मूलम् (संयुक्तम्)
यदाकू॑तात्स॒मसु॑स्रोद्धृ॒दो वा॒ मन॑सो वा॒ सम्भृ॑त॒ञ्चक्षु॑षो वा । तमनु॒ प्रेहि॑ सुकृ॒तस्य॑ लो॒कय्ँयत्रर्ष॑यᳶ प्रथम॒जा ये पु॑रा॒णाः ।
विश्वास-प्रस्तुतिः
यदाकू॑तात् स॒मसु॑स्रोद्धृ॒दो वा॒ मन॑सो वा॒ सम्भृ॑त॒ञ् चक्षु॑षो वा ।
तमनु॒ प्रेहि॑ सुकृ॒तस्य॑ लो॒कय्ँयत्रर्ष॑यᳶ प्रथम॒जा ये पु॑रा॒णाः ।
मूलम्
यदाकू॑तात् स॒मसु॑स्रोद्धृ॒दो वा॒ मन॑सो वा॒ सम्भृ॑त॒ञ् चक्षु॑षो वा ।
तमनु॒ प्रेहि॑ सुकृ॒तस्य॑ लो॒कय्ँयत्रर्ष॑यᳶ प्रथम॒जा ये पु॑रा॒णाः ।
भट्टभास्कर-टीका
1दशाग्निकानि समिष्टयजूंषि जुहोति - यदाकूतादित्यादीनि ॥ आद्याश्रतस्रः त्रिष्टुभः । अन्या अनुष्टुभः । तत्र प्रथमा - आकूतिः संकल्पः प्रत्ययः ‘अक्षयं सुखमाप्नवानि’ इत्येवंरूपः । हृदयं चित्तं श्रुतिस्मृत्यादि तत्साधनोपायचिन्तनम् । मनः अन्तःकरणं तदनुकूलप्रतिकूलेषु प्रवृत्तिनिवृत्त्यात्मकम् । चक्षुर्ग्रहणेन दशेन्द्रियाणि लक्ष्यन्ते यानि सम्यगनुष्ठानेन अभिमतं लाभं साधयन्ति । एतेष्वाकूत्यादिषु संभृतं एभिः प्रत्ययैः चिरकालविषयीकृतं यदेतेम्यः समसुस्रोत् स्रुतं सम्यक्परिनिष्पन्नम् । ल्यब्लोपे पञ्चमी । एतानि प्राप्य निष्पन्नं इदानीमिति । स्रुवतेर्लुङि शपश्श्लुः । तं अभिप्रेतमर्थं अनु लक्षीकृत्य प्रेहि गच्छ । कीदृशीमित्याह - सुकृतस्य लोकं सुकृतफलभोगस्थानं यत्र सुकृतिन एव गच्छन्ति तत् स्थानं गच्छ - हे यजमान । देहपातोत्तरकालमिति सामर्थ्यात् गम्यते । ‘सूपमानात्कः’ इति सुकृतशब्दोन्तोदात्तः । पुनश्च विशेप्यते - यत्रासते प्रथमजाः नित्याः स्वयम्भुप्रभृतयः ऋषयो द्रष्टारः ये च पुराणाः पूर्वमुक्ता नः पूर्वे वा अस्माकं चित्रादयः तत् स्थानं गच्छेति ॥
मूलम् (संयुक्तम्)
ए॒तँ स॑धस्थ॒ परि॑ ते ददामि॒ यमा॒वहा॑च्छेव॒धिञ्जा॒तवे॑दाः । अ॒न्वा॒ग॒न्ता य॒ज्ञप॑तिर्वो॒ अत्र॒ तँ स्म॑ जानीत पर॒मे व्यो॑मन् ।
विश्वास-प्रस्तुतिः
ए॒तँ स॑धस्थ॒ परि॑ ते ददामि॒ यमा॒वहा॑च् छेव॒धिञ् जा॒तवे॑दाः ।
अ॒न्वा॒ग॒न्ता य॒ज्ञप॑तिर् वो॒ अत्र॒ तँ स्म॑ जानीत पर॒मे व्यो॑मन् ।
मूलम्
ए॒तँ स॑धस्थ॒ परि॑ ते ददामि॒ यमा॒वहा॑च् छेव॒धिञ् जा॒तवे॑दाः ।
अ॒न्वा॒ग॒न्ता य॒ज्ञप॑तिर् वो॒ अत्र॒ तँ स्म॑ जानीत पर॒मे व्यो॑मन् ।
भट्टभास्कर-टीका
