मूलम् (संयुक्तम्)
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्नस्तनू॒पा नᳶ॑ प्रतिस्प॒शः । यो नᳶ॑ पु॒रस्ता॑द्दक्षिण॒तᳶ प॒श्चादु॑त्तर॒तो॑ऽघा॒युर॑भि॒दास॑त्ये॒तँ सोऽश्मा॑नमृच्छतु ।
विश्वास-प्रस्तुतिः
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्नस् तनू॒पा नᳶ॑ प्रतिस्प॒शः ।
यो नᳶ॑ पु॒रस्ता॑द् दक्षिण॒तᳶ प॒श्चाद् - उ॑त्तर॒तो॑ ऽघा॒युर॑भि॒दास॑त्ये॒तँ सोऽश्मा॑नमृच्छतु ।
मूलम्
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्नस् तनू॒पा नᳶ॑ प्रतिस्प॒शः ।
यो नᳶ॑ पु॒रस्ता॑द् दक्षिण॒तᳶ प॒श्चाद् - उ॑त्तर॒तो॑ ऽघा॒युर॑भि॒दास॑त्ये॒तँ सोऽश्मा॑नमृच्छतु ।
भट्टभास्कर-टीका
1वज्रिणीरुपदधाति - इन्द्रस्य वज्रोसीति ॥ अयमेव मन्त्रः प्रतिदिशं पुरस्ताद्दक्षिणतः पश्चादुत्तरत इति । दिशिदिशि विशेषः ‘यो नः पुरस्तादभिदासति’ ‘यो नो दक्षिणतोभिदासति’ इत्यादि । तेनैताश्चतस्रः पथ्याः, ‘तृतीयश्चेद्द्वादशाक्षरः पथ्या’ इति हे इष्टके इन्द्रस्य वज्रोसि । व्याख्यातम् । सा त्वं नोस्माकं तनूपाश्शरीरस्य रक्षिता । पातेर्विच् । भवेति शेषः । यद्वा - असीति सम्बध्यते । इन्द्रस्य वज्रोसीति वृत्रहननसाधनं अस्माकं त्वं तनूपा इति प्रतिस्पशः बाधितॄणां बाधिता प्ररीपं बाधकः । स्पश बाधने, पचाद्यच् । वज्रापेक्षया पुछिङ्गत्वम् । यो नः पुरस्तात् पूर्वस्यां दिशि अघायुः अघं पापमिच्छन् । ‘छन्दसि परेच्छायामपि’ इति क्यच् । ‘अश्वाघस्यात्’ इत्यात्वम् । ‘क्याच्छन्दसि’ इत्युप्रत्ययः । अभिदासति - आभिमुख्येन उपक्षपयति । छान्दसमात्वम्, विकरणव्यत्ययश्च । यद्वा - ण्यन्ताल्लिटि ‘छन्दस्युभयथा’ इति शप आर्धधातुकत्वात् णिलोपः । स एतमस्माकं व्यापकं इष्टकात्मानं वा पाषाणमृच्छतु अनुप्रविशतु वा, पाषाणीभवत्विति यावत् ॥
मूलम् (संयुक्तम्)
दे॒वा॒सु॒रास्सय्ँय॑त्ता आस॒न्तेऽसु॑रा दि॒ग्भ्य आबा॑धन्त॒ तान्दे॒वा इष्वा॑ च॒ वज्रे॑ण॒ चापा॑नुदन्त॒ यद्व॒ज्रिणी॑रुप॒दधा॒तीष्वा॑ चै॒व तद्वज्रे॑ण च॒ यज॑मानो॒ भ्रातृ॑व्या॒नप॑ नुदते
विश्वास-प्रस्तुतिः
दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।
तेऽसु॑रा दि॒ग्भ्य आऽबा॑धन्त ।
तान्दे॒वा इष्वा॑ च॒ वज्रे॑ण॒ चापा॑नुदन्त ।
यद् व॒ज्रिणी॑रुप॒दधा॒तीष्वा॑ चै॒व तद्वज्रे॑ण च॒ यज॑मानो॒ भ्रातृ॑व्या॒नप॑ नुदते ।
