०२

भास्करोक्त-विनियोगः

1चित्याञ्चित्याम् ऋषभआपदधाति - त्वामग्न इति त्रिष्टुभा ॥

मूलम् (संयुक्तम्)

त्वाम॑ग्ने वृष॒भञ्चेकि॑तान॒म्पुन॒र्युवा॑नञ्ज॒नय॑न्नु॒पागा॑म् । अ॒स्थू॒रि णो॒ गार्ह॑पत्यानि सन्तु ति॒ग्मेन॑ नो॒ ब्रह्म॑णा॒ सँ शि॑शाधि ।

विश्वास-प्रस्तुतिः ...{Loading}...

त्वाम॑ग्ने वृष॒भञ् चेकि॑तान॒म्
पुन॒र् युवा॑नञ् ज॒नय॑न्न् उ॒पागा॑म्
अ॒स्थू॒रि णो॒ गार्ह॑पत्यानि सन्तु
ति॒ग्मेन॑ नो॒ ब्रह्म॑णा॒ सँ शि॑शाधि

सर्वाष् टीकाः ...{Loading}...

मूलम्

त्वाम॑ग्ने वृष॒भञ् चेकि॑तान॒म् पुन॒र् युवा॑नञ् ज॒नय॑न्न् उ॒पागा॑म् ।
अ॒स्थू॒रि णो॒ गार्ह॑पत्यानि सन्तु ति॒ग्मेन॑ नो॒ ब्रह्म॑णा॒ सँ शि॑शाधि ।

भट्टभास्कर-टीका

हे अग्ने त्वां वृषभं वर्षितारं कामानां चेकितानं सर्वस्य ज्ञातारम् । कित ज्ञाने, लुगन्तः । छान्दसस्य लिटः कानजादेशः । ईदृशं त्वां युवानं जनयन् प्रजार्थं कुर्वन् । हेतौ शतृप्रत्ययः । पुनःपुनरुपागां आभिमुख्येनोपगच्छामि । छान्दसो लुङ्, ‘गतिर्गतौ’ इति पूर्वो गतिर्निहन्यते । अस्थूरि अस्थूरीणि असारवन्ति अनोवहनसामर्थ्यं स्थौल्यं सारत्वं, तद्रहितानि । ‘सुपां सुलुक्’ इति शेर्लुक् ‘शेश्छन्दसि’ इति हेर्लोपे दीर्घत्वं स्यात् । ईदृशानि गार्हपत्यानि गृहपतितुल्यानि स्वामिभावाः नः अस्माकं सन्तु । छान्दसं सांहितिकं णत्वम् । यथोक्तं प्रातिशाख्ये - ‘षुषूकृधिसुवस्समिन्द्रास्थूरि’ इति । किञ्च - तिग्मेन ब्रह्मणा ब्रह्मवर्चसेन नः अस्मान् संशिशाधि सम्यक् शितान् कुरु । यद्वा - ब्रह्मणा अध्ययनादिना कर्मणा संशितव्रतात् कुरु । श्यतेर्लेटि ‘बहुलं छन्दसि’ इति शपश्श्लुः, इत्वं चाभ्यासस्य ‘वा छन्दसि’ इति इत्वप्रतिषेधेन ङित्त्वाभावात् ‘ङितश्च’ इति इगभावः ॥

मूलम् (संयुक्तम्)

प॒शवो॒ वा ए॒ते यदिष्ट॑का॒श्चित्या॑ञ्चित्यामृष॒भमुप॑ दधाति मिथु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय॒ तस्मा॑द्यू॒थेयू॑थ ऋष॒भः ।

विश्वास-प्रस्तुतिः - ब्राह्मणम्

प॒शवो॒ वा ए॒ते यदिष्ट॑का॒श् चित्या॑ञ्चित्यामृष॒भमुप॑ दधाति, मिथु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय॒ ।
तस्मा॑द् यू॒थेयू॑थ ऋष॒भः ।

मूलम्

प॒शवो॒ वा ए॒ते यदिष्ट॑का॒श् चित्या॑ञ्चित्यामृष॒भमुप॑ दधाति, मिथु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय॒ ।
तस्मा॑द् यू॒थेयू॑थ ऋष॒भः ।

