मूलम् (संयुक्तम्)
पि॒शङ्गा॒स्त्रयो॑ वास॒न्तास्सा॒रङ्गा॒स्त्रयो॒ ग्रैष्मा॒ᳶ पृष॑न्त॒स्त्रयो॒ वार्षि॑का॒ᳶ पृश्ञ॑य॒स्त्रय॑श्शार॒दाᳶ पृ॑श्ञिस॒क्थास्त्रयो॒ हैम॑न्तिका अवलि॒प्तास्त्रय॑श्शैशि॒रास्सव्ँ॑वत्स॒राय॒ निव॑क्षसः ॥ [54]
विश्वास-प्रस्तुतिः
पि॒शङ्गा॒स्त्रयो॑ वास॒न्ताः ।
सा॒रङ्गा॒स् त्रयो॒ ग्रैष्माः॑ ।
पृष॑न्त॒स् त्रयो॒ वार्षि॑काः ।
पृश्ञ॑य॒स् त्रय॑श् शार॒दाः ।
पृ॑श्ञिस॒क्थास् त्रयो॒ हैम॑न्तिकाः ।
अ॒व॒लि॒प्तास् त्रय॑श् शैशि॒राः ।
सव्ँ॒व॒त्स॒राय॒ निव॑क्षसः ॥ [54]
मूलम्
पि॒शङ्गा॒स्त्रयो॑ वास॒न्ताः ।
सा॒रङ्गा॒स् त्रयो॒ ग्रैष्माः॑ ।
पृष॑न्त॒स् त्रयो॒ वार्षि॑काः ।
पृश्ञ॑य॒स् त्रय॑श् शार॒दाः ।
पृ॑श्ञिस॒क्थास् त्रयो॒ हैम॑न्तिकाः ।
अ॒व॒लि॒प्तास् त्रय॑श् शैशि॒राः ।
सव्ँ॒व॒त्स॒राय॒ निव॑क्षसः ॥ [54]
भट्टभास्कर-टीका
1पिशङ्गादय क्रतुपशवः प्रत्यृतु त्रयस्त्रयः । ‘सक्थञ्चाक्रान्तात्’ इत्युत्तरपदान्तोदात्तत्वम् । हैमन्तिका इति । ‘हेमन्ताच्च’ इति ठञ् । अवलिप्ताः वर्णान्तरस्योपरि वर्णान्तरलिप्ताः । स्तब्धा इत्यन्ये । संवत्सराय निवक्षस आलभ्यते । निवक्षसः निम्नवक्षसः ॥
इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये पञ्चमे काण्डे षष्ठप्रश्ने त्रयोविंशोनुवाकः ॥ समाप्तश्च प्रपाठकः ॥