मूलम्
दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।
तेऽसु॑रा दि॒ग्भ्य आऽबा॑धन्त ।
तान्दे॒वा इष्वा॑ च॒ वज्रे॑ण॒ चापा॑नुदन्त ।
यद् व॒ज्रिणी॑रुप॒दधा॒तीष्वा॑ चै॒व तद्वज्रे॑ण च॒ यज॑मानो॒ भ्रातृ॑व्या॒नप॑ नुदते ।
भट्टभास्कर-टीका
2अथ तत्रैव ब्राह्मणम् - देवासुरा इत्यादि ॥ आबाधन्त सर्वतो दिक्षु बाधितवन्तोसुराः । तानित्यादि । गतम् । यद्वज्रिणीरिति । ‘इन्द्रस्य वज्रोसि’ इत्येवमाद्या ॥
मूलम् (संयुक्तम्)
दि॒क्षूप॑ [9]
द॒धा॒ति॒ दे॒व॒पु॒रा ए॒वैतास्त॑नू॒पानी॒ᳶ पर्यू॑ह॒ते
विश्वास-प्रस्तुतिः
दि॒क्षूप॑ दधाति ।
दे॒व॒पु॒रा ए॒वैतास् त॑नू॒पानी॒ᳶ पर्यू॑हते ।
मूलम्
दि॒क्षूप॑ दधाति ।
दे॒व॒पु॒रा ए॒वैतास् त॑नू॒पानी॒ᳶ पर्यू॑हते ।
भट्टभास्कर-टीका
3दिक्ष्वित्यादि ॥ देवानां पुरो नगराणि देवपुराः । ‘ऋक्पूरब्धूः’ इत्यकारस्समासान्तः, परवल्लिङ्गता । शरीररक्षार्था देवपुरा एव पर्यूहते सर्वासु दिक्षु प्रतिष्ठापयति यद्दिक्षु वज्रिणीरुपदधाति ॥
मूलम् (संयुक्तम्)
ऽग्ना॑विष्णू स॒जोष॑से॒मा व॑र्धन्तु वा॒ङ्गिरः॑ । द्यु॒म्नैर्वाजे॑भि॒रा ग॑तम् ।
विश्वास-प्रस्तुतिः
अग्ना॑विष्णू स॒जोष॑से॒मा व॑र्धन्तु वा॒ङ्गिरः॑ ।
द्यु॒म्नैर्वाजे॑भि॒रा ग॑तम् ।
मूलम्
अग्ना॑विष्णू स॒जोष॑से॒मा व॑र्धन्तु वा॒ङ्गिरः॑ ।
द्यु॒म्नैर्वाजे॑भि॒रा ग॑तम् ।
भट्टभास्कर-टीका
4अथ वसोर्धाराहोमविशेषविधित्सया पुनरपि विधित्सन् तन्मन्त्राग्रगतामृचं स्तोतुं पुनः पठति - अग्नाविष्णू इति ॥ व्याख्यातेयं चतुर्थे । अग्नाविष्णू समानप्रीतिकौ युवां अस्मदीया गिरो वर्धयन्तु । युवामपि द्युम्नैः धनैः दीप्तिमद्भिर्वा अन्नैश्च अस्मभ्यं देयैस्समागच्छतमिति ॥
मूलम् (संयुक्तम्)
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ यन्न दे॒वता॑यै॒ जुह्व॒त्यथ॑ किन्देव॒त्या॑ वसो॒र्धारेत्य॒ग्निर्वसु॒स्तस्यै॒षा धारा॒ विष्णु॒र्वसु॒स्तस्यै॒षा धारा॑ग्नावैष्ण॒व्यर्चा वसो॒र्धारा॑ञ्जुहोति भाग॒धेये॑नै॒वैनौ॒ सम॑र्धय॒त्यथो॑ ए॒ताम् [10]
ए॒वाहु॑तिमा॒यत॑नवतीङ्करोति॒ यत्का॑म एनाञ्जु॒होति॒ तदे॒वाव॑ रुन्द्धे
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -
“यन्न दे॒वता॑यै॒ जुह्व॒त्यथ॑ किन्देव॒त्या॑ वसो॒र्धारा॑ “+ इति॑ ।
अ॒ग्निर्वसु॒स् तस्यै॒षा धारा॑ ।
विष्णु॒र्वसु॒स् तस्यै॒षा धारा॑ ।
