१९

मूलम् (संयुक्तम्)

आ॒न॒न्दन्न॒न्दथु॑ना॒ काम॑म्प्रत्या॒साभ्या॑म्भ॒यँ शि॑ती॒मभ्या॑म्प्र॒शिष॑म्प्रशा॒साभ्याँ॑ सूर्याचन्द्र॒मसौ॒ वृक्या॑भ्याँ श्यामशब॒लौ मत॑स्नाभ्याव्ँ॒ व्यु॑ष्टिँ रू॒पेण॒ निम्रु॑क्ति॒मरू॑पेण ॥ [51]

विश्वास-प्रस्तुतिः

आ॒न॒न्दन् - न॒न्दथु॑ना ।
काम॑म् प्रत्या॒साभ्या॑म् ।
भ॒यँ शि॑ती॒मभ्या॑म् ।
प्र॒शिष॑म् प्रशा॒साभ्या॑म् ।
सू॒र्या॒च॒न्द्र॒मसौ॒ वृक्या॑भ्याम् ।
श्या॒म॒श॒ब॒लौ मत॑स्नाभ्याम् ।
व्यु॑ष्टिँ रू॒पेण॑ ।
निम्रु॑क्ति॒म् अरू॑पेण ॥ [51]

मूलम्

आ॒न॒न्दन् - न॒न्दथु॑ना ।
काम॑म् प्रत्या॒साभ्या॑म् ।
भ॒यँ शि॑ती॒मभ्या॑म् ।
प्र॒शिष॑म् प्रशा॒साभ्या॑म् ।
सू॒र्या॒च॒न्द्र॒मसौ॒ वृक्या॑भ्याम् ।
श्या॒म॒श॒ब॒लौ मत॑स्नाभ्याम् ।
व्यु॑ष्टिँ रू॒पेण॑ ।
निम्रु॑क्ति॒म् अरू॑पेण ॥ [51]

भट्टभास्कर-टीका

1आनन्दः प्रसिद्धः । नन्दथुः प्रजननसुखम् । ‘ट्वितोऽथुच्’ । कामः प्रसिद्धः । प्रत्यासौ प्रास्यौ त्वचौ प्रत्यस्यते प्रक्षिप्यते याभ्यां प्रजननम् । असेः करणे धञ् । थाथादिनोत्तरपदान्तोदात्तत्वम् । भयं प्रसिद्धम् । शितीमभ्यां उदगेरशुक्लाभ्यां? स्थानाभ्याम् । द्रव्याभ्यामितीत्यन्ये । गुणेन गुणिनो लक्षणमिति इमनिच्, तस्य छान्दसं दीर्घत्वम् । प्रशिषं प्रशासकम् । शासः क्वौ उपधाया इत्वम् । प्रशासौ अक्षिगोळके प्रकर्षेण शात्यसभ्यां प्रमेयमिति पूर्ववत्प्रत्ययः स्वरश्च । सूर्याचन्द्रमसौ प्रसिद्धौ । वृक्याभ्यां स्वल्पाम्रफलसदृशाभ्यांमासांभ्याम् । श्यामशबलौ तमःप्रकाशौ मतस्नाभ्यां महासिराभ्याम् । व्युष्टिं प्रभातम् । ‘तादौ च’ इति गतेः प्रकृति- स्वरत्वम्, ‘उदात्तस्वरितयोर्यणः’ इतीकारस्स्वर्यते । रूपेण शुक्लादिरूपवता । मत्वर्थीयो लुप्यते । निम्रुक्तिरस्तमयः । स एव स्वरः । अरूपेण गन्धादिना ॥

इति पञ्चमे सप्तमे एकोनविंशोनुवाकः ॥