2अथ द्वितीया - एतमिति ॥ अग्निरामन्त्र्यते - हे अग्रे सधस्थ सहस्थानस्थित पृथिव्यामेतावन्तं कालमनेन सहस्थित । ‘सधमाधस्थयोः’ इति सहशब्दस्य सधादेशः । इदानीं गच्छते तुभ्यमेनं यजमानं परिददामि रक्षार्थं तव हस्ते करोमि तत्रापि सहासने स्थातुमिति भावः । रक्षामिदानीं प्रार्थयते - जातवेदाः जातप्रज्ञानः रक्षणोपायज्ञः त्वं शेवधिं निधिस्थानं यमावहात् आवहसि निधिमिव परिगृह्णासि गोपायसि च तं परिददामीति । वहेर्लेटि पुरुषव्यत्ययः, आडागमश्च । इदानीं देवा आमन्त्र्यन्ते - हे देवाः यूयमपि शृणुत अयं यज्ञपतिर्यजमानः वः युष्मानन्वागन्ता युष्मान्गच्छतोन्वागन्ता अनन्तरमेवानुक्रमेण आगमिष्यति । ‘न लुट्’ इति निघातप्रतिषेधः । ‘तास्यनुदात्तेत्’ इति लसार्वधातुकस्यानुदात्तत्वं, लिटोप उदात्तनिवृत्तिस्वरेण तस्यैवोदात्तत्वं, ‘गतिर्गतौ’ इति प्रथमस्य गतेरनुदात्तत्वम्, ‘तिङि चोदात्तवति’ इति द्वितीयस्य ‘उदात्तवता तिङा’ हति ‘गतिमता च’ इति द्वयं समस्यते । तत्र परमे व्योम्नि प्रशस्ते निधिलक्षणे च पुण्यलोके युष्मानन्वागन्तारं जानीत प्रविष्टवानयमस्य स्थानमिति तमेनं स्वीकुरुत । स्मेति पादपूरणे, सामप्रतीकत्वं वा द्योतयति ॥
मूलम् (संयुक्तम्)
जा॒नी॒तादे॑नम्पर॒मे व्यो॑म॒न्देवाः॑ सधस्था वि॒द रू॒पम॑स्य । यदा॒गच्छा॑त् [30]
प॒थिभि॑र्देव॒यानै॑रिष्टापू॒र्ते कृ॑णुतादा॒विर॑स्मै ।
विश्वास-प्रस्तुतिः
जा॒नी॒तादे॑नम् पर॒मे व्यो॑म॒न् देवाः॑ सधस्था वि॒द रू॒पम॑स्य ।
यदा॒गच्छा॑त् प॒थिभि॑र् देव॒यानै॑र् इष्टापू॒र्ते कृ॑णुतादा॒विर॑स्मै ।
मूलम्
जा॒नी॒तादे॑नम् पर॒मे व्यो॑म॒न् देवाः॑ सधस्था वि॒द रू॒पम॑स्य ।
यदा॒गच्छा॑त् प॒थिभि॑र् देव॒यानै॑र् इष्टापू॒र्ते कृ॑णुतादा॒विर॑स्मै ।
भट्टभास्कर-टीका
3अथ तृतीया - जानीतादिति ॥ हे देवाः प्रथमं तावदेनं परमे व्योमन् स्थाने आगतं जानीतात् जानति ‘तस्य तात्’ इति तादेशः । अनन्तरं चेह सधस्थाः सहासने स्थातारः अत एव अस्य रूपं विद जानीत कीदृशोयमिति विदितरूपविशेषमेनं कुरुत । ‘विदो लटो वा’ इत्याकारादेशः । तत्र यद्ययं देवयानैः पथिभिरागच्छात् आगतस्स्यात् । पूर्ववदाडगमः । ततोस्मै इष्टापूर्ते इष्टापूर्तफले आविष्कृणुतात् आविष्कृणुत एतदर्थमिष्टापूर्ते च गतवान्, ईदृशं च तयोः फलमिति । पूर्ववत्तादेशः । इष्टं देवेम्यः । पूतं पितृभ्यः । छान्दसं पूर्वपदस्य दीर्घत्वम् । अत्र देवा इति पादादित्वान्न निहन्यते, ‘विभाषितं विशेषवचने’ इति तस्याविद्यमानवत्त्वनिषेधाद्द्वितीयमामन्त्रितं न निहन्यते । ‘आमन्त्रितं पूर्वमविद्यमानवत्’ इति द्वयोरप्यविद्यमानवस्त्वात् तेनाख्यातं निहन्यते ॥
मूलम् (संयुक्तम्)
सम्प्र च्य॑वध्व॒मनु॒ सम्प्र या॒ताग्ने॑ प॒थो दे॑व॒याना॑न्कृणुध्वम् । अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मि॒न्विश्वे॑ देवा॒ यज॑मानश्च सीदत ।
विश्वास-प्रस्तुतिः
सम्प्र च्य॑वध्व॒मनु॒ सम्प्र या॒ताग्ने॑ प॒थो दे॑व॒याना॑न्कृणुध्वम् ।
अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मि॒न् - विश्वे॑ देवा॒ यज॑मानश्च सीदत ।
मूलम्
सम्प्र च्य॑वध्व॒मनु॒ सम्प्र या॒ताग्ने॑ प॒थो दे॑व॒याना॑न्कृणुध्वम् ।
अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मि॒न् - विश्वे॑ देवा॒ यज॑मानश्च सीदत ।
भट्टभास्कर-टीका
4अथ चतुर्थी - सं प्र च्यवध्वमिति ॥ व्याख्यातेयं ‘अग्निं युनज्मि’ इत्यत्र । हे अग्ने विश्वे देवाः सर्वे यूयं यजमानश्च इत्थं कृतसंवादा इदानीं संप्रच्यवध्वं सम्यगस्मात् स्थानात् प्रचलत । अनन्तरं च संप्रयात सहिता एव गच्छत । गच्छन्तश्च देवयानेनैव पथः कृणुध्वम् अन्यैः पथिभिः न गन्तव्यम् । एवमस्मिन् सदस्थे सहस्थाने लोके उत्तरस्मिंश्च द्युलोके इदानीं देहपातोत्तरकालं च सीदत परस्परस्योपकुर्वन्तो वर्तध्वमिति ॥
मूलम् (संयुक्तम्)
प्र॒स्त॒रेण॑ परि॒धिना॑ स्रु॒चा वेद्या॑ च ब॒र्हिषा॑ । ऋ॒चेमय्ँ य॒ज्ञन्नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे ।
विश्वास-प्रस्तुतिः
प्र॒स्त॒रेण॑ परि॒धिना॑ स्रु॒चा वेद्या॑ च ब॒र्हिषा॑ ।
ऋ॒चेमय्ँ य॒ज्ञन् नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे ।
मूलम्
प्र॒स्त॒रेण॑ परि॒धिना॑ स्रु॒चा वेद्या॑ च ब॒र्हिषा॑ ।
ऋ॒चेमय्ँ य॒ज्ञन् नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे ।
भट्टभास्कर-टीका
5अथ पञ्चमी - प्रस्तरेणेति ॥ प्रस्तरादिभिः सह इममस्माकं यज्ञं वह प्रापय देवान् देवेष्विति विभक्तिव्यत्ययः । स्रुग्ग्रहणं पात्राणामप्युपलक्षणम् । ग्रहणमन्त्राणां प्रयोजनं चाह - सुवर्गन्तवे अस्माकं स्वर्गगमनाय । तुमर्थे तवेन् प्रत्ययः ॥
मूलम् (संयुक्तम्)
यदि॒ष्टय्ँयत्प॑रा॒दानय्ँ॒यद्द॒त्तय्ँया च॒ दक्षि॑णा । तत् [31]
अ॒ग्निर्वै॑श्वकर्म॒णस्सुव॑र्दे॒वेषु॑ नो दधत् ।
विश्वास-प्रस्तुतिः
यदि॒ष्टय्ँ यत्प॑रा॒दानय्ँ॒ यद् द॒त्तय्ँ या च॒ दक्षि॑णा ।
तद् अ॒ग्निर् वै॑श्वकर्म॒णस् सुव॑र् दे॒वेषु॑ नो दधत् ।
मूलम्
यदि॒ष्टय्ँ यत्प॑रा॒दानय्ँ॒ यद् द॒त्तय्ँ या च॒ दक्षि॑णा ।
तद् अ॒ग्निर् वै॑श्वकर्म॒णस् सुव॑र् दे॒वेषु॑ नो दधत् ।
भट्टभास्कर-टीका
6षष्ठी - यदिष्टमिति ॥ यदिष्टं देवेभ्यो दत्तं दर्शपूर्णमासादिषु यत्परादानं नात्यादरेण दत्तं दीनान्धकृपणादिभ्यः यद्दत्तं समीचीनं बहिर्वेदि यागे च दक्षिणा अन्तर्वेदि यद्दत्तं तत् सर्व वैश्वकर्मणोग्निरस्माकं स्वर्गहेतुर्देवेषु दधत् स्थापयतु स्वर्गसाधनमेव सर्वं करोतु । लेट्याडागमः ॥
मूलम् (संयुक्तम्)
येना॑ स॒हस्रव्ँ॒वह॑सि॒ येना॑ग्ने सर्ववेद॒सम् । तेने॒मय्ँ य॒ज्ञन्नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे ।
विश्वास-प्रस्तुतिः
