०५

मूलम् (संयुक्तम्)

यथा॒ वै पु॒त्रो जा॒तो म्रि॒यत॑ ए॒वव्ँवा ए॒ष म्रि॑यते॒ यस्या॒ग्निरुख्य॑ उ॒द्वाय॑ति॒

विश्वास-प्रस्तुतिः

यथा॒ वै पु॒त्रो जा॒तो म्रि॒यत॑, ए॒वव्ँ वा ए॒ष म्रि॑यते॒ यस्या॒ग्निरुख्य॑ उ॒द्वाय॑ति ।

मूलम्

यथा॒ वै पु॒त्रो जा॒तो म्रि॒यत॑, ए॒वव्ँ वा ए॒ष म्रि॑यते॒ यस्या॒ग्निरुख्य॑ उ॒द्वाय॑ति ।

भट्टभास्कर-टीका

1यथा वै पुत्र इत्यादि ॥ यथा जातः परिनिष्पन्नः पुत्रो महादुःखहेतुर्म्रियते एवं महादुःखहेतुरेष उरव्यो म्रियते गम्यते म्रियमाण इव दुखहेतुत्वाज्जात इत्युच्यते । कस्य दुःखहेतुरित्याह - यस्येति । तस्मात्तदवधानेन रक्ष्य इति । पै ओ वै शोषणे ॥

मूलम् (संयुक्तम्)

यन्नि॑र्म॒न्थ्य॑ङ्कु॒र्याद्विच्छि॑न्द्या॒द्भ्रातृ॑व्यमस्मै जनये॒त्स ए॒व पुनᳶ॑ प॒रीध्य॒स्स्वादे॒वैनय्ँ॒योने॑र्जनयति॒ नास्मै॒ भ्रातृ॑व्यञ्जनयति॒

विश्वास-प्रस्तुतिः

यन् नि॑र्म॒न्थ्य॑ङ्कु॒र्याद् - विच्छि॑न्द्या॒द् भ्रातृ॑व्यमस्मै जनयेत् ।
स ए॒व पुनᳶ॑ प॒रीध्यः॑ ।
स्वादे॒वैनय्ँ॒ योने॑र्जनयति ।
नास्मै॒ भ्रातृ॑व्यञ् जनयति ।

मूलम्

यन् नि॑र्म॒न्थ्य॑ङ्कु॒र्याद् - विच्छि॑न्द्या॒द् भ्रातृ॑व्यमस्मै जनयेत् ।
स ए॒व पुनᳶ॑ प॒रीध्यः॑ ।
स्वादे॒वैनय्ँ॒ योने॑र्जनयति ।
नास्मै॒ भ्रातृ॑व्यञ् जनयति ।

भट्टभास्कर-टीका

2इदानीं प्रमादादनुगते प्रायश्चित्तमाह - यदि निर्मन्थ्येदग्निं विच्छिन्द्यात् पर्वूमन्यस्य परिग्रहात् भ्रातृव्यं च यजमानस्य जनयेत्, स एव पूर्वोत्पादित उख्यः परीध्यः । किमुक्तं भवति - यथा पूर्वमुत्पदितं तथैवोत्पाद्य परीध्यः प्रवर्ध्य इत्यर्थः । ततश्च स्वादेव योनेः पूर्वस्मात्कारणात् उखाया आहवनीयाच्च एनं जनयति । ततश्च स एवायमिति विद्येत दोषाभावः । भ्रातृव्यं च यजमानस्य न जनयेदिति ॥

मूलम् (संयुक्तम्)

तमो॒ वा ए॒तङ्गृ॑ह्णाति॒ यस्या॒ग्निरुख्य॑ उ॒द्वाय॑ति मृ॒त्युस्तम॑ᳵ कृ॒ष्णव्ँवास॑ᳵ कृ॒ष्णा धे॒नुर्दक्षि॑णा॒ तम॑सा [17]
ए॒व तमो॑ मृ॒त्युमप॑ हते॒ हिर॑ण्यन्ददाति॒ ज्योति॒र्वै हिर॑ण्य॒ञ्ज्योति॑षै॒व तमोऽप॑ ह॒तेऽथो॒ तेजो॒ वै हिर॑ण्य॒न्तेज॑ ए॒वात्मन्ध॑त्ते॒