आ॒ग्ना॒वै॒ष्ण॒व्यर्चा वसो॒र्धारा॑ञ् जुहोति ।
भा॒ग॒धेये॑नै॒वैनौ॒ सम॑र्धयति ।
अथो॑ ए॒ताम् ए॒वाहु॑तिम्-आ॒यत॑नवतीङ्करोति ।
यत् का॑म एनाञ् जु॒होति॒, तदे॒वाव॑ रुन्धे ।
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -
“यन्न दे॒वता॑यै॒ जुह्व॒त्यथ॑ किन्देव॒त्या॑ वसो॒र्धारा॑ “+ इति॑ ।
अ॒ग्निर्वसु॒स् तस्यै॒षा धारा॑ ।
विष्णु॒र्वसु॒स् तस्यै॒षा धारा॑ ।
आ॒ग्ना॒वै॒ष्ण॒व्यर्चा वसो॒र्धारा॑ञ् जुहोति ।
भा॒ग॒धेये॑नै॒वैनौ॒ सम॑र्धयति ।
अथो॑ ए॒ताम् ए॒वाहु॑तिम्-आ॒यत॑नवतीङ्करोति ।
यत् का॑म एनाञ् जु॒होति॒, तदे॒वाव॑ रुन्धे ।
भट्टभास्कर-टीका
5ब्रह्मवादिन इत्यादि ॥ इयं वसोर्धारा कस्यैचिद्देवतायै न हूयते । ‘वाजश्च मे’ इत्यादौ देवताया अनिर्देशादियं किंदेवत्येति पर्यनुयोगं वदन्ति ब्रह्मवादिनः । जुह्वतीत्यत्र ‘अभ्यस्तानामादिः’ इत्याद्युदात्तत्वम् । कस्यै देवतायै इयम् । ‘देवतान्तात्तादर्थ्ये यत्’ । तत्रोत्तरं - अग्निरित्यादि । वासहेतुः प्रजानां वसुः अग्निर्विष्णुश्च । तस्माद्वसोर्धारेतिनामधेया देवता गम्यत इति । तस्मादाग्नावैष्णव्या ‘अग्नाविष्णू’ इत्येतयर्चा होमात् ते एव देवते भागधेयेन प्रीणाति । अथो अपि च एतामाहुतिं आयतनवतीं करोति न परदेवतावतीमिति । अन्यथा ‘च मे च मे’ इति निगद्य हूयमानेयं कुत्र तिष्ठेत् । तस्मात् यत्कामः यज्जातिकं कामयमान एनां जुहोति देवतालाभात् स्थानलाभात् । ‘शीलिकामि’ इत्यादिना णः, पूर्वपदप्रकृतिस्वरत्वं च ॥
मूलम् (संयुक्तम्)
रु॒द्रो वा ए॒ष यद॒ग्निस्तस्यै॒ते त॒नुवौ॑ घो॒रान्या शि॒वान्या यच्छ॑तरु॒द्रीय॑ञ्जु॒होति॒ यैवास्य॑ घो॒रा त॒नूस्तान्तेन॑ शमयति॒ यद्वसो॒र्धारा॑ञ्जु॒होति॒ यैवास्य॑ शि॒वा त॒नूस्तान्तेन॑ प्रीणाति॒ यो वै वसो॒र्धारा॑यै [11]
प्र॒ति॒ष्ठाव्ँवेद॒ प्रत्ये॒व ति॑ष्ठति॒
विश्वास-प्रस्तुतिः
रु॒द्रो वा ए॒ष यद॒ग्निः ।
तस्यै॒ते त॒नुवौ॑ घो॒राऽन्या शि॒वाऽन्या ।
यच् छ॑तरु॒द्रीय॑ञ् जु॒होति॒, यैवास्य॑ घो॒रा त॒नूस्, तान् तेन॑ शमयति ।
यद् वसो॒र्धारा॑ञ् जु॒होति॒, यैवास्य॑ शि॒वा त॒नूस्, तान् तेन॑ प्रीणाति ।
यो वै वसो॒र् धारा॑यै प्रति॒ष्ठाव्ँ वेद॒, प्रत्ये॒व ति॑ष्ठति ।
मूलम्
रु॒द्रो वा ए॒ष यद॒ग्निः ।
तस्यै॒ते त॒नुवौ॑ घो॒राऽन्या शि॒वाऽन्या ।
यच् छ॑तरु॒द्रीय॑ञ् जु॒होति॒, यैवास्य॑ घो॒रा त॒नूस्, तान् तेन॑ शमयति ।
