०९

मूलम् (संयुक्तम्)

मयि॑ गृह्णा॒म्यग्रे॑ अ॒ग्निँ रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य । मयि॑ प्र॒जाम्मयि॒ वर्चो॑ दधा॒म्यरि॑ष्टास्स्याम त॒नुवा॑ सु॒वीराः॑ ।

विश्वास-प्रस्तुतिः

मयि॑ गृह्णा॒म्यग्रे॑ अ॒ग्निँ रा॒यस् पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ।

मयि॑ प्र॒जाम्मयि॒ वर्चो॑ दधा॒म्य् - अरि॑ष्टास् स्याम त॒नुवा॑ सु॒वीराः॑ ।

मूलम्

मयि॑ गृह्णा॒म्यग्रे॑ अ॒ग्निँ रा॒यस् पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ।

मयि॑ प्र॒जाम्मयि॒ वर्चो॑ दधा॒म्य् - अरि॑ष्टास् स्याम त॒नुवा॑ सु॒वीराः॑ ।

भट्टभास्कर-टीका

1आत्मन्यग्निं गृह्णीते - मयि गृह्णामीति द्वाभ्याम् ॥ त्रिष्टुप् पुरस्ताज्ज्योतिस्त्रिष्टुप् अक्षराधिका । अग्ने प्रथमं चयनात् पूर्वमेवाग्निं मयि गृह्णामि रायो धनस्य पोषाय पुष्ट्यर्थं शोभनापत्यत्वाय शोभनवीर्यत्वाय च । व्याख्यातानि पदानि । किं यजमानस्य रायस्पोषाय दद्युरिति, नेत्याह - मयि प्रजां प्रजादिकं च मयि वर्चो बलं च दधामि धारयेय मम तेजो माक्रमेदित्यनेन अभिप्रायेण मयि गृह्णामीति । ‘यदध्वर्युरात्मन्’ इत्यादिकं ब्राह्मणमिदानीमेव भविष्यति । किञ्च - सर्वेऽपि वयं पुत्रपात्रादिसहिताः सुवीराश्शोभनापत्या अरिष्टा अनुपहिंसिताश्च तनुवा शोभनेन शरीरेण सहिताः सर्वे स्याम समर्थाश्च ॥

मूलम् (संयुक्तम्)

यो नो॑ अ॒ग्निᳶ पि॑तरो हृ॒त्स्व॑न्तरम॑र्त्यो॒ मर्त्याँ॑ आवि॒वेश॑ । तमा॒त्मन्परि॑ गृह्णीमहे व॒यम्मा सो अ॒स्माँ अ॑व॒हाय॒ परा॑ गात् ।

विश्वास-प्रस्तुतिः

यो नो॑ अ॒ग्निᳶ पि॑तरो हृ॒त्स्व॑न्तरम॑र्त्यो॒ मर्त्याँ॑ आवि॒वेश॑ ।
तमा॒त्मन् परि॑ गृह्णीमहे व॒यम्मा सो अ॒स्माँ अ॑व॒हाय॒ परा॑ गात् ।

मूलम्

यो नो॑ अ॒ग्निᳶ पि॑तरो हृ॒त्स्व॑न्तरम॑र्त्यो॒ मर्त्याँ॑ आवि॒वेश॑ ।
तमा॒त्मन् परि॑ गृह्णीमहे व॒यम्मा सो अ॒स्माँ अ॑व॒हाय॒ परा॑ गात् ।

भट्टभास्कर-टीका

2अथ द्वितीया - यो न इति ॥ हे पितरः सर्वस्य पितरः । भूतेन्द्रियाण्यामन्त्र्यन्ते यो नो ऽस्मान् हृत्सु हृदयादिषु अन्तर्मध्ये आविवेश अमर्त्य अमरणधर्मा मर्त्यान् मरणशीलान् अस्मानाविवेश तं महानुभावमात्मनि वयं परिगृह्णीमहे । ननु चोक्तमन्तराविवेशेति तत्किमुच्यते आत्मनि परिगृह्णीमहे इति; अत्राभिप्रायमाह - सोऽस्मानपहाय त्यक्त्वा मा परागात् माऽन्यत्र गच्छत्विति । परिग्रहशब्देन अयमर्थो विवक्षित इति दर्शितं भवति ॥

