१०

मूलम् (संयुक्तम्)

प्र॒जाप॑तिर॒ग्निम॑सृजत॒ सो॑ऽस्मात्सृ॒ष्टᳶ प्राङ्प्राद्र॑व॒त्तस्मा॒ अश्व॒म्प्रत्या॑स्य॒त्स द॑क्षि॒णाव॑र्तत॒ तस्मै॑ वृ॒ष्णिम्प्रत्या॑स्य॒त्स प्र॒त्यङ्ङाव॑र्तत॒ तस्मा॑ ऋष॒भम्प्रत्या॑स्य॒त्स उद॒ङ्ङाव॑र्तत॒ तस्मै॑ ब॒स्तम्प्रत्या॑स्य॒त्स ऊ॒र्ध्वो॑ऽद्रव॒त्तस्मै॒ पुरु॑ष॒म्प्रत्या॑स्य॒त्यत्प॑शुशी॒र्षाण्यु॑प॒दधा॑ति स॒र्वत॑ ए॒वैन॑म् [40]
अ॒व॒रुध्य॑ चिनुत…

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिर् अ॒ग्निम् अ॑सृजत ।
सो॑ऽस्मात् सृ॒ष्टᳶ प्राङ्प्राद्र॑व॒त् तस्मा॒ अश्व॒म् प्रत्या॑स्यत् ।
स द॑क्षि॒णाऽव॑र्तत॒, तस्मै॑ वृ॒ष्णिम् प्रत्या॑स्यत् ।
स प्र॒त्यङ्ङाव॑र्तत॒ तस्मा॑ ऋष॒भम् प्रत्या॑स्यत् ।
स उद॒ङ्ङाव॑र्तत॒, तस्मै॑ ब॒स्तम् प्रत्या॑स्यत् ।
स ऊ॒र्ध्वो॑ऽद्रव॒त्, तस्मै॒ पुरु॑ष॒म् प्रत्या॑स्यत् ।
यत् प॑शुशी॒र्षाण्य् उ॑प॒दधा॑ति, स॒र्वत॑ ए॒वैन॑म् अव॒रुध्य॑ चिनुते ।

मूलम्

भट्टभास्कर-टीका

1प्रजापतेरित्यादि पशुशिरसां विधिः ॥ प्रजापतिना सृष्टोग्निरस्मात्प्रजापतेः प्राङ्मुखतः प्राद्रवत् । तस्मै तन्निवृत्त्यर्थं अश्वं प्रत्यास्यत् प्रातिकूल्येनाग्रतः क्षिप्तवान्, अश्वेन प्रतिरुद्धवानिति यावत् । ततस्सोग्निरावृत्य दक्षिणस्यां दिशि आवर्तत । ततो सक्तुं(?) तस्मै वृष्णिं प्रत्यास्यत् । एवं सर्वत्र । दक्षिणादाच् । तस्मात्पशुशिरसामुपधानेन सर्वतो रुद्धस्य सर्वाभ्यो दिग्भ्यो निर्निरुद्धोग्निश्चितो भवति ॥

मूलम् (संयुक्तम्)

ए॒ता वै प्रा॑ण॒भृत॒श्चक्षु॑ष्मती॒रिष्ट॑का॒ यत्प॑शुशी॒र्षाणि॒ यत्प॑शुशी॒र्षाण्यु॑प॒दधा॑ति॒ ताभि॑रे॒व यज॑मानो॒ऽमुष्मिल्ँ॑ लो॒के प्राणि॒त्यथो॒ ताभि॑रे॒वास्मा॑ इ॒मे लो॒काᳶ प्र भा॑न्ति

विश्वास-प्रस्तुतिः

ए॒ता वै प्रा॑ण॒भृत॒श् चक्षु॑ष्मती॒र् इष्ट॑का॒ यत् प॑शुशी॒र्षाणि ।
यत् प॑शुशी॒र्षाण्यु॑प॒दधा॑ति॒ ताभि॑रे॒व यज॑मानो॒ ऽमुष्मिल्ँ॑ लो॒के प्राणि॑ति ।
अथो॒ ताभि॑रे॒वास्मा॑ इ॒मे लो॒काᳶ प्र भा॑न्ति ।