भट्टभास्कर-टीका

2अथात्रैव ब्राह्मणम् - पशवो वा इत्यादि ॥ गतम् । तस्मादित्यादि । तस्मादिदानीं यूथेयूथे ऋषभः सञ्चरति । ‘अनुदात्तं च’ इति द्वितीयो निहन्यते ॥

भास्करोक्त-विनियोगः

3प्राजापत्यामिष्टकां उपदधाति - संवत्सरस्येत्यनुष्टुभा ॥

मूलम् (संयुक्तम्)

सव्ँ॒व॒त्स॒रस्य॑ प्रति॒माय्ँयान्त्वा॑ रात्र्यु॒पास॑ते । प्र॒जाँ सु॒वीरा॑ङ्कृ॒त्वा विश्व॒मायु॒र्व्य॑श्ञवत् ।

विश्वास-प्रस्तुतिः ...{Loading}...

सव्ँ॒व॒त्स॒रस्य॑ प्रति॒माय्ँ
यान् त्वा॑ रात्र्यु् उ॒पास॑ते
प्र॒जाँ सु॒वीरा॑ङ् कृ॒त्वा
विश्व॒म् आयु॒र् व्य॑श्ञवत्

सर्वाष् टीकाः ...{Loading}...

मूलम्

सव्ँ॒व॒त्स॒रस्य॑ प्रति॒माय्ँ यान् त्वा॑ रात्र्यु॒पास॑ते ।

प्र॒जाँ सु॒वीरा॑ङ्कृ॒त्वा विश्व॒मायु॒र् व्य॑श्ञवत् ।

भट्टभास्कर-टीका

हे रात्रि एकाष्टके । ‘कृदिकारादक्तिनः’ इति ङीष् । संवत्सरस्य प्रतिमां प्रतिनिधिम् । ‘एतस्यां वा एष एतां रात्रिं वसति’ इति वचनात्संवत्सरतुल्यां यां त्वां सर्वेऽप्युपासते त्वा त्वां कृत्वा उपधाय प्रजां सुवीरां शोभनपुत्रादिकां यजमानो विश्वं चायुः पुरुषायुषं व्यश्नवत् प्राप्नोति । अश्नोतेर्लेटि व्यत्ययेन परस्मैपदं, ‘लेटोडाटौ’ इत्यडागमः । ‘शात्’ इति प्रतिषेधं बाधित्वा व्यत्ययेन नकारस्य ञकारः ‘वीरवीर्यौ च’ इति सुवीरे उत्तरपदाद्युदात्तत्वम् ॥

मूलम् (संयुक्तम्)

प्रा॒जा॒प॒त्याम् [4]
ए॒तामुप॑ दधाती॒यव्ँवावैषैका॑ष्ट॒का यदे॒वैका॑ष्ट॒काया॒मन्न॑ङ्क्रि॒यते॒ तदे॒वैतयाव॑ रुन्द्ध

विश्वास-प्रस्तुतिः - ब्राह्मणम्

प्रा॒जा॒प॒त्याम् ए॒ताम् उप॑ दधाति।
इ॒यव्ँ वावैषा+ए॒का॒ष्ट॒का।
यद् ए॒वैका॑ष्ट॒काया॒म् अन्न॑ङ् क्रि॒यते॒
तद् ए॒वैतयाव॑ रुन्धे

मूलम्

प्रा॒जा॒प॒त्याम् ए॒तामुप॑ दधाति + इ॒यव्ँ वावैषैका॑ष्ट॒का
यदे॒वैका॑ष्ट॒काया॒मन्न॑ङ् क्रि॒यते॒ तदे॒वैतयाव॑ रुन्धे ।

भट्टभास्कर-टीका

4अत्रैव ब्राह्मणम् - प्राजापत्यामित्यादि ॥ इयमेव पृथिवी । एषा एकाष्टका रात्रिः । तस्माद्यदेवान्नं अष्टकादिकं एकाष्टकायां क्रियते तदेतया इष्टकया अवरुन्धे । अन्नाधारत्वादस्याः सर्वान्नाधारपृथिवीत्वेन स्तुतिः कृता ॥

मूलम् (संयुक्तम्)

