०८

मूलम् (संयुक्तम्)

यास्ते॑ अग्ने स॒मिधो॒ यानि॒ धाम॒ या जि॒ह्वा जा॑तवेदो॒ यो अ॒र्चिः । ये ते॑ अग्ने मे॒डयो॒ य इन्द॑व॒स्तेभि॑रा॒त्मान॑ञ्चिनुहि प्रजा॒नन् ।

विश्वास-प्रस्तुतिः

यास् ते॑ अग्ने स॒मिधो॒ यानि॒ धाम॒ या जि॒ह्वा जा॑तवेदो॒ यो अ॒र्चिः ।

ये ते॑ अग्ने मे॒डयो॒ य इन्द॑व॒स् तेभि॑रा॒त्मान॑ञ् चिनुहि प्रजा॒नन् ।

मूलम्

यास् ते॑ अग्ने स॒मिधो॒ यानि॒ धाम॒ या जि॒ह्वा जा॑तवेदो॒ यो अ॒र्चिः ।

ये ते॑ अग्ने मे॒डयो॒ य इन्द॑व॒स् तेभि॑रा॒त्मान॑ञ् चिनुहि प्रजा॒नन् ।

भट्टभास्कर-टीका

1स्वयंचितिं जपति - यास्त इति त्रिष्टुभा ॥ हे अग्ने जातवेदः जातप्रज्ञ जातधन वा यास्तव समिधः समिन्धनानि यानि च धाम धामानि जन्मस्थानानि । ‘सुपां सुलुक्’ इति लुक्, यश्चार्चिः दीप्तिः हे अग्ने अङ्गनादियुक्त । ये च मेडयः शब्दाः चमनामसूपमितमिदम् । ये ते च इन्दवः विप्रुषः तेभिस्तैस्सर्वैः स्वयमेवात्मानं चिनुहि । ‘उतश्च प्रत्ययाच्छन्दो वा वचनम्’ इति हेर्लोपाभावः । प्रजानन् प्रकृष्टो ज्ञाता । कोन्यस्त्वदृते तां चेतुं शक्नुयादिति भावः । तेभिरिति । ‘बहुलं छन्दसि’ इति ऐसभावः, ‘नपुंसकमनपुंसकेन’ इति नपुंसकं शिष्यते ॥

मूलम् (संयुक्तम्)

उ॒त्स॒न्न॒य॒ज्ञो वा ए॒ष यद॒ग्निᳵ किव्ँवाहै॒तस्य॑ क्रि॒यते॒ किव्ँवा॒ न यद्वा अ॑ध्व॒र्युर॒ग्नेश्चि॒न्वन्न॑न्त॒रेत्या॒त्मनो॒ वै तद॒न्तरे॑ति॒ यास्ते॑ अग्ने स॒मिधो॒ यानि॑ [33]
धामेत्या॑है॒षा वा अ॒ग्नेस्स्व॑यञ्चि॒तिर॒ग्निरे॒व तद॒ग्निञ्चि॑नोति॒ नाध्व॒र्युरा॒त्मनो॒ऽन्तरे॑ति॒

विश्वास-प्रस्तुतिः

उ॒त्स॒न्न॒य॒ज्ञो वा ए॒ष यद॒ग्निः ।
किव्ँवाऽहै॒तस्य॑ क्रि॒यते॒ किव्ँवा॒ न ।
यद् वा अ॑ध्व॒र्युर् अ॒ग्नेश्चि॒न्वन्न् अ॑न्त॒रेति॑ + आ॒त्मनो॒ वै तद॒न्तरे॑ति ।
यास् ते॑ अग्ने स॒मिधो॒ यानि॑ धामेत्या॑ह ।

ए॒षा वा अ॒ग्नेस् स्व॑यञ् चि॒तिर्, अ॒ग्निरे॒व तद॒ग्निञ् चि॑नोति॒ , नाध्व॒र्युर् आ॒त्मनो॒ऽन्तरे॑ति ।

2अथात्रैव ब्राह्मणम् - उत्सन्न यज्ञ इत्यादि ॥ व्याख्यातम् । +++(सम्पादकटिप्पनी - पञ्चमे काण्डस्य तृतीयानुवाके ।)+++

