मूलम् (संयुक्तम्)
वाजँ॒ हनू॑भ्याम॒प आ॒स्ये॑नादि॒त्याञ्छ्मश्रु॑भिरुपया॒ममध॑रे॒णोष्ठे॑न॒ सदुत्त॑रे॒णान्त॑रेणानूका॒शम्प्र॑का॒शेन॒ बाह्यँ॑ स्तनयि॒त्नुन्नि॑र्बा॒धेन॑ सूर्या॒ग्नी चक्षु॑र्भ्याव्ँवि॒द्युतौ॑ क॒नान॑काभ्याम॒शनि॑म्म॒स्तिष्के॑ण॒ बल॑म्म॒ज्जभिः॑ ॥ [44]
विश्वास-प्रस्तुतिः
वाजँ॒ हनू॑भ्याम् ।
अ॒प आ॒स्ये॑न ।
आदि॒त्याञ् छ्मश्रु॑भिः ।
उ॒प॒या॒मम् अध॑रे॒णोष्ठे॑न ।
सदुत्त॑रे॒ण ।
अन्त॑रेणानूका॒शम् ।
प्र॒का॒शेन॒ बाह्य॑म् ।
स्त॒न॒यि॒त्नुन् नि॑र्बा॒धेन॑ ।
सू॒र्या॒ग्नी चक्षु॑र्भ्याम् ।
वि॒द्युतौ॑ क॒नान॑काभ्याम् ।
अ॒शनि॑म् म॒स्तिष्के॑ण ।
बल॑म् म॒ज्जभिः॑ ॥ [44]
मूलम्
वाजँ॒ हनू॑भ्याम् ।
अ॒प आ॒स्ये॑न ।
आदि॒त्याञ् छ्मश्रु॑भिः ।
उ॒प॒या॒मम् अध॑रे॒णोष्ठे॑न ।
सदुत्त॑रे॒ण ।
अन्त॑रेणानूका॒शम् ।
प्र॒का॒शेन॒ बाह्य॑म् ।
स्त॒न॒यि॒त्नुन् नि॑र्बा॒धेन॑ ।
सू॒र्या॒ग्नी चक्षु॑र्भ्याम् ।
वि॒द्युतौ॑ क॒नान॑काभ्याम् ।
अ॒शनि॑म् म॒स्तिष्के॑ण ।
बल॑म् म॒ज्जभिः॑ ॥ [44]
भट्टभास्कर-टीका
1वाजोऽन्नम् । हन्वादीनि प्रसिद्धानि । हनूभ्यामिति छान्दसं सांहितिकं दीर्घत्वम् । उपयामः पृथिवी । अधरेणोष्ठेन । गतम् । ‘ओत्वोष्ठयोः’ इति पररूपत्वम् । सत् द्यौः, सीदन्त्यस्यां पुण्यकृत इति । उत्तरेण ओष्ठेनेत्येव । अन्तरं ओष्ठयोर्मध्यम् । अनूकाशः द्यावापृथिव्योर्मध्यं, अनुक्रमेण काशन्ते भासन्ते अस्मिन् ज्योतींषि । ‘इकः काशे’ इति सांहितिकं दीर्घत्वम् । प्रकाशः आभ्यन्तरं प्रकाशस्थानम् । बाह्यं बहिर्भवं प्रकाशस्थानं दिगादिः । ‘बहिषष्टिलोपो यञ्च’ इति यञ् । स्तनयित्नुः प्रसिद्धः । निर्बाधः क्वनशब्दः । सूर्याग्नी चक्षुर्भ्याम् । गतम् । विद्युतौ वृष्टिरवृष्टिः । कनानके अक्षिस्थे कृष्णमण्डले । अशनिः प्रसिद्धः । मस्तिष्कः । शिरोमांसम् । बलं मज्जभिः ॥
इति पञ्चमे सप्तमे द्वादशोनुवाकः ॥