ए॒षा वै प्र॒जाप॑तेᳵ काम॒दुघा॒ तयै॒व यज॑मानो॒ऽमुष्मिल्ँ॑ लो॒के॑ऽग्निन्दु॑हे॒

विश्वास-प्रस्तुतिः - ब्राह्मणम्

ए॒षा वै प्र॒जाप॑तेᳵ काम॒दुघा॒ ,
तयै॒व यज॑मानो॒ ऽमुष्मिल्ँ॑ लो॒के॑ ऽग्निन् दु॑हे

मूलम्

ए॒षा वै प्र॒जाप॑तेᳵ काम॒दुघा॒ , तयै॒व यज॑मानो॒ऽमुष्मिल्ँ॑ लो॒के॑ऽग्निन् दु॑हे ।

भट्टभास्कर-टीका

5एषा वा इत्यादि ॥ प्रजापतेः सर्वान् कामान् एषा दुग्धवती । तस्मादियं प्राजापत्येति भावः । ‘दुहः कब्धश्च’ इति कप्रत्ययः । यस्मादेवं तस्माद्यजमानोपि अमुष्मिन् भोगस्थाने अग्निं दुहे दुग्धे सर्वान्कामान् । ‘लोपस्त आत्मनेपदेषु’ इति तलोपः ॥

भास्करोक्त-विनियोगः

6उख्यमुपसमिन्धे - येन देवा इत्यादित्रिष्टुभा ॥

मूलम् (संयुक्तम्)

येन॑ दे॒वा ज्योति॑षो॒र्ध्वा उ॒दाय॒न्‌येना॑दि॒त्या वस॑वो॒ येन॑ रु॒द्राः । येनाङ्गि॑रसो महि॒मान॑मान॒शुस्तेनै॑तु॒ यज॑मानस्स्व॒स्ति ।

विश्वास-प्रस्तुतिः ...{Loading}...

येन॑ दे॒वा ज्योति॑षो॒र्ध्वा उ॒दाय॒न्‌ ,
येना॑दि॒त्या वस॑वो॒ येन॑ रु॒द्राः ।
येनाङ्गि॑रसो महि॒मान॑म् आन॒शुस्
तेनै॑तु॒ यज॑मानस् स्व॒स्ति ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

येन॑ दे॒वा ज्योति॑षो॒र्ध्वा उ॒दाय॒न्‌ , येना॑दि॒त्या वस॑वो॒ येन॑ रु॒द्राः ।

येनाङ्गि॑रसो महि॒मान॑मान॒शुस् तेनै॑तु॒ यज॑मानस् स्व॒स्ति ।

भट्टभास्कर-टीका

येन ज्योतिषा दीप्त्या देवा ऊर्ध्वमायन् ऊर्ध्वगतय उदायम् गताः स्वर्गिणोऽभवन् । येन चादित्या वसवो रुद्राश्च ऊर्ध्वा उदायन्न् येन ज्योतिषाऽङ्गिरसो महिमानं महत्त्वमानशुः प्राप्ताः । अश्नोतेर्व्यत्ययेन परस्मैपदम्, ‘अश्नोतेश्च’ इति नुट् । तेन ज्योतिषा यनमानोपि स्वस्ति अविनाशं स्यानमेतु, अविनाशं वा स्थानमविघ्नेन गच्छतु ॥

मूलम् (संयुक्तम्)

सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑ [5]
ची॒य॒ते॒ यद॒ग्निर्येन॑ दे॒वा ज्योति॑षो॒र्ध्वा उ॒दाय॒न्नित्युख्यँ॒ समि॑न्द्ध॒ इष्ट॑का ए॒वैता उप॑ धत्ते वानस्प॒त्यास्सु॑व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै

विश्वास-प्रस्तुतिः - ब्राह्मणम्

सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑ चीयते यद् अ॒ग्निः ।

येन॑ दे॒वा ज्योति॑षो॒र्ध्वा उ॒दाय॒न्न् -
इत्य् उख्यँ॒ समि॑न्द्ध॒ ,
इष्ट॑का ए॒वैता उप॑ धत्ते वानस्प॒त्यास्,
सु॑व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

मूलम्

सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑ चीयते यद॒ग्निः ।

येन॑ दे॒वा ज्योति॑षो॒र्ध्वा उ॒दाय॒न्न् - इत्युख्यँ॒ समि॑न्द्ध॒ , इष्ट॑का ए॒वैता उप॑ धत्ते वानस्प॒त्यास्, सु॑व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