यद् वसो॒र्धारा॑ञ् जु॒होति॒, यैवास्य॑ शि॒वा त॒नूस्, तान् तेन॑ प्रीणाति ।
यो वै वसो॒र् धारा॑यै प्रति॒ष्ठाव्ँ वेद॒, प्रत्ये॒व ति॑ष्ठति ।
भट्टभास्कर-टीका
6रुद्रो वा इत्यादि ॥ घोरां क्रुद्धां देवस्य तनुं शतरुद्रीयेण ‘नमस्ते रुद्र मन्यवे’ इत्येतेन शमयति शिवां प्रागेव शान्तां तनुं वसोर्धारया प्रीणयतीति । यो वा इत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
यदाज्य॑मु॒च्छिष्ये॑त॒ तस्मि॑न्ब्रह्मौद॒नम्प॑चे॒त्तम्ब्रा॑ह्म॒णाश्च॒त्वार॒ᳶ प्राश्ञी॑युरे॒ष वा अ॒ग्निर्वै॑श्वान॒रो यद्ब्रा॑ह्म॒ण ए॒षा खलु॒ वा अ॒ग्नेᳶ प्रि॒या त॒नूर्यद्वै॑श्वान॒रᳶ प्रि॒याया॑मे॒वैना॑न्त॒नुवा॒म्प्रति॑ ष्ठापयति॒
विश्वास-प्रस्तुतिः
यदाज्य॑मु॒च्छिष्ये॑त॒ तस्मि॑न् ब्रह्मौद॒नम् प॑चेत् ।
तम् ब्रा॑ह्म॒णाश् च॒त्वार॒ᳶ प्राश्ञी॑युः ।
ए॒ष वा अ॒ग्निर् वै॑श्वान॒रो यद्ब्रा॑ह्म॒णः ।
ए॒षा खलु॒ वा अ॒ग्नेᳶ प्रि॒या त॒नूर्, यद् वै॑श्वान॒रः ।
प्रि॒याया॑मे॒वैना॑न् त॒नुवा॒म् प्रति॑ ष्ठापयति ।
मूलम्
यदाज्य॑मु॒च्छिष्ये॑त॒ तस्मि॑न् ब्रह्मौद॒नम् प॑चेत् ।
तम् ब्रा॑ह्म॒णाश् च॒त्वार॒ᳶ प्राश्ञी॑युः ।
ए॒ष वा अ॒ग्निर् वै॑श्वान॒रो यद्ब्रा॑ह्म॒णः ।
ए॒षा खलु॒ वा अ॒ग्नेᳶ प्रि॒या त॒नूर्, यद् वै॑श्वान॒रः ।
प्रि॒याया॑मे॒वैना॑न् त॒नुवा॒म् प्रति॑ ष्ठापयति ।
भट्टभास्कर-टीका
7उच्छिष्येत अतिरिच्येत ब्राह्मणेभ्यो देयमोदनं ब्रह्मौदनम् । प्रियायामेवेति । अग्नेः प्रियशरीरभूते वैश्वानरात्मनि ब्राह्मण इत्यर्थः । तत्रेयमाहुतिः प्रतिष्ठाप्यते यत् ब्राह्मणा ब्रह्मौदनं प्राश्नन्ति इयं वै वसोर्धारा प्रतिष्ठेति ॥
मूलम् (संयुक्तम्)
चत॑स्रो धे॒नूर्द॑द्या॒त्ताभि॑रे॒व यज॑मानो॒ऽमुष्मिल्ँ॑ लो॒के॑ऽग्निन्दु॑हे ॥ [12]
विश्वास-प्रस्तुतिः
चत॑स्रो धे॒नूर् द॑द्या॒त् ।
ताभि॑र् ए॒व यज॑मानो॒ऽमुष्मिल्ँ॑ लो॒के॑ऽग्निन् दु॑हे ॥ [12]
मूलम्
चत॑स्रो धे॒नूर् द॑द्या॒त् ।
ताभि॑र् ए॒व यज॑मानो॒ऽमुष्मिल्ँ॑ लो॒के॑ऽग्निन् दु॑हे ॥ [12]
भट्टभास्कर-टीका
8चतस्र इति ॥ भुक्तवद्भ्यो ब्राह्मणेभ्यः । ताभिरेवेति । ताभिः धेनुभिः वत्सस्थानीयाभिः अमुष्मिन् लोके भोगस्थाने अग्निं दुहे गोस्थानीयं दुग्धे कामान् दुहे । ‘लोपस्त आत्मनेपदेषु’ इति तलोपः ॥
इति पञ्चमे सप्तमे तृतीयोनुवाकः ॥