मूलम् (संयुक्तम्)
द्यौस्ते॑ पृ॒ष्ठम्पृ॑थि॒वी स॒धस्थ॑मा॒त्मान्तरि॑क्षँ समु॒द्रो योनि॒स्सूर्य॑स्ते॒ चक्षु॒र्वातᳶ॑ प्रा॒णश्च॒न्द्रमा॒श्श्रोत्र॒म्मासा॑श्चार्धमा॒साश्च॒ पर्वा॑ण्यृ॒तवोङ्गा॑नि सव्ँवत्स॒रो म॑हि॒मा ॥ [57]
विश्वास-प्रस्तुतिः
द्यौस्ते॑ पृ॒ष्ठम् ।
पृ॒थि॒वी स॒धस्थ॑म् ।
आ॒त्माऽन्तरि॑क्षम् ।
स॒मु॒द्रो योनिः॑ ।
सूर्य॑स्ते॒ चक्षुः॑ ।
वातᳶ॑ प्रा॒णः ।
च॒न्द्रमा॒श्श्रोत्र॑म् ।
मासा॑श् चार्धमा॒साश् च॒ पर्वा॑णि ।
ऋ॒तवोऽङ्गा॑नि ।
सव्ँ॒व॒त्स॒रो म॑हि॒मा ॥ [57]
मूलम्
द्यौस्ते॑ पृ॒ष्ठम् ।
पृ॒थि॒वी स॒धस्थ॑म् ।
आ॒त्माऽन्तरि॑क्षम् ।
स॒मु॒द्रो योनिः॑ ।
सूर्य॑स्ते॒ चक्षुः॑ ।
वातᳶ॑ प्रा॒णः ।
च॒न्द्रमा॒श्श्रोत्र॑म् ।
मासा॑श् चार्धमा॒साश् च॒ पर्वा॑णि ।
ऋ॒तवोऽङ्गा॑नि ।
सव्ँ॒व॒त्स॒रो म॑हि॒मा ॥ [57]
भट्टभास्कर-टीका
1द्यौस्ते पृष्ठमिति ॥ सर्वात्मतया अश्वस्स्तूयते । पृष्ठमुपरिभागः । सधस्थं सहस्थानम् । ‘सुपि स्थः’ इति कः । ‘सधमाधस्थयोः’ इति सधादेशः ॥
इति भट्टभास्करमिश्रविरचिते ज्ञानयज्ञाख्ये यजुर्वेदभाष्ये पञ्चमकाण्डे सप्तमप्रश्ने पञ्चविंशोनुवाकः ॥