२३

मूलम् (संयुक्तम्)

पन्था॑मनू॒वृग्भ्याँ॒ सन्त॑तिँ स्नाव॒न्या॑भ्याँ॒ शुका॑न्पि॒त्तेन॑ हरि॒माणय्ँ॑य॒क्ना हली॑क्ष्णान्पापवा॒तेन॑ कू॒श्माञ्छक॑भिश्शव॒र्तानूव॑ध्येन॒ शुनो॑ वि॒शस॑नेन स॒र्पाल्ँलो॑हितग॒न्धेन॒ वयाँ॑सि पक्वग॒न्धेन॑ पि॒पीलि॑काᳶ प्रशा॒देन॑ ॥ [55]

विश्वास-प्रस्तुतिः

पन्था॑मनू॒वृग्भ्या॑म् ।
सन्त॑तिँ स्नाव॒न्या॑भ्याम् ।
शुका॑न्पि॒त्तेन॑ ।
ह॒रि॒माणय्ँ॑ य॒क्ना ।
हली॑क्ष्णान् पापवा॒तेन॑ ।
कू॒श्मान् भक॑भिः ।
श॒व॒र्तानूव॑ध्येन ।
शुनो॑ वि॒शस॑नेन ।
स॒र्पाल्ँ लो॑हित ग॒न्धेन॑ ।
वयाँ॑सि पक्वग॒न्धेन॑ ।
पि॒पीलि॑काᳶ प्रशा॒देन॑ ॥ [55]

मूलम्

पन्था॑मनू॒वृग्भ्या॑म् ।
सन्त॑तिँ स्नाव॒न्या॑भ्याम् ।
शुका॑न्पि॒त्तेन॑ ।
ह॒रि॒माणय्ँ॑ य॒क्ना ।
हली॑क्ष्णान् पापवा॒तेन॑ ।
कू॒श्मान् भक॑भिः ।
श॒व॒र्तानूव॑ध्येन ।
शुनो॑ वि॒शस॑नेन ।
स॒र्पाल्ँ लो॑हित ग॒न्धेन॑ ।
वयाँ॑सि पक्वग॒न्धेन॑ ।
पि॒पीलि॑काᳶ प्रशा॒देन॑ ॥ [55]

भट्टभास्कर-टीका

1पन्थाः प्रसिद्धः । द्वितीयाया अप्याकारश्छान्दसः । अनूवृग्भ्यां अनुवृत्ताभ्यां सिराविशेषाम्याम् । वर्णव्यत्ययेन ककारः । ‘न हि वृति’ इत्यादिना दीर्घत्वम् । सन्ततिः प्रसिद्धा, स्नावानस्मिराः स्नावभ्योऽभितः स्नावन्यौ सर्वसिरानुग्राहिण्यौ सिराविशेषौ पार्श्वयोः । स्वार्थिको वा यत् । शुकान् पित्तेन गतम् । हरिमाण कामिलादि हरिणस्वभावम् । ‘तुरिष्ठेमेयस्सु’ इति टिलोपः । यक्ना मांसपिण्डविशेषेण वर्तुलाकारेण । ‘पद्दन्’ इत्यादिना यकृच्छब्दस्य यकन्नादेशः । हलीक्ष्णान् तृणसिह्मान् । पापवातेन आमवालजाः क्षुद्रजन्तवः । ऊवध्येन उदरस्थेन पुरीषेण । श्वानः प्रसिद्धाः । विशसनेन शस्त्रादिलग्नेन मांसेन । सर्पान् लोहितगन्धेन रुधिरगन्धेन । वयांसि पक्वगन्धेन पाकजेन मांसेन । पिपीलिकाः प्रशादेन भूमौ विशीर्णेन । शद निशातने । पूर्वपदान्तोदात्तत्वम् ॥

इति पञ्चमे सप्तमे त्रयोविंशोनुवाकः ॥