२६

मूलम् (संयुक्तम्)

अ॒ग्निᳶ प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तल्ँ लो॒कम॑जय॒द्यस्मि॑न्न॒ग्निस्स ते॑ लो॒कस्तञ्जे॑ष्य॒स्यथाव॑ जिघ्र वा॒युᳶ प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तल्ँ लो॒कम॑जय॒द्यस्मि॑न्वा॒युस्स ते॑ लो॒कस्तस्मा॑त्त्वा॒न्तरे॑ष्यामि॒ यदि॒ नाव॒जिघ्र॑स्यादि॒त्यᳶ प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तल्ँ लो॒कम॑जय॒द्यस्मि॑न्नादि॒त्यस्स ते॑ लो॒कस्तञ्जे॑ष्यसि॒ यद्य॑व॒जिघ्र॑सि ॥ [58]

विश्वास-प्रस्तुतिः

अ॒ग्निᳶ प॒शुरा॑सीत् ।
तेना॑यजन्त ।
स ए॒तल्ँ लो॒कम॑जय॒द् यस्मि॑न्न॒ग्निः ।
स ते॑ लो॒कः ।
तञ्जे॑ष्यसि ।
अथाव॑ जिघ्र ।
वा॒युᳶ प॒शुरा॑सीत् ।
तेना॑यजन्त ।
स ए॒तल्ँ लो॒कम् अ॑जय॒द्, यस्मि॑न् वा॒युः ।
स ते॑ लो॒कः ।
तस्मा॑त् त्वा॒ऽन्तरे॑ष्यामि॒ , यदि॒ नाव॒जिघ्र॑सि ।
आ॒दि॒त्यᳶ प॒शुरा॑सीत् ।
तेना॑यजन्त ।
स ए॒तल्ँ लो॒कम॑जय॒द् यस्मि॑न्नादि॒त्यः ।
स ते॑ लो॒कः ।
तञ् जे॑ष्यसि॒ यद्य् अ॑व॒जिघ्र॑सि ॥ [58]

मूलम्

अ॒ग्निᳶ प॒शुरा॑सीत् ।
तेना॑यजन्त ।
स ए॒तल्ँ लो॒कम॑जय॒द् यस्मि॑न्न॒ग्निः ।
स ते॑ लो॒कः ।
तञ्जे॑ष्यसि ।
अथाव॑ जिघ्र ।
वा॒युᳶ प॒शुरा॑सीत् ।
तेना॑यजन्त ।
स ए॒तल्ँ लो॒कम् अ॑जय॒द्, यस्मि॑न् वा॒युः ।
स ते॑ लो॒कः ।
तस्मा॑त् त्वा॒ऽन्तरे॑ष्यामि॒ , यदि॒ नाव॒जिघ्र॑सि ।
आ॒दि॒त्यᳶ प॒शुरा॑सीत् ।
तेना॑यजन्त ।
स ए॒तल्ँ लो॒कम॑जय॒द् यस्मि॑न्नादि॒त्यः ।
स ते॑ लो॒कः ।
तञ् जे॑ष्यसि॒ यद्य् अ॑व॒जिघ्र॑सि ॥ [58]

भट्टभास्कर-टीका

1 अथ यदुक्तमश्वमेधब्राह्मणे ‘अग्निः पशुरासीदित्यवघ्रापयेत्’ इति तमिमं मन्त्रमस्मिन् षड्विंशानुवाके पठति - अग्निः पशुरासीदिति ॥ हे अश्व अयं अग्निः देवः पुरा कस्मिंश्चित् जन्मनि त्वमिवाश्वमेधे यागहेतुश्चाश्वः पशुरासीत् । तेन अग्निरूपेण पशुना केचित् यजमाना अयजन्त । स च पशुरग्निर्देवो भूत्वा लोकं एतं अजयत् । यस्मिन् लोके सः अग्निः इदानीं तिष्ठति सः एव तवापि लोको भविष्यति, त्वं च तं लोकं जेप्यसि । अथैवं सति त्वमुत्सुकः सन् इदमुदकं जिघ्र । एवं वाव्यादित्यवाक्ययोरपि योज्यम् । वायुवाक्ये तु व्यतिरेकोपन्यासः - यदि उदकं नावजिघ्रसि तर्हि तस्मात् वायुलोकात् त्वां अन्तः एष्यामि त्वमन्तरितस्तस्माल्लोकाद्भ्रष्टो यथा भवसि तथा करिष्यामि । आदित्यवाक्ये तु अग्निवाक्यवदन्वयः - यद्युदकं अवजिघ्रसि तर्हि तमादित्यलोकं जेष्यसि ॥

इति माधवीये पञ्चमे सप्तमे षड्विंशोनुवाकः ॥ प्रपाठकः काण्डश्च समाप्तः ॥