भट्टभास्कर-टीका

7अथात्रैव ब्राह्मणम् - सुवर्गायेत्यादि ॥ गतम् । इष्टका एवेति । वानस्पत्या इष्टका एता उपधत्ते । याभिस्समिद्भिरुपसमिन्धे तत् सुवर्गस्य समष्ट्यै प्राप्त्यै भवति । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ॥

अज्यानयः

भास्करोक्त-विनियोगः

8अज्यानीर् उपदधाति - शतायुधायेत्याद्याः पञ्च सर्वास्त्रिष्टुभः ॥

मूलम् (संयुक्तम्)

श॒तायु॑धाय श॒तवी॑र्याय श॒तोत॑येऽभिमाति॒षाहे॑ । श॒तय्ँयो न॑श्श॒रदो॒ अजी॑ता॒निन्द्रो॑ नेष॒दति॑ दुरि॒तानि॒ विश्वा॑ ।

विश्वास-प्रस्तुतिः ...{Loading}...

श॒तायु॑धाय श॒तवी॑र्याय
श॒तोत॑ये ऽभिमाति॒-षाहे॑ +++(नमः)+++। श॒तय्ँ यो न॑श् श॒रदो॒ अजी॑ता॒न्
इन्द्रो॑ नेष॒द् अति॑ दुरि॒तानि॒ विश्वा॑ ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

श॒तायु॑धाय श॒तवी॑र्याय श॒तोत॑येऽभिमाति॒षाहे॑ ।

श॒तय्ँयो न॑श् श॒रदो॒ अजी॑ता॒निन्द्रो॑ नेष॒दति॑ दुरि॒तानि॒ विश्वा॑ ।

भट्टभास्कर-टीका

य इन्द्रः शतं शरदो वत्सरान्नः अस्मान् । अजीतान् अक्षीणान् व्याध्यादिभिः अपीडितान् । ज्या वयोहानौ, ग्रहिज्यादिना स्रंप्रसारणम् । यद्वा - अजितान् । छान्दसं दीर्घत्वं जयतेः । नेषत् नेतुं समर्थ अर्हो वा । विश्वानि दुरितानि अतीत्य विनिवार्य नेतुं य एव समर्थः । नयतेर्लेटि ‘सिब्बहुलं लेटि’ इति सिप अडागमः ।
तस्मै शतायुधाय बह्वायुधाय (बहुलं लाय) शतोतये बहुरक्षणाय अभिमातिषाहे पापानाम् अभिभवित्रे । ‘छन्दसि सहः’ इति ण्विः, सुषामादित्वात् षत्वम् । चतुर्थीसामर्थ्यात् न(म) इत्य् अध्याह्रियते ॥

मूलम् (संयुक्तम्)

ये च॒त्वारᳶ॑ प॒थयो॑ देव॒याना॑ अन्त॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑ । तेषाय्ँ॒यो अज्या॑नि॒मजी॑तिमा॒वहा॒त्तस्मै॑ नो देवाः [6]
परि॑ दत्ते॒ह सर्वे॑ ।

विश्वास-प्रस्तुतिः ...{Loading}...

ये च॒त्वारᳶ॑ प॒थयो॑+++(=पन्थानो)+++ देव॒याना॑
अन्त॒रा द्यावा॑-पृथि॒वी वि॒यन्ति॑
तेषाय्ँ॒ यो अ-ज्या॑नि॒म्+++(←ज्या जरायां)+++ अ-जी॑तिम् आ॒वहा॒त् -
तस्मै॑ नो देवाᳶ परि॑ दत्ते॒ह सर्वे॑ ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

ये च॒त्वारᳶ॑ प॒थयो॑ देव॒याना॑ अन्त॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑ ।

तेषाय्ँ॒ यो अज्या॑नि॒मजी॑तिमा॒वहा॒त् - तस्मै॑ नो देवाᳶ परि॑ दत्ते॒ह सर्वे॑ ।

भट्टभास्कर-टीका

9अथ द्वितीया - ये चत्वार इति ॥ देवयाना देवाः प्राप्यन्ते यैः तादृशाः ये चत्वारः पथयः पन्थानः । छान्दसो नलोपः । द्यावापृथिवी अन्तरा द्यावापृथिव्योर्मध्ये । ‘अन्तराऽन्तरेण’ इति द्वितीया, ‘दिवो द्यावा’ इति द्यावादेशः ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । ‘देवताद्वन्द्वे च’ इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ।
वियन्ति विविधं गच्छन्ति । ‘यद्वृत्तान्नित्यम्’ इति निघाते प्रतिषिद्धे ‘तिङि चोदात्तवति’ इति गतेरनुदात्तत्वम् ।