2एता वा इत्यादि ॥ भूतपूर्वं प्राणभृत्त्वं चक्षुष्मत्त्वं च शिरस्सूपचर्यते । उपधेयत्वाच्चेष्टकात्वम् । तदुपधानेन यजमानोमुष्मिन् लोके प्राणिति जीवति । लोकाश्चेमे अस्मै प्रभान्ति प्रकर्षेण प्रकाशन्ते उपकारका भवन्ति ॥

मूलम् (संयुक्तम्)

मृ॒दाभि॒लिप्योप॑ दधाति मेध्य॒त्वाय॑

विश्वास-प्रस्तुतिः

मृ॒दाऽभि॒लिप्योप॑ दधाति, मेध्य॒त्वाय॑ ।

मूलम्

मृ॒दाऽभि॒लिप्योप॑ दधाति, मेध्य॒त्वाय॑ ।

भट्टभास्कर-टीका

3मृदाऽभिलिप्येति विधिः ॥

मूलम् (संयुक्तम्)

प॒शुर्वा ए॒ष यद॒ग्निरन्न॑म्प॒शव॑ ए॒ष खलु॒ वा अ॒ग्निर्यत्प॑शुशी॒र्षाणि॒ यङ्का॒मये॑त॒ कनी॑यो॒ऽस्यान्न॑म् [41]
स्या॒दिति॑ सन्त॒रान्तस्य॑ पशुशी॒र्षाण्युप॑ दध्या॒त्कनी॑य ए॒वास्यान्न॑म्भवति॒ यङ्का॒मये॑त स॒माव॑द॒स्यान्नँ॑ स्या॒दिति॑ मध्य॒तस्तस्योप॑ दध्यात्स॒माव॑दे॒वास्यान्न॑म्भवति॒ यङ्का॒मये॑त॒ भूयो॒ऽस्यान्नँ॑ स्या॒दित्यन्ते॑षु॒ तस्य॑ व्यु॒दूह्योप॑ दध्यादन्त॒त ए॒वास्मा॒ अन्न॒मव॑ रुन्द्धे॒ भूयो॒ऽस्यान्न॑म्भवति ॥ [42]

विश्वास-प्रस्तुतिः

प॒शुर् वा ए॒ष यद॒ग्निर् अन्न॑म् प॒शवः॑ ।
ए॒ष खलु॒ वा अ॒ग्निर् यत् प॑शुशी॒र्षाणि॑ ।

यङ्का॒मये॑त॒ -
कनी॑यो॒ऽस्यान्न॑म् स्या॒दिति॑ सन्त॒रान्तस्य॑ पशुशी॒र्षाण्युप॑ दध्यात् ।
कनी॑य ए॒वास्यान्न॑म् भवति ।

यङ्का॒मये॑त -
स॒माव॑द॒स्यान्नँ॑ स्या॒दिति॑ मध्य॒तस् तस्योप॑ दध्यात् ।
स॒माव॑दे॒वास्यान्न॑म् भवति ।

यङ्का॒मये॑त॒ -
भूयो॒ऽस्यान्नँ॑ स्या॒दित्यन्ते॑षु॒ तस्य॑ व्यु॒दूह्योप॑ दध्यात् ।
अ॒न्त॒त ए॒वास्मा॒ अन्न॒मव॑ रुन्द्धे॒, भूयो॒ऽस्यान्न॑म् भवति ॥ [42]

4पशुर्वा इत्यादि ॥ पशुशिरसु गुणविध्यर्थम् । पशुसाधनत्वात् पशवोग्निः । अन्नसाधनत्वात् अन्नं पशवः । किञ्च - एषोग्निरेव पशुशीर्षाणि, अवयवावयविनोरभिन्नत्वात् पशुत्वस्य च समानत्वात् । तस्माद्यजमानमध्वर्युः कामयते कनीयोल्पतरं अस्यान्नं स्यादिति तस्य संतरां सन्निकृष्टतराणि पशुशीर्षाण्युपदध्यात् । ‘किमेत्तिङ्व्यय’ इत्यामुप्रत्ययः । कनीय एवेत्यादि । गतम् । समावत् समम् । समादावतुप् स्वार्थिकः । मध्यतो नातिसन्निकृष्टा दिक् । भूयः बहुतरम् । अन्तेष्वित्यादि । अन्तेषु प्रान्तेषु ०युदूह्य व्युदूह्योपदद्ध्यात् । अन्ततो दिगन्तेभ्योस्मै यजमानायान्नमवरुन्धे । ततो बहुतरं तस्यान्नं भवति ॥

इति पञ्चमे सप्तमे दशमोनुवाकः ॥