२४

मूलम् (संयुक्तम्)

क्रमै॒रत्य॑क्रमीद्वा॒जी विश्वै॑र्दे॒वैर्य॒ज्ञियैः॑ सव्ँविदा॒नः । स नो॑ नय सुकृ॒तस्य॑ लो॒कन्तस्य॑ ते व॒यँ स्व॒धया॑ मदेम ॥ [56]

विश्वास-प्रस्तुतिः

क्रमै॒रत्य॑क्रमीद् वा॒जी विश्वै॑र् दे॒वैर् य॒ज्ञियैः॑ सव्ँविदा॒नः ।

स नो॑ नय सुकृ॒तस्य॑ लो॒कन्तस्य॑ ते व॒यँ स्व॒धया॑ मदेम ॥ [56]

मूलम्

क्रमै॒रत्य॑क्रमीद् वा॒जी विश्वै॑र् दे॒वैर् य॒ज्ञियैः॑ सव्ँविदा॒नः ।

स नो॑ नय सुकृ॒तस्य॑ लो॒कन्तस्य॑ ते व॒यँ स्व॒धया॑ मदेम ॥ [56]

भट्टभास्कर-टीका

1अथ ‘चित्तं सन्तानेन’ इत्यादि चतुर्दशानुवाकः आरण्यानुवाक्यः ‘प्रयासाय स्वाहा’ इति पञ्चदश आरण्योनुवाक्यः परस्ताद्व्याख्यास्येते । ब्राह्मणं च भवति - ‘चतुर्दशैताननुवाकान् जुहोत्यनन्तरित्यै । प्रयासाय स्वाहेति पञ्चदशम्’ इति । अथोत्तराभ्यामनुवाकाभ्यां अश्वस्य हृदयमभिमन्त्रयते । क्रमैरिति पुरुस्ताज्ज्योतिषा त्रिष्टुभा ॥ क्रेमैरात्मीयैः पादविक्षेपैः अयं वाजी अत्यक्रमीत् अन्यानत्यागच्छत् महानुभावः सञ्जातः । तदेवाह - विश्वैर्देवर्यज्ञियैः यज्ञार्हैः देवः संविदानः ऐकमत्यं गतः । ‘समोगमृच्छि’ इत्यात्मनेपदम् । कर्मणि वा लटि व्यत्ययेन यगभावः । ज्ञायमान इत्यर्थः । स त्वमस्मान् सुकृतस्य सुष्ठुकृतस्य कर्मणः फलभूतं लोकं स्थानं नय प्रापय । ‘सूपमानात्मकः’ इति सुकृतशब्दोन्तोदात्तः । तस्य तादृशस्य तव सम्बन्धि तादृशेन त्वया तत्र स्थाने स्वधयाऽन्नेन वयं मदेम । ‘लिङ्घ्याशिष्यङ्’ ॥

इति पञ्चमे सप्तमे चतुर्विंशोनुवाकः ॥