मूलम् (संयुक्तम्)

यद॑ध्व॒र्युरा॒त्मन्न॒ग्निमगृ॑हीत्वा॒ग्निञ्चि॑नु॒याद्यो॑ऽस्य॒ स्वो॑ऽग्निस्तमपि॑ [36]
यज॑मानाय चिनुयाद॒ग्निङ्खलु॒ वै प॒शवोऽनूप॑ तिष्ठन्तेऽप॒क्रामु॑का अस्मात्प॒शव॑स्स्यु॒र्मयि॑ गृह्णा॒म्यग्रे॑ अ॒ग्निमित्या॑हा॒त्मन्ने॒व स्वम॒ग्निन्दा॑धार॒ नास्मा॑त्प॒शवोऽप॑ क्रामन्ति

विश्वास-प्रस्तुतिः

यद॑ध्व॒र्युर् आ॒त्मन्न् अ॒ग्निमगृ॑हीत्वा॒ ऽग्निञ् चि॑नु॒याद्, यो॑ऽस्य॒ स्वो॑ऽग्निस् तमपि॑ यज॑मानाय चिनुयात् ।

अ॒ग्निङ्खलु॒ वै प॒शवोऽनूप॑ तिष्ठन्ते ऽप॒क्रामु॑का अस्मात् प॒शव॑स् स्यु॒र् मयि॑ गृह्णा॒म्यग्रे॑ अ॒ग्निमित्या॑ह ।

आ॒त्मन्न् ए॒व स्वम॒ग्निन् दा॑धार॒, नास्मा॑त् प॒शवोऽप॑ क्रामन्ति ।

3अथात्रैव ब्राह्मणम् - यदध्वर्युरित्यादि ॥ अग्निग्रहणविधानार्थम् । यद्यध्वर्युः आभ्यां मन्त्राभ्यां आत्मन्यग्निमगृहीत्वा अग्निं चिनुयात् योस्याध्वर्योः स्व आत्मनि योग्निः तमपि यजमानाय चिनुयात् चयने जह्यात् ततश्चेतुमुपयान्तं पशवोनूपतिष्ठन्ते पश्चादनुद्रुत्य भजन्ते । संगतिकरण आत्मनेपदम् । एवमेतद्युक्तमिति खलुशब्देन द्योत्यते । ततश्च अस्याध्वर्योरपक्रामुकाः अपक्रमणशीलाः पशवस्स्युः । छान्दस उकञ् । मयि गृह्णामीत्यादिना यथोक्तदोषाभावमाचष्टे । दाधारेति छान्दसो लिट् । धारयन्निति । ‘तुजादीनाम्’ इत्यभ्यासस्य दीर्घत्वम् ॥

मूलम् (संयुक्तम्)

ब्रह्मवा॒दिनो॑ वदन्ति॒ यन्मृच्चाप॑श्चा॒ग्नेर॑ना॒द्यमथ॒ कस्मा॑न्मृ॒दा चा॒द्भिश्चा॒ग्निश्ची॑यत॒ इति॒ यद॒द्भिस्सय्ँ॒यौति॑ [37]
आपो॒ वै सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒वैनँ॒ सँ सृ॑जति॒ यन्मृ॒दा चि॒नोती॒यव्ँ वा अ॒ग्निर्वै॑श्वान॒रो॑ऽग्निनै॒व तद॒ग्निञ्चि॑नोति

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -
यन् मृच् चाप॑श् चा॒ग्नेर॑ना॒द्यमथ॒ कस्मा॑न् मृ॒दा चा॒द्भिश् चा॒ग्निश् ची॑यत॒ इति॑ ।
यद् अ॒द्भिस् सय्ँ॒यौति॑ + आपो॒ वै सर्वा॑ दे॒वता॑, दे॒वता॑भिरे॒वैनँ॒ सँ सृ॑जति ।
यन् मृ॒दा चि॒नोती॒यव्ँ वा अ॒ग्निर् वै॑श्वान॒रो॑ ऽग्निनै॒व तद॒ग्निञ् चि॑नोति ।