केचिदाहुः - चत्वार आश्रमाः गार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थमिति चत्वारः पन्थान उच्यन्त इति ।
अन्य आहुः - देवपितृमनुष्ययानस्थानमार्गास्त्रयः ब्रह्मलोकमार्ग एक इति चत्वारो मार्गा इति ।
तेषां मार्गाणां सामर्थ्यात् तैर्मार्गैर्गच्छतामस्माकं;
यथा लोके अनुपद्रवोऽयं पन्था इत्युक्तौ गन्तॄणामेवानुपद्रवो गम्यते ।

अज्यानिं अनुपक्षयम् । ‘ग्लाम्लाज्याहाभ्यो निः’ इति निः ।
अजीतिं अपराभवं शत्रूणामजितत्वम् । जयतेः छान्दसं दीर्घत्वम् ।
य आवहात् मर्यादया वहति नयति । लेट्याडागमः ।
हे देवाः सर्वेऽपि यूयं कस्मै देवाय नः अस्मान् परिदत्त रक्षार्थं दत्त । यथा सोस्मान् रक्षति तथा सर्वेऽपि यूयं अनुजानीत इह अस्मिन्कर्मणि । निमित्तात् सप्तमी । अनेन कर्मणा हेतुनेति यावत् ॥

मूलम् (संयुक्तम्)

ग्री॒ष्मो हे॑म॒न्त उ॒त नो॑ वस॒न्तश्श॒रद्व॒र्षास्सु॑वि॒तन्नो॑ अस्तु । तेषा॑मृतू॒नाँ श॒तशा॑रदानान्निवा॒त ए॑षा॒मभ॑ये स्याम ।

विश्वास-प्रस्तुतिः ...{Loading}...

ग्री॒ष्मो हे॑म॒न्त उ॒त नो॑ वस॒न्तश्
श॒रद् व॒र्षास् सु॑वि॒तन्+++(←सू)+++ नो॑ अस्तु
तेषा॑म् ऋतू॒नाँ श॒त-शा॑रदानान्
निवा॒त ए॑षा॒म् अभ॑ये स्याम

सर्वाष् टीकाः ...{Loading}...

मूलम्

ग्री॒ष्मो हे॑म॒न्त उ॒त नो॑ वस॒न्तश् श॒रद् - व॒र्षास् सु॑वि॒तन् नो॑ अस्तु ।
तेषा॑मृतू॒नाँ श॒तशा॑रदानान् निवा॒त ए॑षा॒मभ॑ये स्याम ।

भट्टभास्कर-टीका

10अथ तृतीया - ग्रीष्मो हेमन्त इति ॥ हेमन्तग्रहाणेन शिशिरस्यापि ग्रहणं, तयोरेकत्वात् ‘पञ्च वा ऋतवः’ इति । यथा एते ग्रीष्मादयः अस्माकं सुवितं शोभनगतिहेतवः सूतिहेतवो वा भवन्तु । प्रत्येकविवक्षया एकवचनम् । क्रमविशेषाश्रयणे कारणं चिन्त्यम् । शोभनमितं सुवितं शोभना गतिः । तन्वादित्वादुवङ् । विनादित्वादनवग्रहः । पक्षान्तरे छान्दस इडागमः । किञ्च - शतशारदानां तेषामृतूनां शतसंवत्सराणां शतसंवत्सरसम्बन्धिनाम् । शरच्छब्दात् संवत्सरवचनात् स्वार्थिकोण् ।

यद्वा - शरदि संवत्सरे भवाः परिवत्सरादयः शारदाः । तेन बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ।
निवाते वातरहिते अभये भयाभावे स्याम एधि कृतं [अविकृतं] यदभयं भवति निवृत्तिं यत्र वातोपि स्पन्दितुं न शक्नोति तत्र वयं स्याम वर्तेमहि । ‘नेरनिधाने’ इति निवाते उत्तरपदान्तोदात्तत्वम् । अभये अव्ययपूर्वपदप्रकृतिस्वरत्वम्, एषामित्यन्वादेशोनुदात्तः ॥

