ इति॒ स-प्रा॒णः॒ । ए॒व । दी॒क्ष॒ते॒ ।
आशि॑तः । भ॒व॒ति॒ ।
यावा॑न् । ए॒व । अ॒स्य॒ । प्रा॒ण इति॑ प्र-अ॒नः । तेन॑ । स॒ह । मेध॑म् । उपेति॑ । ए॒ति॒ ।

भट्टभास्कर-टीका

अश्नातीति विधिः । तस्मादश्नीयात्प्राणवत्त्वाय । पदात्परत्वाभावान्न निहन्यते । ‘स्वरितो वाऽनुदात्ते पदादौ’ इति संहितायामाकारस्स्वर्यते । फलमाह - सप्राण इति । अभ्यन्तरीकृतप्राण एवेत्यर्थः । ‘तेन सहेति तुल्ययोगे’ इति बहुव्रीहिः । फलान्तरं चाह - आशितो भवतीति । ‘आशितो भुवः’ इति निपातनाद्दीर्धत्वम्, कर्तरि निष्ठा च । ण्यन्तात्कर्मणि निष्ठा । आशितो हि सुहितो भवतीति सुहितत्वं लक्ष्यते । सर्वथा ष्टषोदरादित्वादाद्युदात्तत्वं द्रष्टव्यम् । अशनेन ह्ययमाशितो भवति । तस्मादाशितंभवमन्नादिकमश्नीयादिति । तदपि किमर्थमित्याह - यावानिति । अस्याशितस्य यावान्प्राणः तेन सर्वेण मेधं यज्ञमुपैति ॥

मूलम् (संयुक्तम्)

घृ॒तन्दे॒वाना॒म्मस्तु॑ पितृ॒णान्निष्प॑क्वम्मनु॒ष्या॑णा॒न्तद्वै [4]
ए॒तत्स॑र्वदेव॒त्यय्ँ॑यन्नव॑नीतय्ँ॒यन्नव॑नीतेनाभ्य॒ङ्क्ते सर्वा॑ ए॒व दे॒वताः॑ प्रीणाति॒ प्रच्यु॑तो॒ वा ए॒षो॑ऽस्माल्लो॒कादग॑तो देवलो॒कय्ँ यो दी॑क्षि॒तो॑ऽन्त॒रेव॒ नव॑नीत॒न्तस्मा॒न्नव॑नीतेना॒भ्य॑ङ्क्तेऽनुलो॒मय्ँयजु॑षा॒ व्यावृ॑त्त्या॒

विश्वास-प्रस्तुतिः

घृ॒तन्दे॒वाना॒म् , मस्तु॑ पितृ॒णाम् । निष्प॑क्वम् मनु॒ष्या॑णाम् ।

मूलम्

घृ॒तन्दे॒वाना॒म् , मस्तु॑ पितृ॒णाम् । निष्प॑क्वम् मनु॒ष्या॑णाम् ।

पद-पाठः

घृ॒तम् । दे॒वाना॑म् ।
मस्तु॑ । पि॒तृ॒णाम् ।
निष्प॑क्व॒मिति॒ निः-प॒क्व॒म् । म॒नु॒ष्या॑णाम् ।

भट्टभास्कर-टीका

14अथ नवनीतेनाम्यञ्जनं विधास्यन् तत्सर्वदेवत्यतया स्तौति - घृतमिति ॥ तिस्रोवस्थाः, नवनीतस्यैताः उद्धृतानुद्धृतविलीनस्वभावतया केचिदाहुः । धृतं अग्नौ विलीनम् । मस्तु स्वयं विलीनम् । निष्पक्वमौषधैः पक्वमिति नवनीतस्यैवावस्थास्तिस्रः इति । निष्पक्वमिति ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् ।

विश्वास-प्रस्तुतिः

तद् वा ए॒तत् स॑र्वदेव॒त्यय्ँ॑ यन् नव॑नीतम् ।[4]
यन् नव॑नीतेनाभ्य॒ङ्क्ते , सर्वा॑ ए॒व दे॒वताः॑ प्रीणाति । प्रच्यु॑तो॒ वा ए॒षो॑ऽस्माल् लो॒काद् अग॑तो देवलो॒कय्ँ यो दी॑क्षि॒तः ।
अ॒न्त॒रा + इ॒व॒ नव॑नीतम् । तस्मा॒न् नव॑नीतेना॒भ्य॑ङ्क्ते ऽनुलो॒मय् , यँजु॑षा॒ व्यावृ॑त्त्यै ।