विश्वास-प्रस्तुतिः

तमो॒ वा ए॒तङ् गृ॑ह्णाति॒ यस्या॒ग्निरुख्य॑ उ॒द्वाय॑ति ।
मृ॒त्युस्तमः॑ ।
कृ॒ष्णव्ँवास॑ᳵ कृ॒ष्णा धे॒नुर्दक्षि॑णा ।
तम॑सै॒व तमो॑ मृ॒त्युमप॑ हते ।
हिर॑ण्यन् ददाति ।
ज्योति॒र्वै हिर॑ण्यम् ।
ज्योति॑षै॒व तमोऽप॑ हते ।
अथो॒ तेजो॒ वै हिर॑ण्यम् ।
तेज॑ ए॒वात्मन्ध॑त्ते ।

मूलम्

तमो॒ वा ए॒तङ् गृ॑ह्णाति॒ यस्या॒ग्निरुख्य॑ उ॒द्वाय॑ति ।
मृ॒त्युस्तमः॑ ।
कृ॒ष्णव्ँवास॑ᳵ कृ॒ष्णा धे॒नुर्दक्षि॑णा ।
तम॑सै॒व तमो॑ मृ॒त्युमप॑ हते ।
हिर॑ण्यन् ददाति ।
ज्योति॒र्वै हिर॑ण्यम् ।
ज्योति॑षै॒व तमोऽप॑ हते ।
अथो॒ तेजो॒ वै हिर॑ण्यम् ।
तेज॑ ए॒वात्मन्ध॑त्ते ।

भट्टभास्कर-टीका

3तमो वा इत्यादि ॥ गतम् । एतमिति । नीयमानम् । तमसैवेति । कृष्णधेनुदानव्याजेन मृत्युमेवापहन्तीति । ज्योतिषैवेति । तद्विपक्षेण हिरण्येन ज्योतिषा तमोनिवारणं करोति । अथो अपि च तेजोरूपहिरण्यप्रदानेन तेजस्वित्वमात्मनः करोति नित्यम् ॥

मूलम् (संयुक्तम्)

सुव॒र्न घ॒र्मस्स्वाहा॒ सुव॒र्नार्कस्स्वाहा॒ सुव॒र्न शु॒क्रस्स्वाहा॒ सुव॒र्न ज्योति॒स्स्वाहा॒ सुव॒र्न सूर्य॒स्स्वाहा…

विश्वास-प्रस्तुतिः

सुव॒र्न घ॒र्मस् स्वाहा॑ ।
सुव॒र्नार्कस् स्वाहा॑ ।
सुव॒र्न शु॒क्रस् स्वाहा॑ ।
सुव॒र्न ज्योति॒स् स्वाहा॑ ।
सुव॒र्न सूर्य॒स् स्वाहा॑

मूलम्

सुव॒र्न घ॒र्मस् स्वाहा॑ ।
सुव॒र्नार्कस् स्वाहा॑ ।
सुव॒र्न शु॒क्रस् स्वाहा॑ ।
सुव॒र्न ज्योति॒स् स्वाहा॑ ।
सुव॒र्न सूर्य॒स् स्वाहा॑

भट्टभास्कर-टीका

4स्रुवाहुतीरभिजुहोति उद्वातप्रायश्चित्तार्थं च - सुवर्नेत्याद्याः पञ्च ॥ सुवरादित्यः स इवायं घर्मः दीप्तिशीलोग्निः तस्मै स्वाहुतमिदमस्तु । उपमार्थीयो नकारः । प्रातिशाख्ये ‘कृधिसुवः …. पूर्वः’ इति नियमाण्णत्वाभावः । एवमुत्तरे द्रष्टव्याः । अर्कः अर्चनीयः । शुक्रः निर्मलः । ज्योतिः तेजोरूपः सूर्यः सावकः प्रेरको वा । ‘राजसूयसूर्य’ इत्यत्र निपात्यते ॥

