०१

मूलम् (संयुक्तम्)

यो वा अय॑थादेवतम॒ग्निञ्चि॑नु॒त आ दे॒वता॑भ्यो वृश्च्यते॒ पापी॑यान्भवति॒ यो य॑थादेव॒तन्न दे॒वता॑भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान्भवत्य्…

विश्वास-प्रस्तुतिः

यो वा अय॑थादेवतम् अ॒ग्निञ् चि॑नु॒त, आ दे॒वता॑भ्यो वृश्च्यते॒ पापी॑यान् भवति ।

यो य॑थादेव॒तन् न दे॒वता॑भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान् भवति ।

मूलम्

यो वा अय॑थादेवतम् अ॒ग्निञ् चि॑नु॒त, आ दे॒वता॑भ्यो वृश्च्यते॒ पापी॑यान् भवति ।

यो य॑थादेव॒तन् न दे॒वता॑भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान् भवति ।

भट्टभास्कर-टीका

1अथाग्निकाण्डमग्न्यार्षेयम् - ‘यो वा अयथादेवतं’ इत्यभिमर्शनविधिः ॥ यथादेवतं या यत्र देवता तद्यथादेवतम् । अनाम्न्या देवतया यश्चिनुतेऽग्निं स सर्वाभ्यो देवताभ्यो वृश्च्यते, पापतरश्च भवति । यो यथादेवतमित्यादि । गतम् । देवताशब्देनाग्निरुच्यते ॥

मूलम् (संयुक्तम्)

आग्ने॒य्या गा॑यत्रि॒या प्र॑थ॒माञ्चिति॑म॒भि मृ॑शेत्त्रि॒ष्टुभा॑ द्वि॒तीया॒ञ्जग॑त्या तृ॒तीया॑मनु॒ष्टुभा॑ चतु॒र्थीम्प॒ङ्क्त्या प॑ञ्च॒मीय्ँय॑थादेव॒तमे॒वाग्निञ्चि॑नुते॒ न दे॒वता॑भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान्भव॒ती…

विश्वास-प्रस्तुतिः

आ॒ग्ने॒य्या गा॑यत्रि॒या प्र॑थ॒माञ्चिति॑म॒भि मृ॑शेत् ,
त्रि॒ष्टुभा॑ द्वि॒तीया॒ञ् जग॑त्या तृ॒तीया॑मनु॒ष्टुभा॑ चतु॒र्थीम्, प॒ङ्क्त्या प॑ञ्च॒मीम् ।

य॒था॒दे॒व॒तम् - ए॒वाग्निञ् चि॑नुते॒, न दे॒वता॑भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान् भवति ।

मूलम्

आ॒ग्ने॒य्या गा॑यत्रि॒या प्र॑थ॒माञ्चिति॑म॒भि मृ॑शेत् ,
त्रि॒ष्टुभा॑ द्वि॒तीया॒ञ् जग॑त्या तृ॒तीया॑मनु॒ष्टुभा॑ चतु॒र्थीम्, प॒ङ्क्त्या प॑ञ्च॒मीम् ।

य॒था॒दे॒व॒तम् - ए॒वाग्निञ् चि॑नुते॒, न दे॒वता॑भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान् भवति ।

भट्टभास्कर-टीका

2तदेवाह - आग्नेय्येति ॥ ‘अग्ने देवां इहावह’ इति गायक्र्या । त्रिष्टुभेति आग्नेय्येत्येवं सर्वत्र ‘अगन्म महा मनसा’ इति । जगत्येति । ‘मेधाकारं विदथस्य’ इति । अनुष्टुभेति ‘मनुष्वत्त्वा निधीमहि’ हति । पङ्य्क्त्येति ‘अग्निर्हि वाजिनं विशे’ इति ॥

मूलम् (संयुक्तम्)

इडा॑यै॒ वा ए॒षा विभ॑क्तिᳶ प॒शव॒ इडा॑ प॒शुभि॑रेनम् [1]
चि॒नु॒ते॒

विश्वास-प्रस्तुतिः

इडा॑यै॒ वा ए॒षा विभ॑क्तिः ।
प॒शव॒ इडा॑ ।
प॒शुभि॑र् एनञ् चिनुते ।

मूलम्

इडा॑यै॒ वा ए॒षा विभ॑क्तिः ।
प॒शव॒ इडा॑ ।
प॒शुभि॑र् एनञ् चिनुते ।

भट्टभास्कर-टीका

3इडायै वा एषेति ॥ इडा पशवः ‘पशवो वा इडा’ इति पशुनामैषा । विभक्तिर्विभागः गायत्र्यादि, ‘पशवो वै छन्दांसि’ इति पशुसाधनत्वात् । तस्माद्गयत्र्यादिभिः चिन्वानो भवति पशुमान् ॥

मूलम् (संयुक्तम्)

यो वै प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निञ्चि॒नोति॒ नार्ति॒मार्च्छ॒त्य्…