मूलम्

तद् वा ए॒तत् स॑र्वदेव॒त्यय्ँ॑ यन् नव॑नीतम् ।[4]
यन् नव॑नीतेनाभ्य॒ङ्क्ते , सर्वा॑ ए॒व दे॒वताः॑ प्रीणाति । प्रच्यु॑तो॒ वा ए॒षो॑ऽस्माल् लो॒काद् अग॑तो देवलो॒कय्ँ यो दी॑क्षि॒तः ।
अ॒न्त॒रा + इ॒व॒ नव॑नीतम् । तस्मा॒न् नव॑नीतेना॒भ्य॑ङ्क्ते ऽनुलो॒मय् , यँजु॑षा॒ व्यावृ॑त्त्यै ।

पद-पाठः

तत् । वै । ए॒तत् । स॒र्व॒दे॒व॒त्य॑मिति॑ सर्व-दे॒व॒त्य॑म् । यत् । नव॑नीत॒मिति॒ नव॑-नी॒त॒म् ।

यत् । नव॑नीते॒नेति॒ नव॑-नी॒ते॒न॒ । अ॒भ्य॒ङ्क्त इत्य॑भि-अ॒ङ्क्ते । सर्वाः॑ । ए॒व । दे॒वताः॑ । प्री॒णा॒ति॒ ।

प्रच्यु॑त॒ इति॒ प्र-च्यु॒तः॒ । वै । ए॒षः । अ॒स्मात् । लो॒कात् । अग॑तः । दे॒व॒लो॒कमिति॑ देव-लो॒कम् । यः । दी॒क्षि॒तः ।

अ॒न्त॒रा । इ॒व॒ । नव॑नीत॒मिति॒ नव॑-नी॒त॒म् ।

तस्मा॑त् । नव॑नीते॒नेति॒ नव॑-नी॒ते॒न॒ । अ॒भीति॑ । अ॒ङ्क्ते॒ ।

अ॒नु॒लो॒ममित्य॑नु-लो॒मम् । यजु॑षा । व्यावृ॑त्त्या॒ इति॑ वि-आवृ॑त्त्यै ।

भट्टभास्कर-टीका

तद्वा इति । तदेतत्सर्वदेवत्यम् । पूर्ववद्यत् । तस्मान्नवनीताभ्यञ्जनं सर्वासां देवतानां प्रीणनम् । अभ्यङ्क्ते इति । ‘तिङि चोदात्तवति’ इति गतेः अनुदात्तत्वम् । किं चेत्याह - प्रच्युत इति । प्रच्युतः व्यावृत्तोभवत् अप्राप्तश्च देवलोकमसमाप्तकर्मत्वात् । अन्तरा वर्तते । कः? यो दीक्षितः नवनीतं चान्तरेव मध्यमायामिव अवस्थायां वर्तते । तस्मादनुलोमं यजुषेति विधिः । प्रच्युत इति प्रादिसमासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अस्मादिति ‘ऊडिदम्’ इति विभक्तेरुदात्तत्वम् । अनुलोममिति ‘अच्प्रत्यन्ववपूर्वात्’ इत्यच् । यजुषा ‘महीनां पयोसि’ इत्यादिना । एवं क्रियमाणमस्य मनुष्येभ्यो व्यावृत्यै भवति । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ॥

मूलम् (संयुक्तम्)

इन्द्रो॑ वृ॒त्रम॑ह॒न्तस्य॑ क॒नीनि॑का॒ परा॑पत॒त्तदाञ्ज॑नमभव॒द्यदा॒ङ्क्ते चक्षु॑रे॒व भ्रातृ॑व्यस्य वृङ्क्ते॒

विश्वास-प्रस्तुतिः

इन्द्रो॑ वृ॒त्रम॑ह॒न् । तस्य॑ क॒नीनि॑का॒ परा॑ ऽपतत् । तद् आञ्ज॑नम् अभवद् । यद् आ॒ङ्क्ते चक्षु॑र् ए॒व भ्रातृ॑व्यस्य वृङ्क्ते ।

मूलम्

इन्द्रो॑ वृ॒त्रम॑ह॒न् । तस्य॑ क॒नीनि॑का॒ परा॑ ऽपतत् । तद् आञ्ज॑नम् अभवद् । यद् आ॒ङ्क्ते चक्षु॑र् ए॒व भ्रातृ॑व्यस्य वृङ्क्ते ।

पद-पाठः

इन्द्रः॑ । वृ॒त्रम् । अ॒ह॒न् ।
तस्य॑ । क॒नीनि॑का । परेति॑ । अ॒प॒त॒त् ।
तत् । आञ्ज॑न॒मित्या॑-अञ्ज॑नम् । अ॒भ॒व॒त् ।
यत् । आ॒ङ्क्त इत्या॑-अ॒ङ्क्ते । चक्षुः॑ । ए॒व । भ्रातृ॑व्यस्य । वृ॒ङ्क्ते॒ ।