मूलम् (संयुक्तम्)

अ॒र्को वा ए॒ष यद॒ग्निर॒सावा॑दि॒त्यः [18]
अ॒श्व॒मे॒धो यदे॒ता आहु॑तीर्जु॒होत्य॑र्काश्वमे॒धयो॑रे॒व ज्योतीँ॑षि॒ सन्द॑धात्ये॒ष ह॒ त्वा अ॑र्काश्वमे॒धी यस्यै॒तद॒ग्नौ क्रि॒यत॒

विश्वास-प्रस्तुतिः

अ॒र्को वा ए॒ष यद॒ग्निर॒सावा॑दि॒त्यो॑ऽश्वमे॒धः ।
यदे॒ता आहु॑तीर्जु॒होत्य् अ॑र्काश्वमे॒धयो॑र् ए॒व ज्योतीँ॑षि॒ सन्द॑धाति ।
ए॒ष ह॒ त्वा अ॑र्काश्वमे॒धी यस्यै॒तद॒ग्नौ क्रि॒यते॑ ।

मूलम्

अ॒र्को वा ए॒ष यद॒ग्निर॒सावा॑दि॒त्यो॑ऽश्वमे॒धः ।
यदे॒ता आहु॑तीर्जु॒होत्य् अ॑र्काश्वमे॒धयो॑र् ए॒व ज्योतीँ॑षि॒ सन्द॑धाति ।
ए॒ष ह॒ त्वा अ॑र्काश्वमे॒धी यस्यै॒तद॒ग्नौ क्रि॒यते॑ ।

भट्टभास्कर-टीका

5अत्रैव ब्राह्मणम् - अर्को वा इत्यादि ॥ यावेतावेतेषु जन्तुषूपमानोपमेयभूतावग्न्यादित्यौ निर्दिष्टौ तावर्काश्वमेधौ । प्रशस्तशब्दाभिधानं प्राशस्त्यार्थम् । तस्मादाभिराहुतिभिः सर्वाणि ज्योतींषि अर्काश्वमेधयोरग्न्यादित्ययोः लोकस्थित्यर्थं संदधाति । एष इत्यादि । एष वाऽर्काश्वमेधी यस्यैतत् कर्म क्रियत इति पृथक् सोमविधानार्थं पुनर्वचनम् ॥

मूलम् (संयुक्तम्)

आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सी॒त्स ए॒ताम्प्र॒जाप॑तिᳶ प्रथ॒माञ्चिति॑मपश्य॒त्तामुपा॑धत्त॒ तदि॒यम॑भव॒त्तव्ँवि॒श्वक॑र्माब्रवी॒दुप॒ त्वाया॒नीति॒ नेह लो॒को॑ऽस्तीति॑ [19]
अ॒ब्र॒वी॒त्स ए॒तान्द्वि॒तीया॒ञ्चिति॑मपश्य॒त्तामुपा॑धत्त॒ तद॒न्तरि॑क्षमभव॒त्स य॒ज्ञᳶ प्र॒जाप॑तिमब्रवी॒दुप॒ त्वाया॒नीति॒ नेह लो॒को॑ऽस्तीत्य॑ब्रवी॒त्स वि॒श्वक॑र्माणमब्रवी॒दुप॒ त्वाया॒नीति॒ केन॑ मो॒पैष्य॒सीति॒

