०६

मूलम् (संयुक्तम्)

वयो॒ वा अ॒ग्निर्यद॑ग्नि॒चित्प॒क्षिणो॑ऽश्ञी॒यात्तमे॒वाग्निम॑द्या॒दार्ति॒मार्च्छे॑त्सव्ँवत्स॒रव्ँव्र॒तञ्च॑रेत्सव्ँवत्स॒रँ हि व्र॒तन्नाति॑

विश्वास-प्रस्तुतिः

वयो॒ वा अ॒ग्निः ।
यद॑ग्नि॒चित् प॒क्षिणो॑ऽश्ञी॒यात् तमे॒वाग्निम् अ॑द्या॒द् - आर्ति॒मार्च्छे॑त् ।
सव्ँ॒व॒त्स॒रव्ँ व्र॒तञ् च॑रेत् ।
सव्ँ॒व॒त्स॒रव्ँ हि व्र॒तन्नाति॑ ।

मूलम्

वयो॒ वा अ॒ग्निः ।
यद॑ग्नि॒चित् प॒क्षिणो॑ऽश्ञी॒यात् तमे॒वाग्निम् अ॑द्या॒द् - आर्ति॒मार्च्छे॑त् ।
सव्ँ॒व॒त्स॒रव्ँ व्र॒तञ् च॑रेत् ।
सव्ँ॒व॒त्स॒रव्ँ हि व्र॒तन्नाति॑ ।

भट्टभास्कर-टीका

1वयो वा इत्यादि ॥ श्येनाकारत्वात् पक्षी भवत्यग्निः । तस्माद्यदग्निचित्पक्षिणोश्नीयात् पक्षिणो मांसमश्नीयात् तमेवाग्निमद्यात् । तत आर्तिं गच्छेत् म्रियेत । ‘उपसर्गादृतिधातौ’ इति वृद्धिः । तस्मात्संवत्सरं न मांसमश्नीयादिति विधिः । यस्मात्संवत्सरविधिर्नात्येति ततस्संवत्सरादूर्ध्वमनुवर्त ते । ‘ससाधनां क्रियां उपसर्ग आह’ इति सोपसर्गक्रियापदमध्याह्रियते । संवत्सरादर्वागेव सर्वव्रतं प्रवर्तते नाति नोर्ध्वम् ॥

मूलम् (संयुक्तम्)

प॒शुर्वा ए॒ष यद॒ग्निर्हि॒नस्ति॒ खलु॒ वै तम्प॒शुर्य ए॑नम्पु॒रस्ता॑त्प्र॒त्यञ्च॑मुप॒चर॑ति॒ तस्मा॑त्प॒श्चात्प्राङु॑प॒चर्य॑ आ॒त्मनोऽहिँ॑सायै॒

विश्वास-प्रस्तुतिः

प॒शुर्वा ए॒ष यद॒ग्निः ।
‌हि॒नस्ति॒ खलु॒ वै तम्प॒शुर् , य ए॑नम् पु॒रस्ता॑त् प्र॒त्यञ्च॑मुप॒चर॑ति ।
तस्मा॑त् प॒श्चात् प्राङ् उ॑प॒चर्य॑ आ॒त्मनोऽहिँ॑सायै ।

मूलम्

प॒शुर्वा ए॒ष यद॒ग्निः ।
‌हि॒नस्ति॒ खलु॒ वै तम्प॒शुर् , य ए॑नम् पु॒रस्ता॑त् प्र॒त्यञ्च॑मुप॒चर॑ति ।
तस्मा॑त् प॒श्चात् प्राङ् उ॑प॒चर्य॑ आ॒त्मनोऽहिँ॑सायै ।

भट्टभास्कर-टीका

2पशुर्वा इत्यादि ॥ लुप्तोपमेयम् । यथा पशुः प्रतिकूलकारिणमाभिमुख्येन स्थितं हिनस्ति एवमयमग्निः । यस्मादेवं तस्मात्पशुसदृशोयमग्निः तमपि हिनस्ति । कं? य एनं पुरस्तात् पूर्वस्यां दिशि स्थितः प्रत्यङ्मुखः स प्रत्यञ्चं प्रतिमुखावस्थितमुपचरति आरोहणोपधानप्रोक्षणादिकमस्य करोति । तस्मात्पश्चादपरस्यां दिशि स्थितेन प्राङ्मुखोग्निः उपचर्यः उपचरितव्य इति विधिः । आत्मन एवाहिंसार्थम् । छान्दसो यत् ॥

