मूलम् (संयुक्तम्)
अ॒ग्नेᳶ प॑क्ष॒तिस्सर॑स्वत्यै॒ निप॑क्षति॒स्सोम॑स्य तृ॒तीया॒पाञ्च॑तु॒र्थ्योष॑धीनाम्पञ्च॒मी सव्ँ॑वत्स॒रस्य॑ ष॒ष्ठी म॒रुताँ॑ सप्त॒मी बृह॒स्पते॑रष्ट॒मी मि॒त्रस्य॑ नव॒मी वरु॑णस्य दश॒मीन्द्र॑स्यैकाद॒शी विश्वे॑षान्दे॒वाना॑न्द्वाद॒शी द्यावा॑पृथि॒व्योᳶ पा॒र्श्वय्ँय॒मस्य॑ पाटू॒रः ॥ [53]
विश्वास-प्रस्तुतिः
अ॒ग्नेᳶ प॑क्ष॒तिः ।
सर॑स्वत्यै॒ निप॑क्षतिः ।
सोम॑स्य तृ॒तीया॑ ।
अ॒पाञ् च॑तु॒र्थी ।
ओष॑धीनाम् पञ्च॒मी ।
सव्ँ॒व॒त्स॒रस्य॑ ष॒ष्ठी ।
म॒रुताँ॑ सप्त॒मी ।
बृह॒स्पते॑रष्ट॒मी ।
मि॒त्रस्य॑ नव॒मी ।
वरु॑णस्य दश॒मी ।
इन्द्र॑स्यैकाद॒शी ।
विश्वे॑षान् दे॒वाना॑न् द्वाद॒शी ।
द्यावा॑पृथि॒व्योᳶ पा॒र्श्वम् ।
य॒मस्य॑ पाटू॒रः ॥ [53]
मूलम्
अ॒ग्नेᳶ प॑क्ष॒तिः ।
सर॑स्वत्यै॒ निप॑क्षतिः ।
सोम॑स्य तृ॒तीया॑ ।
अ॒पाञ् च॑तु॒र्थी ।
ओष॑धीनाम् पञ्च॒मी ।
सव्ँ॒व॒त्स॒रस्य॑ ष॒ष्ठी ।
म॒रुताँ॑ सप्त॒मी ।
बृह॒स्पते॑रष्ट॒मी ।
मि॒त्रस्य॑ नव॒मी ।
वरु॑णस्य दश॒मी ।
इन्द्र॑स्यैकाद॒शी ।
विश्वे॑षान् दे॒वाना॑न् द्वाद॒शी ।
द्यावा॑पृथि॒व्योᳶ पा॒र्श्वम् ।
य॒मस्य॑ पाटू॒रः ॥ [53]
भट्टभास्कर-टीका
1अग्नेः पक्षतिः पक्षमूलं पक्षतिः पार्श्ववङ्क्रीणां प्रथमः पक्षतिः । सरस्वत्यै निपक्षतिः निकृष्टा पक्षतिः द्वितीया वङ्क्रीः । एवं तृतीयादयस्सोमादीनाम् । द्याव्यापृयिव्योः पार्श्वम् । ‘पर्शोर्णस्वक्तव्यः’ इति णसि ‘सिति च’ इति पदत्वादोर्गुणाभावः । पर्शवः पार्श्ववङ्क्रयः । ‘देवताद्वन्द्वे च’ इति द्यावापृथिवीशब्द आद्युदात्तः, ‘नोत्तरपदे’ इति प्रतिषेधे पृथिव्यादिपर्युदासात् ‘उदात्तयणः’ इति विभक्तेरुदात्तत्वम् । यमस्य पाटूरः सर्वपशुविधारणोस्थिविशेषः ॥
इति पञ्चमे सप्तमे एकविंशोनुवाकः ॥