मूलम् (संयुक्तम्)
चित्ति॑ञ्जुहोमि॒ मन॑सा घृ॒तेनेत्या॒हादा॑भ्या॒ वै नामै॒षाहु॑तिर्वैश्वकर्म॒णी नैन॑ञ्चिक्या॒नम्भ्रातृ॑व्यो दभ्नो॒त्यथो॑ दे॒वता॑ ए॒वाव॑ रु॒न्द्धे
विश्वास-प्रस्तुतिः - ब्राह्मणम्
“चित्ति॑ञ् जुहोमि॒ मन॑सा घृ॒तेन॑”+ इत्या॑ह ।
अदा॑भ्या॒ वै नामै॒षाहु॑तिर् वैश्वकर्म॒णी ।
नैन॑ञ् चिक्या॒नम् भ्रातृ॑व्यो दभ्नोति ।
अथो॑ दे॒वता॑ ए॒वाव॑ रुन्धे ।
मूलम्
“चित्ति॑ञ् जुहोमि॒ मन॑सा घृ॒तेन॑”+ इत्या॑ह ।
अदा॑भ्या॒ वै नामै॒षाहु॑तिर् वैश्वकर्म॒णी ।
नैन॑ञ् चिक्या॒नम् भ्रातृ॑व्यो दभ्नोति ।
अथो॑ दे॒वता॑ ए॒वाव॑ रुन्धे ।
भट्टभास्कर-टीका
1चित्तिं जुहोमीति ॥ ‘चित्तिं जुहोमि’ इत्यनया ऋचा या वैश्व- कर्मणी स्वयमातृण्णायां होतव्येति पूर्वमुक्ता एषाऽऽहुतिरदाभ्यानाम वेदितव्या। इदानीं नामधेयानि ब्रूते । नैनमिति । एतदाहुतिविशिष्टमग्निं चिक्यानं चितवन्तं यजमानं भ्रातृव्यं शत्रुं न दभ्नोति नाभिभवति । तस्मात् दभ्यन्ते नम्यन्ते अनयेति करणे कृत्यः ‘दभेश्चेतिवक्तव्यम्’ इति । दम्भिः प्रकृत्यन्तरमस्तीत्याहुः । अथो अपि च देवता अवरुन्धे च ‘यथा देवा इहागमन्’ इति मन्त्रलिङ्गात् । चिनोतेः लिटः कानच्, ‘विभाषाञ्चेः’ इति कुत्वम् ॥
मूलम् (संयुक्तम्)
ऽग्ने॒ तम॒द्येति॑ प॒ङ्क्त्या जु॑होति प॒ङ्क्त्याहु॑त्या यज्ञमु॒खमार॑भते
विश्वास-प्रस्तुतिः - ब्राह्मणम्
अग्ने॒ तम॒द्येति॑ ।
प॒ङ्क्त्या जु॑होति ।
प॒ङ्क्त्याऽऽहु॑त्या यज्ञमु॒खमार॑भते ।
मूलम्
अग्ने॒ तम॒द्येति॑ ।
प॒ङ्क्त्या जु॑होति ।
प॒ङ्क्त्याऽऽहु॑त्या यज्ञमु॒खमार॑भते ।
भट्टभास्कर-टीका
2’अग्ने तमद्य’ इत्यक्षरपङ्क्त्या होमः कर्तव्यः । उक्तं तस्याः पङ्क्तित्वमत्र स्तूयते । प्रयोजनं चेते …….. पाङ्क्तत्वाद्यज्ञस्य पङ्क्त्याऽनयाहुतिकरणेन हेतुना यज्ञमुखमुपक्रमभारभत इति । आरभ्य यज्ञत्वमस्य क्रियत इति ॥
मूलम् (संयुक्तम्)
स॒प्त ते॑ अग्ने स॒मिध॑स्स॒प्त जि॒ह्वा इत्या॑ह॒ होत्रा॑ ए॒वाव॑ रुन्द्धे॒
विश्वास-प्रस्तुतिः - ब्राह्मणम्
स॒प्त ते॑ अग्ने स॒मिध॑स् स॒प्त जि॒ह्वा इत्या॑ह ।
होत्रा॑ ए॒वाव॑ रुन्धे ।
मूलम्
स॒प्त ते॑ अग्ने स॒मिध॑स् स॒प्त जि॒ह्वा इत्या॑ह ।
होत्रा॑ ए॒वाव॑ रुन्धे ।
भट्टभास्कर-टीका
3सप्त त इत्यादि ॥ ‘सप्तते अग्ने ’ इत्यनया अग्निहोत्रहोमः कर्तव्यः । तत्प्रयोजनं होतॄणामृत्विजां लोलः सप्तहोत्र इति लिङ्गात् ॥