मूलम् (संयुक्तम्)

तेजो॑ऽसि॒ तेजो॑ मे यच्छ पृथि॒वीय्ँय॑च्छ [24]
पृ॒थि॒व्यै मा॑ पाहि॒ ज्योति॑रसि॒ ज्योति॑र्मे यच्छा॒न्तरि॑क्षय्ँयच्छा॒न्तरि॑क्षान्मा पाहि॒ सुव॑रसि॒ सुव॑र्मे यच्छ॒ दिवय्ँ॑यच्छ दि॒वो मा॑ पा॒ही…

विश्वास-प्रस्तुतिः

तेजो॑ऽसि॒ तेजो॑ मे यच्छ पृथि॒वीय्ँय॑च्छ पृ॒थि॒व्यै मा॑ पाहि॒ ,
ज्योति॑रसि॒ ज्योति॑र्मे यच्छा॒न्तरि॑क्षय्ँयच्छा॒न्तरि॑क्षान् मा पाहि॒ ,
सुव॑रसि॒ सुव॑र्मे यच्छ॒, दिवय्ँ यच्छ दि॒वो मा॑ पाहि ।

3प्रथममध्यमोत्तमासु चितिषु हिरण्येष्टका उपदधाति - तेजोसीत्याद्याः ॥ तेजोसि तेजोहेतुस्त्वमसि तेजो मह्यं देहि पृथिवीं च यच्छ विधेयां कुरु । पृथिव्यै ष्टथिवीनिमित्तात् रोगादेः मां पाहि । पञ्चम्यर्थे चतुर्थी, ‘उदात्तयणः’ इति तस्या उदात्तत्वम् । एवमुत्तरौ व्याख्येयौ । तेजः कीर्तिः । ज्योतिः दीप्तिः । सुवः स्सुखम् ॥

मूलम् (संयुक्तम्)

इत्या॑है॒ताभि॒र्वा इ॒मे लो॒का विधृ॑ता॒

विश्वास-प्रस्तुतिः

इत्या॑है॒ताभि॒र् वा इ॒मे लो॒का विधृ॑ताः ।

मूलम्

इत्या॑है॒ताभि॒र् वा इ॒मे लो॒का विधृ॑ताः ।

भट्टभास्कर-टीका

4अत्रैव ब्राह्मणम् - इत्याहेति ॥ एताभिः हिरण्येष्टकाभिः इमे लोकाः विधृताः एतासामुपधानेनेत्यर्थः ॥

मूलम् (संयुक्तम्)

यदे॒ता उ॑प॒दधा॑त्ये॒षाल्ँ लो॒कानाव्ँ॒विधृ॑त्यै स्वयमातृ॒ण्णा उ॑प॒धाय॑ हिरण्येष्ट॒का उप॑ दधाती॒मे वै लो॒कास्स्व॑यमातृ॒ण्णा ज्योति॒र्हिर॑ण्यय्ँ॒यत्स्व॑यमातृ॒ण्णा उ॑प॒धाय॑ [25]
हि॒र॒ण्ये॒ष्ट॒का उ॑प॒दधा॑ती॒माने॒वैताभि॑र्लो॒काञ्ज्योति॑ष्मतᳵ कुरु॒तेऽथो॑ ए॒ताभि॑रे॒वास्मा॑ इ॒मे लो॒काᳶ प्र भा॑न्ति॒

विश्वास-प्रस्तुतिः

यदे॒ता उ॑प॒दधा॑त्य् ए॒षाल्ँ लो॒कानाव्ँ॒ विधृ॑त्यै ।

स्वयमातृ॒ण्णा उ॑प॒धाय॑ हिरण्येष्ट॒का उप॑ दधाति + इ॒मे वै लो॒कास् स्व॑यमातृ॒ण्णा ज्योति॒र्हिर॑ण्यम् ।

यत् स्व॑यमातृ॒ण्णा उ॑प॒धाय॑ हिरण्येष्ट॒का उ॑प॒दधा॑ति + इ॒माने॒वैताभि॑र् लो॒काञ् ज्योति॑ष्मतᳵ कुरुते ।