विश्वास-प्रस्तुतिः

आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सीत् ।
स ए॒ताम्प्र॒जाप॑तिᳶ प्रथ॒माञ् चिति॑मपश्य॒त् - तामुपा॑धत्त॒ तदि॒यम॑भवत् ।
तव्ँवि॒श्वक॑र्माऽब्रवी॒द् - उप॒ त्वाया॒नीति॑ नेह लो॒को॑ऽस्तीति॑ [19] अ॒ब्र॒वी॒थ् ।
स ए॒तान् द्वि॒तीया॒ञ् चिति॑मपश्य॒त् - तामुपा॑धत्त॒ तद॒न्तरि॑क्षमभवत् ।
स य॒ज्ञᳶ प्र॒जाप॑तिमब्रवी॒द् “उप॒ त्वाया॒नी"ति॑ ।
नेह लो॒को॑ऽस्तीत्य॑ब्रवीत् ।
स वि॒श्वक॑र्माणमब्रवी॒दुप॒ त्वाया॒नीति॑ ।
केन॑ मो॒पैष्य॒सीति॑ ।

मूलम्

आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सीत् ।
स ए॒ताम्प्र॒जाप॑तिᳶ प्रथ॒माञ् चिति॑मपश्य॒त् - तामुपा॑धत्त॒ तदि॒यम॑भवत् ।
तव्ँवि॒श्वक॑र्माऽब्रवी॒द् - उप॒ त्वाया॒नीति॑ नेह लो॒को॑ऽस्तीति॑ [19] अ॒ब्र॒वी॒थ् ।
स ए॒तान् द्वि॒तीया॒ञ् चिति॑मपश्य॒त् - तामुपा॑धत्त॒ तद॒न्तरि॑क्षमभवत् ।
स य॒ज्ञᳶ प्र॒जाप॑तिमब्रवी॒द् “उप॒ त्वाया॒नी"ति॑ ।
नेह लो॒को॑ऽस्तीत्य॑ब्रवीत् ।
स वि॒श्वक॑र्माणमब्रवी॒दुप॒ त्वाया॒नीति॑ ।
केन॑ मो॒पैष्य॒सीति॑ ।

भट्टभास्कर-टीका

6आपो वा इत्यादि ॥ व्याख्यातम् । इतःप्रभृति पञ्चचितिवाक्यशेष आन्तादनुवाकस्य । स एतामित्यादि । गतम् । इयमिति । पृथिवी तं प्रजापतिं पृथिव्यां सुखमासीनं विश्वकर्मा (प्रीतिमे) अब्रवीत् - उप त्वाऽऽयानि त्वामुपगच्छामि इतः सलिलात् तव समीपं पृथिवीभूतमाश्रयानीति । धातूपसर्गयोरेकादेश उदात्तः । अथ प्रजापतिः विश्वकर्माणमब्रवीत् - तव लोके इह स्थानं इह मत्समीपे नास्तीति अन्तरिक्षस्य अभावात्ततस्स विश्वकर्मा स्वमहिम्ना एतां द्वितीयां चितिमपश्यत्, उपाधत्त च ताम् । तदन्तरिक्षमभवत् । स तत्र सुखमास्त । अथ यज्ञः प्रजापतिमब्रवीत् - उप त्वाऽऽयानीति । अथ प्रजापतिस्तमब्रवीत् - नेह लोकस्तवास्तीति दिशामभावात्; त्वं हि दिगधीनात्मलाभ इति । अथ प्रजापतिं मुक्त्वा यज्ञो विश्वकर्माणमब्रवीत् - उपत्वाऽऽयानीति । अथ विश्वकर्मा यज्ञमब्रवीत् - केन सह मामुपैष्यसि मामुपगमिष्यसीति । धातूपसर्गयोः ‘एत्येधत्यूठ्सु’ इति वृद्धिः एकादेश उदात्तः, तस्यान्तादिवद्भावेन आङ्ग्रहणेन ग्रहणात् ‘ओमाङोश्च’ इति पररूपत्वं प्राप्तं न व्यत्ययेन क्रियते । क्रियतां वा पररूपत्वं न कश्चिदूपभेदः, अन्तवद्भावेन वा एतिग्रहणेन ग्रहणात् ‘एत्येधत्यूठ्सु’ इति पुनरपि वृद्धिः प्रवर्तते ॥