भट्टभास्कर-टीका

15इन्द्रो वृत्रमहन्नित्यादि ॥ कनीनिका अक्षिस्थं कृष्णमण्डलं पराऽपतत् गळिता अभवत्, तदाञ्जनं द्रव्यमभवत् । तस्मादक्ष्णोरञ्जनेन यजमानः भ्रातृव्यस्य शत्रोश्चक्षुर्वृङ्क्ते वर्जयति । वृजि वर्जने । ‘व्यन् सपत्ने’ इति भ्रातृव्यशव्दाद्व्यन् । तस्मादाञ्जीतेति विधिरनुमीयते ॥

मूलम् (संयुक्तम्)

दक्षि॑ण॒म्पूर्व॒माङ्क्ते॑ [5]
स॒व्यँ हि पूर्व॑म्मनु॒ष्या॑ आ॒ञ्जते॒ न नि धा॑वते॒ नीव॒ हि म॑नु॒ष्या॑ धाव॑न्ते॒ पञ्च॒ कृत्व॒ आङ्क्ते॒ पञ्चा॑क्षरा प॒ङ्क्तिᳶ पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धे॒ परि॑मित॒माङ्क्तेऽप॑रिमितँ॒ हि म॑नु॒ष्या॑ आ॒ञ्जते॒ सतू॑ल॒याङ्क्तेऽप॑तूलया॒ हि म॑नु॒ष्या॑ आ॒ञ्जते॒ व्यावृ॑त्त्यै॒ यदप॑तूलयाञ्जी॒त वज्र॑ इव स्या॒त्सतू॑ल॒याङ्क्ते॑ मित्र॒त्वाय॑ [6]

विश्वास-प्रस्तुतिः

दक्षि॑ण॒म् पूर्व॒म् आङ्क्ते॑ ।[5] सव्यँ हि पूर्व॑म् मनु॒ष्या॑ आ॒ञ्जते॑ ।
न नि धा॑वते॒ नीव॒ हि म॑नु॒ष्या॑ धाव॑न्ते ।
पञ्च॒ कृत्व॒ आंऽक्ते॑ । पञ्चा॑क्षरा प॒ङ्क्तिः । पाङ्क्तो॑ य॒ज्ञः, य॒ज्ञमे॒वाव॑ रुन्धे ।

मूलम्

दक्षि॑ण॒म् पूर्व॒म् आङ्क्ते॑ ।[5] सव्यँ हि पूर्व॑म् मनु॒ष्या॑ आ॒ञ्जते॑ ।
न नि धा॑वते॒ नीव॒ हि म॑नु॒ष्या॑ धाव॑न्ते ।
पञ्च॒ कृत्व॒ आंऽक्ते॑ । पञ्चा॑क्षरा प॒ङ्क्तिः । पाङ्क्तो॑ य॒ज्ञः, य॒ज्ञमे॒वाव॑ रुन्धे ।

पद-पाठः

दक्षि॑णम् । पूर्व॑म् । एति॑ । अ॒ङ्क्ते॒ ।

स॒व्यम् । हि । पूर्व॑म् । म॒नु॒ष्याः॑ । आ॒ञ्जत॒ इत्या॑-अ॒ञ्जते॑ ।
न । नीति॑ । धा॒व॒ते॒ ।
नीति॑ । इ॒व॒ । हि । म॒नु॒ष्याः॑ । धाव॑न्ते ।
पञ्च॑ । कृत्वः॑ । एति॑ । अ॒ङ्क्ते॒ ।
पञ्चा॑क्ष॒रेति॒ पञ्च॑-अ॒क्ष॒रा॒ । प॒ङ्क्तिः ।
पाङ्क्तः॑ । य॒ज्ञः ।
य॒ज्ञम् । ए॒व । अवेति॑ । रु॒न्द्धे॒ ।

भट्टभास्कर-टीका

16अथाञ्जने गुणविधयः - दक्षिणं पूर्वमित्यादि ॥ गतम् । न निधावते न भ्रमयति यस्मान्मनुष्या एव निधावन्तः अञ्जने । सर्वत्र ‘हि च’ इति निघाताभावः । पञ्चकृत्वः एकैकस्य द्वयोर्वा पञ्चकृत्वः । कृत्व इति शब्दान्तरमेवेदमभ्यावृत्तिमाचष्टे । पच्छा क्षरा पङ्क्तिः देवानां पङ्क्तेः पञ्चाक्षरत्वात् । पदानां वा पञ्चाक्षरत्वात् पङ्क्तिः पञ्चाक्षरेत्युच्यते । पङ्क्तेरागतः पाङ्क्तः । उत्सादित्वात् । धानाः, करम्भः, परिवापः, पुरोडाशः, पयस्या, तेन पङ्क्तिराप्यते । तत् यज्ञस्य पाङ्क्तत्वमिति । यज्ञः पाङ्क्त इति । एवमत्रापि पञ्चत्वसङ्ख्यासंपादनात् पाङ्को यज्ञः परिगृहीतो भवतीति ।