विश्वास-प्रस्तुतिः

यो वै प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निञ् चि॒नोति॒, नार्ति॒मार्च्छ॑ति ।

मूलम्

यो वै प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निञ् चि॒नोति॒, नार्ति॒मार्च्छ॑ति ।

भट्टभास्कर-टीका

4यो वै प्रजापतय इत्यादि ॥ प्रतिप्रोच्य अनुज्ञाप्य अग्निं चिन्वानो नार्तिं गच्छति । अन्यथा कुर्वन्नार्तिं गच्छतीत्येवेति ॥

मूलम् (संयुक्तम्)

अश्वा॑व॒भित॑स्तिष्ठेताङ्कृ॒ष्ण उ॑त्तर॒तश्श्वे॒तो दक्षि॑ण॒स्तावा॒लभ्येष्ट॑का॒ उप॑ दध्यादे॒तद्वै प्र॒जाप॑ते रू॒पम्प्रा॑जाप॒त्योऽश्व॑स्सा॒क्षादे॒व प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निञ्चि॑नोति॒ नार्ति॒मार्च्छ॑त्य्…

विश्वास-प्रस्तुतिः

अश्वा॑व॒भित॑स् तिष्ठेताङ्, कृ॒ष्ण उ॑त्तर॒तश् श्वे॒तो दक्षि॑णः ।
ताव् - आ॒लभ्येष्ट॑का॒ उप॑ दध्यात् ।
ए॒तद् वै प्र॒जाप॑ते रू॒पम्प्रा॑जाप॒त्योऽश्व॑स्सा॒क्षादे॒व प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निञ्चि॑नोति॒ नार्ति॒मार्च्छ॑त्य्

मूलम्

अश्वा॑व॒भित॑स् तिष्ठेताङ्, कृ॒ष्ण उ॑त्तर॒तश् श्वे॒तो दक्षि॑णः ।
ताव् - आ॒लभ्येष्ट॑का॒ उप॑ दध्यात् ।
ए॒तद् वै प्र॒जाप॑ते रू॒पम्प्रा॑जाप॒त्योऽश्व॑स्सा॒क्षादे॒व प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निञ्चि॑नोति॒ नार्ति॒मार्च्छ॑त्य्

भट्टभास्कर-टीका

5तत्प्रकारमाह - अश्वावित्यादि ॥ अभितः उयभतः । आलभ्य स्पृष्ट्वा प्रजापतेरिदं रूपमश्वत्वेन वर्तते यस्मात् प्राजापत्योश्वः । साक्षादित्यादि । गतम् ॥

मूलम् (संयुक्तम्)

ए॒तद्वै प्र॒जाप॑ते रू॒पम्प्रा॑जाप॒त्योऽश्व॑स्सा॒क्षादे॒व प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निञ्चि॑नोति॒ नार्ति॒मार्च्छ॑त्ये॒तद्वा अह्नो॑ रू॒पय्ँयच्छ्वे॒तोऽश्वो॒ रात्रि॑यै कृ॒ष्ण ए॒तदह्नः॑ [2]
रू॒पय्ँयदिष्ट॑का॒ रात्रि॑यै॒ पुरी॑ष॒मिष्ट॑का उपधा॒स्यञ्छ्वे॒तमश्व॑म॒भि मृ॑शे॒त्पुरी॑षमुपधा॒स्यन्कृ॒ष्णम॑होरा॒त्राभ्या॑मे॒वैन॑ञ्चिनुते

विश्वास-प्रस्तुतिः

ए॒तद् वै प्र॒जाप॑ते रू॒पम् ।
प्रा॒जा॒प॒त्यो ऽश्वः॑ ।
सा॒क्षादे॒व प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निञ् चि॑नोति॒, नार्ति॒मार्च्छ॑ति ।
ए॒तद् वा अह्नो॑ रू॒पय्ँ, यच् छ्वे॒तोऽश्वो॒ रात्रि॑यै कृ॒ष्णः ।
ए॒तदह्नः॑ रू॒पय्ँ यदिष्ट॑का॒ रात्रि॑यै॒ पुरी॑षम् ।
इष्ट॑का उपधा॒स्यञ् छ्वे॒तमश्व॑म् - अ॒भि मृ॑शे॒त् पुरी॑षमुपधा॒स्यन् कृ॒ष्णम् ।
अ॒हो॒रा॒त्राभ्या॑म् ए॒वैन॑ञ् चिनुते ।

मूलम्

ए॒तद् वै प्र॒जाप॑ते रू॒पम् ।
प्रा॒जा॒प॒त्यो ऽश्वः॑ ।
सा॒क्षादे॒व प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निञ् चि॑नोति॒, नार्ति॒मार्च्छ॑ति ।
ए॒तद् वा अह्नो॑ रू॒पय्ँ, यच् छ्वे॒तोऽश्वो॒ रात्रि॑यै कृ॒ष्णः ।
ए॒तदह्नः॑ रू॒पय्ँ यदिष्ट॑का॒ रात्रि॑यै॒ पुरी॑षम् ।
इष्ट॑का उपधा॒स्यञ् छ्वे॒तमश्व॑म् - अ॒भि मृ॑शे॒त् पुरी॑षमुपधा॒स्यन् कृ॒ष्णम् ।
अ॒हो॒रा॒त्राभ्या॑म् ए॒वैन॑ञ् चिनुते ।