4ब्रह्मवादिन इत्यादि ॥ मृच्च आपश्चेत्येतदुभयमग्नेरनाद्यमभक्ष्यम् । ‘ययतोश्चातदर्थे’ इत्युत्तरपदान्तोदात्तत्वम् । अथ कस्मात्कारणादनेनाभिमतेन अग्निश्चीयते विरुद्धमिव लक्ष्यते एतदिति ब्रह्मवादिन आहुः । उत्तरम् - यदद्भिरिति । यदद्भिर्मृदं संयौति मिश्रयति आपश्च सर्वदेवतार्थाः । तस्मात्तादृश्या मृदा चयनेन सर्वाभिर्देवताभिः एनमग्निं संसृजति संयोजयति । तस्मान्मृदा चाद्भिश्च अग्निश्चीयते; न किञ्चिदिह विरुद्धमिति ॥

मूलम् (संयुक्तम्)

ब्रह्मवा॒दिनो॑ वदन्ति॒ यन्मृ॒दा चा॒द्भिश्चा॒ग्निश्ची॒यतेऽथ॒ कस्मा॑द॒ग्निरु॑च्यत॒ इति॒ यच्छन्दो॑भिश्चि॒नोत्य॒ग्नयो॒ वै छन्दाँ॑सि॒ तस्मा॑द॒ग्निरु॑च्य॒तेऽथो॑ इ॒यव्ँ वा अ॒ग्निर्वै॑श्वान॒रो यत् [38]
मृ॒दा चि॒नोति॒ तस्मा॑द॒ग्निरु॑च्यते

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -
यन् मृ॒दा चा॒द्भिश् चा॒ग्निश् ची॒यते ऽथ॒ कस्मा॑द् अ॒ग्निरु॑च्यत॒ इति॑ ।
यच् छन्दो॑भिश् चि॒नोत्य् अ॒ग्नयो॒ वै छन्दाँ॑सि॒, तस्मा॑द॒ग्निरु॑च्यते ।
अथो॑ इ॒यव्ँ वा अ॒ग्निर् वै॑श्वान॒रो यन् मृ॒दा चि॒नोति॒, तस्मा॑द॒ग्निरु॑च्यते ।

5एवमद्भिश्चयनं प्रयोजनवदित्युक्तम् । इदानीं मृदा चयने यो गुणः तं दर्शयति - यन्मृदेत्यादि ॥ गतम् । ब्रह्मवादिन इत्यादि । पुनरपि पर्यनुयोगान्तरमत्र कुर्वन्ति - ब्रह्मवादिनः मृदाचाद्भिश्चीयमानोग्निः कस्मात्संबन्धादग्निरुच्यते । अद्भिर्मृदा काष्ठेन वा निष्पादितं हिरण्मयं भवति, तत्त्वं च विरुद्धमिति । समाधत्ते - यच्छन्दोभिरित्यादि । गतम् ॥

मूलम् (संयुक्तम्)

हिरण्येष्ट॒का उप॑ दधाति॒ ज्योति॒र्वै हिर॑ण्य॒ञ्ज्योति॑रे॒वास्मि॑न्दधा॒त्यथो॒ तेजो॒ वै हिर॑ण्य॒न्तेज॑ ए॒वात्मन्ध॑त्ते॒

विश्वास-प्रस्तुतिः

हि॒र॒ण्ये॒ष्ट॒का उप॑ दधाति ।
ज्योति॒र् वै हिर॑ण्य॒ञ् ज्योति॑र् ए॒वास्मि॑न् दधाति ।
अथो॒ तेजो॒ वै हिर॑ण्य॒न् , तेज॑ ए॒वात्मन्ध॑त्ते ।

मूलम्

हि॒र॒ण्ये॒ष्ट॒का उप॑ दधाति ।
ज्योति॒र् वै हिर॑ण्य॒ञ् ज्योति॑र् ए॒वास्मि॑न् दधाति ।
अथो॒ तेजो॒ वै हिर॑ण्य॒न् , तेज॑ ए॒वात्मन्ध॑त्ते ।