विश्वास-प्रस्तुतिः

परि॑मित॒म् आङ्क्ते॑ । अप॑रिमितँ॒ हि म॑नु॒ष्या॑ आ॒ञ्जते॑ ।
सतू॑ल॒या ऽऽङ्क्ते॑ । अप॑तूलया॒ हि म॑नु॒ष्या॑ आ॒ञ्जते॑ ।
व्यावृ॑त्त्यै ।
यद् अप॑तूलयाञ्जी॒त वज्र॑ इव स्यात् । सतू॑ल॒याङ्क्ते॑ मित्र॒त्वाय॑ ।[6]

मूलम्

परि॑मित॒म् आङ्क्ते॑ । अप॑रिमितँ॒ हि म॑नु॒ष्या॑ आ॒ञ्जते॑ ।
सतू॑ल॒या ऽऽङ्क्ते॑ । अप॑तूलया॒ हि म॑नु॒ष्या॑ आ॒ञ्जते॑ ।
व्यावृ॑त्त्यै ।
यद् अप॑तूलयाञ्जी॒त वज्र॑ इव स्यात् । सतू॑ल॒याङ्क्ते॑ मित्र॒त्वाय॑ ।[6]

पद-पाठः

परि॑मित॒मिति॒ परि॑-मि॒त॒म् । एति॑ । अ॒ङ्क्ते॒ ।
अप॑रिमित॒मित्यप॑रि-मि॒त॒म् । हि । म॒नु॒ष्याः॑ । आ॒ञ्जत॒ इत्या॑-अ॒ञ्जते॑ ।
सतू॑ल॒येति॒ स-तू॒ल॒या॒ । एति॑ । अ॒ङ्क्ते॒ ।
अप॑तूल॒येत्यप॑-तू॒ल॒या॒ । हि । म॒नु॒ष्याः॑ । आ॒ञ्जत॒ इत्या॑-अ॒ञ्जते॑ ।
व्यावृ॑त्त्या॒ इति॑ वि-आवृ॑त्त्यै ।
यत् । अप॑तूल॒येत्यप॑-तू॒ल॒या॒ । आ॒ञ्जी॒तेत्या॑-अ॒ञ्जी॒त । वज्रः॑ । इ॒व॒ । स्यात् ।
सतू॑ल॒येति॒ स-तू॒ल॒या॒ । एति॑ । अ॒ङ्क्ते॒ । मि॒त्र॒त्वायेति॑ मित्र-त्वाय॑ ।

भट्टभास्कर-टीका

परिमितं पञ्चैवेति परिच्छिन्नम् । ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । अपरिमितं अपरिछिन्नं यथाऽभिप्रेतमावर्तयन्ति मनुष्याः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । सतूलया साग्रेषीकया । अपतूलया शलाकया । पूर्ववत्स्वरः । व्यावृत्यै अमानुषीभूतत्वादस्य मनुष्येभ्यो व्यावृत्तिप्रकटनार्थम् । दक्षिणं पूर्वमित्यादिष्वपि व्यावृत्या इति संबध्यते । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् । अपतलूयाऽञ्जनं वज्र इव सर्वस्योपद्रवहेतुस्स्यात् । सतूलया तु सर्वस्य मित्रत्वाय भवति मित्रवदुपद्रवशान्त्यै भवति ॥

मूलम् (संयुक्तम्)

इन्द्रो॑ वृ॒त्रम॑ह॒न्त्सोऽ३॒॑ पोऽ३॒॑ भ्य॑म्रियत॒ तासाय्ँ॒यन्मेध्यय्ँ॑ य॒ज्ञियँ॒ सदे॑व॒मासी॒त्तदपोद॑क्राम॒त्ते द॒र्भा अ॑भव॒न्यद्द॑र्भपुञ्जी॒लैᳶ प॒वय॑ति॒ या ए॒व मेध्या॑ य॒ज्ञिया॒स्सदे॑वा॒ आप॒स्ताभि॑रे॒वैन॑म्पवयति॒

विश्वास-प्रस्तुतिः

इन्द्रो॑ वृ॒त्रम॑हन् । सोऽ३॒॑ पोऽ३॒॑भ्य॑म्रियत । तासाय्ँ॒ यन्मेध्यय्ँ॑ य॒ज्ञियँ॒ सदे॑व॒म् आसी॒त् , तद् अप॑ + उद॑क्रामत् ।

मूलम्

इन्द्रो॑ वृ॒त्रम॑हन् । सोऽ३॒॑ पोऽ३॒॑भ्य॑म्रियत । तासाय्ँ॒ यन्मेध्यय्ँ॑ य॒ज्ञियँ॒ सदे॑व॒म् आसी॒त् , तद् अप॑ + उद॑क्रामत् ।