मूलम् (संयुक्तम्)
ऽग्निर्दे॒वेभ्योऽपा॑क्रामद्भाग॒धेय॑म् [13]
इ॒च्छमा॑न॒स्तस्मा॑ ए॒तद्भा॑ग॒धेय॒म्प्राय॑च्छन्ने॒तद्वा अ॒ग्नेर॑ग्निहो॒त्रमे॒तर्हि॒ खलु॒ वा ए॒ष जा॒तो यर्हि॒ सर्व॑श्चि॒तो जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधाति॒ स ए॑नम्प्री॒तᳶ प्री॑णाति॒ वसी॑यान्भवति
विश्वास-प्रस्तुतिः - ब्राह्मणम्
अ॒ग्निर्दे॒वेभ्योऽपा॑क्रामद्भाग॒धेय॑म् - इ॒च्छमा॑नः ।
तस्मा॑ ए॒तद् भा॑ग॒धेय॒म् प्राय॑च्छन् ।
ए॒तद्वा अ॒ग्नेर् अ॑ग्निहो॒त्रम् ।
ए॒तर्हि॒ खलु॒ वा ए॒ष जा॒तो यर्हि॒ सर्व॑श्चि॒तः ।
जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधाति ।
स ए॑नम् प्री॒तᳶ प्री॑णाति । वसी॑यान् भवति ।
मूलम्
अ॒ग्निर्दे॒वेभ्योऽपा॑क्रामद्भाग॒धेय॑म् - इ॒च्छमा॑नः ।
तस्मा॑ ए॒तद् भा॑ग॒धेय॒म् प्राय॑च्छन् ।
ए॒तद्वा अ॒ग्नेर् अ॑ग्निहो॒त्रम् ।
ए॒तर्हि॒ खलु॒ वा ए॒ष जा॒तो यर्हि॒ सर्व॑श्चि॒तः ।
जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधाति ।
स ए॑नम् प्री॒तᳶ प्री॑णाति । वसी॑यान् भवति ।
भट्टभास्कर-टीका
4अग्निर्देवेभ्य इति ॥ गतमेतत् । एतद्वा इति । यस्मादेवं तस्मादेतमग्निहोत्रमग्नेरेव स्वं देवैस्तथा कृतत्वात् । एतर्हीत्यादि । अस्मिन्काले एषोग्निर्जातो भवति । यर्हि यदा सर्वश्चितो भवति । तस्माज्जातायान्नप्रदानसममिदमग्निहोत्रमिति । स एनमित्यादि । गतम् ॥
मूलम् (संयुक्तम्)
ब्रह्मवा॒दिनो॑ वदन्ति॒ यदे॒ष गार्ह॑पत्यश्ची॒यतेऽथ॒ क्वा॑स्याहव॒नीय॒ इत्य॒सावा॑दि॒त्य इति॑ ब्रूयादे॒तस्मि॒न्हि सर्वा॑भ्यो दे॒वता॑भ्यो॒ जुह्व॑ति [14]
य ए॒वव्ँवि॒द्वान॒ग्निञ्चि॑नु॒ते सा॒क्षादे॒व दे॒वता॑ ऋध्नो॒त्य्…
विश्वास-प्रस्तुतिः - ब्राह्मणम्
ब्र॒ह्म॒वादिनो॑ वदन्ति॒ -
“यदे॒ष गार्ह॑पत्यश् ची॒यते ऽथ॒ क्वा॑स्याहव॒नीय॒” इति॑ ।
अ॒सावा॑दि॒त्य इति॑ ब्रूयात् ।
ए॒तस्मि॒न्हि सर्वा॑भ्यो दे॒वता॑भ्यो॒ जुह्व॑ति ।
य ए॒वव्ँवि॒द्वान॒ग्निञ् चि॑नु॒ते, सा॒क्षादे॒व दे॒वता॑ ऋध्नोति ।
मूलम्
ब्र॒ह्म॒वादिनो॑ वदन्ति॒ -
“यदे॒ष गार्ह॑पत्यश् ची॒यते ऽथ॒ क्वा॑स्याहव॒नीय॒” इति॑ ।
अ॒सावा॑दि॒त्य इति॑ ब्रूयात् ।
ए॒तस्मि॒न्हि सर्वा॑भ्यो दे॒वता॑भ्यो॒ जुह्व॑ति ।