मूलम् (संयुक्तम्)

दिश्या॑भि॒रित्य॑ब्रवी॒त्तन्दिश्या॑भिरु॒पैत्ता उपा॑धत्त॒ ता दिशः॑ [20]
अ॒भ॒व॒न्त्स प॑रमे॒ष्ठी प्र॒जाप॑तिमब्रवी॒दुप॒ त्वाया॒नीति॒ नेह लो॒को॑ऽस्तीत्य॑ब्रवी॒त्स वि॒श्वक॑र्माणञ्च य॒ज्ञञ्चा॑ब्रवी॒दुप॑ वा॒माया॒नीति॒ नेह लो॒को॑ऽस्तीत्य॑ब्रूताँ॒ स ए॒तान्तृ॒तीया॒ञ्चिति॑मपश्य॒त्तामुपा॑धत्त॒ तद॒साव॑भव॒थ्…

विश्वास-प्रस्तुतिः

दिश्या॑भि॒रित्य॑ब्रवीत् । तन्दिश्या॑भिर् - उ॒पैत् ।
ता उपा॑धत्त ।
ता दिशो॑ऽभवन् ।

स प॑रमे॒ष्ठी प्र॒जाप॑तिमब्रवी॒द् -“उप॑ त्वाया॒नी"ति॑ ।
नेह लो॒को॑ऽस्ति + इत्य॑ब्रवीत् ।
स वि॒श्वक॑र्माणञ् च, य॒ज्ञञ् चा॑ब्रवी॒द् -“उप॑ वा॒माया॒नी"ति॑ ।
नेह लो॒को॑ऽस्ति + इत्य॑ब्रूताम् ।
स ए॒तान् तृ॒तीया॒ञ् चिति॑मपश्यत् ।
तामुपा॑धत्त । तद॒साव॑भवत् ।

मूलम्

दिश्या॑भि॒रित्य॑ब्रवीत् । तन्दिश्या॑भिर् - उ॒पैत् ।
ता उपा॑धत्त ।
ता दिशो॑ऽभवन् ।

स प॑रमे॒ष्ठी प्र॒जाप॑तिमब्रवी॒द् -“उप॑ त्वाया॒नी"ति॑ ।
नेह लो॒को॑ऽस्ति + इत्य॑ब्रवीत् ।
स वि॒श्वक॑र्माणञ् च, य॒ज्ञञ् चा॑ब्रवी॒द् -“उप॑ वा॒माया॒नी"ति॑ ।
नेह लो॒को॑ऽस्ति + इत्य॑ब्रूताम् ।
स ए॒तान् तृ॒तीया॒ञ् चिति॑मपश्यत् ।
तामुपा॑धत्त । तद॒साव॑भवत् ।

भट्टभास्कर-टीका

7अथ यज्ञो विश्वकर्माणमब्रवीत् - दिश्याभिरिष्टकाभिः सह त्वामुपेष्यामीति ॥ दिक्शब्दवता मन्त्रेणोपधेया इष्टका दिश्याः ‘राज्ञ्यसि प्राची दिक्’ इत्याद्याः । ‘तद्वानासाम्’ इति यत् । अथ तदनुज्ञातः यज्ञो दिश्याभिः सहोपैत् उपागच्छत् । वृद्धित्रयाद्यः एकादेश उदात्तः, पूर्ववत्प्रथमस्य गतेरनुदात्तत्वम् । अथ ता उपाधत्त यज्ञस्ता दिशोऽभवन् । ततो दिश्याभिर्यज्ञः सुखमासत । अथ परमेष्ठी ब्रह्मा प्रजापतिं विश्वात्मानमब्रवीत् - उप त्वाऽऽयानोति । नेहेत्यब्रवीत् प्रजापतिः ऊर्ध्वलोकाभावात् । अथ परमेष्ठी विश्वकर्माणं यज्ञं चाब्रवीत् उप वामाऽऽयानीति युवामुपगच्छामीति । नेहेत्यब्रूतां तौ । स तृतीयां चितिं दृष्ट्वा उपाधत्त । स द्यौरभवत् ॥