पद-पाठः

इन्द्रः॑ । वृ॒त्रम् । अ॒ह॒न् ।

सः । अ॒पः । अ॒भीति॑ । अ॒म्रि॒य॒त॒ ।
तासा॑म् । यत् । मेध्य॑म् । य॒ज्ञिय॑म् । सदे॑व॒मिति॒ स-दे॒व॒म् । आसी॑त् । तत् । अप॑ । उदिति॑ । अ॒क्रा॒म॒त् ।

भट्टभास्कर-टीका

17दर्भपुञ्जीत्यैः पवनं विधास्यन् दर्भांस्तावत्स्तौति - इन्द्र इति ॥ इन्द्रेण हतो वृत्रः सोपोभि यत्रापस्तत्राम्रियत मृतो बभूव अपामुपरीत्यर्थः । ‘अभिरभागे’ इत्यभेः कर्मप्रवचनीयत्वम्, ‘कर्मप्रवचनीययुक्ते द्वितीया’ इत्यप्शब्दात् द्वितीया, तस्याः ‘ऊडिदम्’ इत्याद्युदात्तत्वम्, ‘स्वरितो वाऽनुदात्ते पदादौ’ इत्योकारस्स्वर्यते, ‘उदात्तस्वरितयोर्यणः’ इत्यट्स्वरितत्वम् । तासामपां यन्मेध्यं शुद्धं रूपम् । पूर्ववद्यत् । यज्ञियं यज्ञार्हम् । पूर्ववद्धः । सदेवं देवसहितं देवयोग्यमित्यर्थः । यदीदृशं रूपमासीत्, तदपोदक्रामत् अपोपहायोर्ध्वमगच्छत् ।

विश्वास-प्रस्तुतिः

ते द॒र्भा अ॑भवन् । यद् द॑र्भपुञ्जी॒लैᳶ प॒वय॑ति॒ , या ए॒व मेध्या॑ य॒ज्ञिया॒स् , सदे॑वा॒ आप॒स् , ताभि॑र् ए॒वैन॑म् पवयति ।

मूलम्

ते द॒र्भा अ॑भवन् । यद् द॑र्भपुञ्जी॒लैᳶ प॒वय॑ति॒ , या ए॒व मेध्या॑ य॒ज्ञिया॒स् , सदे॑वा॒ आप॒स् , ताभि॑र् ए॒वैन॑म् पवयति ।

पद-पाठः

ते । द॒र्भाः । अ॒भ॒व॒न् ।

यत् । द॒र्भ॒पु॒ञ्जी॒लैरिति॑ दर्भ-पु॒ञ्जी॒लैः । प॒वय॑ति ।
याः । ए॒व । मेध्याः॑ । य॒ज्ञियाः॑ । सदे॑वा॒ इति॒ स-दे॒वाः॒ । आपः॑ । ताभिः॑ । ए॒व । ए॒न॒म् । प॒व॒य॒ति॒ ।

भट्टभास्कर-टीका

ते दर्भा अभवन् तद्दर्भभावं प्रत्यपद्यत । दर्भापेक्षया बहुवचनम् । तस्माद्दर्भपुञ्जीलैः पावनेन मेध्यत्वादिगुणादिभिरद्भिर्यजमानः पावितो भवति । तेन ‘दर्भपुञ्जीलैः पावयेत्’ इति विधिर्गम्यते । ‘प्वादीनां ह्रस्वः’ इति व्यत्ययेन णिच्यपि प्रवर्तते । ‘संज्ञापूर्वको विधिरनित्यः’ इति वा वृद्धिर्न क्रियते ॥

मूलम् (संयुक्तम्)

द्वाभ्या॑म्पवयत्यहोरा॒त्राभ्या॑मे॒वैन॑म्पवयति त्रि॒भिᳶ प॑वयति॒ त्रय॑ इ॒मे लो॒का ए॒भिरे॒वैनल्ँ॑ लो॒कैᳶ प॑वयति प॒ञ्चभिः॑ [7]
प॒व॒य॒ति॒ पञ्चा॑क्षरा प॒ङ्क्तिᳶ पाङ्क्तो॑ य॒ज्ञो य॒ज्ञायै॒वैन॑म्पवयति ष॒ड्भिᳶ प॑वयति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॑म्पवयति स॒प्तभि॑ᳶ पवयति स॒प्त छन्दाँ॑सि॒ छन्दो॑भिरे॒वैन॑म्पवयति न॒वभि॑ᳶ पवयति॒ नव॒ वै पुरु॑षे प्रा॒णास्सप्रा॑णमे॒वैन॑म्पवय॒त्येक॑विँशत्या पवयति॒ दश॒ हस्त्या॑ अ॒ङ्गुल॑यो॒ दश॒ पद्या॑ आ॒त्मैक॑विँ॒शो यावा॑ने॒व पुरु॑ष॒स्तमप॑रिवर्गम् [8]
प॒व॒य॒ति॒