येना॑ स॒हस्रव्ँ॒ वह॑सि॒ येना॑ग्ने सर्ववेद॒सम् ।
तेने॒मय्ँ य॒ज्ञन् नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे ।
मूलम्
येना॑ स॒हस्रव्ँ॒ वह॑सि॒ येना॑ग्ने सर्ववेद॒सम् ।
तेने॒मय्ँ य॒ज्ञन् नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे ।
भट्टभास्कर-टीका
7सप्तमी - येना सहस्रमिति ॥ …. ॥
मूलम् (संयुक्तम्)
येना॑ग्ने॒ दक्षि॑णा यु॒क्ता य॒ज्ञव्ँवह॑न्त्यृ॒त्विजः॑ । तेने॒मय्ँ य॒ज्ञन्नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे ।
विश्वास-प्रस्तुतिः
येना॑ग्ने॒ दक्षि॑णा यु॒क्ता य॒ज्ञव्ँ वह॑न्त्यृ॒त्विजः॑ ।
तेने॒मय्ँ य॒ज्ञन्नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे ।
मूलम्
येना॑ग्ने॒ दक्षि॑णा यु॒क्ता य॒ज्ञव्ँ वह॑न्त्यृ॒त्विजः॑ ।
तेने॒मय्ँ य॒ज्ञन्नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे ।
भट्टभास्कर-टीका
8हे अग्ने येन पथा युक्ता योग्या दक्षिणा यज्ञं च ऋत्विजो वहन्ति । यद्वा - दक्षिणाभिर्युक्तं इत्युभयत्र व्यत्ययः । तेनेत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
येना॑ग्ने सु॒कृतᳶ॑ प॒था मधो॒र्धारा॑ व्यान॒शुः । तेने॒मय्ँ य॒ज्ञन्नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे ।
विश्वास-प्रस्तुतिः
येना॑ग्ने सु॒कृतᳶ॑ प॒था मधो॒र् धारा॑ व्यान॒शुः ।
तेने॒मय्ँ य॒ज्ञन् - नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे ।
मूलम्
येना॑ग्ने सु॒कृतᳶ॑ प॒था मधो॒र् धारा॑ व्यान॒शुः ।
तेने॒मय्ँ य॒ज्ञन् - नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे ।
भट्टभास्कर-टीका
9नवमी - येनाग्ने सुकृत इति ॥ हे अग्ने येन पथा सुकृतः मधोः मधुरस्य धारा व्यानशुः व्याप्नुवत् । व्यत्ययेन परस्मैपदम् । यद्वा - सुकृतः देवाः येन पथा नीताः मधोः मधुरसस्य घृतस्य धारा व्यानशुः व्यश्नवते । छान्दसो लिट् । तेनेत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
यत्र॒ धारा॒ अन॑पेता॒ मधो॑र्घृ॒तस्य॑ च॒ याः । तद॒ग्निर्वै॑श्वकर्म॒णस्सुव॑र्दे॒वेषु॑ नो दधत् ॥ [32]
विश्वास-प्रस्तुतिः
यत्र॒ धारा॒ अन॑पेता॒ मधो॑र् घृ॒तस्य॑ च॒ याः ।
तद॒ग्निर् वै॑श्वकर्म॒णस् सुव॑र् दे॒वेषु॑ नो दधत् ॥ [32]
मूलम्
यत्र॒ धारा॒ अन॑पेता॒ मधो॑र् घृ॒तस्य॑ च॒ याः ।
तद॒ग्निर् वै॑श्वकर्म॒णस् सुव॑र् दे॒वेषु॑ नो दधत् ॥ [32]
भट्टभास्कर-टीका
10दशमी - यत्रेति ॥ यत्र पथि मधोः घृतस्य च या धारा अनपेताः तत्र लोके देवेषु स्थापयतु किं मधोः घृतस्य च धाराः अनुपक्षीणा देवयोग्याश्च करोत्वित्यर्थः ॥
इति पञ्चमे सप्तमे सप्तमोनुवाकः ॥