अथो॑ ए॒ताभि॑रे॒वास्मा॑ इ॒मे लो॒काᳶ प्र भा॑न्ति ।

5यदित्यादि ॥ गतम् । अथो इति । एताभिरिष्टकाभिः ज्योतिष्मन्तः कृता लोका अस्मै यजमानाय प्रकर्षेण भान्ति ॥

मूलम् (संयुक्तम्)

यास्ते॑ अग्ने॒ सूर्ये॒ रुच॑ उद्य॒तो दिव॑मात॒न्वन्ति॑ र॒श्मिभिः॑ । ताभि॒स्सर्वा॑भी रु॒चे जना॑य नस्कृधि ।

विश्वास-प्रस्तुतिः

यास् ते॑ अग्ने॒ सूर्ये॒ रुच॑ उद्य॒तो दिव॑मात॒न्वन्ति॑ र॒श्मिभिः॑ ।
ताभि॒स् सर्वा॑भी रु॒चे जना॑य नस्कृधि ।

मूलम्

यास् ते॑ अग्ने॒ सूर्ये॒ रुच॑ उद्य॒तो दिव॑मात॒न्वन्ति॑ र॒श्मिभिः॑ ।
ताभि॒स् सर्वा॑भी रु॒चे जना॑य नस्कृधि ।

भट्टभास्कर-टीका

6अथ तिस्रः ऋचः - यास्ते अग्ने इत्याद्याः ॥ प्रथमाद्वितीये ‘ध्रुवासि’ इत्यत्र व्याख्याते । सर्वा अनुष्टुभः प्रथमा कृतिर्नामानुष्टुप् । तत्र प्रथमा - उद्यतस्तव सूर्ये स्थिता याः रुचः दिवं रश्मिभिः व्याप्तामातन्वन्ति ताभिस्सर्वाभिः रश्मिभिः नो यजमानाय दीप्तिं कुरु ॥

मूलम् (संयुक्तम्)

या वो॑ देवा॒स्सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑ । इन्द्रा॑ग्नी॒ ताभि॒स्सर्वा॑भी॒ रुच॑न्नो धत्त बृहस्पते ।

विश्वास-प्रस्तुतिः

या वो॑ देवा॒स् सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑ ।

इन्द्रा॑ग्नी॒ ताभि॒स् सर्वा॑भी॒ रुच॑न्नो धत्त बृहस्पते ।

मूलम्

या वो॑ देवा॒स् सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑ ।

इन्द्रा॑ग्नी॒ ताभि॒स् सर्वा॑भी॒ रुच॑न्नो धत्त बृहस्पते ।

भट्टभास्कर-टीका

7द्वितीया - हे देवा या वः सूर्ये स्थिताः सूर्यनिवन्धना रुचः गोष्वश्वेषु या रुचः हे इन्द्राग्नी हे बृहस्पते ताभिः सर्वाभिः अस्मभ्यं रुचं धत्त ॥

मूलम् (संयुक्तम्)

रुच॑न्नो धेहि [26]
ब्रा॒ह्म॒णेषु॒ रुचँ॒ राज॑सु नस्कृधि । रुचव्ँ॑वि॒श्ये॑षु शू॒द्रेषु॒ मयि॑ धेहि रु॒चा रुच॑म् ।

विश्वास-प्रस्तुतिः

रुच॑न् - नो धेहि ब्रा॒ह्म॒णेषु॒ रुचँ॒ राज॑सु नस्कृधि ।
रुचव्ँ॑वि॒श्ये॑षु शू॒द्रेषु॒ मयि॑ धेहि रु॒चा रुच॑म् ।

मूलम्

रुच॑न् - नो धेहि ब्रा॒ह्म॒णेषु॒ रुचँ॒ राज॑सु नस्कृधि ।
रुचव्ँ॑वि॒श्ये॑षु शू॒द्रेषु॒ मयि॑ धेहि रु॒चा रुच॑म् ।

भट्टभास्कर-टीका

8तृतीया - नः अस्माकं ब्राह्मणेषु रुचं धेहि स्थापय ॥

मूलम् (संयुक्तम्)