भट्टभास्कर-टीका

6एतद्वा इत्यादि ॥ श्वेतोश्वोह्नो रूपमेतेन रूपेण अहर्वर्तते रात्रियै कृष्ण इति । एतद्रात्र्या रूपं यत्कृष्णोश्व इति यावत् । रूपान्तरं च दर्शयति - एतदह्न इति । अह्नो रूपमिष्टकाः रात्र्या रूपं पुरीषम् । तस्मादिष्टकाः उपधास्यन् श्वेतमश्वमभिमृशेत् । पुरीषमुपधास्यन् कृष्णमभिमृशेत् । एवमहोरात्राभ्यामेव अग्निश्चितो भवति ॥

मूलम् (संयुक्तम्)

हिरण्यपा॒त्रम्मधोः॑ पू॒र्णन्द॑दाति मध॒व्यो॑ऽसा॒नीति॑ सौ॒र्या चि॒त्रव॒त्यावे॑क्षते चि॒त्रमे॒व भ॑वति

विश्वास-प्रस्तुतिः

हि॒र॒ण्य॒पा॒त्रम् मधोः॑ पू॒र्णन् द॑दाति ।
म॒ध॒व्यो॑ऽसानि + इति॑ ।
सौ॒र्या चि॒त्रव॒त्याऽवे॑क्षते ।
चि॒त्रमे॒व भ॑वति ।

मूलम्

हि॒र॒ण्य॒पा॒त्रम् मधोः॑ पू॒र्णन् द॑दाति ।
म॒ध॒व्यो॑ऽसानि + इति॑ ।
सौ॒र्या चि॒त्रव॒त्याऽवे॑क्षते ।
चि॒त्रमे॒व भ॑वति ।

भट्टभास्कर-टीका

7हिरण्यपात्रमिति ॥ गतम् । मधुन इति लिङ्गव्यत्ययः, उभयलिङ्गो वा । ‘पूरणगुण’ इति समासप्रतिषेधात् षष्ठीं ज्ञाप्यते । मधव्य इति । मध्वर्हः मधुपर्कार्हो भवतीत्यनेनाभिप्रायेण हिरण्यपात्रं दद्यात् । मधोरिति । यदेतस्मादपि निर्देशात्पुल्लिङ्गोप्यस्तीति ज्ञायते । सौर्येति । ‘चित्रं देवानां’ इति चित्रवत्यः । अवेक्षते प्रागेव दानाद्धिरण्यपात्रमवेक्षते । चित्रमेवेति । प्रजाभिः पशुभिश्च चित्रत्वं यजमानस्य भवति ॥

मूलम् (संयुक्तम्)

म॒ध्यन्दि॒नेऽश्व॒मव॑ घ्रापयत्य॒सौ वा आ॑दि॒त्य इन्द्र॑ ए॒ष प्र॒जाप॑तिᳶ प्राजाप॒त्योऽश्व॒स्तमे॒व सा॒क्षादृ॑ध्नोति ॥ [3]

विश्वास-प्रस्तुतिः

म॒ध्यन्दि॒नेऽश्व॒मव॑ घ्रापयति ।
अ॒सौ वा आ॑दि॒त्य इन्द्र॑ ए॒ष प्र॒जाप॑तिः ।
प्रा॒जा॒प॒त्योऽश्वः॑ ।
तमे॒व सा॒क्षाद् ऋ॑ध्नोति ॥ [3]

मूलम्

म॒ध्यन्दि॒नेऽश्व॒मव॑ घ्रापयति ।
अ॒सौ वा आ॑दि॒त्य इन्द्र॑ ए॒ष प्र॒जाप॑तिः ।
प्रा॒जा॒प॒त्योऽश्वः॑ ।
तमे॒व सा॒क्षाद् ऋ॑ध्नोति ॥ [3]

भट्टभास्कर-टीका

8मध्यन्दिन इति ॥ अह्नो मध्यं मध्यन्दिनम् । द्वितीयं वासरम् । तत्र तत्पात्रमवघ्रापयति । छान्दसं णौ कर्तुः कर्मत्वम् । असौ वा इत्यादि । मध्यन्दिनस्येन्द्रत्वात् इन्द्रादित्ययोरभेदस्तुतिः । अश्वस्य प्राजापत्यत्वात् प्रजापत्यश्वयोरभेदस्तुतिः । तमेवाह - प्राजापत्योश्व इति । तमेव प्रजापतिं साक्षादव्यवधानेन ऋध्रोति ऋद्धिमन्तं करोति यदश्वेनाघ्रापयतीति ॥

इति पञ्चमे सप्तमे प्रथमोनुवाकः ॥