मूलम् (संयुक्तम्)

स आ॑दि॒त्यᳶ प्र॒जाप॑तिमब्रवी॒दुप॑ त्वा [21]
आ॒या॒नीति॒ नेह लो॒को॑ऽस्तीत्य॑ब्रवी॒त्स वि॒श्वक॑र्माणञ्च य॒ज्ञञ्चा॑ब्रवी॒दुप॑ वा॒माया॒नीति॒ नेह लो॒को॑ऽस्तीत्य॑ब्रूताँ॒ स प॑रमे॒ष्ठिन॑मब्रवी॒दुप॒ त्वाया॒नीति॒ केन॑ मो॒पैष्य॒सीति॑ लोकम्पृ॒णयेत्य॑ब्रवी॒त्तल्ँलो॑कम्पृ॒णयो॒पैत्तस्मा॒दया॑तयाम्नी लोकम्पृ॒णाऽया॑तयामा॒ ह्य॑सौ [22]
आ॒दि॒त्यस्…

विश्वास-प्रस्तुतिः

स आ॑दि॒त्यᳶ प्र॒जाप॑तिमब्रवी॒द् - “उप॑ त्वाऽऽया॒नी"ति॑ ।
नेह लो॒को॑ऽस्तीत्य॑ब्रवीत् ।
स वि॒श्वक॑र्माणञ्च य॒ज्ञञ्चा॑ब्रवी॒द् - “उप॑ वा॒माया॒नी"ति॑ ।
नेह लो॒को॑ऽस्तीत्य॑ब्रूताँ॒ ।
स प॑रमे॒ष्ठिन॑मब्रवी॒द् -“उप॒ त्वाऽऽया॒नी"ति॑ ।
केन॑ मो॒पैष्य॒सीति॑ ।
लो॒क॒म्पृ॒णयेत्य॑ब्रवीत् ।
तल्ँलो॑कम् पृ॒णयो॒पैत् ।
तस्मा॒दया॑तयाम्नी लोकम्पृ॒णा ।
अया॑तयामा॒ हि + अ॒सावा॑दि॒त्यः ।

मूलम्

स आ॑दि॒त्यᳶ प्र॒जाप॑तिमब्रवी॒द् - “उप॑ त्वाऽऽया॒नी"ति॑ ।
नेह लो॒को॑ऽस्तीत्य॑ब्रवीत् ।
स वि॒श्वक॑र्माणञ्च य॒ज्ञञ्चा॑ब्रवी॒द् - “उप॑ वा॒माया॒नी"ति॑ ।
नेह लो॒को॑ऽस्तीत्य॑ब्रूताँ॒ ।
स प॑रमे॒ष्ठिन॑मब्रवी॒द् -“उप॒ त्वाऽऽया॒नी"ति॑ ।
केन॑ मो॒पैष्य॒सीति॑ ।
लो॒क॒म्पृ॒णयेत्य॑ब्रवीत् ।
तल्ँलो॑कम् पृ॒णयो॒पैत् ।
तस्मा॒दया॑तयाम्नी लोकम्पृ॒णा ।
अया॑तयामा॒ हि + अ॒सावा॑दि॒त्यः ।

भट्टभास्कर-टीका

8अथादित्यः प्रजापतिमब्रवीत् - उप त्वाऽऽयानीति ॥ नेहेति सोब्रवीत् । स आदित्यः प्रजापतिं मुक्त्वा यज्ञं च विश्वकर्माणं चाब्रवीत् उप वामाऽयानीति । नेहेति तावप्यब्रूताम् । अथ परमेष्ठिनमब्रवीत् - उप त्वाऽयानीति । अथ परमेष्ठी केन मोपैष्यसीत्यादित्यमब्रवीत् । अथ लोकंपृणयेति सोब्रवीत् । उपैत् लोकंपृणया । तस्मादादित्येनानीतत्वात् अयातयाम्नी पुनःपुनरुपधीयमानाऽपि कदाचिदप्यशक्तिं न प्रतिपद्यते, यथा पुनःपुनरुद्यन्नप्यादित्यः ॥