  • [ ### मन्त्रः उ॒त्स॒न्न॒य॒ज्ञो वा ए॒ष यद॒ग्निः ।
    किव्ँवाहै॒तस्य॑ क्रि॒यते॒ किव्ँ वा॒ न ।
    यद् वै य॒ज्ञस्य॑ क्रि॒यमा॑णस्यान्त॒र्यन्ति॒ पूय॑ति॒ वा अ॑स्य॒ तत् ।

1उक्ता प्रथमा चितिः । इदानीं द्वितीयस्यां चितौ आश्विनीर्विधातुमाह - उत्सन्नयज्ञ इत्यादि ॥ अतः परमग्निकाण्डमेव । उत्सन्नयज्ञः । शाकपार्थिवादिः । अग्नौ भूयिष्ठं कर्मोत्सन्नं भवति कार्त्स्न्येन कर्तुमशक्यत्वात् । तस्मात् एतस्य किं कर्तव्यं क्रियते किं वाऽकर्तव्यमेव क्रियते इति को ज्ञातुं अर्हति । अहेति पक्षे । यच्च यज्ञस्य क्रियमाणस्य कार्त्स्न्येन निवर्तयितुं प्रारब्धस्य सम्बन्धिनः अन्तर्यन्ति नाशयन्ति । प्रमादादननुष्ठानमेव नाशः ।‘अन्तरपरिग्रहे’ इति गतित्वात् ‘तिङि चोदात्तवति’ इत्यन्तश्शब्दस्य अनुदात्तत्वम् । ‘यद्वृत्तान्नित्यम्’ इति आख्यातं न निहन्यते । तदाऽस्य अङ्गं पूयति विशीर्यते दुष्टं पच्यते भिषजा चिकित्सितव्यं भवति । पूयी विशरणे । ]

पुरुषबुद्ध्यविषयत्वेन ज्ञानवत्त्वस्य परिहृतत्वात् अध्वर्योरात्मैकदेशान्तरस्याभावः ॥

मूलम् (संयुक्तम्)

चत॑स्र॒ आशा॒ᳶ प्र च॑रन्त्व॒ग्नय॑ इ॒मन्नो॑ य॒ज्ञन्न॑यतु प्रजा॒नन् । घृ॒तम्पिन्व॑न्न॒जरँ॑ सु॒वीर॒म्ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीनाम् ।

विश्वास-प्रस्तुतिः

चत॑स्र॒ आशा॒ᳶ प्र च॑रन्त्व् अ॒ग्नय॑ इ॒मन् नो॑ य॒ज्ञन् न॑यतु प्रजा॒नन् ।
घृ॒तम्पिन्व॑न्न् अ॒जरँ॑ सु॒वीर॒म्ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीनाम् ।

मूलम्

चत॑स्र॒ आशा॒ᳶ प्र च॑रन्त्व् अ॒ग्नय॑ इ॒मन् नो॑ य॒ज्ञन् न॑यतु प्रजा॒नन् ।
घृ॒तम्पिन्व॑न्न् अ॒जरँ॑ सु॒वीर॒म्ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीनाम् ।

भट्टभास्कर-टीका

3कूर्मोपधानमन्त्रः - चतस्र आशा इति त्रिष्टुप् ॥ चतस्र आशा दिशः अग्नयः प्रचरन्तु प्रकाशनार्थाय स्वर्गं गच्छतोस्य । अयं च कूर्मः इममस्माकं यज्ञं स्वर्गं नयतु प्रापयतु प्रजानन् प्रकृष्टो ज्ञाता घृतमुदकं अजरं अविनाशं सुवीर्यं च शोभनवीर्यं च पिन्वन् सिञ्चन् इमं यज्ञं नयत्विति । ब्रह्मैव समिन्धनं भवतु आहुतीनामग्नीनां प्रचरताम् । आहूयन्ते याम्य इत्याहुतयोऽग्नयः । संप्रदाने क्तिन्, ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ॥

मूलम् (संयुक्तम्)