भट्टभास्कर-टीका

6हिरण्येष्टका इत्यादि ॥ ‘तेजोसि तेजो मे यच्छ’ इत्याद्या हिरण्येष्टकाष्षष्ठे विहिताः पुनरिह विधीयन्ते । अग्नेरात्मीयतासंपादनार्थम् । यद्वा - अत्रैवासां विधिः, षष्ठे तु क्रमविधिः । ज्योतिर्वा इत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

यो वा अ॒ग्निँ स॒र्वतो॑मुखञ्चिनु॒ते सर्वा॑सु प्र॒जास्वन्न॑मत्ति॒ सर्वा॒ दिशो॒ऽभि ज॑यति

विश्वास-प्रस्तुतिः

यो वा अ॒ग्निँ स॒र्वतो॑मुखञ् चिनु॒ते,
सर्वा॑सु प्र॒जास्व् अन्न॑मत्ति॒ ,
सर्वा॒ दिशो॒ऽभि ज॑यति ।

मूलम्

यो वा अ॒ग्निँ स॒र्वतो॑मुखञ् चिनु॒ते,
सर्वा॑सु प्र॒जास्व् अन्न॑मत्ति॒ ,
सर्वा॒ दिशो॒ऽभि ज॑यति ।

भट्टभास्कर-टीका

7यो वा अग्निमित्यादि ॥ सर्वासु दिक्षु मुखानि छन्दांसि यस्य स सर्वतोमुखः, सर्वासु वा दिक्षु मुखं चाग्नेरेभिः छन्दोभिः सर्वतोमुखः । सर्वास्विति निर्धारणे सप्तमी । सर्वासु प्रजासु मध्ये अतिशयेनान्नमत्ति । सर्वाश्च दिशोभिजयति ॥

मूलम् (संयुक्तम्)

गाय॒त्रीम्पु॒रस्ता॒दुप॑ दधाति त्रिष्टुभ॑न्दक्षिण॒तो जग॑तीम्प॒श्चाद॑नु॒ष्टुभ॑मुत्तर॒तᳶ प॒ङ्क्तिम्मध्य॑ ए॒ष वा अ॒ग्निस्स॒र्वतो॑मुख॒स्तय्ँय ए॒वव्ँवि॒द्वाँश्चि॑नु॒ते सर्वा॑सु प्र॒जास्वन्न॑मत्ति॒ सर्वा॒ दिशो॒ऽभि ज॑य॒त्यथो॑ दि॒श्ये॑व दिश॒म्प्र व॑यति॒ तस्मा॑द्दि॒शि दिक्प्रोता॑ ॥ [39]

विश्वास-प्रस्तुतिः

गाय॒त्रीम्पु॒रस्ता॒दुप॑ दधाति, त्रिष्टुभ॑न् दक्षिण॒तो,
जग॑तीम् प॒श्चाद्, अ॑नु॒ष्टुभ॑मुत्तर॒तᳶ, प॒ङ्क्तिम् मध्य॑,
ए॒ष वा अ॒ग्निस् स॒र्वतो॑मुख॒स् , तय्ँ य ए॒वव्ँ वि॒द्वाँश् चि॑नु॒ते सर्वा॑सु प्र॒जास्वन्न॑मत्ति॒, सर्वा॒ दिशो॒ऽभि ज॑य॒त्य् , अथो॑ दि॒श्ये॑व दिश॒म् प्र व॑यति॒
तस्मा॑द् दि॒शि दिक्प्रोता॑ ॥ [39]

8गायत्रीमित्यादि ॥ गतम् । अथो इत्यादि । परस्परसम्बद्धैः छन्दोभिश्चयनात् दिश्येव दिशं प्रवयति । तस्मादिदानीमपि दिशि अन्या दिक् प्रोतेव लक्ष्यते । सर्वा दिशः परस्परं प्रोता इव भवन्ति । कोणासु दिक्षु अन्यासामनुप्रविष्टत्वात् प्रोता इत्युच्यन्ते । वेञः निष्ठायां संप्रसारणं, ‘शतुरनुमः’ इति गतेः प्रकृतिस्वरत्वम् ॥

इति पञ्चमे सप्तमे नवमोनुवाकः ॥