मूलम् (संयुक्तम्)
पू॒ष्णो व॑नि॒ष्ठुर॑न्धा॒हेस्स्थू॑रगु॒दा स॒र्पान्गुदा॑भिर्ऋ॒तून्पृ॒ष्टीभि॒र्दिव॑म्पृ॒ष्ठेन॒ वसू॑नाम्प्रथ॒मा कीक॑सा रु॒द्राणा॑न्द्वि॒तीया॑दि॒त्याना॑न्तृ॒तीयाङ्गि॑रसाञ्चतु॒र्थी सा॒ध्याना॑म्पञ्च॒मी विश्वे॑षान्दे॒वानाँ॑ ष॒ष्ठी ॥ [49]
विश्वास-प्रस्तुतिः
पू॒ष्णो व॑नि॒ष्ठुः ।
अ॒न्धा॒हेस् स्धू॑रगु॒दा ।
स॒र्पान् गुदा॑भिः ।
ऋ॒तून् पृ॒ष्टीभिः॑ ।
दिव॑म् पृ॒ष्ठेन॑ ।
वसू॑नाम्प्रथ॒मा कीक॑सा ।
रु॒द्राणा॑न् द्वि॒तीया॑ ।
आ॒दि॒त्याना॑न् तृ॒तीया॑ ।
अङ्गि॑रसाञ् चतु॒र्थी ।
सा॒ध्याना॑म् पञ्च॒मी ।
विश्वे॑षान् दे॒वानाँ॑ ष॒ष्ठी ॥ [49]
मूलम्
पू॒ष्णो व॑नि॒ष्ठुः ।
अ॒न्धा॒हेस् स्धू॑रगु॒दा ।
स॒र्पान् गुदा॑भिः ।
ऋ॒तून् पृ॒ष्टीभिः॑ ।
दिव॑म् पृ॒ष्ठेन॑ ।
वसू॑नाम्प्रथ॒मा कीक॑सा ।
रु॒द्राणा॑न् द्वि॒तीया॑ ।
आ॒दि॒त्याना॑न् तृ॒तीया॑ ।
अङ्गि॑रसाञ् चतु॒र्थी ।
सा॒ध्याना॑म् पञ्च॒मी ।
विश्वे॑षान् दे॒वानाँ॑ ष॒ष्ठी ॥ [49]
भट्टभास्कर-टीका
1पूष्णो वनिष्ठुः । पूर्ववत् षष्ठीनिर्दिष्टा देवता । गुदसदृशं मांसं वनिष्ठुः । अन्धाहेः स्थूरगुदा ‘सर्पान् गुदाभिः’ इति वक्ष्यमाणस्य अयं पुरस्तादपवादः । गुदमूलं स्थूलगुदा । कपिलकादित्वाल्लत्वविकल्पः । सर्पाः प्रसिद्धाः । गुदाः गुदभागाः । ऋतवः प्रसिद्धाः । पृष्टयो बाह्वोरुपरिस्थितान्यस्थीनि । छान्दसं सांहितिकं दीर्धत्वम् । द्यौः प्रसिद्धा । पृष्टं ग्रीवोपरिस्थितं वंशास्थि । वसूनां प्रथमा कीकसेति । ग्रीवाया आरभ्य ष्टष्ठवंशस्थितान्यस्थिगो- ळकानि क्रमेण वस्वादीनाम् ॥
इति पञ्चमे सप्तमे सप्तदशोनुवाकः ॥