१६

मूलम् (संयुक्तम्)

इन्द्र॑स्य क्रो॒डोऽदि॑त्यै पाज॒स्य॑न्दि॒शाञ्ज॒त्रवो॑ जी॒मूता॑न्हृदयौप॒शाभ्या॑म॒न्तरि॑क्षम्पुरि॒तता॒ नभ॑ उद॒र्ये॑णेन्द्रा॒णीम्प्ली॒ह्ना व॒ल्मीका॑न्क्लो॒म्ना गि॒रीन्प्ला॒शिभि॑स्समु॒द्रमु॒दरे॑ण वैश्वान॒रम्भस्म॑ना ॥ [48]

विश्वास-प्रस्तुतिः

इन्द्र॑स्य क्रो॒डः ।
अदि॑त्यै पाज॒स्य॑म् ।
दि॒शाञ् ज॒त्रवः॑ ।
जी॒मूता॑न् हृदयौप॒शाभ्या॑म् ।
अ॒न्तरि॑क्षम् पुरि॒तता॑ ।
नभ॑ उद॒र्ये॑ण ।
इ॒न्द्रा॒णीम् प्ली॒ह्ना ।
व॒ल्मीका॑न् क्लो॒म्ना ।
गि॒रीन् प्ला॒शिभिः॑ ।
स॒मु॒द्रमु॒दरे॑ण ।
वै॒श्वा॒न॒रम् भस्म॑ना ॥ [48]

मूलम्

इन्द्र॑स्य क्रो॒डः ।
अदि॑त्यै पाज॒स्य॑म् ।
दि॒शाञ् ज॒त्रवः॑ ।
जी॒मूता॑न् हृदयौप॒शाभ्या॑म् ।
अ॒न्तरि॑क्षम् पुरि॒तता॑ ।
नभ॑ उद॒र्ये॑ण ।
इ॒न्द्रा॒णीम् प्ली॒ह्ना ।
व॒ल्मीका॑न् क्लो॒म्ना ।
गि॒रीन् प्ला॒शिभिः॑ ।
स॒मु॒द्रमु॒दरे॑ण ।
वै॒श्वा॒न॒रम् भस्म॑ना ॥ [48]

भट्टभास्कर-टीका

1इन्द्रस्य यज्वनः कोडः उदरम् । षष्ठ्या निर्दिष्टा देवता, अङ्गं प्रथमया । अदित्यै देयं पाजस्यं हृदयम् । षष्ठ्यर्थे चतुर्थी । पाजो बलं तस्मै हितं पाजस्य स्थानम् । दिशां जत्रवः । पूर्ववत् षष्ठ्या निर्दिष्टा देवता । जत्रवो ग्रीवाया अधस्ताद्धमन्यः । अतःपरं द्वितीययैव देवता निर्दिश्यते । जीमूताः प्रसिद्धाः । हृदयौपशाभ्यां मांसविशेषाभ्याम् । हृदये स्थितं मांसं हृदयौपशमुच्यते । हृदयस्थानमिति यावत् । तत् स्थानं यत्रोपेत्य शेते तदुपशं अन्तस्थानविशेषात्मकं मांसविशेषः । छान्दसो डः । तदेव औपशम् । स्वार्थिकोण् छान्दसः । अन्तरिक्षं प्रसिद्धम् । पुरितता हृदयस्य परिवारणं मांसमेव । आन्त्राणीत्येके । पुरि शरीरमध्ये तायत इति क्विप्, ‘गमादीनामिति वक्तव्यम्’ इत्यनुनासिकलोपः, ‘तत्पुरुषे कृति बहुलम्’ इत्यलुक् । अवग्रहो नेष्यते, न हि प्रसिद्धम् । उदर्यमुदरे भवं मांसम् । ‘शरीरावयवाच्च’ इति यत् । इन्द्राणी प्रसिद्धा । प्लीह्ना पिण्डितेन मांसविशेषेण । वल्मीकाः प्रसिद्धाः । क्लोम्ना आम्रफलसदृशेन मांसेन । गिरयः प्रसिद्धाः । प्लाशिभिः पद्मवर्णाकारैः मांसैः । समुद्रः प्रसिद्धः । उदरेण उदरस्थेन केनचिदपि मांसेन । वैश्वानरः प्रसिद्धः । भस्मना अनेन दभ्यतृणादि ॥

इति पञ्चमे सप्तमे षोडशोनुवाकः ॥