मूलम् (संयुक्तम्)

तानृष॑योऽब्रुव॒न्नुप॑ व॒ आया॒मेति॒ केन॑ न उ॒पैष्य॒थेति॑ भू॒म्नेत्य॑ब्रुव॒न्तान्द्वाभ्या॒ञ्चिती॑भ्यामु॒पाय॒न्त्स पञ्च॑चितीक॒स्सम॑पद्यत॒

विश्वास-प्रस्तुतिः

तानृष॑योऽब्रुव॒न्न् - उप॑ व॒ आया॒मेति॑ ।
केन॑ न उ॒पैष्य॒थेति॑ ।
भू॒म्नेत्य॑ब्रुवन् ।
तान् द्वाभ्या॒ञ् चिती॑भ्याम् उ॒पायन् ।
स पञ्च॑चितीक॒स् सम॑पद्यत ।

मूलम्

तानृष॑योऽब्रुव॒न्न् - उप॑ व॒ आया॒मेति॑ ।
केन॑ न उ॒पैष्य॒थेति॑ ।
भू॒म्नेत्य॑ब्रुवन् ।
तान् द्वाभ्या॒ञ् चिती॑भ्याम् उ॒पायन् ।
स पञ्च॑चितीक॒स् सम॑पद्यत ।

भट्टभास्कर-टीका

9अयातयाम्नीति ॥ ‘अन उपधालोपिनः’ इति ङीप् । तानित्यादि । तान् प्रजापतिविश्वकर्मयज्ञपरमेष्ठ्यादित्यान् ऋषयोऽब्रुवन् उप व आऽयामेति । केन नोस्मानुरैष्यथेति प्रजापत्यादयोऽब्रुवन् । भूम्नेत्यब्रुवन् ऋषयः । बहुत्वं भूमा वृद्धिः । ‘बहोर्लोपो भू च बहोः’ । ततस्ते द्वाभ्यां चितीभ्यामुपायन् प्रजापत्यादीन् सोयमग्निरेवं पञ्चचितीकस्सम्पद्यते । ‘चितेः कपि’ इति दीर्घः ॥

मूलम् (संयुक्तम्)

य ए॒वव्ँवि॒द्वान॒ग्निञ्चि॑नु॒ते भूया॑ने॒व भ॑वत्य॒भीमाल्ँ लो॒काञ्ज॑यति वि॒दुरे॑नन्दे॒वा अथो॑ ए॒तासा॑मे॒व दे॒वता॑नाँ॒ सायु॑ज्यङ्गच्छति ॥ [23]

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वि॒द्वान॒ग्निञ् चि॑नु॒ते भूया॑ने॒व भ॑वत्य् , अ॒भीमाल्ँ लो॒काञ् ज॑यति वि॒दुरे॑नन् दे॒वाः ।
अथो॑ ए॒तासा॑मे॒व दे॒वता॑नाँ॒ सायु॑ज्यङ् गच्छति ॥ [23]

मूलम्

य ए॒वव्ँ वि॒द्वान॒ग्निञ् चि॑नु॒ते भूया॑ने॒व भ॑वत्य् , अ॒भीमाल्ँ लो॒काञ् ज॑यति वि॒दुरे॑नन् दे॒वाः ।
अथो॑ ए॒तासा॑मे॒व दे॒वता॑नाँ॒ सायु॑ज्यङ् गच्छति ॥ [23]

भट्टभास्कर-टीका

10य एवमित्यादि ॥ विदुषस्स्तुतिः । भूयान् ऋद्धियुक्तः । एतासां प्रजापत्यादीनां सायुज्यं समानयोगत्वं गच्छति ॥

इति पञ्चमे सप्तमे पञ्चमः ॥