विश्वास-प्रस्तुतिः

द्वाभ्या॑म् पवयति । अ॒हो॒रा॒त्रा॒भ्या॑म् ए॒वैन॑म् पवयति ।
त्रि॒भिᳶ प॑वयति ।
त्रय॑ इ॒मे लो॒काः । ए॒भिर् ए॒वैनल्ँ॑ लो॒कैᳶ प॑वयति ।

मूलम्

द्वाभ्या॑म् पवयति । अ॒हो॒रा॒त्रा॒भ्या॑म् ए॒वैन॑म् पवयति ।

त्रि॒भिᳶ प॑वयति ।
त्रय॑ इ॒मे लो॒काः । ए॒भिर् ए॒वैनल्ँ॑ लो॒कैᳶ प॑वयति ।

पद-पाठः

द्वाभ्या॑म् । प॒व॒य॒ति॒ ।
अ॒हो॒रा॒त्राभ्या॒मित्य॑हः-रा॒त्राभ्या॑म् । ए॒व । ए॒न॒म् । प॒व॒य॒ति॒ ।

त्रि॒भिरिति॑ त्रि-भिः । प॒व॒य॒ति॒ ।
त्रयः॑ । इ॒मे । लो॒काः ।
ए॒भिः । ए॒व । ए॒न॒म् । लो॒कैः । प॒व॒य॒ति॒ ।

भट्टभास्कर-टीका

18द्वाभ्यामित्यादयो गुणविधयः । एकस्मिन्पवने अवयुत्य वादा एते इति केचित् । नानासंख्याविधीनामेकवाक्यत्वासंभवाद्विकल्प इत्यन्ये । अत्र संख्याविशेषाः संख्येयविशेषं सन्निधाप्य तेन स्तू- यन्ते ।

त्रिभिः । ‘षट्चतुर्भ्यो हलादिः’ इति भिस उदात्तत्वम् ।

विश्वास-प्रस्तुतिः

प॒ञ्चभि॑ᳶ पवयति [7] । पञ्चा॑क्षरा प॒ङ्क्तिः । पाङ्क्तो॑ य॒ज्ञः । य॒ज्ञाय ए॒वैन॑म् पवयति ।

मूलम्

प॒ञ्चभि॑ᳶ पवयति [7] । पञ्चा॑क्षरा प॒ङ्क्तिः । पाङ्क्तो॑ य॒ज्ञः । य॒ज्ञाय ए॒वैन॑म् पवयति ।

पद-पाठः

प॒ञ्चभि॒रिति॑ प॒ञ्च-भिः॒ । प॒व॒य॒ति॒ ।
पञ्चा॑क्ष॒रेति॒ पञ्च॑-अ॒क्ष॒रा॒ । प॒ङ्क्तिः ।
पाङ्क्तः॑ । य॒ज्ञः ।
य॒ज्ञाय॑ । ए॒व । ए॒न॒म् । प॒व॒य॒ति॒ ।

भट्टभास्कर-टीका

पञ्चभिः । झल्युपोत्तमस्योदात्तत्वम् । पञ्चाक्षरेत्यादि । व्याख्यातम् । यज्ञाय । ननु सर्वेऽपि विधयः यज्ञायैव निर्वर्त्यन्ते, तत्कोस्य विशेषः? अयमस्ति विशेषः - यज्ञायैवेति यज्ञाविच्छेदः प्रतिपाद्यते; यथा यज्ञसंपादनैकरुचिः सर्वकालं भवति तथा पवयति । एवं नाम प्रशस्तं पञ्चभिः पवनमिति ।

विश्वास-प्रस्तुतिः

ष॒ड्भिᳶ प॑वयति ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तुभि॑र् ए॒वैन॑म् पवयति ।

मूलम्

ष॒ड्भिᳶ प॑वयति ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तुभि॑र् ए॒वैन॑म् पवयति ।

पद-पाठः

ष॒ड्भिरिति॑ षट्-भिः । प॒व॒य॒ति॒ ।
षट् । वै । ऋ॒तवः॑ ।
ऋ॒तुभि॒रित्यृ॒तु-भिः॒ । ए॒व । ए॒न॒म् । प॒व॒य॒ति॒ ।

भट्टभास्कर-टीका

षद्भिः । पूर्ववद्भिस उदात्तत्वम् ।

विश्वास-प्रस्तुतिः

स॒प्तभि॑ᳶ पवयति । स॒प्त छन्दाँ॑सि । छन्दो॑भिर् ए॒वैन॑म् पवयति ।

मूलम्

स॒प्तभि॑ᳶ पवयति । स॒प्त छन्दाँ॑सि । छन्दो॑भिर् ए॒वैन॑म् पवयति ।

पद-पाठः

स॒प्तभि॒रिति॑ स॒प्त-भिः॒ । प॒व॒य॒ति॒ ।
स॒प्त । छन्दाँ॑सि ।
छन्दो॑भि॒रिति॒ छन्दः॑-भिः॒ । ए॒व । ए॒न॒म् । प॒व॒य॒ति॒ ।

