१३

मूलम् (संयुक्तम्)

कू॒र्माञ्छ॒फैर॒च्छला॑भिᳵ क॒पिञ्ज॑ला॒न्त्साम॒ कुष्ठि॑काभिर्ज॒वञ्जङ्घा॑भिरग॒दञ्जानु॑भ्याव्ँवी॒र्य॑ङ्कु॒हाभ्या॑म्भ॒यम्प्र॑चा॒लाभ्या॒ङ्गुहो॑पप॒क्षाभ्या॑म॒श्विना॒वँसा॑भ्या॒मदि॑तिँ शी॒र्ष्णा निर्ऋ॑ति॒न्निर्जा॑ल्मकेन शी॒र्ष्णा ॥ [45]

विश्वास-प्रस्तुतिः

कू॒र्माञ् छ॒पैः ।
अ॒च्छला॑भिᳵ क॒पिञ्ज॑लान् ।
साम॒ कुष्ठि॑काभिः
ज॒वञ् जङ्घा॑भिः ।
अ॒ग॒दञ् जानु॑भ्याम् ।
वी॒र्य॑ङ् कु॒हाभ्या॑म् ।
भ॒यम् प्र॑चा॒लाभ्या॑म् ।
गुहो॑पप॒क्षाभ्या॑म् ।
अ॒श्वना॒वँसा॑भ्याम्
अदि॑तिँ शी॒र्ष्णा
निर्ऋ॑ति॒न् निर्जा॑ल्मकेन शी॒र्ष्णा ॥ [45]

मूलम्

कू॒र्माञ् छ॒पैः ।
अ॒च्छला॑भिᳵ क॒पिञ्ज॑लान् ।
साम॒ कुष्ठि॑काभिः
ज॒वञ् जङ्घा॑भिः ।
अ॒ग॒दञ् जानु॑भ्याम् ।
वी॒र्य॑ङ् कु॒हाभ्या॑म् ।
भ॒यम् प्र॑चा॒लाभ्या॑म् ।
गुहो॑पप॒क्षाभ्या॑म् ।
अ॒श्वना॒वँसा॑भ्याम्
अदि॑तिँ शी॒र्ष्णा
निर्ऋ॑ति॒न् निर्जा॑ल्मकेन शी॒र्ष्णा ॥ [45]

भट्टभास्कर-टीका

1कूर्मान् शकैः । गतम् । अच्छलाः शफलमूलमांसानि । कपिञ्जलाः प्रसिद्धाः । साम गीतिः । कुष्ठिका प्रकोष्ठजङ्घाभ्योऽधःप्रदेशः । जवो वेगः । जङ्घा जानुभ्योऽधःप्रदेशः । अगदः आरोग्यम् । जानुनी पादयोर्मध्यसन्धी । वीर्यं बलम् । कुह: हस्तयोर्मध्यसन्धिः । भयं गतम् । प्रचालौ पादयोरुपरिप्रदेशौ । गुहा गोहनी मूर्छाऽस्य ‘सुपां सुलुक्’ इति द्वितीयाया लुक् । उपपक्षौ पार्श्वे । अश्विनावंसाभ्याम् । गतम् । अदितिर्देवमाता । शीर्ष्णा शिरसा । ‘शीर्षञ्छन्दसि’ इति शीर्षादेशः, तस्यान्तोदात्तत्वात् उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । निरृतिः प्रसिद्धा । निर्जाल्मकं शुद्धं केशरहितम् ॥

इति पञ्चमे सप्तमे त्रयोदशोनुवाकः ॥