द्वे॒धा वा अ॒ग्निञ्चि॑क्या॒नस्य॒ यश॑ इन्द्रि॒यङ्ग॑च्छत्य॒ग्निव्ँवा॑ चि॒तमी॑जा॒नव्ँवा॒ यदे॒ता आहु॑तीर्जु॒होत्या॒त्मन्ने॒व यश॑ इन्द्रि॒यन्ध॑त्त

विश्वास-प्रस्तुतिः

द्वे॒धा वा अ॒ग्निञ् चि॑क्या॒नस्य॒ यश॑ इन्द्रि॒यङ् ग॑च्छत्य॒ग्निव्ँ वा॑ चि॒तमी॑जा॒नव्ँ वा॑ ।
यदे॒ता आहु॑तीर्जु॒होति॑ ।
आ॒त्मन्न् ए॒व यश॑ इन्द्रि॒यन् ध॑त्ते ।

मूलम्

द्वे॒धा वा अ॒ग्निञ् चि॑क्या॒नस्य॒ यश॑ इन्द्रि॒यङ् ग॑च्छत्य॒ग्निव्ँ वा॑ चि॒तमी॑जा॒नव्ँ वा॑ ।
यदे॒ता आहु॑तीर्जु॒होति॑ ।
आ॒त्मन्न् ए॒व यश॑ इन्द्रि॒यन् ध॑त्ते ।

भट्टभास्कर-टीका

9अथात्र ब्राह्मणम् - द्वेधा वा इत्यादि ॥ अग्निं चिक्यानस्य चितवतः यश इन्द्रियं च द्वेधा गच्छति तमग्निं वा गच्छति ईजानं वा अनग्निकेन क्रतुना इष्टवन्तं न सर्वथाऽग्निचितम् । उभयत्र लिटः कानजादेशः । तस्मादेताभिः ‘यास्ते अग्ने’ इत्यादिभिराहुतिभिः यश इन्द्रियं चात्मनि स्थापयति, ततो नान्यं गच्छति ॥

मूलम् (संयुक्तम्)

ईश्व॒रो वा ए॒ष आर्ति॒मार्तो॒र्यो॑ऽग्निञ्चि॒न्वन्न॑धि॒क्राम॑ति॒ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒ इति॑ वारु॒ण्यर्चा [27]
जु॒हु॒या॒च्छान्ति॑रे॒वैषाग्नेर्गुप्ति॑रा॒त्मनो॑

विश्वास-प्रस्तुतिः

ई॒श्व॒रो वा ए॒ष आर्ति॒मार्तो॒र् यो॑ऽग्निञ्चि॒न्वन्न् अ॑धि॒क्राम॑ति ।
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒ , इति॑ वारु॒ण्यर्चा जु॑हुयात् ।
शान्ति॑रे॒वैषाग्नेर् गुप्ति॑रा॒त्मनः॑ ।

मूलम्

ई॒श्व॒रो वा ए॒ष आर्ति॒मार्तो॒र् यो॑ऽग्निञ्चि॒न्वन्न् अ॑धि॒क्राम॑ति ।
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒ , इति॑ वारु॒ण्यर्चा जु॑हुयात् ।
शान्ति॑रे॒वैषाग्नेर् गुप्ति॑रा॒त्मनः॑ ।

भट्टभास्कर-टीका

10ईश्वरो वा इति ॥ ‘ईश्वरे तोसुन्कसुनौ’ इति हेतौ शता । चयनेन हेतुना अग्निमतिक्रामति । आरोहति वारुण्या । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम्, ‘उदात्तयणः’ इति विभक्तेः । एषा सञ्चिताहुतिरग्नेश्शान्तिः अधिक्रमणदोषशान्तिहेतुरात्मनश्च गुप्तिः रक्षाहेतुः ॥

  • तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
    अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शँस॒ मा न॒ आयु॒ᳶ प्रमो॑षीः ॥
  • तत्रैव याज्या - तत्त्वेति त्रिष्टुप् ॥ हे वरुण ब्रह्मणा मन्त्रेण त्वामेव वन्दमानः स्तुवन्नहं तत्तदर्थम् । चतुर्थ्या लुक् । तदर्थमेव त्वां यामि भजे । यद्वा - तदेव त्वां यामि याचे । छान्दसोन्त्यलोपः, परस्मैपदं च । यजमानोपि सर्वस्तदेवाशास्ते हविर्भिश्चरुपुरोडाशादिभिः हे उरुशंस महास्तुतिक त्वमपि तामस्मदीयां विज्ञापनां इह कर्माणि अहेडमानः अक्रुद्ध्यन् बोधि बुध्यस्व । पूर्ववद्विकरणस्य लुक्, ‘हुझल्भ्यो हेर्धिः’, ‘वा छन्दसि’ इत्यपित्त्वादेव ङित्त्वाभावाद्गुणः, अन्त्यलोपश्छान्दसः । किम्पुनस्तत्प्रार्थनीयमित्याह - नः अस्माकं आयुर्दीप्तिमन्नं वा मा प्रमोषीः मा छेत्सीः तदर्थं विशं च रा[राष्ट्रं चा]वगमयेति भावः ॥
  • 12तत्रैव याज्या - तत्त्वा यामि ब्रह्मणा वन्दमान इति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । हे वरुण अहं ब्रह्मणा मन्त्रेण हविषा त्वां वन्दमानः स्तुवन् अहं त्वामभियाचे यजमानोऽपि तदेव हविर्भिराशास्ते त्वमपि तत्? अहेडमानः अक्रुध्यन् इह कर्मणि बुद्ध्यस्व । किंपुनः तत्? हे वरुण उरु शंसमानः अस्माकमायुर्मा प्रमोषीरिति ॥
मूलम् (संयुक्तम्)

ह॒विष्कृ॑तो॒ वा ए॒ष यो॑ऽग्निञ्चि॑नु॒ते यथा॒ वै ह॒विस्स्कन्द॑त्ये॒वव्ँवा ए॒ष स्क॑न्दति॒ यो॑ऽग्निञ्चि॒त्वा स्त्रिय॑मु॒पैति॑ मैत्रावरु॒ण्यामिक्ष॑या यजेत मैत्रावरु॒णता॑मे॒वोपै॑त्या॒त्मनोऽस्क॑न्दाय॒

विश्वास-प्रस्तुतिः

ह॒विष्कृ॑तो॒ वा ए॒ष यो॑ऽग्निञ् चि॑नु॒ते ।

यथा॒ वै ह॒विस् स्कन्द॑त्ये॒वव्ँ वा ए॒ष स्क॑न्दति॒ यो॑ऽग्निञ्चि॒त्वा स्त्रिय॑मु॒पैति॑ ।
मै॒त्रा॒व॒रु॒ण्याऽऽमिक्ष॑या यजेत, मैत्रावरु॒णता॑म् ए॒वोपै॑त्या॒त्मनोऽस्क॑न्दाय ।

11हविष्कृतो वा इत्यादि ॥ एष हविष्कृतः निर्वर्तितहवीरूप इति यावत् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - हविष्कृतः कृतहविः भावप्रधानो हविश्शब्दः । ‘जातिकालसुखादिम्यः परवचनम्’ इति परनिपातः । हविस्थानीयोऽयमग्निश्चिन्वानः तस्मात् हविस्कन्दनं यथा दोषवदेवमस्याः स्त्रिया उपायनम् । तस्मान्मैत्रावरुण्याऽऽमिक्षया यजेतेति विधिः । अनूबन्ध्यास्थानीयं बिधीयते मैत्रावरुणम् । तामिति । मित्रावरुणयोर्भागो मैत्रावरुणः । तद्भावमुपैति स्कन्दनम् । ततश्च हुतकल्पत्वात् स्कन्दनदोषो नास्यात्मनः । यद्वा - स्वार्थिकोऽण् - मित्रावरुणभावमुपैति । ततश्च तद्भावेन स्थितत्वादात्मनः स्यन्दने दोषाप्रसङ्ग इति ॥

मूलम् (संयुक्तम्)

यो वा अ॒ग्निमृ॑तु॒स्थाव्ँवेद॒र्तुर्ऋ॑तुरस्मै॒ कल्प॑मान एति॒ प्रत्ये॒व ति॑ष्ठति

विश्वास-प्रस्तुतिः

यो वा अ॒ग्निम्-ऋ॑तु॒स्थाव्ँवेद॒र्तुर्ऋ॑तुरस्मै॒ कल्प॑मान एति॒, प्रत्ये॒व ति॑ष्ठति ।