भट्टभास्कर-टीका

सप्तभिः । पूर्ववदुपोत्तमस्योदात्तत्वम् । सप्त छन्दांसि गायत्र्यादीनि प्रधानानि । ‘विश्वजनादीनां छन्दसि वेति वक्तव्यम्’ इति तुगभावः ।

विश्वास-प्रस्तुतिः

न॒वभि॑ᳶ पवयति ।
नव॒ वै पुरु॑षे प्रा॒णाः ।
सप्रा॑णम् ए॒वैन॑म् पवयति ।

मूलम्

न॒वभि॑ᳶ पवयति ।
नव॒ वै पुरु॑षे प्रा॒णाः ।
सप्रा॑णम् ए॒वैन॑म् पवयति ।

पद-पाठः

न॒वभि॒रिति॑ न॒व-भिः॒ । प॒व॒य॒ति॒ ।
नव॑ । वै । पुरु॑षे । प्रा॒णा इति॑ प्र-अ॒नाः ।
सप्रा॑ण॒मिति॒ स-प्रा॒ण॒म् । ए॒व । ए॒न॒म् । प॒व॒य॒ति॒ ।

भट्टभास्कर-टीका

नवभिः । पर्वूवत्स्वरः । नव प्राणाः नवरन्ध्राधिष्ठानाः । सप्राणम् । शोधकगतं नवत्वं शोध्येऽपि पुरुषे नवत्वं प्रत्याययति । यद्वा - क्रियाविशेषणम्, सप्राणं यथा पवयति प्राणैरेनं पवयतीत्यर्थः ।

विश्वास-प्रस्तुतिः

एक॑विँशत्या पवयति । दश॒ हस्त्या॑ अ॒ङ्गुल॑यो॒ दश॒ पद्या॑ आ॒त्मैक॑विँ॒शः ।
यावा॑ने॒व पुरु॑ष॒स् तम् अप॑रिवर्गम् पवयति [8] ।

मूलम्

एक॑विँशत्या पवयति । दश॒ हस्त्या॑ अ॒ङ्गुल॑यो॒ दश॒ पद्या॑ आ॒त्मैक॑विँ॒शः ।
यावा॑ने॒व पुरु॑ष॒स् तम् अप॑रिवर्गम् पवयति [8] ।

पद-पाठः

एक॑विँश॒त्येत्येक॑-विँ॒श॒त्या॒ । प॒व॒य॒ति॒ ।

दश॑ । हस्त्याः॑ । अ॒ङ्गुल॑यः । दश॑ । पद्याः॑ । आ॒त्मा । ए॒क॒विँ॒श इत्ये॑क-विँ॒शः ।

यावा॑न् । ए॒व । पुरु॑षः । तम् । अप॑रिवर्ग॒मित्यप॑रि-व॒र्ग॒म् । [8] प॒व॒य॒ति॒ ।

भट्टभास्कर-टीका

एकविंशत्या । महासङ्ख्यैषा, एका च विंशतिश्चैकविंशतिः । ‘संख्या’ इति पूर्वपदप्रकृतिस्वरत्वम् । हस्त्याः हस्ते भवाः । ‘शरीरावयवाच्च’ इति यत्, ‘यतो नावः’ इत्याद्युदात्तत्वम् । पद्याः पादे भवाः। पर्वूवत्प्रत्ययः, स्वरश्च, ‘पद्यत्यतदर्थे’ इति पद्भावः । आत्मा शरीरमेकविंशः एकविंशतेः पूरणः, ‘तिविंशतेर्डिति’ इति तिलोपः । एवं यावान्पुरुषः तमपरिवर्गं किंचिदप्यपरिहाप्य समस्तमेव पवयति । छान्दसो वञ् । यद्वा - परिवर्जनीयं परिवर्गः, कर्मणि घञ्, ‘चजोः कु घिण्यतोः’ इति कुत्वम् । नास्य परिवर्जनीयमस्तीति । व्यत्ययेन ‘नञ्सुभ्याम्’ इति न क्रियते ॥

मूलम् (संयुक्तम्)

चि॒त्पति॑स्त्वा पुना॒त्वित्या॑ह॒ मनो॒ वै चि॒त्पति॒र्मन॑सै॒वैन॑म्पवयति वा॒क्पति॑स्त्वा पुना॒त्वित्या॑ह वा॒चैवैन॑म्पवयति दे॒वस्त्वा॑ सवि॒ता पु॑ना॒त्वित्या॑ह सवि॒तृप्र॑सूत ए॒वैन॑म्पवयति॒ तस्य॑ ते पवित्रपते प॒वित्रे॑ण॒ यस्मै॒ कम्पु॒ने तच्छ॑केय॒मित्या॑हा॒शिष॑मे॒वैतामा शा॑स्ते ॥ [9]

