२०

मूलम् (संयुक्तम्)

अह॑र्माँ॒सेन॒ रात्रि॒म्पीव॑सा॒पो यू॒षेण॑ घृ॒तँ रसे॑न॒ श्याव्ँवस॑या दू॒षीका॑भिर्ह्रा॒दुनि॒मश्रु॑भि॒ᳶ पृष्वा॒न्दिवँ॑ रू॒पेण॒ नक्ष॑त्राणि॒ प्रति॑रूपेण पृथि॒वीञ्चर्म॑णा छ॒वीञ्छ॒व्यो॑पाकृ॑ताय॒ स्वाहाल॑ब्धाय॒ स्वाहा॑ हु॒ताय॒ स्वाहा॑ ॥ [52]

विश्वास-प्रस्तुतिः

अह॑र्माँ॒सेन॑ ।
रात्रि॒म्पीव॑सा ।
अ॒पो यू॒षेण॑ ।
घृ॒तँ रसे॑न ।
श्याव्ँवस॑या ।
दू॒षीका॑भिर् ह्रा॒दुनी॑म् ।
अश्रु॑भि॒ᳶ पृष्वा॑म् ।
दिवँ॑ रू॒पेण॑ ।
नक्ष॒त्राणि॒ प्रति॑रूपेण ।
पृ॒थि॒वीञ् चर्म॑णा ।
छ॒वीञ् छ॒व्या॑ ।
उ॒पाकृ॑ताय॒ स्वाहा॑ ।
आल॑ब्धाय॒ स्वाहा॑ ।
हु॒ताय॒ स्वाहा॑ ॥ [52]

मूलम्

अह॑र्माँ॒सेन॑ ।
रात्रि॒म्पीव॑सा ।
अ॒पो यू॒षेण॑ ।
घृ॒तँ रसे॑न ।
श्याव्ँवस॑या ।
दू॒षीका॑भिर् ह्रा॒दुनी॑म् ।
अश्रु॑भि॒ᳶ पृष्वा॑म् ।
दिवँ॑ रू॒पेण॑ ।
नक्ष॒त्राणि॒ प्रति॑रूपेण ।
पृ॒थि॒वीञ् चर्म॑णा ।
छ॒वीञ् छ॒व्या॑ ।
उ॒पाकृ॑ताय॒ स्वाहा॑ ।
आल॑ब्धाय॒ स्वाहा॑ ।
हु॒ताय॒ स्वाहा॑ ॥ [52]

भट्टभास्कर-टीका

1अहर्मांसेन । गतम् । रात्रिः प्रसिद्धा । पीवसा रेतः प्रावरणचर्मणा । अपः प्रसिद्धाः । यूषेण यूष्णा पक्वमांसान्निस्स्रुतेन जलेन । घृतं रसेन । गतम् । श्याम् अवश्यायः, श्वायतेर्विच् । वसया स्नेहविशेषेण । दूषिका अक्षिमलम् । छान्दसं दीर्घत्वम् । ह्रादुनि हृदयस्थं जलम् । अश्रूणि प्रसिद्धानि । पृष्वां निम्नस्थं जलम् । द्यौः प्रसिद्धा । रूपं मुख्यं स्वरूपम् । नक्षत्राणि प्रसिद्धानि । प्रतिरूपं मुखसदृशम् । पृथिवीं चर्मणा । गतम् । छविं आकारशोभाम् । ‘कृदिकारादक्तिनः’ इति ङीष् । छव्या चर्मपुटेन सूक्ष्मेण । उपाकृतायेत्यादि । गतम् । उपाकृतावस्थोऽश्वो देवता । आलब्धा नियुक्ता ॥

इति पञ्चमे सप्तमे विंशोनुवाकः ॥