मूलम् (संयुक्तम्)

इ॒दु॒व॒त्स॒राय॑ परिवत्स॒राय॑ सव्ँवत्स॒राय॑ कृणुता बृ॒हन्नमः॑ । तेषाव्ँ॑ व॒यँ सु॑म॒तौ य॒ज्ञिया॑ना॒ञ्ज्योगजी॑ता॒ अह॑तास्स्याम ।

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒दु॒व॒त्स॒राय॑+++(=संवत्सर+२)+++ परिवत्स॒राय॑+++(=संवत्सर+१)+++
सव्ँवत्स॒राय॑ कृणुता बृ॒हन् नमः॑ ।
तेषाव्ँ॑ व॒यँ सु॑म॒तौ य॒ज्ञिया॑ना॒ञ्
ज्योग् अजी॑ता॒ अह॑तास् स्याम

सर्वाष् टीकाः ...{Loading}...

मूलम्

इ॒दु॒व॒त्स॒राय॑ परिवत्स॒राय॑ सव्ँवत्स॒राय॑ कृणुता बृ॒हन् नमः॑ ।
तेषाव्ँ॑ व॒यँ सु॑म॒तौ य॒ज्ञिया॑ना॒ञ् ज्योगजी॑ता॒ अह॑तास् स्याम ।

भट्टभास्कर-टीका

11अथ चतुर्थी - इदुवत्सरायेति ॥
इदु-वत्सरस् तृतीयः । परिवत्सरो द्वितीयः । संवत्सरो वर्तमानः । अत्र द्वितीयतृतीययोः ‘संपरिपूर्वाच्च’ इति सरच्प्रत्ययः । अत्रोपपदविधानात् । कृदुत्तरपदप्रकृतिस्वरत्वम् । अथवा - इद्वत्सरशब्दे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अत्र व्यत्ययेन ‘नञ् कुनिपातानाम्’ इति वचनात् अव्ययपूर्वपदप्रकृतिस्वराभावे सामासान्तोदात्तत्वमेव । एभ्यो बृहन्नमः नमस्कारं कृणुत कुरुत । ‘धिन्विकृण्व्योरच’ उत्युप्रत्ययः ‘अन्येषामपि दृश्यते’ इति संहितायां दीर्घत्वम् । किं प्रयोजनमित्याह - तेषामिति । यथा तेषां यज्ञियानां यज्ञसंपादनार्हाणां सुमतौ शोभनमतौ अनुग्रहे वयं स्याम पात्रं भवेम तथा नमस्कृरुतेति । अनुग्रहफलं दर्शयति - ज्योगजीता इति । केनचिदप्यपराजिता अहताः अनुपहिंसिता यथा भवेम तथा तेषां सुमतौ स्याम इति । सुमतौ ‘नञ् सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् ॥

मूलम् (संयुक्तम्)

भ॒द्रान्न॒श्श्रेय॒स्सम॑नैष्ट देवा॒स्त्वया॑व॒सेन॒ सम॑शीमहि त्वा ।
स नो॑ मयो॒भूᳶ पि॑तो [7]
आ वि॑शस्व॒ शन्तो॒काय॑ त॒नुवे॑ स्यो॒नः ।

विश्वास-प्रस्तुतिः ...{Loading}...

भ॒द्रान् न॒श् श्रेय॒स् सम॑नैष्ट देवा॒स्!
त्वया॑ ऽव॒सेन॒+++(←अव=रक्षणे)+++ सम॑शीमहि त्वा +++(सोम!)+++।
स नो॑ मयो॒-भूᳶ पि॑तो+++(=अन्न)+++ आ वि॑शस्व॒
शन् तो॒काय॑ त॒नुवे॑ स्यो॒नः ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

