मूलम् (संयुक्तम्)
मि॒त्रावरु॑णौ॒ श्रोणी॑भ्यामिन्द्रा॒ग्नी शि॑ख॒ण्डाभ्या॒मिन्द्रा॒बृह॒स्पती॑ ऊ॒रुभ्या॒मिन्द्रा॒विष्णू॑ अष्ठी॒वद्भ्याँ॑ सवि॒तार॒म्पुच्छे॑न गन्ध॒र्वाञ्छेपे॑नाप्स॒रसो॑ मु॒ष्काभ्या॒म्पव॑मानम्पा॒युना॑ प॒वित्र॒म्पोत्रा॑भ्यामा॒क्रम॑णँ स्थू॒राभ्या॑म्प्रति॒क्रम॑ण॒ङ्कुष्ठा॑भ्याम् ॥ [47]
विश्वास-प्रस्तुतिः
मि॒त्रावरु॑णौ॒ श्रोणी॑भ्याम्
इ॒न्द्रा॒ग्नी शि॑ख॒ण्डाभ्या॑म् ।
इन्द्रा॒बृह॒स्पती॑ ऊ॒रुभ्या॑म् ।
इन्द्रा॒विष्णू॑ अष्ठी॒वद्भ्या॑म् ।
स॒वि॒तार॒म् पुच्छे॑न ।
ग॒न्ध॒र्वाञ् छेपे॑न ।
अ॒प्स॒रसो॑ मु॒ष्काभ्या॑म् ।
पव॑मानम् पा॒युना॑ ।
प॒वित्र॒म् पोत्रा॑भ्याम् ।
आ॒क्रम॑णँ स्थू॒राभ्या॑म्
प्र॒ति॒क्रम॑ण॒ङ् कुष्ठा॑भ्याम् ॥ [47]
मूलम्
मि॒त्रावरु॑णौ॒ श्रोणी॑भ्याम्
इ॒न्द्रा॒ग्नी शि॑ख॒ण्डाभ्या॑म् ।
इन्द्रा॒बृह॒स्पती॑ ऊ॒रुभ्या॑म् ।
इन्द्रा॒विष्णू॑ अष्ठी॒वद्भ्या॑म् ।
स॒वि॒तार॒म् पुच्छे॑न ।
ग॒न्ध॒र्वाञ् छेपे॑न ।
अ॒प्स॒रसो॑ मु॒ष्काभ्या॑म् ।
पव॑मानम् पा॒युना॑ ।
प॒वित्र॒म् पोत्रा॑भ्याम् ।
आ॒क्रम॑णँ स्थू॒राभ्या॑म्
प्र॒ति॒क्रम॑ण॒ङ् कुष्ठा॑भ्याम् ॥ [47]
भट्टभास्कर-टीका
1मित्रावरुणौ श्रोणीभ्यां गतः । प्रथमस्य ‘देवताद्वन्द्वे च’ इत्युत्तरपदपरत्वात् आनङ् । द्वितीयस्य संहितायां छान्दसं दीर्धत्वम् । इन्द्राग्नी प्रसिद्धे । ‘नोत्तरपदेऽनुदात्तादौ’ इत्याद्युदात्तत्वाभावः । शिखण्डे केशचूडे । इन्द्राबृहस्पती उरुभ्यां गतम् । ‘देवताद्वन्द्वे च’ इति आनङ् । इन्द्राविष्णू गतम् । अष्ठीवद्भ्यां जानुभ्याम् । सवितारं पुच्छेन । गन्धर्वान् शेपेन गतम् । अप्सरसः प्रसिद्धाः । मुष्के बीजे । पवमानं पायु गतम् । पवित्रं पावनहेतुः । पोत्रे घोणास्थीनि । आक्रमणं आक्रमणसामर्थ्यम् । स्थूराभ्याम् पादपरार्धमणिभ्याप् । प्रतिक्रमणं प्रतिक्रमणसामर्थ्यम् । कुष्ठाभ्यां हस्तापरार्धमणिभ्याम् ॥
इति पञ्चमे सप्तभे पञ्चदशोनुवाकः ॥