मूलम् (संयुक्तम्)
वा॒योᳶ प॑क्ष॒तिस्सर॑स्वतो॒ निप॑क्षतिश्च॒न्द्रम॑सस्तृ॒तीया॒ नक्ष॑त्राणाञ्चतु॒र्थी स॑वि॒तुᳶ प॑ञ्च॒मी रु॒द्रस्य॑ ष॒ष्ठी स॒र्पाणाँ॑ सप्त॒म्य॑र्य॒म्णो॑ऽष्ट॒मी त्वष्टु॑र्नव॒मी धा॒तुर्द॑श॒मीन्द्रा॒ण्या ए॑काद॒श्यदि॑त्यै द्वाद॒शी द्यावा॑पृथि॒व्योᳶ पा॒र्श्वय्ँय॒म्यै॑ पाटू॒रः ॥ [54]
विश्वास-प्रस्तुतिः
वा॒योᳶ प॑क्ष॒तिः ।
सर॑स्वतो॒ निप॑क्षतिः ।
च॒न्द्रम॑सस् तृ॒तीया॑ ।
नक्ष॑त्राणाञ् चतु॒र्थी ।
स॒वि॒तुᳶ प॑ञ्च॒मी ।
रु॒द्रस्य॑ ष॒ष्ठी ।
स॒र्पाणाँ॑ सप्त॒मी ।
अ॒र्य॒म्णो॑ऽष्ट॒मी ।
त्वष्टु॑र् नव॒मी
धा॒तुर्द॑श॒मी ।
इन्द्रा॒ण्या ए॑काद॒शी ।
अदि॑त्यै द्वाद॒शी ।
द्यावा॑पृथि॒व्योᳶ पा॒र्श्वम्
य॒म्यै॑ पाटू॒रः ॥ [54]
मूलम्
वा॒योᳶ प॑क्ष॒तिः ।
सर॑स्वतो॒ निप॑क्षतिः ।
च॒न्द्रम॑सस् तृ॒तीया॑ ।
नक्ष॑त्राणाञ् चतु॒र्थी ।
स॒वि॒तुᳶ प॑ञ्च॒मी ।
रु॒द्रस्य॑ ष॒ष्ठी ।
स॒र्पाणाँ॑ सप्त॒मी ।
अ॒र्य॒म्णो॑ऽष्ट॒मी ।
त्वष्टु॑र् नव॒मी
धा॒तुर्द॑श॒मी ।
इन्द्रा॒ण्या ए॑काद॒शी ।
अदि॑त्यै द्वाद॒शी ।
द्यावा॑पृथि॒व्योᳶ पा॒र्श्वम्
य॒म्यै॑ पाटू॒रः ॥ [54]
भट्टभास्कर-टीका
1वायोः पक्षतिः पार्श्वान्तं पूर्वेण व्याख्यातम् ॥
इति पञ्चमे सप्तमे द्वाविंशोनुवाकः ॥