भ॒द्रान् न॒श् श्रेय॒स् सम॑नैष्ट देवा॒स् त्वया॑व॒सेन॒ सम॑शीमहि त्वा ।

स नो॑ मयो॒भूᳶ पि॑तो आ वि॑शस्व॒ शन्तो॒काय॑ त॒नुवे॑ स्यो॒नः ।

भट्टभास्कर-टीका

12अथ पञ्चमी - भद्रादिति ॥
हे देवाः भद्रात् कल्याणात् अस्माद्वर्तमानात् श्रेयः प्रशस्यतरं भद्रं अस्मभ्यं समनैष्ट सम्यङ्नयत । छान्दसो लुङ् ।
हे सोम त्वया अवसेन रक्ष्येण भक्ष्यमाणेन यथा त्वां समशीमहि सम्यग्व्याप्नुयामः पुनःपुनः तव पातारः स्याम ‘बहुलं छन्दसि’ इति अश्नोतेः शपो लुक् ।
अत्रावसश्रुतेः सोम आमन्त्र्यत इति गम्यते ।
स त्वं हे पितो अन्नभूतः मयोभूः मयसस्सुखस्य भावयिता स नः अस्मानाविशस्व अस्माकं शरीरं प्रविश । व्यत्ययेनात्मनेपदम् । तोकाय शं दुःखशान्तिहेतुः । अपत्याय तनुवे अस्मच्छरीराय च स्योनः सुखो भूत्वा अस्मानाविशेति ॥

मूलम् (संयुक्तम्)

अज्या॑नीरे॒ता उप॑ दधात्ये॒ता वै दे॒वता॒ अप॑राजिता॒स्ता ए॒व प्र वि॑शति॒ नैव जी॑यते

अज्यानयः - ब्राह्मणम्

विश्वास-प्रस्तुतिः- ब्राह्मणम्

अज्या॑नीर् ए॒ता उप॑ दधाति ।
ए॒ता वै दे॒वता॒ अप॑राजिता॒स् ,
ता ए॒व प्र वि॑शति॒ , नैव जी॑यते ।

मूलम्

अज्या॑नीरे॒ता उप॑ दधाति ।
ए॒ता वै दे॒वता॒ अप॑राजिता॒स् , ता ए॒व प्र वि॑शति॒ , नैव जी॑यते ।

भट्टभास्कर-टीका

13अथास्य ब्राह्मणम् - अज्यानीः इत्यादि । । ‘तोषां यो अज्यानि’ इति लिङ्गसमवायात् पञ्चाप्य् अज्यानय उच्यन्ते । एता इति ।
एते इन्द्रादयः केनचिदप्य् अपरायिताः ।

ता एवेति । तासामुपधाता ता एवानुप्रविश्य तद्भावापन्नः केन चिदपि न जीयते ॥

मूलम् (संयुक्तम्)

ब्रह्मवा॒दिनो॑ वदन्ति॒ यद॑र्धमा॒सा मासा॑ ऋ॒तव॑स्सव्ँवत्स॒र ओष॑धी॒ᳶ पच॒न्त्यथ॒ कस्मा॑द॒न्याभ्यो॑ दे॒वता॑भ्य आग्रय॒णन्निरु॑प्यत॒ इत्ये॒ता हि तद्दे॒वता॑ उ॒दज॑य॒न्‌यदृ॒तुभ्यो॑ नि॒र्वपे॑द्दे॒वता॑भ्यस्स॒मद॑न्दध्यादाग्रय॒णन्नि॒रुप्यै॒ता आहु॑तीर्जुहोत्यर्धमा॒साने॒व मासा॑नृ॒तून्त्सव्ँ॑वत्स॒रम्प्री॑णाति॒ न दे॒वता॑भ्यस्स॒मद॑न्दधाति

विश्वास-प्रस्तुतिः - ब्राह्मणम्

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -

“यद् अ॑र्धमा॒सा मासा॑ ऋ॒तव॑स् सव्ँवत्स॒र
ओष॑धी॒ᳶ पच॒न्त्य्
अथ॒ कस्मा॑द् अ॒न्याभ्यो॑ दे॒वता॑भ्य आग्रय॒णन् निरु॑प्यते

  • इति॑ ।

ए॒ता हि तद् दे॒वता॑ उ॒दज॑य॒न्‌
यद् ऋ॒तुभ्यो॑ नि॒र्वपे॑द्
दे॒वता॑भ्यस् स॒मद॑न्+++(=कलहं)+++ दध्यात्

आ॒ग्र॒य॒णन् नि॒रुप्यै॒ता आहु॑तीर् जुहोति
अ॒र्ध॒मा॒सान् ए॒व मासा॑न् ऋ॒तून्त् सव्ँ॑वत्स॒रम् प्री॑णाति॒,
न दे॒वता॑भ्यस् स॒मद॑न् दधाति