सु॒व॒र्गाय॒ वा ए॒ष लो॒कायोप॑ धीयते॒ यत्कू॒र्मश्चत॑स्र॒ आशा॒ᳶ प्र च॑रन्त्व॒ग्नय॒ इत्या॑ह [34]
दिश॑ ए॒वैतेन॒ प्र जा॑नाती॒मन्नो॑ य॒ज्ञन्न॑यतु प्रजा॒नन्नित्या॑ह सुव॒र्गस्य॑ लो॒कस्या॒भिनी॑त्यै॒ ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीना॒मित्या॑ह॒ ब्रह्म॑णा॒ वै दे॒वास्सु॑व॒र्गल्ँ लो॒कमा॑य॒न्‌यद्ब्रह्म॑ण्वत्योप॒दधा॑ति॒ ब्रह्म॑णै॒व तद्यज॑मानस्सुव॒र्गल्ँ लो॒कमे॑ति

विश्वास-प्रस्तुतिः

सु॒व॒र्गाय॒ वा ए॒ष लो॒कायोप॑ धीयते॒ यत्कू॒र्मश्, चत॑स्र॒ आशा॒ᳶ प्र च॑रन्त्व॒ग्नय॒ इत्या॑ह ।
दिश॑ ए॒वैतेन॒ प्र जा॑नाति + इ॒मन् नो॑ य॒ज्ञन्न॑यतु प्रजा॒नन्नित्या॑ह, सुव॒र्गस्य॑ लो॒कस्या॒भिनी॑त्यै ।
ब्रह्म॑ स॒मिद् भ॑व॒त्याहु॑तीना॒मित्या॑ह॒ , ब्रह्म॑णा॒ वै दे॒वास् सु॑व॒र्गल्ँ लो॒कमा॑यन्‌ ।
यद्ब्रह्म॑ण्वत्योप॒दधा॑ति॒ ब्रह्म॑णै॒व तद्यज॑मानस् सुव॒र्गल्ँ लो॒कमे॑ति ।

4अथात्रैव ब्राह्मणम् - सुवर्गायेत्यादि ॥ गतम् । चतस्र इत्यादि । मन्त्रावयवानां स्तुतिः । अभिनीत्यै आभिमुख्येन नयनाय यत् ब्रह्मण्वत्या ऋचा ‘चतस्र आशाः’ इत्यनया, ‘ब्रह्म समित् भवति’ इत्यत्र दर्शनात् । ‘अनो नुट्’ ॥

मूलम् (संयुक्तम्)

प्र॒जाप॑ति॒र्वा ए॒ष यद॒ग्निस्तस्य॑ प्र॒जाᳶ प॒शव॒श्छन्दाँ॑सि रू॒पँ सर्वा॒न्‌वर्णा॒निष्ट॑कानाङ्कुर्याद्रू॒पेणै॒व प्र॒जाम्प॒शूञ्छन्दाँ॒स्यव॑ रु॒न्द्धेऽथो॑ प्र॒जाभ्य॑ ए॒वैन॑म्प॒शुभ्य॒श्छन्दो॑भ्योऽव॒रुद्ध्य॑ चिनुते ॥ [35]

विश्वास-प्रस्तुतिः

प्र॒जाप॑ति॒र्वा ए॒ष यद॒ग्निस् तस्य॑ प्र॒जाᳶ प॒शव॒श्छन्दाँ॑सि रू॒पँ सर्वा॒न्‌वर्णा॒निष्ट॑कानाङ्कुर्याद्,
रू॒पेणै॒व प्र॒जाम् प॒शूञ् छन्दाँ॒स्यव॑ रुन्धे ।

अथो॑ प्र॒जाभ्य॑ ए॒वैन॑म् प॒शुभ्य॒श् छन्दो॑भ्योऽव॒रुद्ध्य॑ चिनुते ॥ [35]

5प्रजापतिर्वा इत्यादि ॥ प्रजादीनि प्रजापते रूपाणि नः अस्मान् प्रजापत्यात्मनोऽग्नेरवयवभूतानां इष्टकानां सर्वान् सर्ववर्णान् कुर्यात् लेखाभिः दक्षिणावृद्द्विः तासां प्रजादिभावाय प्रजादीनां च सर्ववर्णत्वात् तथा कृते रूपेणैव प्रजादीनवरुन्धे । ततश्च प्रजापत्यात्माऽग्निः परिगृहीतो भवति । अथो अपि च प्रजादिभ्य एवादायाग्निः चितो भवति, प्रजादीनां इष्टकानां चैतत्स्वभावत्वात् ॥

इति पञ्चमे सप्तमे अष्टमोनुवाकः ॥