मूलम्

यो वा अ॒ग्निम्-ऋ॑तु॒स्थाव्ँवेद॒र्तुर्ऋ॑तुरस्मै॒ कल्प॑मान एति॒, प्रत्ये॒व ति॑ष्ठति ।

भट्टभास्कर-टीका

12यो वा अग्निमित्यादि ॥ ऋतुषु वसन्तादिषु तिष्ठतीत्यृतुस्था । आकारान्तलक्षणः कः । ऋतुरृतुः सर्वः ऋतुः अस्मै यनमानाय कल्पमानः संवर्धमान एति प्रवर्तते । प्रतितिष्ठति यजमानः ॥

मूलम् (संयुक्तम्)

सव्ँवत्स॒रो वा अ॒ग्निः [28]
ऋ॒तु॒स्थास्तस्य॑ वस॑न्त॒श्शिरो॑ ग्री॒ष्मो दक्षि॑णᳶ प॒क्षो व॒र्षाᳶ पुच्छँ॑ श॒रदुत्त॑रᳶ प॒क्षो हे॑म॒न्तो मध्य॑म्पूर्वप॒क्षाश्चित॑योऽपरप॒क्षाᳶ पुरी॑षमहोरा॒त्राणीष्ट॑का ए॒ष वा अ॒ग्निर्ऋ॑तु॒स्था य ए॒वव्ँ वेद॒र्तुर्ऋ॑तुरस्मै॒ कल्प॑मान एति॒ प्रत्ये॒व ति॑ष्ठति

विश्वास-प्रस्तुतिः

सव्ँवत्स॒रो वा अ॒ग्निर् ऋ॑तुस्थास् , तस्य॑ वस॑न्त॒श् शिरो॑ ,
ग्री॒ष्मो दक्षि॑णᳶ प॒क्षो , व॒र्षाᳶ, पुच्छँ॑, श॒रदुत्त॑रᳶ प॒क्षो, हे॑म॒न्तो मध्य॑म् पूर्वप॒क्षाश् चित॑यो, ऽपरप॒क्षाᳶ पुरी॑षमहोरा॒त्राणीष्ट॑का,
ए॒ष वा अ॒ग्निर्ऋ॑तु॒स्था य ए॒वव्ँ वेद॒र्तुर्ऋ॑तुरस्मै॒ कल्प॑मान एति॒ प्रत्ये॒व ति॑ष्ठति ।

13संवत्सरो वा इत्यादि ॥ गतम् ॥ +++(सम्पादकटिप्पनी - विस्तृतं व्याख्यानमन्यत्र मृग्यम् । )+++

मूलम् (संयुक्तम्)

प्र॒जाप॑ति॒र्वा ए॒तञ्ज्यैष्ठ्य॑कामो॒ न्य॑धत्त॒ ततो॒ वै स ज्यैष्ठ्य॑मगच्छ॒द्य ए॒वव्ँवि॒द्वान॒ग्निञ्चि॑नु॒ते ज्यैष्ठ्य॑मे॒व ग॑च्छति ॥ [29]

विश्वास-प्रस्तुतिः

प्र॒जाप॑ति॒र्वा ए॒तञ् ज्यैष्ठ्य॑कामो॒ न्य॑धत्त ।
ततो॒ वै स ज्यैष्ठ्य॑मगच्छत् ।
य ए॒वव्ँ वि॒द्वान॒ग्निञ् चि॑नु॒ते ज्यैष्ठ्य॑मे॒व ग॑च्छति ॥ [29]

मूलम्

प्र॒जाप॑ति॒र्वा ए॒तञ् ज्यैष्ठ्य॑कामो॒ न्य॑धत्त ।
ततो॒ वै स ज्यैष्ठ्य॑मगच्छत् ।
य ए॒वव्ँ वि॒द्वान॒ग्निञ् चि॑नु॒ते ज्यैष्ठ्य॑मे॒व ग॑च्छति ॥ [29]

भट्टभास्कर-टीका

14प्रजापतिर्वा इत्यादि ॥ एवमृतुस्थां अग्निं क्रतुषु न्यधत्त । गतमन्यत् ॥

इति पञ्चमे सप्तमे षष्ठोनुवाकः ॥