१८

मूलम् (संयुक्तम्)

ओजो॑ ग्री॒वाभि॒र्निर्ऋ॑तिम॒स्थभि॒रिन्द्रँ॒ स्वप॑सा॒ वहे॑न रु॒द्रस्य॑ विच॒लस्स्क॒न्धो॑ऽहोरा॒त्रयो॑र्द्वि॒तीयो॑ऽर्धमा॒साना॑न्तृ॒तीयो॑ मा॒साञ्च॑तु॒र्थ ऋ॑तू॒नाम्प॑ञ्च॒मस्सव्ँ॑वत्स॒रस्य॑ ष॒ष्ठः ॥ [50]

विश्वास-प्रस्तुतिः

ओजो॑ ग्री॒वाभिः॑ ।
निर्ऋ॑तिम॒स्थभिः॑ ।
इन्द्रँ॒ स्वप॑सा॒ वहे॑न ।
रु॒द्रस्य॑ विच॒लस्स्क॒न्धः ।
अ॒हो॒रा॒त्रयो॑र् द्वि॒तीयः॑ ।
अ॒र्ध॒मा॒साना॑न् तृ॒तीयः॑ ।
मा॒साञ् च॑तु॒र्थ ।
ऋ॒तू॒नाम् प॑ञ्च॒मः ।
सव्ँ॒व॒त्स॒रस्य॑ ष॒ष्ठः ॥ [50]

मूलम्

ओजो॑ ग्री॒वाभिः॑ ।
निर्ऋ॑तिम॒स्थभिः॑ ।
इन्द्रँ॒ स्वप॑सा॒ वहे॑न ।
रु॒द्रस्य॑ विच॒लस्स्क॒न्धः ।
अ॒हो॒रा॒त्रयो॑र् द्वि॒तीयः॑ ।
अ॒र्ध॒मा॒साना॑न् तृ॒तीयः॑ ।
मा॒साञ् च॑तु॒र्थ ।
ऋ॒तू॒नाम् प॑ञ्च॒मः ।
सव्ँ॒व॒त्स॒रस्य॑ ष॒ष्ठः ॥ [50]

भट्टभास्कर-टीका

1 अथाष्टमगतान्मन्त्रानाह - ओजो ग्रीवाभिरिति ॥ ग्रीवास्तदवयवाः । अस्थीनि तत्रत्यानि । योऽयं वहो वहनयोग्यप्रदेशः स्वपाः शोभनकर्मा वहेनेत्यन्तः स्वपाः सोयमिन्द्रस्य भागः । स्कन्धोऽवयवभेदेन षोढा भिन्नः । तत्रात्यन्तचञ्चलोऽवयवो रुद्रस्य । तत्तदनन्तरभाविनोऽहोरात्रादीनाम् ॥

इति माधवीये पञ्चमे सप्तमे अष्टादशोनुवाकः ॥