य ए॒वव्ँवि॒द्वान॒ग्निञ् चि॑नु॒ते, सा॒क्षादे॒व दे॒वता॑ ऋध्नोति ।
भट्टभास्कर-टीका
5ब्रह्मवादिन इत्यादि ॥ यत् यद्येवमेष गार्हपत्यश्चीयते अग्नेरेव होमात् अथेदानीं क्वास्य भवति यः यत्र देवताभ्यो हूयत इति ब्रह्मवादिन आहुः । अत्रोत्तरमित्थं ब्रूयादित्याह - असावादित्य इति । अथाहवनीयत्वं समर्थयते - एतस्मिन्हीति । यत् सर्वाभ्यो देवताभ्यः हुतं तदेतस्मिन् तिष्ठतीति । यथा - अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते इति । तस्मात्स एवाहवनीयो भवतीति । य एवमित्यादि । गतम् ॥
भास्करोक्त-विनियोगः
6अथ राष्ट्रभृत उपदधाति - अग्ने यशस्विन्नित्याद्याश्चतस्त्रः सर्वाः त्रिष्टुभः, प्रथमा जगती वा ॥ तत्र प्रथमां -
मूलम् (संयुक्तम्)
अग्ने॑ यशस्वि॒न्यश॑से॒मम॑र्प॒येन्द्रा॑वती॒मप॑चितीमि॒हा व॑ह । अ॒यम्मू॒र्धा प॑रमे॒ष्ठी सु॒वर्चाः॑ समा॒नाना॑मुत्त॒मश्लो॑को अस्तु ।
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॑ यशस्वि॒न् यश॑से॒मम् +++(यजमानं)+++ अ॑र्प॒य
+इन्द्रा॑वती॒म् अप॑चितीम्+++(=पूजां)+++ इ॒हाव॑ह ।
अ॒यम् मू॒र्धा प॑रमे॒ष्ठी सु॒वर्चाः॑,
समा॒नाना॑म् उत्त॒मश्लो॑को अस्तु ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
अग्ने॑ यशस्वि॒न्यश॑से॒मम॑र्प॒येन्द्रा॑वती॒मप॑चितीमि॒हा व॑ह ।
अ॒यम् मू॒र्धा प॑रमे॒ष्ठी सु॒वर्चाः॑ समा॒नाना॑म् - उत्त॒मश्लो॑को अस्तु ।
भट्टभास्कर-टीका
हे अग्ने यशस्विन् इमं यजमानं यशसा अर्पय प्रापय । ‘नामन्त्रिते समानाधिकरणे’ इति पूर्वस्यामन्त्रितस्य अविद्यमानत्वाभावः । इन्द्रावतीं इन्द्रयोग्यां अपचितीं पूजां इह अस्मिन्कर्मणि आवह आनय इन्द्रयोग्यां पूजां यथाऽयं समर्थस्स्यात् तथा कुर्वित्यर्थः । उभयत्रापि वर्णव्यत्ययेन दीर्घत्वम् । किमर्थमित्याह - अयं यजमानः मूर्धा प्रधानभूतः परमे महिम्नि स्थितः । उणादिषु निपात्यते । सुवर्चाः शोभनदीप्तिः । ‘सोर्मनसी’ इत्युत्तरपदाद्युदात्तत्वम् । समानानां समानजातानां मध्ये उत्तमश्लोक: उत्तमकीर्तिश्चास्तु एवमर्थ इति । उत्तमशब्द उञ्छादिरन्तोदात्तः ॥
मूलम् (संयुक्तम्)
भ॒द्रम्पश्य॑न्त॒ उप॑ सेदु॒रग्रे॒ तपो॑ दी॒क्षामृष॑यस्सुव॒र्विदः॑ । ततः॑ क्ष॒त्रम्बल॒मोज॑श्च जा॒तन्तद॒स्मै दे॒वा अ॒भि सन्न॑मन्तु ।
विश्वास-प्रस्तुतिः ...{Loading}...