विश्वास-प्रस्तुतिः

चि॒त्पति॑स् त्वा पुना॒त्वित्या॑ह । मनो॒ वै चि॒त्पतिः॑ । मन॑सै॒व + एन॑म् पवयति ।
वा॒क्पति॑स् त्वा पुना॒त्वित्या॑ह । वा॒चा + ए॒वैन॑म् पवयति । दे॒वस्त्वा॑ सवि॒ता पु॑ना॒त्वित्या॑ह ।
स॒वि॒तृप्र॑सूत ए॒वैन॑म् पवयति । तस्य॑ ते पवित्रपते प॒वित्रे॑ण॒ यस्मै॒ कम् पु॒ने तच्छ॑केय॒मित्या॑ह ।
आ॒शिष॑म् ए॒वैताम् आशा॑स्ते ॥ [9]

मूलम्

चि॒त्पति॑स् त्वा पुना॒त्वित्या॑ह । मनो॒ वै चि॒त्पतिः॑ । मन॑सै॒व + एन॑म् पवयति ।
वा॒क्पति॑स् त्वा पुना॒त्वित्या॑ह । वा॒चा + ए॒वैन॑म् पवयति । दे॒वस्त्वा॑ सवि॒ता पु॑ना॒त्वित्या॑ह ।
स॒वि॒तृप्र॑सूत ए॒वैन॑म् पवयति । तस्य॑ ते पवित्रपते प॒वित्रे॑ण॒ यस्मै॒ कम् पु॒ने तच्छ॑केय॒मित्या॑ह ।
आ॒शिष॑म् ए॒वैताम् आशा॑स्ते ॥ [9]

पद-पाठः

चि॒त्पति॒रिति॑ चित्-पतिः॑ । त्वा॒ । पु॒ना॒तु॒ । इति॑ । आ॒ह॒ ।
मनः॑ । वै । चि॒त्पति॒रिति॑ चित्-पतिः॑ ।
मन॑सा । ए॒व । ए॒न॒म् । प॒व॒य॒ति॒ ।
वा॒क्पति॒रिति॑ वाक्-पतिः॑ । त्वा॒ । पु॒ना॒तु॒ । इति॑ । आ॒ह॒ ।
वा॒चा । ए॒व । ए॒न॒म् । प॒व॒य॒ति॒ ।
दे॒वः । त्वा॒ । स॒वि॒ता । पु॒ना॒तु॒ । इति॑ । आ॒ह॒ ।
स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ-प्र॒सू॒तः॒ । ए॒व । ए॒न॒म् । प॒व॒य॒ति॒ ।
तस्य॑ । ते॒ । प॒वि॒त्र॒प॒त॒ इति॑ पवित्र-प॒ते॒ । प॒वित्रे॑ण । यस्मै॑ । कम् । पु॒ने । तत् । श॒के॒य॒म् । इति॑ । आ॒ह॒ ।
आ॒शिष॒मित्या॑-शिष॑म् । ए॒व । ए॒ताम् । एति॑ । शा॒स्ते॒ ॥ [9]

भट्टभास्कर-टीका

10इदानीं मन्त्रार्थमनुसन्धत्ते - चित्पतिस्त्वा पुनात्वित्याहेति ॥ चित्पतिः त्वा पुनातु इति यस्मादाह, तस्मात् मनसैव एनं पवयति । कुतः? मनो वै चित्पतिः चेतनस्येन्द्रियाणां वा पातृत्वात् चित्पतिः । ‘पत्यावैश्वर्ये’ इत्यस्मिन् ‘न भूवाक्चिद्दिधिषु’ इति प्रतिषिद्धे ‘परादिश्छन्दसि बहुलम्’ इत्युत्तरपदाद्युदात्तत्वम् । वाक्पतिः वागिन्द्रियस्याधिष्ठाता । वाचा । ‘सावेकाचः’ इति विभक्तेरुदात्तत्वम् । सवितृप्रसूत एव सवित्रा प्रेरित एव पवयति । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । षू प्रेरणे । अनुज्ञाकर्मणस्तु सौतेः सविता सूतः, इति पदद्वयस्यासम्भवः; अनुदात्तत्वात् ह्रस्वान्तत्वाच्च । तस्य त इति । तच्छकेयमित्यन्तं यस्मादाह तस्मात् एतां तस्य ते इत्यादिस्वरूपामाशिषमात्मन आशास्ते यजमानः । यजमानत्वादस्य । यथोक्तं ‘यजमानं वाचयति’ इति ॥

इति षष्ठे काण्डे प्रथमप्रश्ने प्रथमोनुवाकः ॥