मूलम्

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -
“यद॑र्धमा॒सा मासा॑ ऋ॒तव॑स्सव्ँवत्स॒र ओष॑धी॒ᳶ पच॒न्त्यथ॒ कस्मा॑द॒न्याभ्यो॑ दे॒वता॑भ्य आग्रय॒णन्निरु॑प्यते” + इति॑ ।

ए॒ता हि तद् दे॒वता॑ उ॒दज॑य॒न्‌ यदृ॒तुभ्यो॑ नि॒र्वपे॑द् दे॒वता॑भ्यस् स॒मद॑न् दध्यात् ।
आ॒ग्र॒य॒णन् नि॒रुप्यै॒ता आहु॑तीर् जुहोति ।
अ॒र्ध॒मा॒साने॒व मासा॑न् ऋ॒तून्त् सव्ँ॑वत्स॒रम् प्री॑णाति॒, न दे॒वता॑भ्यस् स॒मद॑न् दधाति ।

भट्टभास्कर-टीका

14इदानीमाग्रयणे अज्यानिहोमविधानार्थमाह - ब्रह्मवादिन इत्यादि ॥ अर्धमासादय ओषधीनां पाकहेतवः । अथ कस्मात्कारणात् अन्याभ्यः इन्द्राग्न्यादिभ्यः आग्रयणं हविर्निरुप्यत इति ब्रह्मवादिनः पर्यनुयोगमाहुः । अत्रोत्तरं केचिद्ब्रुवते - एता होति । इन्द्राग्न्यादयो देवताः तत् तदा उदजयत् । ‘सुपा सुलुक्’ इति । ‘देवा वा ओषधीष्वाजिमयुः । ता इन्द्राग्नी उदजयताम्’ इति । तस्मादेतासां देवतानां स्वभूता ओषधयः । अर्घमासादयस्तु तासां पाकमात्रे व्याप्रियन्त डति । एवं स्थिते यदृतुभ्यो निर्वपेत् आग्रयणं देवताभ्यस् समदं कलहं दध्यात् उत्पादयेत् । यथाऽन्यस्यान्यस्मै दानं कलहमुत्पादयति । तस्मादिन्द्राग्न्यादिभ्य एव आग्रयणं निर्वपेदिति गम्यते । एवमिन्द्राग्न्यादिम्य आग्रयणं निरुप्य एता अज्यानीराहुतीर्जुहोति अर्धमासादीनां तृप्त्यर्थमिति विधिर्गम्यते । तदेवाह - अर्धमासानित्यादिन्नना । न देवताभ्य इति । आत्मीयेन हविषा तृप्तत्वात् । अग्रस्यायनमिति ‘पर्वूपदात्संज्ञायाम्’ इति णत्वम्, शकन्ध्वादित्वात्पररूपत्वम् । सान्नाय्यानुजावरादिना स्वार्थिकोन् । सह माद्यन्त्यस्यामिति समत्संग्रामः ॥

मूलम् (संयुक्तम्)

भ॒द्रान्न॒श्श्रेय॒स्सम॑नैष्ट देवा॒ इत्या॑ह हु॒ताद्या॑य॒ यज॑मान॒स्याप॑राभावाय ॥ [8]

विश्वास-प्रस्तुतिः - ब्राह्मणम्

“भ॒द्रान् न॒श् श्रेय॒स् सम॑नैष्ट देवा॒” इत्या॑ह -
हु॒ताद्या॑य॒ यज॑मान॒स्याप॑राभावाय ॥

मूलम्

भ॒द्रान् न॒श् श्रेय॒स् सम॑नैष्ट देवा॒ इत्या॑ह, हु॒ताद्या॑य॒ यज॑मान॒स्याप॑राभावाय ॥

भट्टभास्कर-टीका

15भद्रान्न इति ॥ मन्त्रपदव्याख्या । हुतादनं हुताद्यम् । छान्दसो भावे यत्, कदुत्तरपदप्रकृतिस्वरत्वम् । ‘यतोऽनावः’ इत्याद्युदात्तत्वम् । यजमानभागभक्षणविधिर्गम्यते, ‘त्वयाऽवसेन’ इति मन्त्रलिङ्गात् अपराभावाय तद्भवतीति ॥

इति पञ्चमे सप्तमे द्वितीयोनुवाकः ॥