मूलम् (संयुक्तम्)
योक्त्र॒ङ्गृध्रा॑भिर्यु॒गमान॑तेन चि॒त्तम्मन्या॑भिस्सङ्क्रो॒शान्प्रा॒णैᳶ प्र॑का॒शेन॒ त्वच॑म्पराका॒शेनान्त॑राम्म॒शका॒न्केशै॒रिन्द्रँ॒ स्वप॑सा॒ वहे॑न॒ बृह॒स्पतिँ॑ शकुनिसा॒देन॒ रथ॑मु॒ष्णिहा॑भिः ॥ [46]
विश्वास-प्रस्तुतिः
योक्त्र॒ङ् गृध्रा॑भिः ।
यु॒गमान॑तेन
चि॒त्तम् मन्या॑भिः ।
स॒ङ्क्रो॒शान् प्रा॒णैः ।
प्र॒का॒शेन॒ त्वच॑म् ।
प॒रा॒का॒शेनान्त॑राम् ।
म॒शका॒न् केशैः॑ ।
इन्द्रँ॒ स्वप॑सा॒ वहे॑न ।
बृह॒स्पतिँ॑ शकुनिसा॒देन॑ ।
रथ॑मु॒ष्णिहा॑भिः ॥ [46]
मूलम्
योक्त्र॒ङ् गृध्रा॑भिः ।
यु॒गमान॑तेन
चि॒त्तम् मन्या॑भिः ।
स॒ङ्क्रो॒शान् प्रा॒णैः ।
प्र॒का॒शेन॒ त्वच॑म् ।
प॒रा॒का॒शेनान्त॑राम् ।
म॒शका॒न् केशैः॑ ।
इन्द्रँ॒ स्वप॑सा॒ वहे॑न ।
बृह॒स्पतिँ॑ शकुनिसा॒देन॑ ।
रथ॑मु॒ष्णिहा॑भिः ॥ [46]
भट्टभास्कर-टीका
1योक्त्रं गतम् । गृध्राः अक्षाः । युगं प्रसिद्धम् । आनतं ग्रीवाप्रदेशः । चित्तं प्रसिद्धम् । मन्या ग्रीवारेखाः । सिरा वा तत्रस्थाः । संक्रोशा घोषाः । प्राणाः चक्षुरादयः । प्रकाशः बाह्यं रूपम् । त्वक् त्वगिन्द्रियादीनि । पराकाशः आभ्यन्तरं रूपम् । अन्तरा त्वगिन्द्रियाभिमानिनी । मशकान् केशैः । इन्द्रः प्रसिद्धः । स्वपसा शोभनकर्मणा वहेन कण्ठावलम्बेन। ‘सोर्मनसी’ इत्युत्तरपदाद्युदात्तत्वम् । बृहस्पतिः प्रसिद्धः । सुट्स्वरावुक्तौ । शकुनिसादः पृष्ठं यत्र शकुनाः शक्ता धीराः सीदन्ति । रथः प्रसिद्धः । उप्णिहाः शिरोवेष्टनसदृशाः केशनिवहाः ॥
इति पञ्चमे सप्तमे चतुर्दशोनुवाकः ॥