भ॒द्रम् पश्य॑न्त॒ उप॑ सेदु॒र् अग्रे॒
तपो॑ +++(उपसल्-लक्षणां)+++ दी॒क्षाम् ऋष॑यस् सुव॒र्-विदः॑ ।
ततः॑ क्ष॒त्रम् बल॒म् ओज॑श् च जा॒तन्
तद् अ॒स्मै दे॒वा अ॒भि सन्न॑मन्तु ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
भ॒द्रम्पश्य॑न्त॒ उप॑ सेदु॒रग्रे॒ तपो॑ दी॒क्षामृष॑यस् सुव॒र्विदः॑ ।
ततः॑ क्ष॒त्रम्बल॒मोज॑श् च जा॒तन् तद॒स्मै दे॒वा अ॒भि सन्न॑मन्तु ।
भट्टभास्कर-टीका
7अथ द्वितीया - भद्रमिति ॥ भद्रं कल्याणं फलं पश्यन्तः शास्त्रदृष्ट्या विचिन्वानाः तपश्च उपसल्-लक्षणं दीक्षां चाग्रे उपसेदुः उपासाञ्चक्रिरे ऋषयः सुवर्विदः परमसुखज्ञाः ।
ततश् च तेषां क्षत्रं धनं बलं सामर्थ्यं ओजो दीप्तिश्च जातं भद्रं उत्पादितं
तद् भद्रम् अस्मै यजमानाय देवा अभिसन्नमन्तु आभिमुख्येनानयन्तु ॥
मूलम् (संयुक्तम्)
धा॒ता वि॑धा॒ता प॑र॒मा [15]
उ॒त स॒न्दृक्प्र॒जाप॑तिᳶ परमे॒ष्ठी वि॒राजा॑ । स्तोमा॒श्छन्दाँ॑सि नि॒विदो॑ म आहुरे॒तस्मै॑ रा॒ष्ट्रम॒भि सन्न॑माम ।
विश्वास-प्रस्तुतिः ...{Loading}...
धा॒ता वि॑धा॒ता प॑र॒मोत स॒न्दृक्
प्र॒जाप॑तिᳶ परमे॒ष्ठी वि॒राजा॑ ।
स्तोमा॒श् छन्दाँ॑सि नि॒विदो॑ म आहुर्
ए॒तस्मै॑ रा॒ष्ट्रम् अ॒भि सन्न॑माम ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
धा॒ता वि॑धा॒ता प॑र॒मोत स॒न्दृक् प्र॒जाप॑तिᳶ परमे॒ष्ठी वि॒राजा॑ ।
स्तोमा॒श् छन्दाँ॑सि नि॒विदो॑ म आहुर् ए॒तस्मै॑ रा॒ष्ट्रम् अ॒भि सन्न॑माम ।
भट्टभास्कर-टीका
8अथ तृतीया - धातेति ॥ धाता धारकः विधाता विधारकः परमो रक्षितः परमस्रष्टा उत अपि च परमात्मा संदृक् उत्तमो द्रष्टा अचितदशिः [अवितथदर्शी] परमेश्वरः प्रजापतिः हिरण्यगर्भः परमेष्ठी परमे कारणभावे स्थितः परमात्मा विराजा एकस्रष्ट्रा सह स्तोमास्त्रिवृदादयः छन्दांसि गायत्र्यादीनि निविदः शस्त्राणि निविदः पदान्येव वा सर्वाण्येतानि मे आहुः । कथम् एतस्मै यजमानाय राष्ट्रं पदसमूहं आभिमुख्येन संनमामेति राष्ट्रस्याभिसन्नमने आभिमुख्यं भजतामित्यर्थः ॥
मूलम् (संयुक्तम्)
अ॒भ्याव॑र्तध्व॒मुप॒ मेत॑ सा॒कम॒यँ शा॒स्ताधि॑पतिर्वो अस्तु । अ॒स्य वि॒ज्ञान॒मनु॒ सँ र॑भध्वमि॒मम्प॒श्चादनु॑ जीवाथ॒ सर्वे॑ ।
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒भ्याव॑र्तध्व॒म् उप॒ मेत॑ सा॒कम्
अ॒यँ शा॒स्ता ऽधि॑पतिर् वो अस्तु ।
अ॒स्य वि॒ज्ञान॒म् अनु॒ सँ र॑भध्वम्
इ॒मम् प॒श्चाद् अनु॑ जीवाथ॒ सर्वे॑ ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
अ॒भ्याव॑र्तध्व॒मुप॒ मेत॑ सा॒कम॒यँ शा॒स्ताधि॑पतिर्वो अस्तु ।
अ॒स्य वि॒ज्ञान॒मनु॒ सँ र॑भध्वम् इ॒मम् प॒श्चादनु॑ जीवाथ॒ सर्वे॑ ।
भट्टभास्कर-टीका
9अथ चतुर्थी - अभ्यावर्तध्वमिति ॥ मनुष्या उच्यन्ते । अभ्यावर्तध्वं आभिमुख्येनास्माकमागच्छतम् । उपरक्ताः परागच्छत । ‘गतिर्गतौ’ इति प्रथमो गतिः अनुदात्तः । तेन पृथक् पदत्वाभावः । सर्वेऽपि साकं सम्भूय ऐकमत्यं गता मामुपेत उपगच्छत । धातूपसर्गसंयोगे कृते ‘ओमाङोश्च’ इति पररूपत्वम् । इदमुच्यध्वे - वः युष्काकं अयं यजमानः शास्ता अधिपतिश्चास्तु । ‘ग्रसितस्कभित’ इत्यादौ शास्तेति इडभावो निपात्यते । इदं चाप्युच्यध्वे - अयमप्यस्य यजमानस्य विज्ञानमनुसंरभध्वं यथाऽनेन विज्ञातं तथाऽनुसरन्तः कर्माण्यारभध्वम् । पश्चादिमं जीवन्तमनुजीवाथ सर्वेऽपि यद्ययं जीवति ततो यूयं जीवय । तस्मादिमं जीवन्तमनुजीवतेति । लेट्याडागमः ॥
मूलम् (संयुक्तम्)
रा॒ष्ट्रभृत॑ ए॒ता उप॑ दधात्ये॒षा वा अ॒ग्नेश्चिती॑ राष्ट्र॒भृत्तयै॒वास्मि॑न्रा॒ष्ट्रन्द॑धाति रा॒ष्ट्रमे॒व भ॑वति॒ नास्मा॑द्रा॒ष्ट्रम्भ्रँ॑शते ॥ [16]
विश्वास-प्रस्तुतिः - ब्राह्मणम्
रा॒ष्ट्र॒भृत॑ ए॒ता उप॑ दधाति ।
ए॒षा वा अ॒ग्नेश् चिती॑ राष्ट्र॒भृत् ।
तयै॒वास्मि॑न् रा॒ष्ट्रन् द॑धाति ।
रा॒ष्ट्रम् ए॒व भ॑वति ।
नास्मा॑द् रा॒ष्ट्रम् भ्रँ॑शते ॥ [16]
मूलम्
रा॒ष्ट्र॒भृत॑ ए॒ता उप॑ दधाति ।
ए॒षा वा अ॒ग्नेश्चिती॑ राष्ट्र॒भृत् ।
तयै॒वास्मि॑न् रा॒ष्ट्रन् द॑धाति ।
रा॒ष्ट्रमे॒व भ॑वति ।
नास्मा॑द् रा॒ष्ट्रम् भ्रँ॑शते ॥ [16]
भट्टभास्कर-टीका
10अथासां ब्राह्मणम् - राष्ट्रभृत इत्यादि ॥ एषेति । एषा राष्ट्रमेवेति विधेयीकृतराष्ट्रतां दर्शयितुं ताच्छब्द्यम् । तदारभ्य नास्मात् राष्ट्रं भ्रंशत इति ॥
इति पञ्चमे सप्तमे चतुर्थोनुवाकः ॥